भगवद्रामानुजविरचितं
श्रीमद्गीताभाष्यम्
नवमोऽध्याय:
उपासकभेदनिबन्धना विशेषा: प्रतिपादिता: । इदानीमुपास्यस्य परमपुरुषस्य माहात्म्यम्, ज्ञानिनां विशेषं च विशोध्य भक्तिरूपस्योपासनस्य स्वरूपमुच्यते ।
श्रीभगवानुवाच
इदं तु गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्षसेऽशुभात् ॥ १ ॥
इदं तु गुह्यतमं भक्तिरूपमुपासनाख्यं ज्ञानं विज्ञानसहितमुपासनगतविशेषज्ञानसहितम्, अनसूयवे ते प्रवक्ष्यामि मद्विषयं सकलेतरविसजातीयमपरिमितप्रकारं माहात्म्यं श्रुत्वा, एवमेव संभवतीति मन्वानाय ते प्रवक्ष्यामीत्यर्थ: । यज्ज्ञानमनुष्ठानपर्यन्तं ज्ञात्वा मत्प्राप्तिविरोधिन: सर्वस्मादशुभान्मोक्ष्यसे ॥ १॥
राजविद्या राजगुह्यं पवित्रमिगमुत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥
राजविद्या विद्यानां राजा, राजगुह्यं गुह्यानां राजा । राज्ञां विद्येति वा राजविद्या । राजानो हि विस्तीर्णागाध्यमनस: । महामनसामियं विद्येत्यर्थ: । महामनस एव हि गोपनीयगोपनकुशला इति तेषामेव गुह्यम् । इदमुत्तमं पवित्रं मत्प्राप्तिविरोध्यशेषकल्मषापहम् । प्रत्यक्षावगमम् । अवगम्यत इत्यवगम: विषय: प्रत्यक्षभूतोऽवगम: विषयो यस्य ज्ञानस्य तत्प्रत्यक्षावगमम् । भक्तिरूपेणोपासनेन उपास्यमानोऽहं तादानीमेवोपासितु: प्रत्यक्षतामुपगतो भवामीत्यर्थ: । अथापि धर्म्यं धर्मादनपेतम् । धर्मत्वं हि निश्श्रेयससाधनत्वम् । स्वरूपेणैवात्यर्थप्रियत्वेन तदानीमेव मद्दर्शनापादनतया च स्वयं निश्श्रेयसरूपमपि निरतिशयनिश्श्रेयसरूपात्यन्तिकमत्प्राप्ति-साधनमित्यर्थ: । अत एव सुसुखं कर्तुं सुसुखोपादानम् । अत्यर्थप्रियत्वेनोपादेयम् । अव्ययमक्षयम् मत्प्राप्तिं साधयित्वा अपि स्वयं न क्षीयते। एवंरूपमुपासनं कुर्वतो मत्प्रदाने कृतेऽपि किंचित्कृतं मयाअअस्येति मे प्रतिभातीत्यर्थ:॥२॥
अश्रद्दधाना: पुरुषा धर्मस्यास्य परन्तप ।
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ३ ॥
अस्योपासनाख्यस्य धर्मस्य निरतिशयप्रियमद्विषयतया स्वयं निरतिशयप्रियरूपस्य परमनिश्श्रेयसरूपमत्प्राप्तिसाधनस्याव्ययस्योपादानयोग्यदशां प्राप्य अश्रद्दधाना: विश्वासपूर्वकत्वरारहिता: पुरुषा: मामप्राप्य मृत्युरूपे संसारवर्त्मनि नितरां वर्तन्ते । अहो महदिदमाश्चर्यमित्यर्थ: ॥ ३ ॥
शृणु तावत्प्राप्यभूतस्य ममाचिन्त्यमहिमानम् –
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थित: ॥ ४ ॥
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
भूतभृन्न च भूतस्थो ममात्मा भूतभावन: ॥ ५ ॥
इदं चेतनाचेतनात्मकं कृत्स्नं जगदव्यक्तमूर्तिना अप्रकाशितस्वरूपेण मया अन्तर्यामिणा, ततमस्य जगतो धारणार्थं नियमनार्थं च शेषित्वेन व्याप्तमित्यर्थ: । यथान्तर्यामिब्राह्मणे, य: पृथिव्यां तिष्ठन् … यं पृथिवी न वेद (बृ.५.७.३), य आत्मनि तिष्ठन् … यमात्मा न वेद (बृ.५.७.