अधिकरणसारावली
कार्याख्यानाधिकरणम्
3.3.19 आचामेदित्यपूर्वाचमनमिह विधेः प्राणविद्यावतस्स्यात् मैवं स्मृत्यादिसिद्धेः परमनुविहिता प्राणवासस्त्वदृष्टिः । भुञ्जीतेत्यादिनीत्या विधिरपि घटते प्राप्तधात्वर्थनिष्ठः प्रागुक्ता प्राणविद्या तदिदमवसरे चिन्तितं त्वङ्गमस्याः ।।
3.3.20 आदावन्ते च वासः परिधिरभिहितो मन्यतिश्चात्र दृष्ट्यै सा चाराध्यप्रियार्था स्तुतिरिह न भवेद्गत्यलाभाभिनन्द्या । युक्तश्चापूर्वभावात् परिदधतिगिरा तद्विधानाभिसन्धिः प्राणश्चाराधनीयः परिहितवसनो युज्यते सद्भिरद्भिः ।।