श्रीभाष्यम् 02-01-06 आरम्भणाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये आरम्भणाधिकरणम्॥६॥

(अधिकरणार्थः कार्यकारणभावकृतं जगद्ब्रह्मणोः अनन्यत्वम्)

१५३. तदनन्यत्वमारम्भणशब्दादिभ्य: १५

(सङ्गतिप्रतिपादनम)

असदितिचेन्न प्रतिषेधमात्रत्वात् (ब्र.सू.२.१.७) इत्यादिषु कारणभूताद्ब्रह्मण: कार्यभूतस्य जगतोऽनन्यत्वमभ्युपगम्य ब्रह्मणो जगत्कारणत्वमुपपादितम्, इदानीं तदेवानन्यत्वमाक्षिप्य समाधीयते ॥

(कार्यकारणयोरनन्यत्वे आक्षेपः)

(तत्रादौ वैशेषिकाक्षेपः)

तत्र काणादा: प्राहु: – न कारणात्कार्यस्यानन्यत्वं सम्भवति, विलक्षणबुद्धिबोध्यत्वात्, न खलु तन्तुपटमृत्पिण्डघटादिषु कार्यकारणविषया बुद्धिरेकरूपा। शब्दभेदाच्च, न हि तन्तव: पट इत्युच्यन्ते, पटो वा तन्तव इति। कार्यभेदाच्च – न हि मृत्पिण्डेनोदकमाह्रियते घटेन वा कुड्यं निर्मीयते। कालभेदाच्च, पूर्वकालं च कारणम्, अपरकालं च कार्यम्। आकारभेदाच्च – पिण्डाकारं कारणम्, कार्यं च पृथुबुध्नोदराकारम्; तथा सत्यामेव मृदि घटो नष्ट इति व्यवह्रियते । सङ्ख्याभेदश्च दृश्यते – बहवस्तन्तव:, एकश्च पट:। कारकव्यापारवैयर्थ्यं च  – कारणमेव चेत्कार्यं किं कारकव्यापारसाध्यं स्यात्। सत्यपि कार्ये कार्योपयोगितया कारकव्यापारेण भवितव्यं चेत् – सर्वदा कारकव्यापारेण नोपरन्तव्यम्। सर्वस्य सर्वदा सत्त्वेन नित्यानित्यविभागश्च न स्यात्। अथ कार्यं सदेव पूर्वमनभिव्यक्तं कारकव्यापारेणाभिव्यज्यते, अत:कारकव्यापारार्थवत्त्वं, नित्यानित्यविभागश्चोच्यते; तदसत्, अभिव्यक्ते: अभिव्यक्त्यन्तरापेक्षत्वे अनवस्थानादनपेक्षत्वे कार्यस्य नित्योपलब्धिप्रसङ्गात् तदुत्पत्त्यभ्युपगमे चासत्कार्यवादप्रसङ्गात् ॥

(वैशेषिकान्प्रति सत्कार्यवादिनां सांख्यानां प्रत्यवस्थानम्)

किञ्च कारकव्यापारस्याभिव्यञ्जकत्वे घटार्थेन कारकव्यापारेण करकादेरप्यभिव्यक्ति: प्रसज्यते, सम्प्रतिपन्नाभिव्यञ्जकभावेषु दीपादिष्वभिव्यङ्ग्यविशेषनियमादर्शनात्; न हि घटार्थमारोपित: प्रदीप: करकादीन्नाभिव्यनक्ति। अतोऽसत: कार्यस्योत्पत्तिहेतुत्वेनैव कारकव्यापारार्थवत्त्वं, अतश्च सत्कार्यवादासिद्धि:।

न च नियतकारणोपादानं सत एव कार्यत्वं साधयति, कारणशक्तिनियमादेव तदुपपत्ते: ॥

(असत्कार्यवादिनां प्रतिकारकव्यापारानुपपत्तिचोदना-परिहारौ)

नन्वसत्कार्यवादिनोऽपि कारकव्यापारो नोपपद्यते; प्रागुत्पत्ते: कार्यस्यासत्त्वात्। कार्यादन्यत्र कारकव्यापारेण भवितव्यम्; तत्रान्यत्वाविशेषात्तन्तुगतकारकव्यापारेण घटोत्पत्तिरपि प्रसज्यते  ॥

नैवम् यत्कार्योत्पादनशक्तं यत्कारणम्, तद्गतकारकव्यापारेण तत्कार्योत्पत्तिसिद्धे:।

(अद्वैतिसम्मतकार्य-कारणानन्यत्वरीत्या उत्तरम्)

अत्राहु: – कारणादनन्यत्कार्यम्; न हि परमार्थत: कारणव्यतिरिक्तं कार्यं नाम वस्त्वस्ति, अविद्यानिबन्धनत्वात्सकलकार्यतद्व्यवहारयो:। अतो यथा कारणभूतान्मृद्द्रव्याद् घटादिषु विकारेषूपलभ्यमानाद्व्यतिरिक्तं घटशरावादिकार्यं व्यवहारमात्रालम्बनं मिथ्या; कारणभूतं मृद्द्रव्यमेव सत्यम्; तथा निर्विशेषसन्मात्रात्कारणभूताद्ब्रह्मणोऽन्योऽहङ्कारादिव्यवहारालम्बन: कृत्स्न: प्रपञ्चो मिथ्या; कारणभूतं सन्मात्रं ब्रह्मैव सत्यम्। तस्मात्कारणव्यतिरिक्तं कार्यं नास्तीति कारणादनन्यत्कार्यम् ॥

(उक्तदृष्टान्ते साध्यवैकल्यशङ्का-तत्परिहारौ)

न च वाच्यं – शुक्तिकारजतादीनामिव घटादिकार्याणामसत्यत्वाप्रसिद्धे: दृष्टान्तानुपपत्तिः इति; यतस्तत्रापि युक्त्या मृद्द्रव्यमात्रमेव सत्यतया व्यवस्थाप्यते; तदतिरिक्तं तु युक्त्या बाद्ध्यते। का पुनरत्र युक्ति:? मृद्द्रव्यमात्रस्यानुवर्तमानत्वम्, तदतिरिक्तस्य च व्यावर्तमानत्वम्। रज्जुसर्पादिषु ह्यनुवर्तमानस्याधिष्ठानभूतस्य रज्ज्वादेस्सत्यता, व्यावर्तमानस्य च सर्पभूदलनाम्बुधारादेरसत्यता दृष्टा, तथाऽनुवर्तमानमधिष्ठानभूतं मृद्द्व्यमेव सत्यम्, व्यावर्तमानास्तु घटशरावादयोऽसत्यभूता: ॥

(कार्यस्यानिर्वचनीयत्वम्, तस्मान्मिथ्यात्वं च)

किञ्च सत आत्मनो विनाशाभावादसतश्च शशविषाणादेरुपलब्ध्यभावात् उपलब्धिविनाशयोगिकार्यं सदसद्भ्यामनिर्वचनीयमिति गम्यते। अनिर्वचनीयं च शुक्तिकारकजतादिवन्मृषैव। तस्य चानिर्वचनीयत्वं प्रतीतिबाधाभ्यां सिद्धम् ॥

(कार्यस्य दुर्निरूपत्वात् असत्यत्वम्)

किञ्च – कार्यमुत्पादयन्मृदादि कारणद्रव्यं किमविकृतमेव कार्यमुत्पादयति, उत कञ्चन विशेषमापन्नम् ॥

न तावदविकृतमुत्पादयति, सर्वदोत्पादकत्वप्रसङ्गात्। नापि विशेषान्तरमापन्नम्, विशेषान्तरापत्तेरपि विशेषान्तरापत्तिपूर्वकत्वेन भवितव्यम्, तस्या अपि तथेत्यनवस्थानात्।

अविकृतमेव देशकालनिमित्तविशेषसम्बद्धं कार्यमुत्पादयतीति चेन्न। देशादिविशेषसम्बन्धोऽपि ह्यविकृतस्य विशेषान्तरमापन्नस्य च पूर्ववन्न सम्भवति ॥