२२) इति चेतनाचेतनवस्तुजातैरदृष्टेणान्तर्यामिणा तत्र तत्र व्याप्तिरुक्ता । ततो मत्स्थानि सर्वभूतानि सर्वाणि भूतानि मय्यन्तर्यामिणि स्थितानि । तत्रैव ब्राह्मणे, यस्य पृथिवी शरीरं … य: पृथिवीमन्तरो यमयति, यस्यात्मा शरीरं … य आत्मानमन्तरो यमयति इति शरीरत्वेन नियाम्यत्वप्रतिपादनात्तदायत्ते स्थितिनियमने प्रतिपादिते शेषित्वं च । न चाहं तेष्ववस्थित: अहं तु न तदायत्तस्थिति: मत्स्थितौ तैर्न कश्चिदुपकार इत्यर्थ: । न च मत्स्थानि भूतानि न घटादीनां जलादेरिव मम धारकत्वम् । कथम्? मत्सङ्कल्पेन । पश्य ममैश्वरं योगमन्यत्र कुत्रचिदसंभावनीयं मदसाधारणमाश्चर्यं योगं पश्य । कोऽसौ योग? भूतभृन्न च भूतस्थो ममात्मा भूतभावन: । सर्वेषां भूतानां भर्ताहम् न च तै: कश्चिदपि ममोपकार: । ममात्मैव भूतभावन: मम मनोमयस्सङ्कल्प एव भूतानां भावयिता धारयिता नियन्ता च ॥ ४-५ ॥
सर्वस्यास्य स्वसङ्कल्पायत्तस्थितिप्रवृत्तित्वे निदर्शनमाह
यथाकाशस्थितो नित्यं वायु: सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६ ॥
यथा आकशे अनालम्बने महान् वायु: स्थित: सर्वत्र गच्छति स तु वायुर्निरालम्बनो मदायत्तस्थितिरित्यवश्याभ्युपगमनीय: एवमेव सर्वाणि भूतानि तैरदृष्टे मयि स्थितानि मयैव धृतानीत्युपधारय। यथाहुर्वेदविद:, मेघोदय: सागरसन्निवृत्तिरिन्दोर्विभाग: स्फुरितानि वायो: । विद्युद्विभङ्गो गतिरुष्णरश्मेर्विष्णोर्विचित्रा: प्रभवन्ति माया: इति विष्णोरनन्यसाधारणानि महाश्चर्याणीत्यर्थ: । श्रुतिरपि, एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत: (बृ.५.८.९), भीषास्माद्वात: पवते,भीषोदेति सूर्य:, भीषास्मादग्निश्चेन्द्रश्च (आ.८) इत्यादिका॥६॥
सकलेतरनिरपेक्षस्य भगवतस्सङ्कल्पात्सर्वेषां स्थिति: प्रवृत्तिश्चोक्ता तथा तत्सङ्कल्पादेव सर्वेषामुत्पत्तिप्रलयावपीत्याह –
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ७ ॥
स्थावरजङ्गमात्मकानि सर्वाणि भूतानि, मामिकां मच्छरीरभूताम्, प्रकृतिं तमश्शब्दवाच्यां नामरूपविभागानर्हाम्, कल्पक्षये चतुर्मुखावसानसमये मत्सङ्कल्पाद्यान्ति तान्येव भूतानि कल्पादौ पुनर्विसृज्याम्यहम् यथा आह मनु: आसीदिदं तमोभूतं … सोऽभिध्याय शरीरात्स्वात् (म.स्मृ.१.५) इति । श्रुतिरपि यस्याव्यक्तं शरीरम् (सु.२), अव्यक्तमक्षरे लीयते, अक्षरं तमसि लीयते (सु.७) इत्यादिका, तमासीत्तमसा गूढमग्रे प्रकेतम् (अष्ट.२.८.९) इति च ॥ ७ ॥
प्रकृतिं स्वामवष्टभ्य विसृजामि पुन: पुन: ।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ८ ॥
स्वकीयां विचित्रपरिणामिनीं प्रकृतिमवष्टभ्य अष्टधा परिणाम्य्यिमं चतुर्विधं देवतिर्यङ्मनुष्य-स्थावरात्मकं भूतग्रामं मदीयाया मोहिन्या गुणमय्या: प्रकृतेर्वशादवशं पुन:पुन: कालेकाले विसृजामि ॥ ८ ॥ एवं तर्हि विषमसृष्ट्यादीनि कर्माणि नैघृण्याद्यापादनेन भवन्तं बध्नन्तीत्यत्राह –
न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९ ॥
न च तानि विषमसृष्ट्यादीनि कर्माणि मां निबध्नन्ति मयि नैर्घृण्यादिकं नापादयन्ति, यत: क्षेत्रज्ञानां पूर्वकृतान्येव कर्माणि देवादिविषमभावहेतव: अहं तु तत्र वैषम्ये असक्त: तत्रोदासीनवदासीन: यथाह सूत्रकार: वैषम्यनैर्घृण्ये न सापेक्षत्वात् (ब्र.सू.२.१.३५), न कर्माविभागादिति चेन्नानादित्वात् (२.१.३५) इति ॥ ९ ॥
