भगवद्रामानुजविरचितं
श्रीमद्गीताभाष्यम्
दशमोध्याय:
भक्तियोग: सपरिकर उक्त: । इदानीं भक्त्युत्पत्तये तद्विवृद्धये च भ्गवतो निरङ्कुश-ऐश्वर्यादिकल्याणगुणगणानन्त्यम्, कृत्स्नस्य जगतस्तच्छरीरतया तदात्मकत्वेन तत्प्रवर्त्यत्वं च प्रपञ्च्यते –
श्रीभगवानुवाच
भूय एव महाबाहो शृणु मे परमं वच: ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१ ॥
मम माहात्म्यं श्रुत्वा प्रीयमाणाय ते मद्भक्त्युत्पत्तिविवृद्धिरूपहितकामनया भूयो मन्माहात्म्यप्रपञ्च-विषयमेव परमं वचो यद्वक्ष्यामि तदवहितमनाश्शृणु ॥ १ ॥
न मे विदु: सुरगणा: प्रभवं न महर्षय: ।
अहमादिर्हि देवानां महर्षीणां च सर्वश: ॥ २ ॥
सुरगणामहर्षयश्चातीन्द्रियार्थदर्शिनोऽधिकतरज्ञाना अपि मे प्रभवं प्रभावं न विदु: मम नामकर्मस्वरूपस्वभावादिकं न जानन्ति यतस्तेषां देवानां महर्षीणां च सर्वशोऽहमादि: तेषां स्वरूपस्य ज्ञानशक्त्यादेश्चाहमादि: तेषां देवत्वमहर्षित्वादिहेतुभूतपुण्यानुगुणं मया दत्तं ज्ञानं परिमितम् अतस्ते परिमितज्ञाना मत्स्वरूपादिकं यथावन्न जानन्ति ॥ २ ॥
तदेतद्देवाद्यचिन्त्यस्वयाथात्म्यविषयज्ञानं भक्त्युत्पत्तिविरोधिपापविमोचनोपायमाह –
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असंमूढस्स मर्त्येषु सर्वपापै: प्रमुच्यते ॥ ३ ॥
न जायत इत्यज:, अनेन विकारिद्रव्यादचेतनात्तत्संसृष्टात्संसारिचेतनाच्च विसजातीयत्वमुक्तम्। संसारिचेतनस्य हि कर्मकृताचित्संसर्गो जन्म । अनादिमित्यनेन पदेन आदिमतोऽजान्मुक्तात्मनो विसजातीयत्वमुक्तम् । मुक्तात्मनो ह्यजत्वमादिमत् तस्य हेयसंबन्धस्य पूर्ववृत्तत्वात्तदर्हातास्ति । अतोऽनादिमित्यनेन तदनर्हातया तत्प्रत्यनीकतोच्यते निरवद्यम् (श्वे.६.१९) इत्यादिश्रुत्या च । एवं हेयसंबन्धप्रत्यनीकस्वरूपतया तदनर्हं मां लोकमहेश्वरं लोकेश्वराणामपीश्वरं मर्त्येष्वसंमूढो यो वेत्ति इतरसजातीयतयैकीकृत्य मोह: संमोह:, तद्रहितोऽसंमूढ: स मद्भक्त्युत्पत्तिविरोधिभिस्सर्वै: पापै: प्रमुच्यते । एतदुक्तं भवति लोके मनुष्याणां राजा इतरमनुष्यसजातीय: केनचित्कर्मणा तदाधिपत्यं प्राप्त: तथा देवानामधिपतिरपि तथाण्डाधिपतिरपीतरसंसारिसजातीय: तस्यापि भावनात्रयान्तर्गतत्वात्। यो ब्रह्माणं विदधाति (श्वे.६.८) इति श्रुतेश्च । तथान्येऽपि ये केचनाणिमाद्यैश्वर्यं प्राप्ता: । अयं तु लोकमहेश्वर: कार्यकारणावस्थादचेतनाद्बद्धान्मुक्ताच्च चेतनादिशितव्यात्सर्वस्मान्निखिलहेय-प्रत्यनीकानवधि-कातिशय असंख्येयकल्याणगुणैकतानतया नियमनैकस्वभावतया च विसजातीय इतीत्रसजातीयतामोहरहितो यो मां वेत्ति, स सर्वै: पापै: प्रमुच्यते इति ॥ ३ ॥