(कारणात्कार्योत्पत्तेः निर्बाधप्रतीतितः सिद्धिः, तन्निरासश्च)

न च वाच्यं मृत्सुवर्णदुग्धादिभ्यो घटरुचकदध्यादीनामुत्पत्तिर्दृश्यते; शुक्तिकारजतादिवत् देशकालादिप्रतिपन्नोपाधौ बाधश्च न दृश्यते, अत: प्रतीतिशरणानां कारणात्कार्योत्पत्तिः अवश्याश्रयणीयेति; विकल्पासहत्वात् – किं हेमादिमात्रमेव स्वस्तिकादेरारम्भकम्, उत रुचकादि, अथ रुचकाद्याश्रयो हेमादि: ॥

(विकल्पीयाद्यकल्पस्य द्रव्यमात्रकारणत्वस्य निरासः)

न तावत्, हेमादिमात्रमारम्भकम्; हेमव्यतिरिक्तस्य कार्यस्याभावात्, स्वात्मानं प्रत्यात्मन आरम्भकत्वासम्भवाच्च। हेमव्यतिरिक्तं स्वस्तिकं दृश्यत इति चेत् – न हेमव्यतिरिक्तं तत्, हेमप्रत्यभिज्ञानात् तदतिरिक्तवस्त्वन्तरानुपलब्धेश्च। बुद्धिशब्दान्तरादिभिः वस्त्वन्तरत्वं साधितमिति चेन्न, अनिरूपितवस्त्ववलम्बनानां बुद्धिशब्दान्तरादीनां  शुक्तिकारजतबुद्धिशब्दादिवद् भ्रान्तिमूलत्वेन वस्त्वन्तरसद्भावस्यासाधकत्वात् ॥

(द्वितीय-तृतीयकल्पयोः आकारमात्र-आकारविशिष्टद्रव्यकारणत्वयोः दूषणम्)

नापि रुचकादि स्वस्तिकादेरारम्भकम्, स्वस्तिके हि रुचकं पट इव तन्तवो भवतापि नोपलभ्यते। नापि रुचकाश्रयभूतं हेम, रुचकाश्रयाकारेण हेम्नस्स्वस्तिकेऽनुपलब्धे: ।

(ब्रह्मातिरिक्तमिथ्यात्वदृढीकरणम्)

अतो मृदादिकारणातिरिक्तस्य कार्यस्यासत्यत्वदर्शनाद्ब्रह्मव्यतिरिक्तं कृत्स्नं जगत्कार्यत्वेन मिथ्याभूतम् । तदिदं ब्रह्मव्यतिरिक्तमिथ्यात्वसुखप्रतिपत्तये काल्पनिकमृदादिसत्यत्वमाश्रित्य कार्यस्यासत्यत्वं प्रतिपादितम्। परमार्थतस्तु मृत्सुवर्णादिकारणमपि घटरुचकादिकार्यवन्मिथ्याभूतम्, ब्रह्मकार्यत्वाविशेषात् ॥

(उक्तार्थस्य श्रुतिकण्ठोक्तितः सिद्धिः)

            ऐतदात्म्यमिदं सर्वं, तत्सत्यम् (छा.६.८.७) नेह नानास्ति किञ्चन (कठ.४.११) मृत्योस्स मृत्युमाप्नोति इह नानेव पश्यति (कठ.४.१०) यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति यत्रत्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् (बृ.४.४.१४) इन्द्रो मायाभि: पुरुरूप ईयते (बृ.४.५.१९) इत्येवमादिभिश्श्रुतिभिश्च ब्रह्मव्यतिरिक्तस्य मिथ्यात्वमवगम्यते ॥

(ब्रह्मातिरिक्तस्य मिथ्यात्वे प्रत्यक्षविरोधाशङ्का-परिहारौ)

न च आगमावगतार्थस्य प्रत्यक्षविरोधश्शङकनीय:; यथोक्तप्रकारेण कार्यस्य सर्वस्य मिथ्यात्वावगमात्, प्रत्यक्षस्य सन्मात्रविषयत्वाच्च, विरोधे सत्यप्यसम्भावितदोषस्य चरमभाविनस्स्वरूपसद्भावादौ प्रत्यक्षाद्यपेक्षत्वेऽपि प्रमितौ निराकाङ्क्षस्य निरवकाशस्य शास्त्रस्य बलीयस्त्वात्। अत: कारणभूताद्ब्रह्मणोऽन्यत्सर्वं मिथ्या ॥

(जीवमिथ्यात्वशङ्का-परिहारौ)

न च प्रपञ्चमिथ्यात्वेन जीवमिथ्यात्वमाशङ्कनीयम्, ब्रह्मण एव जीवभावात् । ब्रह्मैव हि सर्वशरीरेषु जीवभावमनुभवति – अनेन जीवेनाऽत्मनाऽनुप्रविश्य (छा.६.३.२) एको देवस्सर्वभूतेषु गूढ: (श्वे.६.१९) एको देवो बहुधा निविष्ट: (यजु.आरण.३.१२.१) एष सर्वेषु भूतेषु गूढोत्मा प्रकाशते (कठ.३.१२) नान्योऽतोऽस्ति द्रष्टा (बृ.५.७.२३) इत्येवमादिभ्य: ॥

(व्यवस्थानुपपत्तिः)

नन्वेकमेव ब्रह्म सर्वशरीरेषु जीवभावमनुभवति चेत् – पादे मे वेदना शिरसि मे सुखम् इतिवत्सर्वशरीरेषु सुखदु:खप्रतिसन्धानं स्यात्; जीवेश्वरबद्धमुक्त-शिष्याचार्यज्ञत्वाज्ञत्वादिव्यवस्था च न स्यात् ॥

(व्यवस्थासिद्ध्यौपयिकतया)

अत्र केचिदद्वितीयत्वं ब्रह्मणोऽभ्युपयन्त एवैवं समादधते – एकस्यैव ब्रह्मण: प्रतिबिम्बभूतानां जीवानां सुखित्वदु:खित्वादय एकस्यैव मुखस्य प्रतिबिम्बानां मणिकृपाणदर्पणादिषूपलभ्यमानानां अल्पत्वमहत्त्वमलिनत्वामलत्वादिवत् तत्तदुपाधिवशात् व्यवस्थाप्यन्ते। ननु अनेन जीवेनाऽत्मनाऽनुप्रविश्य (छा.६.३.२) इत्यादिश्रुतेर्न जीवा ब्रह्मणो भिद्यन्त इत्युक्तम्; सत्यम्, परमार्थत:; काल्पनिकं तु भेदमाश्रित्येयं व्यवस्थोच्यते। कस्य पुन: कल्पना; न तावद्ब्रह्मण:, तस्य परिशुद्धज्ञानात्मन: कल्पनाशून्यत्वात्। नापि जीवानाम्, इतरेतराश्रयत्वप्रसङ्गात् – कल्पनाधीनो हि जीवभाव:, जीवाश्रया च कल्पना – इति। नैतदेवम्, अविद्याजीवभावयो: बीजाङ्कुरन्यायेनानादित्वात् ॥

किञ्च – प्रासादनिगरणादिवदनुपपन्नतैकवेषायामवस्तुभूतायामविद्यायां नेतरेतराश्रयत्वादयो वस्तुदोषा अनव     प्तिमावहन्ति। वस्तुतो ब्रह्माव्यतिरिक्तानां जीवानां स्वतो विशुद्धत्वेऽपि कृपाणादिगतमुखप्रतिबिम्बश्यामतादि-वदौपाधिकाशुद्धिसम्भवादविद्याश्रयत्वोपपत्ते: काल्पनिकत्व-उपपत्ति:। प्रतिबिम्बगतश्यामतादिवज्जीवगताशुद्धिरपि भ्रान्तिरेव, अन्यथाऽनिर्मोक्ष-प्रसङ्गात्। जीवानां भ्रमस्य प्रवाहानादित्वान्न तद्धेतुरन्वेषणीय: – इति॥