मयाध्यक्षेण प्रकृति: सूयते सचराचरम् ।
हेतुनानेन कौन्तेय जगद्धि परिवर्तते ॥ १० ॥
तस्मात्क्षेत्रज्ञकर्मानुगुणं मदीया प्रकृति: सत्यसङ्कल्पेन मयाअअध्यक्षेणेक्षिता सचराचरं जगत्सूयते। अनेन क्षेत्रज्ञकर्मानुगुणमदीक्षणेन हेतुना जगत्परिवर्तत इति मत्स्वाम्यं सत्यसङ्कल्पत्वं नैर्घृण्यादिदोष-रहितत्वमित्येवमादिकं मम वसुदेवसूनोरैश्वरं योगं पश्य । यथाअआह श्रुति:, अस्मान्मायी सृजते विश्वमेतत् तस्मिंश्चान्यो मायया सन्निरुद्ध: । मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् (श्वे.४.९) ॥इति॥१०॥
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ॥
एवं मां भूतमहेश्वरं सर्वज्ञं सत्यसङ्कल्पं निखिलजगदेककारणं परमकारुणिकतया सर्वसमाश्रयणीयत्वाय मानुषीं तनुमाश्रितं स्वकृतै: पापकर्मभिर्मूढा अवजानन्ति प्राकृतमनुष्यसमं मन्यन्ते । भूतमहेश्वरस्य ममापारकारुण्योदार्यसौशील्यवात्सल्यनिबन्धनं मनुष्यत्वसमाश्रयण-लक्षणमिमं परं भावमजानन्तो मनुष्यत्वसमाश्रयणमात्रेण मामितरसजातीयं मत्वा तिरस्कुर्वन्तीत्यर्थ: ॥ ११ ॥
मोघाशा मोघकर्माणो मोघज्ञाना विचेतस: ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिता: ॥ १२ ॥
मम मनुष्यत्वे परमकारुण्यादिपरत्वतिरोधानकरीं राक्षसीमासुरीं च मोहिनीं प्रकृतिमाश्रिता:, मोघाशा: मोघ्वाञ्छिता: निष्फलवाञ्छिता:, मोघ्कर्माण: मोघारम्भा:, मोघज्ञाना: सर्वेषु मदीयेषु चराचरेष्वर्थेषु विपरीतज्ञानतया निष्फलज्ञाना:, विचेतस: तथा सर्वत्र विगतयाथात्म्यज्ञाना: मां सर्वेश्वरमितरसमं मत्वा मयि च यत्कर्तुमिच्छन्ति, यदुद्दिश्यारम्भान् कुर्वते, तत्सर्वं मोघं भवतीत्यर्थ: ॥ १२ ॥
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिता: ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ १३ ॥
ये तु स्वकृतै: पुण्यसञ्चयै: मां शरणमुपगम्य विध्वस्तसमस्तपापबन्धा दैवीं प्रकृतिमाश्रिता महात्मान:, ते, भूतादिमव्ययं वाङ्मनसागोचरनामकर्मस्वरूपं परमकारुणिकतया साधुपरित्राणाय मनुष्यत्वेनावतीर्णं मां ज्ञात्वाअअनन्यमनसो मां भजन्ते मत्प्रियत्वातिरेकेण मद्भजनेन विना मनसश्चात्मनश्च बाह्यकरणानां च धारणमलभमाना मद्भजनैकप्रयोजना भजन्ते ॥ १३ ॥
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रता: ।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ १४ ॥
अत्यर्थमत्प्रियत्वेन मत्कीर्तनयतननमस्कारैर्विना क्षणाणुमात्रेऽप्यात्मधारणमलभमाना:, मद्गुणविशेषवाचीनि मन्नामानि स्मृत्वा पुलकाञ्चितसर्वाङ्गा: हर्षगद्गदकण्ठा:, नारायणकृष्णवासुदेवेत्येवमादीनि सततं कीर्तयन्त:, तथैव यतन्त: मत्कर्मस्वर्चनादिकेषु, तदुपकारेषु भवननन्दनवनकरणादिकेषु च दृढसङ्कल्पा यतमाना:, भक्तिभारावनमितमनोबुद्ध्य-भिमानपदद्वय-करद्वयशिरोभिरष्टाङ्गैरचिन्तितपांसुकर्दमशर्करादिके धरातले दण्डवत् प्रणिपतन्त:, सततं मां नित्ययुक्ता: नित्ययोगं काङ्क्षमाणा आत्मान्तं मद्दास्यव्यवसायिन: उपासते ॥ १४ ॥