एवं स्वस्वभावानुसन्धानेन भक्त्युत्पत्तिविरोधिपापनिरसनम्, विरोधिनिरसना देवार्थतो भक्त्युत्पत्तिं च प्रतिपाद्य स्वैश्वर्यस्वकल्याणगुणगणप्रपञ्चानुसन्धानेन भक्तिविवृद्धिप्रकारमाह –
बुद्धिर्ज्ञानमसंमोह: क्षमा सत्यं दम: शम: ।
सुखं दु:खं भवोऽभावो भयं चाभयमेव च ॥ ४ ॥
अहिंसा समता तुष्ठिस्तपो दानं यशोऽयश: ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधा: ॥ ५ ॥
बुद्धि: मनसो निरूपणसामर्थ्यम्, ज्ञानं चिदचिद्वस्तुविशेषविषयो निश्चय:, असंमोह: पूर्वगृहीताद्रजतादेर्विसजातीये शुक्तिकादिवस्तुनि सजातीयताबुद्धिनिवृत्ति: क्षमा मनोविकारहेतौ सत्यप्यविकृतमनस्त्वम् सत्यं यथादृष्टविषयं भूतहितरूपं वचनम् । तदनुगुणा मनोवृत्तिरिहाभिप्रेता, मनोवृत्तिप्रकरणात् । दम: बाह्यकरणानामनर्थविषयेभ्यो नियमनम् शम: अन्त:करणस्य तथा नियमनम् सुखमात्मानुकूलानुभव: दु:खं प्रतिकूलानुभव: भव: भवनम् अनुकूलानुभवहेतुकं मनसो भवनम् अभाव: प्रतिकूलानुभवहेतुको मनसोऽवसाद: भयमागामिनो दु:खस्य हेतुदर्शनजं दु:खम् तन्निवृत्ति: अभयम् अहिंसा परदु:खाहेतुत्वम् समता आत्मनि सुकृत्सु विपक्षेषु चार्थानर्थयोस्सममतित्वम् तुष्टि: सर्वेष्वात्मसु दृष्टेषु तोषस्वभावत्वम् तप: शास्त्रीयो भोगसङ्कोचरूप: कायक्लेश: दानं स्वकीयभोग्यानं परस्मै प्रतिपादनम् यश: गुणवत्ताप्रथा अयश: – नैर्गुण्यप्रथा । एतच्चोभयं तदनुगुणमनोवृत्तिद्वयं मन्तव्यम्, तत्प्रकरणात् । तपोदाने च तथा । एवमाद्या: सर्वेषां भूतानां भावा: प्रवृत्तिनिवृत्तिहेतवो मनोवृत्तयो मत्त एव मत्सङ्कल्पायत्ता भवन्ति ॥ ४ – ५ ॥
सर्वस्य भूतजातस्य सृष्टिस्थित्यो: प्रवर्तयितारश्च मत्संकल्पायत्तप्रवृत्तय इत्याह –
महर्षयस्सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता येषां लोक इमा: प्रजा: ॥ ६ ॥
पूर्वे सप्त महर्षय: अतीतमन्वन्तरे ये भृग्वादयस्सप्त महर्षयो नित्यसृष्टिप्रवर्तनाय ब्रह्मणो मनस्संभवा:, नित्यस्थितिप्रवर्तनाय ये च सार्वणिका नाम चत्वारो मनव: स्थिता:, येषां सन्तानमये लोके जाता इमा: सर्वा: प्रजा: प्रतिक्षणमाप्रलयादपत्यानामुत्पादका: पालकाश्च भवन्ति ते भृग्वादयो मनवश्च मद्भावा: मम यो भाव: स एव येषां भाव: ते मद्भावा:, मन्मते स्थिता:, मत्सङ्कल्पानुवर्तिन इत्यर्थ: ॥ ६ ॥
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वत: ।
सोऽविकम्पेन योगेन युज्यते नात्र संशय: ॥ ७ ॥
विभूति: ऐश्वर्यम् । एतां सर्वस्य मदायत्तोत्पत्तिस्थितिप्रवृत्तितारूपां विभूतिम्, मम हेयप्रत्यनीककल्याणगुणगणरूपं योगं च यस्तत्त्वतो वेत्ति, सोऽविकम्पेन अप्रकम्प्येन भक्तियोगेन युज्यते । नात्र संशय: । मद्विभूतिविषयं कल्याणगुणविषयं च ज्ञानं भक्तियोगवर्धनमिति स्वयमेव द्रक्ष्यसीत्यभिप्राय: ॥ ७ ॥ विभूतिज्ञानविपाकरूपां भक्तिवृद्धिं दर्शयति –
