अधिकरणसारावली
अथ तृतीयाध्याये तृतीय: पाद:
उपोद्घातम्
3.3.1 तत्त्वज्ञानानुविद्धं हिततममनघं मोक्ष्यमाणस्य वक्तुं तत्त्वे निर्धूततर्कज्वरनियतमहासन्निपातप्रलापान् । निष्पन्ने तत्त्वबोधे न किमपि विदुषा साध्यमित्युद््गृणद्भ्यो यावज्जीवानुवर्त्यं मुररिपुभजनं मुक्तिलाभाय वक्ति ।।
3.3.2 भीष्माभ्यो यातनाभ्यः पितृपथगमनावर्तनादेश्च बिभ्यत् तृष्णां कृष्णामृताब्धौ परिणयति परां यावता तावदुक्तम् । इत्थं लब्धाधिकारः परमधिकुरुते साधने यत्र साङ्गे पादद्वन्द्वे परस्मिन्तदिह बहुभिदाबर्बरं निर्ब्रवीति ।।
3.3.3 एकस्मिन्नेव पादे निपुणनयकृता न द्वयोस्तर्कणं स्यात् भेदोऽभेदश्च नैको विषय इह भवेदन्यहानप्रसङ्गात् । तस्मादस्मिन्प्रकीर्णा नयविततिरिति प्रेक्षितग्रन्थचोद्ये वेद्यावच्छिन्नविद्यानियमकृदयमित्यैदमर्थ्यं समर्थ्यम् ।।
3.3.4 आख्यावन्तं गुणानां निजगदुरुपसंहारतः पादमेतं विद्यैक्यार्थे तदस्मिन्नपवदनतया भेदचिन्ता प्रसक्ता । इत्थं शुश्रूषुशङ्कामिह शिथिलयितुं भाषितं भाष्यकारैः तद्भेदाभेदमीमांसनमिह विषयस्त्वत्र चोक्तोऽनुवृत्तः ।।
3.3.5 निस्सीमानन्दनाडिन्धमनिरुपधिकानन्तसम्पद्गुणौधे विद्याभेदैरविभज्य प्रणिधिरिह यदि प्राप्तिरप्यंशतस्स्यात्। मैवं तैरेव धर्मैस्तदितरसहितैः पूर्णकामस्य पूर्णँ प्राप्यं ब्रह्मैव नान्यत्किमपि फलमतस्तत्क्रतुन्यायसिद्धिः ।।