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥
अन्येऽपि महात्मन: पूर्वोक्तै: कीर्तनादिभिर्ज्ञानाख्येन यज्ञेन च यजन्तो मामुपासते । कथम्? बहुधा पृथक्त्वेन जगदाकारेण, विश्वतोमुखं विश्वप्रकारमवस्थितं मामेकत्वेनोपासते । एतदुक्तं भवति भगवान् वासुदेव एव नामरूपविभागानर्हातिसूक्ष्मचिदचिद्वस्तुशरीरस्सन् सत्यसङ्कल्पो विविधविभक्तनामरूपस्थूलचिदचिद्वस्तुशरीर: स्यामिति संकल्प्य स एक एव देवतिर्यङ्मनुष्यस्थावराख्य-विचित्रजगच्छरीरोऽवतिष्ठत इत्यनुसंदधानाश्च मामुपासते इति ॥ १५ ॥
तथा हि विश्वशरीरोऽहमेवावस्थित इत्याह –
अहं क्रतुरहं यज्ञ: स्वधाहमहमौषधम् ।
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ १६ ॥
अहं क्रतु: अहं ज्योतिष्टोमादिक: क्रतु: अहमेव महायज्ञ: अहमेव पितृगणपुष्टिदा स्वधा औषधं हविश्चाहमेव, अहमेव च मन्त्र: अहमेव च आज्यम् । प्रदर्शनार्थमिदं सोमादिकं च हविरहमेवेत्यर्थ: अहमाहवनीयादिकोऽग्नि: होमश्चाहमेव ॥ १६ ॥
पिताहमस्य जगतो माता धाता पितामह: ।
वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ॥ १७ ॥
अस्य स्थावरजङ्गमात्मकस्य जगत:, तत्र तत्र पितृत्वेन, मातृत्वेन, धातृत्वेन, पितामहत्वेन च वर्तमानोऽहमेव । अत्र धातृशब्दो मातापितृव्यतिरिक्ते उत्पत्तिप्रयोजके चेतनविशेषे वर्तते । यत्किञ्चिद्वेदवेद्यं पवित्रं पावनम्,तदहमेव । वेदकश्च वेदबीजभूत: प्रणवोऽहमेव । ऋक्सामयजुरात्मको वेदश्चाहमेव॥१७॥
गतिर्भर्ता प्रभुस्साक्षी निवासश्शरणं सुहृत् ।
प्रभवप्रलयस्थानं निधानं बीजमव्ययम् ॥ १८ ॥
गम्यत इति गति: तत्र तत्र प्राप्यस्थानमित्यर्थ: भर्ता धारयिता, प्रभु: शासिता, साक्षी साक्षाद्दृष्टा, निवास: वासस्थानं वेश्मादि । शरणम् । इष्टस्य प्रापकतया अनिष्टस्य निवारणतया च समाश्रयणीयश्चेतन: शरणम् । स चाहमेव सुकृद्धितैषी, प्रभवप्रलयस्थानं यस्य कस्यचिद्यत्र कुत्रचिदुत्पत्तिप्रलययोर्यत्स्थानम्, तदहमेव । निधानं निधीयत इति निधानम्, उत्पाद्यमुपसंहार्यं चाहमेवेत्यर्थ: अव्ययं बीजं तत्र तत्र व्ययरहितं यत्कारणम्, तदहमेव ॥ १८ ॥
तपाम्यहमहं वर्षं निगृह्णाम्यित्युत्सृज्यामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ १९ ॥
अग्न्यादित्यादिरूपेणाहमेव तपामि ग्रीष्मादावहमेव वर्षं निगृह्णामि । तथा वर्षासु चाहमेवोत्सृजामि। अमृतं चैव मृत्युश्च । येन जीवति लोको येन च म्रियते, तदुभयमहमेव । किमत्र बहुनोक्तेन सदसच्चाहमेव । सद्यद्वर्तते, असद्यदतीतमनागतं च सर्वावस्थावस्थितचिदचिद्वस्तु-शरीरतया तत्तत्प्रकारोऽहमेवावस्थित इत्यर्थ: । एवं बहुधा पृथक्त्वेन विभक्तनामरूपावस्थितकृत्स्न-जगच्छरीरतया तत्प्रकारोऽहमेवावस्थित इत्येकत्व-ज्ञानेनाननुसंदधानाश्च मामुपासते ॥ १९ ॥
एवं महात्मनां ज्ञानिनां भगवदनुभवैकभोगानां वृत्तमुक्त्वा तेषामेव विशेषं दर्शयितुमज्ञानां कामकामानां वृत्तमाह –