अहं सर्वस्य प्रभवो मत्त: सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विता: ॥ ८ ॥
अहं, सर्वस्य विचित्रचिदचित्प्रपञ्चस्य प्रभव: उत्पत्तिकारणम्, सर्वं मत्त एव प्रवर्तते इतीदं मम स्वाभाविकं निरंकुशैश्वर्यं, सौशील्यसौन्दर्यवात्सल्यादिकल्याणगुणगणयोगं च मत्वा बुधा ज्ञानिन: भावसमन्विता: मां सर्वकल्याणगुणान्वितं भजन्ते । भाव: मनोवृत्तिविशेष: । मयि स्पृहयालवो मां भजन्त इत्यर्थ: ॥ ८ ॥ कथम्?
मच्चित्ता मद्गतप्राणा बोधयन्त: परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ ९ ॥
मच्चित्ता: मयि निविष्टमनस:, मद्गतप्राणा: मद्गतजीविता:, मया विनात्मधारणमलभमाना इत्यर्थ: स्वै: स्वैरनुभूतान्मदीयान् गुणान् परस्परं बोधयन्त:, मदीयानि दिव्यानि रमणीयानि कर्माणि च कथयन्त: तुष्यन्ति च रमन्ति च वक्तारस्तद्वचनेनानन्यप्रयोजनेन तुष्यन्ति श्रोतारश्च तच्छ्रवणेनानवधिकातिशयप्रियेण रमन्ते ॥ ९ ॥
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १० ॥
तेषां सततयुक्तानां मयि सततयोगमाशंसमानानां मां भजमानानामहं तमेव बुद्धियोगं विपाकदशापन्नं प्रीतिपूर्वकं ददामि येन ते मामुपयान्ति ॥ १० ॥ किञ्च,
तेषामेवानुकम्पार्थमहमज्ञानजं तम: ।
नश्याम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ ११ ॥
तेषामेवानुग्रहार्थमहम्, आत्मभावस्थ: तेषां मनोवृत्तौ विषयतयावस्थित: मदीयान् कल्याणगुण-गणांश्चाविष्कुर्वन्मद्विषयज्ञानाख्येन भास्वता दीपेन ज्ञानविरोधिप्राचीनकर्मरूपाज्ञानजं मद्व्यतिरिक्तपूर्वाभ्यस्त-विषयप्रावण्यरूपं तमो नाशयामि ॥ ११ ॥
अर्जुन उवाच
एवं सकलेतरविसजातीयं भगवदसाधारणं शृण्वतां निरतिशयानन्दजनकं कल्याणगुणगणयोगं तदैश्वर्यविततिं च श्रुत्वा तद्विस्तारं श्रोतुकामोऽर्जुन उवाच –
परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
परं ब्रह्म परं धाम परमं पवित्रमिति यं श्रुतयो वदन्ति, स हि भवान् । यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञासस्व तद्ब्रह्मेति (तै,उ,भृ), ब्रह्मविदाप्नोति परम् (तै.उ.आ), स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति (मु.३.२.९) इति । तथा परं धाम धामशब्दो ज्योतिर्वचन: परं ज्योति: अथ यदत: परो दिवो ज्योतिर्दीप्यते (छा.३.१३.७), परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते (छा.८.१२.२), तं देवा ज्योतिषां ज्योति: (६.४.१६) इति । तथा च परमं पवित्रं परमं पावनम् स्मर्तुरशेषकल्मषाश्लेषकरम्, विनाशकरं च । यथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यते (छा.४.१४.६), तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मान: प्रदूयन्ते (छा.५.२४.३), नारायण परं ब्रह्म तत्त्वं नगरायण: पर: । नारायण परो ज्योतिरात्मा नारायण: पर: (ना.उ.) इति हि श्रुतयो वदन्ति ॥ १२ ॥