(उक्तस्य वादस्य, मुख्याद्वैतिनां दूषणम्)

तदेतदविदिताद्वैतयाथात्म्यानां भेदवादश्रद्धालुजनबहुमानावलोकनलिप्साविजृम्भितम्। तथाहि –

(जीवगताकारविकल्पतो दूषणम्)

जीवस्याकल्पितस्वाभाविकरूपेणाविद्याश्रयत्वे ब्रह्मण एवाविद्याश्रयत्वमुक्तं स्यात्। तदतिरिक्तेन तस्मिन्कल्पितेनाकारेणाविद्याश्रयत्वे जडस्याविद्याश्रयत्वमुक्तं स्यात्। न खल्वद्वैतवादिन: तदुभयव्यतिरिक्तमाकारमभ्युपगच्छन्ति  ॥

कल्पिताकारविशिष्टेन स्वरूपेणैव अविद्याश्रयत्वमितिचेत् – तन्न, स्वरूपस्याखण्डैकरसस्य अविद्यामन्तरेण विशिष्टरूपत्वासिद्धे;, अविद्याश्रयाकार एव हि निरूप्यते।

(अविद्याविनाशाविनाशकल्पतो दूषणम्)

किञ्च बन्धमोक्षादिव्यवस्थासिद्ध्यर्थं हि जीवाज्ञानवादाश्रयणम्, सा तु व्यवस्था जीवाज्ञानपक्षेऽपि न सिद्ध्यति। अविद्याविनाश एव हि मोक्ष:। तत्रैकस्मिन्मुक्ते अविद्याविनाशादितरेऽपि विमुच्येरन्  ॥

अन्यस्यामुक्तत्वादविद्या तिष्ठतीति चेत् – तर्ह्येकस्याप्यमुक्तिस्स्यात्, अविद्याया अविनष्टत्वात् ॥

(अविद्याबहुत्वपक्षानुवादतो दूषणम्)

प्रतिजीवमविद्याभेद: कल्प्यते, तत्र यस्याविद्या विनष्टा, स मोक्ष्यते, यस्य  त्वनष्टा, स भन्त्स्यत इति चेत् – तन्न, प्रतिजीवमिति जीवभेदमाश्रित्य ब्रूषे, स जीवभेद: किं स्वाभाविक:, उताविद्याकल्पित: ॥

न तावत्स्वाभाविक:, अनभ्युपगमात्; भेदसिद्ध्यर्थस्य चाविद्याकल्पनस्य व्यर्थत्वात्।

(अविद्यायाः ब्रह्म-जीवगतत्वादिकल्पतो दूषणम्)

अथाविद्याकल्पित:, तत्रेयं जीवभेदकल्पिकाऽविद्या किं ब्रह्मण:, उत जीवानाम्। ब्रह्मण इति चेत् – आगतोऽसि मदीयं मार्गम्। अथ जीवानाम्। किमस्या जीवभेद  प्तिसिद्ध्यर्थतां विस्मरसि?

(जीवाश्रयाविद्यातः बद्धमुक्तादिव्यवस्थासिद्धिदूषणम्)

अथ प्रतिजीवं बद्धमुक्तव्यवस्थासिद्ध्यर्थं या अविद्या: कल्प्यन्ते, ताभिरेव जीवभेदोऽपीति मनुषे, जीवभेदसिद्धौ तास्सिद्ध्यन्ति, तासु सिद्धासु जीवभेदसिद्धिरितीतरेतराश्रयत्वम्  ॥

न चात्र बीजाङ्कुरन्यायस्सिध्यति बीजाङ्कुरेषु ह्यन्यदन्यद्बीजमन्यस्यान्यस्याङ्कुरस्य उत्पादकम् । इह तु याभिरविद्याभिर्ये जीवा: कल्प्यन्ते, तानेवाश्रित्य तासां सिद्धिरित्यशङ्कनीयता ॥

(प्रवाहानादित्वतः दोषनिवारणशङ्का-तन्निरासौ)

अथ बीजाङ्कुरन्यायेन पूर्वपूर्वजीवाश्रयाभिरविद्याभिरुत्तरोत्तरजीवकल्पनां मन्यसे, तथा सति जीवानां भङ्गुरत्वमकृताभ्यागमकृतविप्रणाशादिप्रसङ्गश्च।

अत एव ब्रह्मण: पूर्वपूर्वजीवाश्रयाभिरविद्याभिरुत्तरोत्तरजीवभावकल्पनमित्यपि निरस्तम्। अविद्याप्रवाहेऽभ्युपगम्यमाने तत्कल्पितजीवभावस्यापि तद्वत्प्रवाहानादिता स्यात्, न ध्रुवरूपता। आमोक्षाच्च जीवस्य ध्रुवत्वमिष्टं न सिध्येत् ॥

(दुर्घटत्वतः सर्वदोषाप्रसक्तिशङ्का – तन्निरासौ)

यच्चोक्तमविद्याया अवस्तुरूपत्वेनानुपपन्नतैकवेषाया नेतरेताश्रयत्वादयो वस्तुदोषा अनव     प्तिमावहन्तीति, तथा सति मुक्तान् परं च ब्रह्माश्रयेदविद्या।

शुद्धविद्यास्वरूपत्वादशुद्धिरूपा न तत्र प्रसजतीति चेत् – किमुपपत्त्यनुवर्तिन्यविद्या। एवं तर्ह्युक्ताभि: उपपत्तिभिर्जीवानपि नाश्रयेत् ॥

(मोक्षानुपपत्त्या दूषणम्)

किञ्च जीवाश्रयाया अविद्यायास्तत्त्वज्ञानोदयान्नाशे सति जीवो नश्येद्वा? नवा?

यदि नश्येत्, स्वरूपोच्छित्तिलक्षणो मोक्षस्स्यात्; नो चेदविद्यानाशेऽप्यनिर्मोक्ष:, ब्रह्मस्वरूपव्यतिरिक्तजीवत्वावस्थानात् ॥

(व्यवस्थोपपत्त्यै निदर्शितानां दृष्टान्तानामालोचनतो दूषणम्)

            यच्चोक्तं – मणिकृपाणदर्पणादिषूपलभ्यमानमुखमलिनत्वविमलत्वादि-वच्छुद्ध्यशुद्ध्यादि-व्यवस्थोपपत्ति: इति ॥

तत्रेदं विमर्शनीयम् – अल्पत्वमलिनत्वादय औपाधिका दोषा: कदा नश्येयुरिति, कृपाणाद्युपाध्यपगम इति चेत्- किं तदाऽल्पत्वाद्याश्रय: प्रतिबिम्बं तिष्ठति वा, न वा, तिष्ठति चेत् – तत्स्थानीयस्य जीवस्यापि स्थितत्वादनिर्मोक्षप्रसङ्ग:। नश्यति चेत् – तद्वदेव जीवनाशात्स्वरूपोच्छित्तिलक्षणो मोक्षस्स्यात् ॥

(दोषोच्छेदार्थं दोषप्रतिभासस्यावश्यकता, दृष्टान्तानुपपत्तिः)

किञ्च – यस्य ह्यपुरुषार्थरूपदोषप्रतिभास:, तस्य तदुच्छेद: पुरुषार्थ:; तत्र किमौपाधिकदोषप्रतिभासो बिम्बस्थानीयस्य ब्रह्मण:, उत प्रतिबिम्बस्थानीयस्य जीवस्य, उतान्यस्य कस्यचित्; आद्ययो: कल्पयोर्दृष्टान्तोऽयं न सङ्गच्छते, मुखस्य मुखप्रतिबिम्बस्य चाल्पत्वादिदोषप्रतिभासशून्यत्वात्, न हि मुखं तत्प्रतिबिम्बं वा चेतयते, ब्रह्मणो दोषप्रतिभासे ब्रह्माविद्याप्रसङ्गश्च। तृतीयोऽपि कल्पो न कल्पते, जीवब्रह्मव्यतिरिक्तस्य द्रष्टुरभावात् ॥