त्रैविद्या मां सोमपा: पूतपापा: यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान् दिवि देवभोगान्॥ २० ॥
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयीधर्ममनुप्रपन्ना: गतागतं कामकामा लभन्ते ॥ २१ ॥
ऋग्यजुस्सामरूपास्तिस्रो विद्या: त्रिविद्यम् केवलं त्रिविद्यनिष्ठास्त्रैविद्या:, न तु त्रय्यन्तनिष्ठा: । त्रय्यन्तनिष्ठा हि महात्मन: पूर्वोक्तप्रकारेण निखिलवेदवेद्यं मामेव ज्ञात्वातिमात्रमद्भक्तिकारित-कीर्तनादिभिर्ज्ञानयज्ञेन च मदेकप्राप्या मामेवोपासते । त्रैविद्यास्तु वेदप्रतिपाद्यकेवलेन्द्रादियागशिष्टसोमान् पिबन्त:, पूतपापा: स्वर्गादिप्राप्तिविरोधिपापात्पूता:, तै: केवलेन्द्रादिदेवत्यतयानुसंहितैर्यज्ञैर्वस्तुतस्तद्रूपं मामिष्ट्वा, तथावस्थितं मामजानन्त: स्वर्गगतिं प्रार्थयन्ते । ते पुण्यं दु:खासंभिन्नं सुरेन्द्रलोकं प्राप्य तत्र तत्र दिव्यान् देवभोगानश्नन्ति । ते तं विशालं स्वर्गलोकं भुक्त्वा तदनुभवहेतुभूते पुण्ये क्षीणे पुनरपि मर्त्यलोकं विशन्ति । एवं त्रय्यन्तसिद्धज्ञानविधुरा: काम्यस्वर्गादिकामा: केवलं त्रयीधर्ममनुप्रपन्ना: गतागतं लभन्ते अल्पास्थिरस्वर्गादीननुभूय पुन: पुनर्निवर्तन्त इत्यर्थ: ॥ २०-२१ ॥
महात्मनस्तु निरतिशयप्रियरूपमच्चिन्तनं कृत्वा मामनवधिकातिशयानन्दं प्राप्यन पुनरावर्तन्त इति तेषां विशेषं दर्शयति –
अनन्याश्चिन्तयन्तो मां ये जना: पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ९.२२ ॥
अनन्या: अनन्यप्रयोजना:, मच्चिन्तनेन विनाअआत्मधारणालाभान्मच्चिन्तनैकप्रयोजना: मां चिन्तयन्तो ये महात्मानो जना: पर्युपासते सर्वकल्यान्णगुणान्वितं सर्वविभूतियुक्तं मां परित उपासते, अन्यूनमुपासते, तेषां नित्याभियुक्तानां मयि नित्याभियोगं काङ्क्षमाणानाम्, अहं मत्प्राप्तिलक्षणं योगम्, अपुनरावृत्तिरूपं क्षेमं च वहामि ॥ २२ ॥
ये त्वन्यदेवताभक्ता यजन्ते श्रद्धयाअअन्विता: ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ २३ ॥
ये त्विन्द्रादिदेवताभक्ता: केवलत्रयीनिष्ठा: श्रद्धयान्विता: इन्द्रादीन् यजन्ते, तेऽपि पूर्वोक्तेन न्यायेन सर्वस्य मच्छरीरतया मदात्मकत्वेन, इन्द्रादिशब्दानां च मद्वाचित्वाद्वस्तुतो मामेव यजन्ते अपि त्वविधिपूर्वकं यजन्ते । इन्द्रादीनां देवतानां करम्स्वाराध्यतया अन्वयं यथा वेदान्तवाक्यानि, चतुर्होतारो यत्र संपदं गच्छन्ति देवै: (य.आ.३.११.१२) इत्यादीनि विदधति, न तत्पूर्वकं यजन्ते । वेदान्तवाक्यजातं हि परमपुरुषशरीरतयावस्थितानामिन्द्रादीनामाराध्यत्वं विदधदत्मभूतस्य परमपुरुषस्यैव साक्षादाराध्यत्वं विदधाति । चतुर्होतार: अग्निहोत्रदर्शपूर्णमासादीनि कर्माणि, यत्र परमात्मन्यात्मतयावस्थिते सत्येव तच्छरीरभूतेन्द्रादिदेवै: संपदं गच्छन्ति इन्द्रादिदेवानामाराधनान्येतानि कर्माणीतीमां संपदं गच्छन्तीत्यर्थ:॥२३॥
अतस्त्रैविद्या इन्द्रादिशरीरस्य परमपुरुषस्याराधनान्येतानि कर्माणि आराध्यश्च स एवेति न जानन्ति, ते च परिमितफलभागिनश्च्यवनस्वभावाश्च भवन्ति तदाह –