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १२ ॥
आहुस्त्वामृषय: सर्वे देवर्षिर्नारदस्तथा ।
असितो देवलो व्यास: स्वयं चैव ब्रवीषि मे ॥ १३ ॥
ऋषयश्च सर्वे परावरतत्त्वयाथात्म्यविदस्त्वामेव शाश्वतं दिव्यं पुरुषमादिदेवमजं विभुमाहु: तथैव देवर्षिर्नारद: असित: देवल: व्यासश्च । ये च देवविदो विप्रो ये चाध्यात्मविदो जना: । ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम् ॥ पविताणां हि गोविन्द: पवित्रं परमुच्यते । पुण्यानामपि पुण्योऽसौ मङ्गलानां च मङ्गलम् । त्रैलोक्यं पुण्डरीकाक्षो देवदेव: सनातन: । आस्ते हरिरचिन्त्यात्मा तत्रैव मधुसूदन: ॥ (भा.व.६६), एष नारायण: श्रीमान् क्षीरार्णवनिकेतन: । नागपर्यङ्कमुत्सृज्य ह्यागतो मधुरां पुरीम् ॥ (भा.व.८६.२४), पुण्या द्वारवती तत्र यत्रास्ते मधुसूदह: । साक्षाद्देव: पुराणोऽसौ स हि धर्मस्सनातन: । (भा.व.८६.२८?) तथा, यत्र नारायणो देव: परमात्मा सनातन: । तत्र कृत्स्नं जगत्पार्थ तीर्थान्यायतनानि च ॥ तत्पुण्यं तत्परं ब्रह्म तत्तीर्थं तत्तपोवनम् । तत्र देवर्षयस्सिद्धा: सर्वे चैव तपोधना: ॥ आदिदेवो महायोगी यत्रास्ते मधुसूदन: । पुण्यानामपि तत्पुण्यं मा भूत्ते संशयोऽत्र वै ॥ (भा.व.८८), कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्यय: । कृष्णस्य हि कृते भूतमिदं विश्वं चराचरम् ॥(भा.स.४.२३) इति । तथा स्वयमेव ब्रवीषि च, भूमिरपोऽनलो वायु: खं मनो बुधिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ (भ.गी.७.४) इत्यादिना, अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते (भ.गी.१०.८) इत्यन्तेन ॥१२-१३॥
सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।
न हि ते भगवन् व्यक्तिं विदुर्देवा न दानवा: ॥ १४ ॥
अत: सर्वमेतद्यथावस्थितवस्तुकथनं मन्ये, न प्रशंसाद्यभिप्रायम् यन्मां प्रति अनन्यसाधारणं अनवधिकातिशयं स्वाभाविकं तवैश्वर्यं कल्याणगुणानन्त्यं च वदसि । अतो भगवन्निरतिशय-ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधे, ते व्यक्तिं व्यञ्जनप्रकारं न हि परिमितज्ञाना देवा दानवाश्च विदु:॥१४॥
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
भूतभावन भूतेश देवदेव जगत्पते ॥ १५ ॥
हे पुरुषोत्तम!, आत्मना, आत्मानं त्वां स्वयमेव स्वेन ज्ञानेनैव वेत्थ । भूतभावन! सर्वेषां भूतानामुत्पादयित:, भूतेश! सर्वेषां नियन्त:!, देवदेव! दैवतानामपि परमदैवत!, यथा मनुष्यमृगपक्षिसरीसृपादीन् सौन्दर्यसौशील्यादिकल्याणगुणगणैर्दैवतानि अतीत्य वर्तन्ते, तथा तानि सर्वाणि दैवतान्यपि तैस्तैर्गुणैरतीत्य वर्तमान!, जगत्पते! जगत्स्वामिन्! ॥ १५ ॥
