अधिकरणसारावली
सर्ववेदान्तप्रत्ययाधिकरणम्
3.3.6 भेदश्शब्दान्तराद्यैर्विधिषु नियमितः कर्मकाण्डे द्वितीये संयोगाद्यैक्यतोऽन्यस्समुदितनियतात् सैव विद्यासु नीतिः । आदौ तेनैव शाखान्तरनयमुदितं चोदनादेरभेदात् श्रुत्यैवाक्षिप्य भूयः प्रतिसमधित तं भेदकान्यार्थतोक्त्या ।।
3.3.7 शाखासु प्रक्रियान्या श्रवणमपि पुनर्दृष्टमत्राविशेषं विद्याभेदस्ततस्स्यादिति न तदुभयं युक्तमध्येतृभेदात् । तेषामेवेति वाक्यात् क्वचिदुपजनिता भेदशङ्का त्वयुक्ता स्वाध्याये ब्रह्मविद्यापदमिह हि भवेत्तद्व्रतेनान्वयोक्तेः ।।
3.3.8 रूपैक्यादैक्यसिद्धौ किमितरदुपसंहार्यमन्यो गुणश्चेत् भेदो न स्याद्विकल्पं तदिह किमफला तेन चिन्तेति चेन्न । वेद्याकारैक्यमैक्यं दिशति तदधिकं किञ्चिदाकृष्यतेऽङ्गं कर्मण्यप्येवमेव ह्युपहृतिविषयो भेदकांशातिरिक्तः ।।