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ २४ ॥
प्रभुरेव च तत्र तत्र फलप्रदाता चाहमेव इत्यर्थ: ॥ २४ ॥
अहो महदिदं वैचित्र्यम्, यदेकस्मिन्नेव कर्मणि वर्तमाना: सङ्कल्पमात्रभेदेन केचिदत्यल्पफल-भागिनश्च्यवनस्वभावाश्च भवन्ति केचन अनवधिकातिशयानन्दपरमपुरुषप्राप्ति-रूपफल-भागिनोऽपुनरावर्तिनश्च भवन्तीत्याह –
यान्ति देवव्रता देवान् पित्न् यान्ति पितृव्रता: ।
भूतानि यान्ति भूतेज्या: यान्ति मद्याजिनोऽपि माम् ॥२५॥
व्रतशब्द: सङ्क्ल्पवाची देवव्रता: दर्शपूर्णमासादिभि: कर्मभि: इन्द्रादीन् यजामहे इति इन्द्रादियजनसङ्कल्पा ये, ते इन्द्रादीन् देवान् यान्ति । ये च पितृयज्ञादिभि: पित्न् यजामहे इति पितृयजनसङ्कल्पा:, ते पितॄन् यान्ति । ये च ‘यक्षरक्ष:पिशाचादीनि भूतानि यजामहे‘ इति भूतयजनसङ्कल्पा:, ते भूतानि यान्ति । ये ते तैरेव यज्ञै: ‘देवपितृभूतशरीरकं परमात्मानं भगवन्तं वासुदेवं यजामहे‘ इति मां यजन्ते, ते मद्याजिनो मामेव यान्ति । देवादिव्रता: देवादीन् प्राप्य तैस्सह परिमितं भोगं भुक्त्वा तेषां विनशकाले तैस्सह विनष्टा भवन्ति । मद्याजिनस्तु मामनादिनिधनं सर्वज्ञं सत्यसङ्कल्पमनवधिकातिशयासंख्येयकल्याणगुणगणमहोदधिमनवधिकातिशयानन्दं प्राप्य न पुनर्निवर्तन्त इत्यर्थ: ॥ २५ ॥
मद्याजिनामयमपि विशेषोऽस्तीत्याह –
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मन: ॥ २६ ॥
सर्वसुलभं पत्रं वा पुष्पं वा फलं वा तोयं वा यो भक्त्या मे प्रयच्छति अत्यर्थमत्प्रियत्वेन तत्प्रदानेन विना आत्मधारणमलभमानतया तदेकप्रयोजनो यो मे पत्रादिकं ददाति तस्य प्रयतात्मन: तत्प्रदानैकप्रयोजनत्वरूपशुद्धियुक्तमनस:, तत्तथाविधभक्त्युपहृतम्, अहं सर्वेश्वरो निखिलजगदुदय-विभवलयलीलाअअवाप्तसमस्तकाम: सत्यसङ्कल्पोऽनवधिकातिशयासंख्येयकल्याणगुणगण: स्वाभाविकानवधिकातिशयानन्दस्वानुभवे वर्तमानोऽपि, मनोरथपथदूरवर्ति प्रियं प्राप्यैवाश्नामि । यथोक्तं मोक्षधर्मे, या: क्रिया: संप्रयुक्तास्स्युरेकान्तगतबुद्धिभि: । ता: सर्वा: शिरसा देव: प्रतिगृह्णाति वै स्वयम् (मो.ध.३५३.६४) इति ॥ २६ ॥
यस्माज्ज्ञानिनां महात्मनां वाङ्मनसागोचरोऽयं विशेष:, तस्मात्त्वं च ज्ञानी भूत्वा उक्तलक्षणभक्तिभारावनमितात्मा आत्मीय: कीर्तनयतनार्चनप्रणामादिकं सततं कुर्वाणो लौकिकं वैदिकं च नित्यनैमित्तिकं कर्म चेत्थं कुर्वित्याह –
यत्करोषि यदश्नासि यज्जहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ २७ ॥
यद्देहयात्राशेषभूतं लौकिकं कर्म करोषि, यच्च देहधारणायाश्नासि, यच्च वैदिकं होमदानतप:प्रभृति नित्यनैमित्तिकं कर्म करोषि, तत्सर्वं मदर्पणं कुरुष्व । अर्प्यत इत्यर्पणं सर्वस्य लौकिकस्य वैदिकस्य च कर्मण: कर्तृत्वं भोक्तृत्वमाराध्यत्वं च यथा मयि समर्पितं भवति तथा कुरु । एतदुक्तं भवति – यागदानादिषु आराध्यतया प्रतीयमानानां देवादीनां कर्मकर्तुर्भोक्तु: तव च मदीयतया मत्सङ्कल्पायत्तस्वरूपस्थितिप्रवृत्तितया च मय्येव परमशेषिणि परमकर्तरि त्वां च कर्तारं भोक्तारमाराधकम्, आराध्यं च देवताजातम्, आराधनं च क्रियाजातं सर्वं समर्पय तव मन्नियाम्यतापूर्वकमच्छेषतैक-रसतामाराध्यादेस्चैतत्स्वभावगर्भतामत्यर्थप्रीतियुक्तोऽनुसंधत्स्व इति॥२७॥