वक्तुमर्हास्यशेषेण दिव्या ह्यात्मविभूतय: ।
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १६ ॥
दिव्या: त्वदसाधारण्यो विभूतयो या:, तास्त्वमेवाशेषेण वक्तुमर्हासि । त्वमेव व्यञ्जयेत्यर्थ:। याभिरनन्ताभिर्विभूतिभि: यैर्नियमनविशेषैर्युक्त: इमान् लोकान् त्वं नियन्तृत्वेन व्याप्य तिष्ठसि॥१६॥
कथं विद्यामहं योगी त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १७ ॥
अहं योगी भक्तियोगनिष्ठस्सन् भक्त्या त्वां सदा परिचिन्तयन् चिन्तयितुं प्रवृत्त: चिन्तनीयं त्वां परिपूर्णैश्वर्यादिकल्याणगुणगणं कथं विद्याम्? पूर्वोक्तबुद्धिज्ञानादिभावव्यतिरिक्तेषु केषु केषु च भावेषु मया नियन्तृत्वेन चिन्त्योऽसि? ॥ १७ ॥
विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूय: कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ १८ ॥
अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते (१२.८) इति संक्षेपेणोक्तं तव स्रष्टृत्वादियोगं विभूतिं नियमनं च भूयो विस्तरेण कथय । त्वयोच्यमानं त्वन्माहात्म्यामृतं शृण्वतो मे तृप्तिर्नास्ति हि ममातृप्तिस्त्वयैव विदितेत्यभिप्राय: ॥ १८ ॥
श्रीभगवानुवाच
हन्त ते कथयिष्यामि विभूतीरात्मनश्शुभा: ।
प्राधान्यत: कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ १९ ॥
हे कुरुश्रेष्ठ! मदीया: कल्याणीर्विभूती: प्राधान्यतस्ते कथयिष्यामि । प्राधन्यशब्देन उत्कर्षो विवक्षित: पुरोधसां च मुख्यं माम् (भ.गी.१०.२४) इति हि वक्ष्यते । जगत्युत्कृष्टा: काश्चन विभूतीर्वक्ष्यामि, विस्तरेण वक्तुं श्रोतुं च न शक्यते, तासामानन्त्यात् । विभूतित्वं नाम नियाम्यत्वम् सर्वेषां भूतानां बुद्ध्यादय: पृथग्विधा भावा मत्त एव भवन्तीत्युक्त्वा, एतां विभूतिं योगं च मम यो वेत्ति तत्त्वत: (भ.गी.१०.७) इति प्रतिपादनात् । तथा तत्र योगशब्दनिर्दिष्टं स्रष्टृत्वादिकं विभुतिशब्दनिर्दिष्टं तत्प्रवर्त्यत्वमिति ह्युक्तं पुनश्च, अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विता: (भ.गी.१०.७) इति ॥ १९ ॥ तत्र सर्वभूतानां प्रवर्तनरूपं नियमनमात्मतयावस्थाय इतीममर्थम्, योगशब्दनिर्दिष्टं सर्वस्य स्रष्टृत्वं पालयितृत्वं संहर्तृत्वं चेति सुस्पष्टमाह –
अहमात्मा गुडाकेश सर्वभूताशयस्थित: ।
अहमादिश्च मध्यं च भूतानामन्त एव च ॥ २० ॥