(अविद्याकार्यस्य भ्रमस्य आश्रयचिन्ता)

किञ्च अविद्याकल्प्यस्य जीवस्य कल्पक: क इति निरूपणीयम् । न तावदविद्या, अचेतनत्वात्, नापि जीव:, आत्माश्रयदोषप्रसङ्गात्, शुक्तिकारजतादिवदविद्याकल्प्यत्वाच्च जीवभावस्य। ब्रह्मैव कल्पकमिति चेत् – ब्रह्माज्ञानमेवायातम्। किञ्च ब्रह्माज्ञानानभ्युपगमे किं ब्रह्म जीवान्पश्यति वा? न वा? न पश्यति चेत् – ईक्षापूर्विका विचित्रसृष्टिर्नामरूपव्याकरणमित्यादि ब्रह्मणो न स्यात् । अथ पश्यति, अखण्डैकरसं ब्रह्म नाविद्यामन्तरेण जीवान्पश्यतीति ब्रह्माज्ञानप्रसङ्ग: ॥

(मायाविद्ययोः विभागवादस्य निरासः)

अतएव मायाविद्याविभागवादोऽपि निरस्त:। अज्ञानमन्तरेण हि मायिनोऽपि ब्रह्मणो जीवदर्शित्वं न स्यात्। न च मायावी परानदृष्ट्वा मोहयितुमलम्। नापि माया मायाविनो दर्शनसाधनम्, दृष्टेषु परेषु तन्मोहनसाधनमात्रत्वात्तस्या:। अथ ब्रह्मणो माया तस्य जीवदर्शित्वं कुर्वती जीवमोहनस्य हेतुरिति मन्यसे, तर्हि परिशुद्धस्याखण्डैकरसस्वप्रकाशस्य ब्रह्मण: परदर्शनं कुर्वती माया मायापरपर्याया अविद्यैव स्यात् ॥

(विपरीतदर्शन-मिथ्यात्वदर्शनहेतुत्वाभ्यां तद्विभागशङ्का-परिहारौ)

अथ मतम् – विपरीतदर्शनहेतुरविद्या। माया तु मिथ्याभूतं ब्रह्मव्यतिरिक्तं मिथ्यात्वेन दर्शयन्ती न ब्रह्मणो विपरीतदर्शनहेतु:। अतस्तस्या नाविद्यात्वमिति ॥

नैवम् – चन्द्रैकत्वे ज्ञायमाने द्विचन्द्रदर्शनहेतोरप्यविद्यात्वात्। यदि च ब्रह्म मिथ्यात्वेनैव स्वव्यतिरिक्तं जानाति, न तर्हि तन्मोहयति। नह्यनुन्मत्तो मिथ्यात्वेन ज्ञातान्मोहयितुमीहते।

(विधान्तरेण मायाऽविद्ययोर्वैषम्यं, तन्निरासश्च)

अथापुरुषार्थापरमार्थदर्शनहेतुरिवद्या, माया तु ब्रह्मणो नापुरुषार्थदर्शनहेतु:; अतोऽस्या नाविद्यात्वमिति मतम् ॥

तन्न, द्विचन्द्रज्ञानस्य दु:खहेतुत्वाभावेनापुरुषार्थत्वाभावेऽपि तद्धेतुरविद्यैव तन्निरसने च प्रयस्यन्ति। यदि च नापुरुषार्थदर्शनकरी माया, तर्ह्यनुच्छेद्यतया नित्या ब्रह्मस्वरूपानुबन्धिनी स्यात्। अस्तु को दोष इति चेत् – द्वैतदर्शनमेव दोष:। यत्र हि द्वैतिमव भवतियत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्। (बृ.४.४.१४) इत्याद्यद्वैतश्रुतय: प्रकुप्येयु:। परमार्थविषया अद्वैतश्रुतय:, मायायास्त्वपरमार्थत्वादविरोध इति चेत् – अपरिच्छिन्नानन्दैकस्वरूपस्य ब्रह्मणोऽपरमार्थभूतमायादर्शनं तद्वत्ता चाविद्यामन्तरेण नोपपद्यते ॥

(मायया ब्रह्मणः प्रयोजनाभावः)

किञ्च अपरमार्थभूतया नित्यया मायया किं प्रयोजनं ब्रह्मण:। जीवमोहनमितिचेत् – अपुरुषार्थेन मोहनेन किं प्रयोजनम् । क्रीडेति चेत् – अपरिच्छन्नानन्दस्य किं क्रीडया। परिपूर्णभोगानामेव क्रीडा पुरुषार्थत्वेन लोके दृष्टेति चेत् – नैवमिहोपपद्यते; नह्यपरमार्थभूतै: क्रीडोपकरणैरपरमार्थतया प्रतिभासमानैर्निष्पन्नयाऽपरमार्थभूतया क्रीडयाऽपरमार्थभूतेन च तत्प्रतिभासेनानुन्मत्तानां क्रीडारसो निष्पद्यते।

(आश्रयविभागानुपपत्त्या मायाऽविद्ययोर्विभागाभावः)

(ब्रह्मण एवाविद्याश्रयता च)

मायाश्रयतयाऽभिमतब्रह्मव्यतिरेकेणाविद्याश्रयस्य जीवस्य कल्पनासम्भवश्च पूर्ववदेव द्रष्टव्य:। अतो ब्रह्मैवानाद्यविद्याशबलं स्वगतनानात्वं पश्यतीत्यद्वितीयत्वं ब्रह्मणोऽभ्युपयद्भिरभ्युपेत्यम्।

(व्यवस्थानुपपत्तेः अभ्युपगमपूर्वकं परिहारः)

यत्तु बन्धमोक्षव्यवस्था नोपपद्यत इति, न तद्ब्रह्माज्ञानवादिनश्चोद्यम्, एकस्यैव ब्रह्मणोऽज्ञस्य स्वाज्ञाननिवृत्त्या मोक्ष्यमाणत्वात् बद्धमुक्तादिव्यवस्थाया एवाभावात्, व्यवह्रियमाणायाश्च बद्धमुक्तशिष्याचार्यादिव्यवस्थाया: काल्पिनकत्वात्, स्वप्नदर्शिन इव चैकस्यैवाविद्यया सर्वकल्पनोपपत्ते:; स्वप्नदृशा ह्येकेन दृष्टाश्शिष्याचार्यादयस्तदविद्याकल्पिता एव। अत एव बह्वविद्याकल्पनमपि न युक्तिमत्। पारमार्थिकी बन्धमोक्षव्यवस्था स्वपरव्यवस्था च जीवाज्ञानवादिनापि नाभ्युपेयते। अपारमार्थिकी त्वेकस्यैवाविद्ययोपपद्यते ॥

(उक्तार्थस्य अनुमानप्रयोगतो दृढीकरणम्)

प्रयोगश्च – बन्धमोक्षव्यवस्था: स्वपरव्यवस्थाश्च स्वाविद्याकल्पिता:, अपारमार्थिकत्वात्, स्वप्नदृष्टव्यवस्थावदिति। शरीरान्तराण्यपि मयैवात्मवन्ति, शरीरत्वात्, एतच्छरीरवत्। शरीरान्तराण्यपि मदविद्याकल्पितानि, शरीरत्वात्, कार्यत्वात्, जडत्वात्, कल्पितत्वाद्वा, एतच्छरीरवत्। विवादाध्यासितं चेतनजातमहमेव, चेतनत्वात्, यदनहम्, तदचेतनं दृष्टम्, यथा घट:। अतस्स्वपरविभागो बद्धमुक्तशिष्याचार्यादिव्यवस्थाश्चैकस्याऽविद्याकल्पिता: ॥

(काणादपक्षेऽपि बद्धमुक्तव्यवस्थादौर्घट्यम्)

