अधिकरणसारावली
संभृत्यधिकरणम्
3.3.25 सम्भृत्यादिर्गुणौघः प्रकरणपठनाभावतस्सर्वविद्या- स्वन्वीयेतेति चेन्न क्वचिदगतिकतो लिङ्गतस्स्थापितत्वात् । अल्पस्थानासु विद्यास्वघटितवपुषस्स्वोचितस्थानवृत्तेः द्युव्याप्तेरेकमन्त्रे सहपठनवशात् तत्समस्थानिनोऽन्ये ।।