सर्वेषां भूतानां मम शरीरभूतानामाशये हृदये अहमात्मतयावस्थित: । आत्मा हि नाम शरीरस्य सर्वात्मना आधार:, नियन्ता, शेषी च । तथा वक्ष्यते, सर्वस्य चाहं हृदि सन्निविष्टो मत्तस्स्मृतिर्ज्ञानमपोहनं च (भ.गी.१५.१५), ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ (भ.गी.१८.६१) इति। श्रूयते च, य: सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरो यं सर्वाणि भूतानि न विदु: (बृ.५.७.१५), यस्य सर्वाणि भूतानि शरीरं यस्सर्वाणि भूतान्यन्तरो यमयति, एष त आत्मान्तर्याम्यमृत: इति, य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति, स त आत्मान्तर्याम्यमृत: (शत.१४.५.३०) इति च। एवं सर्वभूतानामात्मतयावस्थितोऽहं तेषामादिर्मध्यं चान्तश्च तेषामुत्पत्तिस्थितिप्रलयहेतुरित्यर्थ: ॥२०॥
एवं भगवत: स्वविभूतिभूतेषु सर्वेष्वात्मतयावस्थानं तत्तच्छब्दसामानाधिकरण्यनिर्देशहेतुं प्रतिपाद्य विभूतिविशेषान् सामानाधिकरण्येन व्यपदिशति । भगवत्यात्मतयावस्थिते हि सर्वे शब्दास्तस्मिन्नेव पर्यवस्यन्ति यथा देवो मनुष्य: पक्षी वृक्ष: इत्यादय: शब्दा: शरीराणि प्रतिपादयन्तः तत्तदात्मनि पर्यवस्यन्ति । भगवतस्तत्तदात्मतयावस्थानमेव तत्तच्छब्दसामानाधिकरण्य-निबन्धनमिति विभूत्युपसंहारे वक्ष्यति न तदस्ति विना यत्स्यान्मया भूतं चराचरम् (१०.३९) इति सर्वेषां स्वेनाविनाभाववचनात् । अविनाभावश्च नियाम्यतयेति मत्तस्सर्वं प्रवर्तते (१०.८) इत्युपक्रमोदितम् ।
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ २१ ॥
द्वादशसंख्यासंख्यातानामादित्यानां द्वादशो य उत्कृष्टो विष्णुर्नामादित्य:, सोऽहम् । ज्योतिषां जगति प्रकाशकानां य: अंशुमान् रवि: आदित्यगण:, सोऽहम् । मरुतामुत्कृष्टो मरीचिर्य:, सोऽहमस्मि। नक्षत्राणामहं शशी। नेयं निर्धारणे षष्ठी, भूतानामस्मि चेतना (१०.२२) इतिवत् । नक्षत्राणां पतिर्यश्चन्द्र:, सोऽहमस्मि॥२१॥
वेदानां सामवेदोऽस्मि देवानामस्मि वासव: ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ २२ ॥
वेदानामृग्यजुस्सामाथर्वणां य उत्कृष्ट: सामवेद:, सोऽहम् । देवानामिन्द्रोऽहमस्मि । एकादशानामिन्द्रियाणां यदुत्कृष्टं मन इन्द्रियम्, तदहमस्मि । इयमपि न निर्धारणे । भूतानां चेतनावतां या चेतना, सोऽहमस्मि ॥ २२ ॥
रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।
वसूनां पावकश्चास्मि मेरु: शिखरिणामहम् ॥ २३ ॥
रुद्राणामेकादशानां शङ्करोऽहमस्मि । यक्षरक्षसां वैश्रवणोऽहम् । वसूनामष्टानां पावकोऽहम् । शिखरिणां शिखरशोभिनां पर्वतानां मध्ये मेरुरहम् ॥ २३ ।
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनामहं स्कन्द: सरसामस्मि सागर: ॥ २४ ॥
पुरोधसामुत्कृष्टो बृहस्पतिर्य:, सोऽहमस्मि, सेनानीनां सेनापतीनां स्कन्दोऽहमस्मि । सरसां सागरोऽहमस्मि ॥ २४ ॥
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालय: ॥ २५ ॥
महर्षीणां मरीच्यादीनां भृगुरहम् । अर्थाभिधायिन: शब्दा गिर:, तासामेकमक्षरं प्रणवोऽहमस्मि। यज्ञानामुत्कृष्टो जपयज्ञोऽस्मि । पूर्वमात्राणां हिमवानहम् ॥ २५ ॥