द्वैतवादिनापि बद्धमुक्तव्यवस्था दुरुपपादा, अतीतानां कल्पानामानन्त्यादेकैकस्मिन्कल्पे एकैकमुक्तावपि सर्वेषां मोक्षसम्भवादमुक्तानुपपत्ते:।

अनन्तत्वादात्मनाममुक्ताश्च सन्तीतिचेत् – किमिदमनन्तत्वम्? असङ्ख्येयत्वमिति चेन्न, भूयस्त्वादल्पज्ञैरसङ्ख्येयत्वेऽपीश्वरस्य सर्वज्ञस्य सङ्ख्येया एव। तस्याप्यशक्यत्वे सर्वज्ञत्वं न स्यात् ॥

आत्मनां निस्सङ्ख्यत्वादीश्वरस्य अविद्यमानसङ्ख्यावेदनाभावो नासार्वज्ञ्यतामावहतीति चेत् – भिन्नत्वे सङ्ख्याविधुरत्वं नोपपद्यते।

आत्मानस्सङ्ख्यावन्त: भिन्नत्वात्, माषसर्षपघटपटादिवत्। भिन्नत्वे चात्मनां घटादिवज्जडत्वमनात्मत्वं क्षयित्वं च प्रसज्यते। ब्रह्मणश्चानन्तत्वं न स्यात्। अनन्तत्वं नाम परिच्छेदरहितत्वम् । भेदवादे च वस्त्वन्तराद्विलक्षणत्वेन ब्रह्मणो वस्तुत:; परिच्छेदरहितत्वं न शक्यते वक्तुम्; वस्त्वन्तराभाव एव हि वस्तुत: परिच्छेद:। वस्तुत: परिच्छिन्नस्य देशत: कालतश्चापरिच्छिन्नत्वं च न युज्यते; वस्त्वन्तराद्विलक्षणत्वेन वस्तुत: परिच्छिन्ना एव घटादयो देशत: कालतश्च परिच्छिन्ना हि दृष्टा:; तथा सर्वे चेतना: ब्रह्म च वस्तुत: परिच्छिन्ना: देशकालाभ्यामपि परिच्छिद्यन्ते। एवञ्च सत्यं ज्ञानमनन्तम् (तै.उ.आन.१.१) इत्यादिभिस्सर्वप्रकारपरिच्छेदरहितत्वं वदद्भिर्विरोध:। उत्पत्तिविनाशादयश्च जीवानां ब्रह्मणश्च प्रसज्येरन्; कालपरिच्छेद एव उत्पत्तिविनाशभागित्वम् ॥

(एकस्याऽविद्यया सर्वव्यवस्थोपपत्तेः, ब्रह्माज्ञानपक्षस्य च उपसंहारः)

अत एकस्यैवापरिच्छिन्नस्य ब्रह्मणोऽविद्याविजृम्भितं ब्रह्मादिस्तम्बपर्यन्तं कृत्स्नं जगत्; सुखदु:खप्रतिसन्धानव्यवस्थादयोऽपि स्वाप्नव्यवस्थावत् अविद्यास्वाभाव्यादुपपद्यन्ते । तस्मादेकमेव नित्यमुक्तस्वप्रकाशस्वभावमनाद्यविद्या-वशाज्जगदाकारेण विवर्तत इति परमार्थतो ब्रह्मव्यतिरिक्ताभावात्तदनन्यत्वं जगत: – इति॥

(वैशेषिकैः कृतः ब्रह्माज्ञानवादिनिरासः)

अत्रोच्यते – निर्विशेषस्वप्रकाशमात्रं ब्रह्मानाद्यविद्यातिरोहितस्वस्वरूपं स्वगतनानात्वं पश्यतीत्येतत् प्रकाशस्वरूपस्य निरंशस्य प्रकाशनिवृत्तिरूपतिरोधाने स्वरूपनाशप्रसङ्गेन तिरोधानासम्भवादिभ्य: सकलप्रमाणविरुद्धं स्ववचनविरुद्धं चेति पूर्वमेवोक्तम्  ॥

(तत्र, कारणमात्रसत्यतानिरासः)

यत्पुनरुक्तं कारणव्यतिरिक्तं कार्यं युक्तिबाधितत्वेन शुक्तिकारजतादिवद्भ्रम: – इति; तदयुक्तम्, युक्तेरभावात् ॥

यत्तु अनुवर्तमानस्य कारणमात्रस्य सत्यत्वम्, व्यावर्तमानानां घटशरावादिकार्याणां असत्यत्वमिति; तदप्यन्यत्र दृष्टस्यान्यत्र व्यावर्तमानता न बाधिकेत्यादिभि: पूर्वमेव परिहृतम् ॥

(मिथ्यात्वानित्यत्वयोर्भेदः, कार्यसत्यत्वानुमानं च)

यच्चोपलभ्यमानत्वविनाशित्वाभ्यां सदसदनिर्वचनीयत्वेन कार्यस्य मृषात्वमिति; तदसत् उपलब्धिविनाशयोगो हि न मिथ्यात्वं साधयति, किन्त्वनित्यत्वम्। यद्देशकालसम्बन्धितया यदुपलब्धम्, तद्देशकालसम्बन्धितया बाधितत्वमेव हि तस्य मिथ्यात्वे हेतु:; देशान्तरकालान्तर-सम्बन्धितयोपलब्धस्यान्यदेशकालसम्बन्धित्वेन बाधितत्वं देशान्तरकालान्तराव्याप्तिमात्रं साधयति, न तु मिथ्यात्वम्। प्रतिप्रयोगश्च – घटादि कार्यं सत्यम्, देशकालादिप्रतिपन्नोपाधावबाधितत्वात्, आत्मवत् ॥

(कारणात् कार्योत्पत्तिः, कारणस्य सहकारिसमवधानं असम्भवीत्यंशस्य निरासः)

यच्चोक्तं – कारणस्वरूपादविकृताद्विकृताच्च कार्योत्पत्तिर्न सम्भवति – इति; तदसत्, देशकालादिसहकारिसमवहितात्कारणात्कार्योत्पत्तिसम्भवात्। तत्समवधानं च विकृतस्याविकृतस्य च न सम्भवति इति यदुक्तम्; तदयुक्तम्, पूर्वमविकृतस्यैव कालादिसमवधानसम्भवात्। अविकृतत्वाविशेषात् पूर्वमपि देशकालादिसमवधानं प्रसज्यत इति चेन्न, देशकालादिसमवधानस्य कारणान्तरायत्तस्य एतदायत्तत्वाभावात् ॥

(स्वमते तर्कानुगृहीतं प्रमाणम्)

अतो देशकालादिसमवधानरूपविशेषमापन्नं कारणं कार्यमुत्पादयतीति न किञ्चिदवहीनम्। कारणस्य च कार्यं प्रत्यारम्भकत्वमबाधितं दृश्यमानं न केनापि प्रकारेणापह्नोतुं शक्यते ॥

(हेमादेः कारणस्य स्वातिरिक्तकार्यारम्भकता)

यत्तु – हेमादिमात्रस्य, रचकादिकार्यस्यैतदाश्रयस्य वा हेमादेरारम्भकत्वं न सम्भवति – इति; तदयुक्तम्, हेमादिमात्रस्यैव यथोक्तपरिकरयुक्तस्यारम्भकत्वसम्भवात्। न चारम्भकहेमव्यतिरिक्तं कार्यं न दृश्यत इति वक्तुं शक्यम्; हेमातिरिक्तस्य स्वस्तिकस्य दर्शनात्, बुद्धिशब्दान्तरादिभिर्वस्त्वन्तरस्य साधितत्वाच्च ॥

न चायं शुक्तिकारजतादिवद्भ्रम:, उत्पत्तिविनाशयोरन्तराल उपलभ्यमानस्य तद्देशकालसम्बन्धितया बाधादर्शनात्। नचास्या उपलब्धेर्बाधिका काचिदपि युक्तिर्दृश्यते। प्रागनुपलब्धस्वस्तिकोपलब्धि-वेलायामपि हेमप्रत्यभिज्ञा स्वस्तिकाश्रयतया हेम्नोऽप्यनुवृत्तेरविरुद्धा।

