आरम्भणाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य प्रथम पादः

आरम्भणाधिकरणम्

   नविलक्षणत्वाधिकरणे कारणस्य ब्रह्मणः कार्यस्य जगतो वैलक्षण्येऽपि साङ्ख्यम् प्रत्यनन्यत्वम् साधितम्। वैलक्षण्यस्य  भेदव्याप्तत्वात्। अत एव कुण्डलहिरण्ययोरप्यनन्यत्वमसिद्धम्। सर्वत्र कार्यकारणयोर्बुद्धिशब्दादिभिर्भेदावश्यम् भावादिति वदतो वैशेषिकस्य मतमास्थायानन्यत्वमाक्षिप्येदानीम् समाधीयत इति सङ्गतिः।

अत्र उपादेयमुपादानादन्यदेव। घटेनोदकमाह्रियते मृत्पिण्डेन घटादिकम् निर्मीयत इति कार्यभेदात्, घटस्य दण्डचक्रादिकम् कारणम् मृत्पिण्डस्य जलसम्योजनमर्दनादीति कारणभेदात्, तथा घटः पृथुबुध्नो-दराकारः मृत्पिण्डस्त्वतदाकार इत्याकारभेदात्, तथा पूर्वकालम् कारणम् अपरकालम् कार्यमिति कालभेदात्, तथा बहवस्तन्तव एकः पट इति सञ्ज्ञासङ्ख्याभेदात्, सत्यामेव मृदि घटो नष्ट इति प्रतीतेः कार्यकार-णयोर्बुद्धिशब्दादिभिर्भेदस्य दर्शनाच्च उपादानादन्यदेवोपादेयम्। इतरधा कारकव्यापारवैयर्थ्यप्रसङ्गादिति कार्यकारणभेदवादिमतावलम्बनेन पूर्वपक्षे प्राप्त उच्यते-

तदनन्यत्वमारम्भणशब्दादिभ्यः१५

तस्मात्परमकारणाद् ब्रह्मण जगतोऽनन्यत्वम् वाचारम्भणशब्दा- दिभिरवगम्यते। आदिशब्देन *सदेव सोम्येदमग्र आसीत्*(छान्.६-२-१) *येनाश्रुतम् श्रुतम् भवति*(छान्.६-१-३) *एकमेवाद्वितीयमि*(छान्.६-२-१) त्यादिकम् गृह्यते।

ननु सम्स्थानस्य असत उत्पत्तौ असत्कार्यवादप्रसङ्ग इति चेत्, असत्कार्यवादिमतेऽपि उत्पत्तेरुत्पत्तिमत्त्वेऽनवस्था स्यात् उत्पत्तिराहित्ये सत्कार्यवादप्रसङ्गः। अस्माकन्तु अवस्थानाम् पृथक्प्रतिपत्तिकार्य-योगानर्हत्वात् पृथगुत्पत्त्यादिकम् नापोक्षितम्। अतो घटस्योत्पत्तिर्नाम घटत्वावस्थासम्बन्ध एव न त्वसतस्सत्वरूपम्। अत उपादेयमुपादाना-दन्यदेव। तथा च उपादाने ज्ञाते उपादेयस्य ज्ञातता भवतीति भावः।

भावे चोपलब्धेः..१६ 

हिरण्यकुण्डलादिकार्यभावेऽपि *कुण्डलायेदम् हिरण्यमि*ति प्रत्यभिज्ञारूपोपलब्धेः सत्वादेवेत्यर्थः ॥

सत्वाच्चापरस्य ..१७

अपरस्य कार्यस्य कारणे तादात्म्येन सम्बन्धेन सत्वाच्चोपादानाद-नन्यदुपादेयम्। *सदेव सोम्येदमग्र आसीदि*(छान्.६-२-1)ति कार्ये नष्टेऽपि कारणे कार्यतादात्म्यप्रतीतेरित्यर्थः। *भावे चोपलब्धेः*(ब्र.सू.२-१-१६) इति सूत्रे कार्यदशायाम् कार्ये कारणतादात्म्यप्रतीतिः प्रमाण-तया उपन्यस्ता। उत्तरसूत्रे तु कार्यनाशानन्तरमपि कारणे कार्यभेदप्रतीतिः प्रमामतयोपन्यस्तेति विशेषः।

असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण

वाक्यशेषाद्युक्तेश्शब्दान्तराच्च ..१८   

*असद्वा इदमग्र आसीत्*(तै.आन.७-१), इदम् वा अग्रे नैव किञ्च-नासीदि*(तै.यजुः अष्ट.२-२-९)ति जगतस्सृष्टेः प्रागसत्त्वव्यपदेशात् सृष्टेः प्रागपि सता उपादानेनोपादेयस्यैक्यम् नोपपद्यत इति चेन्न। नामरूप-विभागलक्षणधर्मान्तराभावमादायासद्व्यपदेशोपपत्तेः। जगतस्सत्त्वम् नामरूपभाक्त्वम्। असत्वम् नाम तद्विरोधिनी सूक्ष्मावस्था। न तु सर्वात्मना असत्त्वम्। कुतोऽवगम्यत इति चेत् – वाक्यशेषात् *इदम् वा अग्रे नैव किञ्च नासीदि*(तै.यजुः अष्ट.२-२-९)त्यत्र *तदसदेव सन्मनो-ऽकुरुते*(तै.यजुः अष्ट.२-२-९)ति वाक्यशेषे मनस्स्रष्टृत्वप्रतिपादनात्। युक्तेश्च – घटस्य सत्त्वम् नाम घटत्वावस्थासम्बन्धः। असत्त्वम् नाम तद्विरोधिकपालत्वचूर्णत्वावस्थासम्बन्धः। एवम् तर्हि तद्व्यतिरिक्तो  घटाभावो नाम कश्चिदुपलभ्यते। शब्दान्तराच्च – *कुतस्तु सोम्यैवम् स्यादिति होवाचे*(छान्.६-२-२)ति तुच्छत्वम् प्रतिक्षिप्य *सदेव सोम्येदमग्र आसीदि*(छान्.६-२-१)ति स्थापितत्वात्, *तद्धेदम् तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्याम् व्याक्रियते*(बृह.३-४-७)ति सुस्पष्टमभिधानाच्च।

पटवच्च..१९  

यथा तन्तवः व्यतिषङ्गविशेषाभाजः पट इति नामरूपकार्यादिकम् भजन्ते तद्वद् ब्रह्मापि ॥

यथा च प्राणादिः..२०

यथा वायुरेक एव शरीरे वृत्तिविशेषम् भजमानः प्राणापानादिनाम-रूपकार्यान्तराणि भजते, तद्वदेकमेव ब्रह्म विचित्रस्थिरत्रसरूपम् जगद्भव-तीति परमकारणात् परस्माद्ब्रह्मणोऽनन्यत्वम् जगतोऽप्युपगन्तव्यम् ॥

इति आरम्भणाधिकरणम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.