अश्वत्थस्सर्ववृक्षाणां देवर्षीणां च नारद: ।
गन्धर्वाणां चित्ररथ: सिद्धानां कपिलो मुनि: ॥ २६ ॥
उच्चैश्श्रवसमश्वानां विद्धि माममृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ २७ ॥
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।
प्रजनश्चास्मि कन्दर्प: सर्पाणामस्मि वासुकि: ॥ २८ ॥
अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।
पितॄणामर्यमा चास्मि यम: संयमतामहम् ॥ २९ ॥
वृक्षाणां पूज्योऽश्वत्थोऽहम् । देवर्षीणं नारदोऽहम् । कामधुक्दिव्या सुरभि: । जननहेतु: कन्दर्पश्चाहमस्मि । सर्पा: एकाशिरस: नागा: बहुशिरस: । यादांसि जलवासिन:, तेषां वरुणोऽहम्। दण्डयतां वैवस्वतोऽहम् ॥ २६,२७,२८,२९ ॥
प्रह्लादश्चास्मि दैत्यानां काल: कलयतामहम् ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ ३० ॥
अनर्थप्रेप्सुतया गणयतां मध्ये काल: मृत्युरहम् ॥ ३० ॥
पवन: पवतामस्मि राम: शस्त्रभृतामहम् ।
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ ३१ ॥
पवतां गमनस्वभावानां पवनोऽहम् । शस्त्रभृतां रामोऽहम् । शस्त्रभृत्त्वमत्र विभूति:, अर्थान्तराभावात्। आदित्यादयश्च क्षेत्रज्ञा आत्मत्वेनावस्थितस्य भगवत: शरीरतया धर्मभूता इति शस्त्रभृत्त्वस्थानीया: ॥ ३१ ॥
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां वाद: प्रवदतामहम् ॥ ३२ ॥
सृज्यन्त इति सर्गा:, तेषामादि: कारणम् सर्वदा सृज्यमानानां सर्वेषां प्राणिनां तत्र तत्र स्रष्टारोऽहमेवेत्यर्थ: । तथा अन्त: सर्वदा संह्रियमाणानां तत्र तत्र संहर्तारोऽप्यहमेव । तथा च मध्यं पालनम् सर्वदा पाल्यमानानां पालयितारश्चाहमेवेत्यर्थ: । जल्पवितण्डादि कुर्वतां तत्त्वनिर्णयाय प्रवृत्तो वादो य:, सोऽहम् ॥ ३२ ॥
अक्षराणामकारोऽस्मि द्वन्द्वस्सामासिकस्य च ।
अहमेव अक्षय: काल: धाताहं विश्वतोमुख: ॥ ३३ ॥
अक्षराणां मध्ये अकारो वै सर्वा वाक् इति श्रुतिसिद्धि: सर्ववर्णानां प्रकृतिरकारोऽहं सामासिक: समाससमूह: तस्य मध्ये द्वन्द्वसमासोऽहम् । स ह्युभयपदार्थप्रधानत्वेनोत्कृष्ट: । कलामुहूर्तादिमयोऽक्षय: कालोऽहमेव । सर्वस्य स्रष्टा हिरण्यगर्भश्चतुर्मुखोऽहम् ॥ ३३ ॥
मृत्युस्सर्वहरश्चाहमुद्भवश्च भविष्यताम् ।
कीर्तिश्श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृति: क्षमा ॥ ३४ ॥
सर्वप्राणहरो मृत्युश्चाहम् । उत्पत्स्यमानानामुद्भवाख्यं कर्म चाहम् । श्रीरहम् कीर्तिश्चाहम् वाक्चाहम् स्मृतिश्चाहम् मेधा चाहम् धृतिश्चाहम् क्षमा चाहम् ॥ ३४ ॥
बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकर: ॥ ३५ ॥
साम्नां बृहत्साम अहम् । छन्दसां गायत्र्यहम् । कुसुमाकर: वसन्त: ॥ ३५ ॥