श्रुतिभिस्तु प्रपञ्चमिथ्यात्वसाधनं पूर्वमेव निरस्तम्। यच्चान्यदत्र प्रत्यक्षविरोधादि प्रतिवक्तव्यम्,  तदपि सर्वं पूर्वमेव सुष्ठूक्तम् ॥

(मृषावाद्युक्तानुमानगणदूषणम् । तत्र एकात्मवाददूषणम्)

यच्चोक्तम्- एकेनात्मना सर्वाणि शरीराण्यात्मवन्ति – इति; तदसत्, एकस्यैव सर्वशरीरप्रयुक्तसुखदु:खप्रतिसन्धानप्रसङ्गात्। सौभरिप्रभृतिषु ह्यात्मैकत्वेनानेकशरीरप्रयुक्त-सुखादिप्रतिसन्धानमेकस्य दृश्यते।

न चाहमर्थस्य ज्ञातृत्वात्तद्भेदात्प्रतिसन्धानाभावो, नात्मभेदादिति वक्तुं शक्यम्; आत्मा ज्ञातैव, स चाहमर्थ एव, अन्त:करणभूतस्त्वहङ्कारो जडत्वात्करणत्वाच्च शरीरेन्द्रियादिवन्न ज्ञातेत्युपपादितत्वात्।

(सर्वशरीराणाम् एकस्याऽविद्याकल्पितत्वादिनिरासः)

यच्च शरीरत्वजडत्वकार्यत्वकल्पितत्वैस्सर्वशरीराणामेकस्याविद्याकल्पितत्वमुक्तम्; तदपि सर्वशरीराणामविद्याकल्पितत्वस्यैवाभावादयुक्तम्। तदभावश्चाबाधितस्य सत्यत्वोपपादनात्।

यच्च चेतनादन्यस्य जडत्वदर्शनात्सर्वचेतनानामनन्यत्वमुक्तम्, तदपि सुखदु:खव्यवस्थया भेदोपपादनादेव निरस्तम्।

यत्तु – मयैवात्मवन्ति मदविद्याकल्पितान्यहमेव सर्वं चेतनजातमित्यहमर्थस्यैक्यं उपपादितम्, तदज्ञातस्वसिद्धान्तस्य भ्रान्तिजल्पितम्, अहं त्वमाद्यर्थविलक्षणं चिन्मात्रं ह्यात्मा त्वन्मते ॥

(जगन्मिथ्यात्ववादिनां मोक्षार्थयत्नवैयर्थ्यम्)

किञ्च निर्विशेषचिन्मात्रातिरेकि सर्वं मिथ्येति वदतो मोक्षार्थश्रवणादिप्रयत्नो निष्फल:, अविद्याकार्यत्वात्; शुक्तिकारजतादिषु रजताद्युपादानादिप्रयत्नवत्। मोक्षार्थप्रयत्नो व्यर्थ:्; कल्पिताचार्यायत्तज्ञानकार्यत्वात्, शुकप्रह्लादवामदेवादिप्रयत्नवत्। तत्त्वमस्यादिवाक्यजन्यज्ञानं न बन्धनिवर्तकम्, अविद्याकल्पितवाक्यजन्यत्वात्, स्वयमविद्यात्मकत्वात्, अविद्याकल्पित-ज्ञात्राश्रयत्वात्, कल्पिताचार्यायत्तश्रवणजन्यत्वाद्वा, स्वाप्नबन्धनिवर्तनवाक्यजन्यज्ञानवत् ॥

(ब्रह्मणः स्वरूपपरवाक्यप्रतिपाद्यतापक्षे अनिष्टप्रसञ्जनम्)

किञ्च – निर्विशेषचिन्मात्रं ब्रह्म मिथ्या, अविद्याकार्यज्ञानगम्यत्वात्, अविद्याकल्पितज्ञात्राश्रयज्ञानगम्यत्वात्, अविद्यात्मकज्ञानगम्यत्वाद्वा, यदेवं तत्तथा, यथा स्वाप्नगन्धर्वनगरादि:। न च निर्विशेषचिन्मात्रं ब्रह्म स्वयं प्रकाशते, येन न प्रमाणान्तरमपेक्षते। यत्त्वात्मसाक्षिकं स्वयंप्रकाशज्ञानं दृश्यते, तत्तु ज्ञेयविशेषसिद्धिरूपं ज्ञातृगतमेव दृश्यत इति पूर्वमेवोक्तम्।

यानि च तस्य निर्विशेषत्वसाधकानि यौक्तिकानि ज्ञानानि उपन्यस्तानि, तानि चानन्तरोक्तैरविद्याकार्यत्वात्  इत्यादिभिरनुमानै: निरस्तानि ॥

(चिन्मात्रस्य ब्रह्मणः साक्षित्व-स्वयंप्रकाशत्वद्यपोहः)

न च निर्विशेषस्य चिन्मात्रस्याज्ञानसाक्षित्वमहङ्कारादिजगद्भ्रमश्चोपपद्यते । साक्षित्वभ्रमादयोऽपि हि ज्ञातृविशेषगता दृष्टा:, न ज्ञप्तिमात्रगता: ।  न च तस्य प्रकाशत्वं स्वायत्तप्रकाशता वा सिद्ध्यति । प्रकाशो हि कस्यचित्पुरुषस्य कञ्चनार्थविशेषं प्रति सिद्धिरूपो दृश्यते, तत एव हि तस्य स्वयम्प्रकाशतोपपाद्यते भवद्भिरपि। न चातादृशस्य निर्विशेषस्य प्रकाशता सम्भवति  ॥

(अपरमार्थादपि परमार्थकार्योत्पत्तिशङ्का)

य: पुन: स्वगोष्ठीष्वपरमार्थादपि परमार्थकार्यं दृश्यत इत्युद्घोष:, सोऽपि तानि कार्याणि सर्वाणि अबाधितकल्पानि व्यावहारिकसत्यानि; वस्तुतस्त्वविद्यात्मकान्येवेति स्वाभ्युपगमादेव निरस्त:। अस्माभिरपि सर्वत्र परमार्थादेव कारणात्सर्वकार्योत्पत्तिमुपपादयद्भि: पूर्वमेव निरस्त: ॥

न च त्वयैषामनुमानानां श्रुतिविरोधो वक्तुं शक्यते, श्रुतेरप्यविद्याकार्यत्वेनाविद्यात्मकत्वेन चोक्तदृष्टान्तेभ्यो विशेषाभावात् ॥

(शून्यवाददृष्टान्ततः ब्रह्मवादस्याऽपि अकिञ्चित्करता)

यत्तु ब्रह्मणोऽपारमार्थिकज्ञानगम्यत्वेऽपि पश्चात्तनबाधादर्शनाद्ब्रह्म सत्यमेव इति – तदसत्, दुष्टकारणजन्यज्ञानगम्यत्वे निश्चिते सति पश्चात्तनबाधादर्शनस्य अकिञ्चित्करत्वात्; यथा शून्यमेव तत्वमिति वाक्यजन्यज्ञानस्य पश्चात्तनबाधादर्शनेऽपि दोषमूलत्वनिश्चयादेव तदर्थस्यासत्यत्वम्। किञ्च नेह नानाऽस्ति किञ्चन (कठ.२.४.११) विज्ञानमानन्दं ब्रह्म (बृ.५.६.१८) इति विज्ञानमात्रातिरिक्तस्य कृत्स्नस्य वस्तुजातस्य निषेधकत्वेन सर्वस्मात्परत्वात् पश्चात्तनबाधादर्शनमुच्यते, शून्यमेव तत्त्वमिति तस्याप्यभावं वदतस्तस्मात्परत्वेन पश्चात्तनबाधो दृश्यते। सर्वशून्यत्वातिरेकिनिषेधासम्भवात् तस्यैव पश्चात्तनबाधादर्शनम् । दोषमूलत्वं तु प्रत्यक्षादीनां वेदान्तजन्मनस्सर्वशून्यज्ञानस्याप्यविशिष्टम् ॥

