अधिकरणसारावली
वेधाद्यधिकरणम्
3.3.29 युज्येरन् ब्रह्मविद्यापरिसरपठिताश्शन्न इत्य़ादिमन्त्राः तादर्थ्यात् सर्वविद्यास्विति न तदुदिताधीतिशेषत्वलिङ्गात् । नो चेदन्येऽपि तद्वत् सविधपठनतस्सन्तु शुक्रं प्रविध्ये- त्येवम्प्रायास्तदर्था न च घटत इदं लिङ्गतो दुर्बलत्वात् ।।