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ ३६ ॥
छलं कुर्वतां छलास्पदेष्वक्षादिलक्षणं द्युतमहम् । जेत्णां जयोऽस्मि । व्यवसायिनां व्यवसायोऽस्मि। सत्त्ववतां सत्त्वमहम् । सत्त्वं महामनस्त्वम् ॥ ३६ ॥
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जय: ।
मुनीनामप्यहं व्यास: कवीनामुशना कवि: ॥ ३७ ॥
वसुदेवसूनुत्वमत्र विभूति:, अर्थान्तराभावादेव । पाण्डवानां धनञ्जयोऽर्जुनोऽहम् । मुनय: मननेनात्मयाथात्म्यदर्शिन: तेषां व्यासोऽहम् । कवय: विपश्चित: ॥ ३७ ॥
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ ३८ ॥
नियमातिक्रमणे दण्डं कुर्वतां दण्डोऽहम् । विजिगीषूणां जयोपायभूता नीतिरस्मि । गुह्यानां संबन्धिषु गोपानेषु मौनमस्मि । ज्ञानवतां ज्ञानं चाहम् ॥ ३८ ॥
यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ ३९ ॥
सर्वभूतानां सर्वावस्थावस्थितानां तत्तदवस्थाबीजभूतं प्रतीयमानमप्रतीयमानं च यत्, तदहमेव। भूतजातं मया आत्मतयावस्थितेन विना यत्स्यात्, न तदस्ति । अहमात्मा गुडाकेश सर्वभूताशयस्थित: (२) इति प्रक्रमात्, न तदस्ति विना यत्स्यान्मया भूतं चराचरम् इत्यत्राप्यात्मतयावस्थानमेव विवक्षितम्। सर्वं वस्तुजातं सर्वावस्थं मया आत्मभूतेन युक्तं स्यादित्यर्थ: । अनेन सर्वस्यास्य सामानाधिकरण्यनिर्देशस्यात्मतयावस्थितिरेव हेतुरिति प्रकटितम् ॥ ३९ ॥
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशत: प्रोक्तो विभूतेर्विस्तरो मया ॥ ४० ॥
मम दिव्यानां कल्याणीनां विभूतीनामन्तो नास्ति एष तु विभूतेर्विस्तरो मया कैश्चिदुपाधिभि: संक्षेपत: प्रोक्त: ॥ ४० ॥
यद्यद्विभूतिमत्सत्त्वं श्रीमदुर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम् ॥ ४१ ॥
यद्यद्विभूतिमदिशितव्यसंपन्नं भूतजातं श्रीमत्कान्तिमत्, धनधान्यसमृद्धं वा, ऊर्जितं कल्याणारम्भेषु उद्युक्तम् तत्तन्मम तेजोंऽशसंभवमित्यवगच्छ । तेज: पराभिभवनसामर्थ्यम्, ममाचिन्त्यशक्तेर्नियमन-शक्त्येकदेशस्संभवतीत्यर्थ: ॥ ४१ ॥
अथ वा बहुनैतेन किं ज्ञानेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ ४२ ॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ……..विभूतिविस्तरयोगो नाम दशमोऽध्याय: ॥ १०॥
बहुना एतेन उच्यमानेन ज्ञानेन किं प्रयोजनम् । इदं चिदचिदात्मकं कृत्स्नं जगत्कार्यावस्थं कारणावस्थं स्थूलं सूक्ष्मं च स्वरूपसद्भावे, स्थितौ, प्रवृत्तिभेदे च यथा मत्सङ्कल्पं नातिवर्तेत, तथा मम महिम्नोऽयुतायुतांशेन विष्टभ्याहमवस्थित: । यथोक्तं भगवता पराशरेण, यस्यायुतायुतांशांशे विश्वशक्तिरियं स्थिता (वि.पु.१.९.५३) इति ॥ ४२ ॥
॥ इति श्रीभगवद्रामानुजविरचिते श्रीमद्गीताभाष्ये दशमोऽध्याय: ॥ १०॥