(ज्ञातृ-ज्ञान-ज्ञेयपारमार्थ्यस्यैव व्यवहारव्यव्थाहेतुता)

अतस्सर्वं विज्ञानजातं पारमार्थिकज्ञातृगतम्, स्वयं च परमार्थभूतमर्थविशेषसिद्धिरूपम्; तत्र किञ्चित् ज्ञानं दोषमूलम्; दोषश्च परमार्थ:; किञ्चिच्च निर्दोषं पारमार्थिकसामग्रीजन्यमिति यावन्नाभ्युपेयते, न तावत्सत्यमिथ्यार्थव्यवस्था, लोकव्यवहारश्च सेत्स्यति।

लोकव्यवहारो हि पारमार्थिको भ्रान्तिरूपश्च पारमार्थिकज्ञातृगतार्थविशेषसिद्धिरूप-प्रकाशपूर्वक:; निर्विशेषसन्मात्रस्य तु पारमार्थिकस्यापारमार्थिकस्य च प्रतिभासादेर्हेातुत्वासम्भवात् लोकव्यवहारो न सम्भवति ॥

(अध्यासस्य अधिष्ठानपारमार्त्यं विनाऽपि सिद्धिः)

यच्च – तैर्निरधिष्ठानभ्रमासम्भवात् सर्वाध्यासाधिष्ठानस्य सन्मात्रस्य पारमार्थिकत्वमुक्तम्, तदपि दोषदोषाश्रयत्वज्ञातृत्वज्ञानानामपारमार्थ्येऽपि भ्रमोपपत्तिवदधिष्ठानापारमार्थ्येऽपि भ्रमोपपत्तेर्निरस्तम्।

अथ अधिष्ठानापारमार्थ्येऽपि न क्वचिद्भ्रमो दृष्ट इति सन्मात्रस्य पारमार्थिकत्वमवश्याश्रयणीयमिति मन्यसे, हन्त तर्हि दोषदोषाश्रयत्व-ज्ञातृत्वज्ञानानामपारमार्थ्येऽपि न क्वचिद्भ्रमो दृष्ट इति दर्शनानुगुण्येन तेषामपि पारमार्थ्यमवश्याश्रयणीयमिति न कश्चिद्विशेषोऽन्यत्र तत्संरम्भात्।

(भेदपक्षेऽपि व्यवस्थानुपपत्त्यादेः आपत्ति-परिहारौ)

यत्तु भेदपक्षेऽप्यतीतकल्पानामानन्त्यात्सर्वेषामात्मनां मुक्तत्वेन बद्धासम्भवाद्बद्धमुक्त-व्यवस्था न सम्भवति, तदात्मानन्त्येन परिहृतम्।

यत्त्वात्मनां भिन्नत्वे माषसर्षपघटपटादिवत् सङ्ख्यावत्त्वमवर्जनीयमिति, तत्र घटादीनामप्यनन्तत्वाद्दृष्टान्तस्साध्यविकलस्स्यात् । दशघटास्सहस्रं माषा इति सङ्ख्यावत्त्वं दृश्यत इति चेत् – सत्यं तत्तु न घटादिस्वरूपगतम्, अपि तु देशकालाद्युपाधिमद्घटादिगतम्, तादृशं तु सङ्ख्यावत्वमात्मनामभ्युपगच्छाम:। न च तावता सर्वमुक्तिप्रसङ्ग:; आत्मस्वरूपानन्त्यात् ॥

(आत्मसु भिन्नत्वस्य जडत्वादिप्रसञ्जकत्वतत्परिहारौ)

यत्तु आत्मनां भिन्नत्वे घटवज्ज्डत्वानात्मत्व-क्षयित्वप्रसङ्ग:- इति; तदयुक्तं, एकजातीयानां भेदस्य तज्जातीयानां जात्यन्तरीयत्वानापादकत्वात्। न हि घटानां भेद: तेषां पटत्वमापादयति ॥

(ब्रह्मणि भिन्नत्वम् आनन्त्यविघटकमिति शङ्का, तत्परिहारश्च)

यत्तु भिन्नत्वे वस्तुत: परिच्छेदाद्देशकालाभ्यामपि परिच्छेदो ब्रह्मण: प्रसज्यत इत्यनन्तत्वं ब्रह्मणो न सिध्यतीति; तदयुक्तं, वस्तुत: परिच्छिन्नानामपि देशकालपरिच्छेदस्य न्यूनाधिकभावेनानियमदर्शनात्; देशकालसम्बन्धेयत्ताया: प्रमाणान्तरात्तनिर्णयत्वेन ब्रह्मणस्सर्वदेशकालसम्बन्धस्यापि प्रमाणान्तरादापततो विरोधाभावात् ॥

(आनन्त्यश्रुतिसङ्कोचशङ्कापरिहारौ)

वस्तुत: परिच्छेदमात्रादपि सर्वप्रकारपरिच्छेदरहितत्वाभावादानन्त्यासिद्धिरिति चेत् – तद्भवतोऽप्यविद्याविलक्षणत्वं ब्रह्मणोऽभ्युपयतस्समानम्। अतस्सतोऽविद्याविलक्षणत्वाभ्युपगमात् ब्रह्मणोऽपि भिन्नत्वेन भेदप्रयुक्ता दोषास्सर्वे तवापि प्रसज्येरन्। यद्यविद्याविलक्षणत्वं नाभ्युपेयते; तर्ह्यविद्यात्मकमेव ब्रह्म स्यात्। सत्यं ज्ञानमनन्तं ब्रह्म (तै.उ.आन.१.१) इति लक्षणवाक्यमपि तत एवापार्थकं स्यात् ॥

(सामान्यतो भेदतत्त्वाभ्युपगमस्य अवर्जनीयता)

भेदतत्त्वानभ्युपगमे हि स्वपक्षपरपक्षसाधनदूषणादिविवेकाभावात् सर्वमसमञ्जसं स्यात्। आनन्त्यप्रसिद्धिश्च देशकालपरिच्छेदरहितत्वमात्रेण; न वस्तुतोऽपि परिच्छेदरहितत्वेन, तथाविधस्य शशविषाणायमानस्यानुपलब्धे:।

भेदवादिनस्तु सर्वचिदचद्वस्तुशरीरत्वेन ब्रह्मणस्सर्वप्रकारत्वात्, स्वत: परतोऽपि परिच्छेदो न विद्यते ॥

(वैशेषिकमतोपसंहारतः सिद्धान्तसूत्रावातरणम्)

तदेवं कारणाद्भिन्नस्य कार्यस्य सत्यत्वाद्ब्रह्मकार्यं कृत्स्नं जगद्ब्रह्मणोऽन्यदेव – इति प्राप्ते प्रचक्ष्महे- तदनन्यत्वमारम्भणशब्दादिभ्य:  ॥

(सूत्रार्थविवरणम्)

तस्मात् परमकारणाद् ब्रह्मण:, अनन्यत्वं जगत: आरम्भणशब्दादिभ्य: तदुपपादयद्भ्योऽवगम्यते । आरम्भणशब्द:  आदिर्येषां वाक्यानाम्, तान्यारम्भणशब्दादीनि वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् (छा.६.१.४) सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं तदैक्षत बहुस्यां प्रजायेयेति तत्तजोऽसृजत (छा.६.२.१) अनेन जीवेनाऽत्मनाऽनुप्रविश्य (छा.६.३.३) सन्मूलास्सोम्येमास्सर्वा: प्रजास्सदायतनास्सत्प्रतिष्ठा: ऐतदात्म्यमिदं सर्वं तत्सत्यं आत्मा तत्त्वमसि श्वेतकेतो (छां.६.८.६७) इत्येतानि । प्रकरणान्तरस्थान्यप्येवंजातीयकान्यत्राभिप्रेतानि ॥