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनै: ।
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ २८ ॥
एवं संन्यासाख्ययोगयुक्तमना: आत्मानं मच्छेषतामन्नियाम्यतैकरसं कर्म च सर्वं मदाराधनमनुसंदधानो लौकिकं वैदिकं च कर्म कुर्वन् शुभाशुभफलैरनन्तै: प्राचीनकर्माख्यैर्बन्ध-नैर्मत्प्राप्तिविरोधिभिस्सर्वैर्मोक्ष्यसे तैर्विमुक्तो मामेवोपैष्यसि ॥ २८ ॥ ममेमं परममतिलोकं स्वभावं शृणु ।
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रिय:।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ २९ ॥
देवतिर्यङ्मनुष्यस्थावरात्मनाअअवस्थितेषु जातितश्चाकारत: स्वभावतो ज्ञानतश्च अत्यन्तोत्कृष्टापकृष्टरूपेण वर्तमानेषु सर्वेषु भूतेषु समाश्रयणीयत्वे समोऽहम् अयं जात्याकारस्वभाव-ज्ञानादिभिर्निर्कृष्ट इति समाश्रयणे न मे द्वेष्योऽस्ति उद्वेजनीयतया न त्याज्योऽस्ति । तथा समाश्रितत्वातिरेकेण जात्यादिभिरत्यन्तोत्कृष्टोऽयमिति तद्युक्ततया समाश्रयणे न कश्चित् प्रियोऽस्ति न संग्राह्योऽस्ति । अपि तु अत्यर्थमत्प्रियत्वेन मद्भजनेन विना आत्मधारणालाभान्मद्भजनैकप्रयोजना ये मां भजन्ते, ते जात्यादिभिरुत्कृष्टा अपकृष्टा वा मत्समानगुणवद्यथासुखं मय्येव वर्तन्ते । अहमपि तेषु मदुत्कृष्टेष्विव वर्ते ॥ २९ ॥
तत्रापि –
अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्य: सम्यग्व्यवसितो हि स: ॥ ३० ॥
तत्र तत्र जातिविशेषे जातानां य: समाचार उपादेय: परिहरणीयश्च, तस्मादतिवृत्तोऽपि उक्तप्रकारेण मामनन्यभाक्भजनैकप्रयोजनो भजते चेत्, साधुरेव स: वैष्णवाग्रेसर एव स: । मन्तव्य: बहुमन्तव्य: पूर्वोक्तैस्सम इत्यर्थ: । कुत एतत्? सम्यग्व्यवसितो हि स: यतोऽस्य व्यवसाय: सुसमीचीन: भगवान्निखिलजगदेककारणभूत: परं ब्रह्म नारायणश्चराचरपतिरस्मत्स्वामी मम गुरुर्मम सुहृन्मम परमं भोग्यमिति सर्वैर्दुष्प्रापोऽयं व्यवसायस्तेन कृत: तत्कार्यं चानन्यप्रयोजनं निरन्तरं भजनं तस्यास्ति अत: साधुरेव बहुमन्तव्य: । अस्मिन् व्यवसाये, तत्कार्ये चोक्तप्रकारभजने संपन्ने सति तस्याचारव्यतिक्रम: स्वल्पवैकल्यमिति न तावताअअनादरणीय:, अपि तु बहुमन्तव्य एवेत्यर्थ: ॥ ३० ॥
ननु नाविरतो दुश्चरितान्नाशान्तो नासमाहित: । नाशन्तमानसो वाअअपि प्रज्ञानेनैनमाप्नुयात्॥ (कठ.२.२४) इत्यादिश्रुते: आचारव्यतिक्रम उत्तरोत्तरभजनोत्पत्तिप्रवाहं निरुणद्धीत्यत्राह –
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि न मे भक्त: प्रणश्यति ॥ ३१ ॥
मत्प्रियत्वकारितानन्यप्रयोजनमद्भजनेन विधूतपापतयैव समूलोन्मूलितरजस्तमोगुण: क्षिप्रं धर्मात्मा भवति क्षिप्रमेव विरोधिरहितसपरिकरमद्भजनैकमना भवति । एवंरूपभजनमेव हि धर्मस्यास्य परन्तप (३) इति उपक्रमे धर्मशब्दोदितम् । शश्वच्छान्तिं निगच्छति – शाश्वतीमपुनरावर्तिनीं मत्प्राप्तिविरोध्याचारनिवृत्तिं गच्छति । कौन्तेय त्वमेवास्मिन्नर्थे प्रतिज्ञां कुरु मद्भक्तावुपक्रान्तो विरोध्याचारमिश्रोऽपि न नश्यति अपि तु मद्भक्ति-माहात्म्येन सर्वं विरोधिजातं नाशयित्वा शाश्वतीं विरोधिनिवृत्तिमधिगम्य क्षिप्रं परिपूर्णभक्तिर्भवतीति ॥ ३१ ॥
मां हि पार्थ व्यपाश्रित्य येऽपि स्यु: पापयोनय:।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥३२॥
किं पुनर्ब्राह्मणा: पुण्या भक्ता राजर्षयस्तथा ।
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ३३ ॥
स्त्रियो वैश्या: शूद्राश्च पापयोनयोऽपि मां व्यपाश्रित्य परां गतिं यान्ति किं पुन: पुण्ययोनयो ब्राह्मणा राजर्षयश्च मद्भक्तिमास्थिता: । अतस्त्वं राजर्षिरस्थिरं तापत्रयाभिहततया असुखं चेमं लोकं प्राप्य वर्तमानो मां भजस्व ॥ ३२ – ३३ ॥
भक्तिस्वरूपमाह –
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायण: ॥ ३४ ॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ……..राजविद्याराजगुह्ययोगो नाम नवमोऽध्याय: ॥ ९ ॥
मन्मना भव मयि सर्वेश्वरेश्वरे, निखिलहेयप्रत्यनीककल्याणैकताने, सर्वज्ञे, सत्यसङ्कल्पे निखिलजगदेककारणे, परस्मिन् ब्रह्मणि, पुरुषोत्तमे, पुण्डरीकदलामलायताक्षे, स्वच्छनीलजीमूत-सङ्काशे, युगपदुदितदिनकरसहस्रसदृशतेजसि, लावण्यामृतमहोदधौ, उदारपीवरचतुर्बाहौ, अत्युज्ज्वलपीताम्बरे, अमलकिरीटमकरकुण्डलहारकेयूरकटकभूषिते, अपारकारुण्यसौशील्यसौन्दर्य-माधुर्यगाम्भीयौदार्य-वात्सल्यजलधौ, अनालोचितविशेषाशेषलोकशरण्ये सर्वस्वामिनि तैलधारावत् अविच्छेदेन निविष्टमना भव । तदेव विशिनष्टि मद्भक्त: अत्यर्थमत्प्रियत्वेन युक्तो मन्मना भवेत्यर्थ: । पुनरपि विशिनष्टि मद्याजी अनवधिकातिशयप्रिय-मदनुभवकारितमद्यजनपरो भव । यजनं नामपरिपूर्णशेषवृत्ति: । औपचारिकसांस्पर्शिकाभ्यवहारिकादिसकलभोगप्रदानरूपो हि याग: । यथा मदनुभवजनितनिर्वधिकातिशय-प्रीतिकारितमद्यजनपरो भवसि, तथा मन्मना भवेत्युक्तं भवति । पुनरपि तदेव विशिनष्टि मां नमस्कुरु । अनवधिकातिशयप्रियमदनुभव-कारितात्यर्थप्रियाशेषशेषवृत्तौ अपर्यवस्यन्मय्यन्तरात्मनि अतिमात्रप्रह्वीभावव्यवसायं कुरु । मत्परायण: अहमेव परमयनं यस्यासौ मत्परायण: मया विना आत्मधारणासंभावनया मदाश्रय इत्यर्थ: । एवमात्मानं युक्त्वा मत्परायणसेवमनवधिकातिशयप्रीत्या मदनुभवसमर्थं मन: प्राप्य मामेवैष्यसि । आत्मशब्दो ह्यत्र मनोविषय: । एवंरूपेण मनसा मां ध्यात्वा मामनुभूय मामिष्ट्वा मां नमस्कृत्य मत्परायणो मामेव प्राप्स्यसीत्यर्थ: । तदेवं लौकिकानि शरीरधारणार्थानि, वैदिकानि च नित्यनैमित्तिकानि कर्माणि मत्प्रीतये मच्छेषतैकरसो
मयैव कारित इति कुर्वन् सततं मत्कीर्तनयतननमस्कारादिकान् प्रीत्या कुर्वाणो मन्नियाम्यं निखिलजगन्मच्छेषतैकरसमिति चानुसन्धान: अत्यर्थप्रियमद्गुणगणं चानुसन्धायाहरहरुक्त-लक्षणमिदमुपासन-मुपाददानो मामेव प्राप्स्यसि ॥ ३४ ॥
॥ इति श्रीभगवद्रामानुजविरचिते श्रीमद्गीताभाष्ये नवमोऽध्याय: ॥ ९ ॥