(एषां वाक्यानां, जगतो ब्रह्माननोयत्वबोधकत्वोपपादनम्)

एतानि हि वाक्यानि  चिदचिदात्मकस्य जगत: परस्माद् ब्रह्मणोऽनन्यत्वमुपपादयन्ति।  तथा हि स्तब्धोऽस्युत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम् (छां.६.१.३) इति कृत्स्नस्य जगतो ब्रह्मैककारणत्वम्, कारणात्कार्यस्यानन्यत्वं च हृदि निधाय कारणभूतब्रह्मविज्ञानेन कार्यभूतस्य सर्वस्य विज्ञाने प्रतिज्ञाते सति कृत्स्नस्य ब्रह्मैककारणतामजानता शिष्येण कथं नु भगवस्स आदेश: (छां.६.१.३) इत्यन्यज्ञानेन अन्यज्ञाततासम्भवं चोदितो जगतो ब्रह्मैककारणतामुपदेक्ष्यन् लौकिकप्रतीतिसिद्धं कारणात्कार्यस्यानन्यत्वं तावत् यथा सोम्यैकेन मृपिण्डेन सर्वं मृण्मयं विज्ञातं स्यात्     (छां ६.१.४) इति दर्शयति। यथैकमृत्पिण्डारब्धानां घटशरावादीनां तस्मादनतिरिक्तद्रव्यतया तज्ज्ञानेन ज्ञाततेत्यर्थ:।

(वाचारम्भणवाक्यस्य कार्ये कारणानन्यतायाः लोकसिद्धत्वोपपादनपरता)

अत्र काणादवादेन कारणात्कार्यस्य द्रव्यान्तरत्वमाशङ्क्य लोकप्रतीत्यैव कारणात्कार्यस्य अनन्यतामुपपादयति वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् (छां.६.१.४) इति। आरभ्यते आलभ्यते स्पृश्यते इत्यारम्भणम्, कृत्यल्युटो बहुलम् (अष्टा.३.३.११३) इति कर्मणि ल्युट् । वाचा वाक्पूर्वकेण व्यवहारेण हेतुनेत्यर्थ:। घटेनोदकमाहर इत्यादिवाक्पूर्वको ह्युदकाहरणादिव्यवहार:; तस्य व्यवहारस्य सिद्धये, तेनैव मृद्द्रव्येण पृथुबुध्नोदरत्वादिलक्षणो विकार: – संस्थानविशेष:, तत्प्रयुक्तं च घट इत्यादिनामधेयम्, स्पृश्यते उदकाहरणादिव्यवहारविशेषसिद्ध्यर्थं मृद्द्रव्यमेव संस्थानान्तरनामधेयान्तरभाग्भवति। अतो घटाद्यपि मृत्तिकेत्येव सत्यं – मृत्तिकाद्रव्यमित्येव सत्यम् – प्रमाणेनोपलभ्यत इत्यर्थ:, न तु द्रव्यान्तरत्वेन।

अतस्तस्यैव मृद्धिरण्यादेर्द्रव्यस्य संस्थानान्तरभाक्त्वमात्रेण बुद्धिशब्दान्तरादय उपपद्यन्ते, यथैकस्यैव देवदत्तस्यावस्थाभेदै: बालो युवा स्थविर: इति बुद्धिशब्दान्तरादय: कार्यविशेषाश्च दृश्यन्ते।

(कार्यस्य कारणादनन्यत्वे उत्पत्ति-विनाशात्मक-भावाभावयोर्विरोधशङ्का-तत्परिहारौ)

यदुक्तं – सत्यामेव मृदि घटो नष्ट इति व्यवहारात्कारणादन्यत्कार्यमिति; तदुत्पत्तिविनाशादीनां कारणभूतस्यैव द्रव्यस्यावस्थाविशेषत्वाभ्युपगमादेव परिहृतम्। तत्तदवस्थस्य एकस्यैव द्रव्यस्य ते ते शब्दास्तानि तानि च कार्याणीति च युक्तम्। द्रव्यस्य तत्तदवस्थत्वं कारकव्यापारयत्तमिति तस्यार्थवत्त्वम्। अभिव्यक्त्यनुबन्धीनि चोद्यानि तस्या अनभ्युपगमादेव परिहृतानि। उत्पत्त्यभ्युपगमेऽपि सत्कार्यवादो न विरुद्ध्यते; सत एवोत्पत्ते:॥

(उत्पत्ति-सत्कार्यवादयोर्व्याघातशङ्का-परिहारौ)

विप्रतिषिद्धमिदमभिधीयते, पूर्वमेव सत्, तदुत्पद्यते च इति । अज्ञातोत्पत्तिविनाशयाथात्म्यस्येदं चोद्यम्; द्रव्यस्योत्तरोत्तरसंस्थानयोग: पूर्वपूर्वसंस्थानसंस्थितस्य विनाश:, स्वावस्थस्य तूत्पत्ति:। अतस्सर्वावस्थस्य द्रव्यस्य सत्त्वात्सत्कार्यवादो न विरुध्यते। संस्थानस्यासत उत्पत्तावसत्कार्यवादप्रसङ्ग इति  चेत् – असत्कार्यवादिनोऽपि उत्पत्तेरनुत्पत्तिमत्त्वे सत्कार्यवादप्रसङ्ग:। उत्पत्तिमत्त्वे चानवस्था ॥

(स्वमते सर्वसामरस्यस्पष्टीकरणम्)

अस्माकं त्ववस्थानां पृथक्प्रतिपत्तिकार्ययोगानर्हात्वादवस्थावत एवोत्पत्त्यादिकं सर्वमिति निरवद्यम्। कपालत्वचूर्णत्व पिण्डत्वावस्थाप्रहाणेन घटत्वावस्थावत् एकत्वावस्थाप्रहाणेन बहुत्वावस्था तत्प्रहाणेनैकत्वावस्था चेति न कश्चिद्विरोध: ॥

(सदेव इति कारणवाक्यैः कारणात् कार्यस्य अनन्यत्वोपपादनम् )

तथा सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् (छा.६.२.१) इति सदेवेदम् इदानीं विभक्तनामरूपत्वेन नानारूपं जगत्, अग्रे नामरूपविभागाभावेनैकमेवासीत्, सर्वशक्तित्वेनाधिष्ठात्रन्तरासहतया अद्वितीयं चेत्यनन्यत्वमेवोपपादितम्। तथा तदैक्षत बहु स्यां प्रजायेय (छा.६.२.३) इति स्रक्ष्यमाणतेज:प्रभृतिविविधविचित्रस्थिरत्रसरूपजगत्त्वेनात्मनो बहुभवनं सङ्कल्प्य जगत्सर्गाभिधानात्कार्यभूतस्य जगत: परमकारणात्परस्माद्ब्रह्मणोऽनन्यत्वमवसीयते।

(सेयं देवतेत्यादिवाक्यस्य उक्तकारणवाक्यार्थोपपादकता)

सच्छब्दवाच्यस्य परस्य ब्रह्मणस्सर्वज्ञस्य सत्यसङ्कल्पस्य निरवद्यस्यैव सदेवेदमिति निर्देशार्हाजगत्त्वम्, सच्छब्दवाच्यस्यैव जगतो नामरूपविभागाभावेन- एकत्वमधिष्ठात्रन्तर-निरपेक्षत्वम्, पुनरपि तस्यैव विचित्रस्थिरत्रसरूपजगत्त्वेन बहुभवनसङ्कल्परूपेक्षणम्, यथासङ्कल्पं सर्गश्च कथमुपपद्यत इत्याशङ्क्याह – सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता: अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति तासां त्रिवृतं त्रिवृतम् (छा.६.३.२) इत्यादि । तिस्रो देवता: (छां.६-३-२) इति कृत्स्नमचिद्वस्तु निर्दिश्य स्वात्मकजीवानुप्रवेशेनैतद्विचित्रनामरूपभाक् करवाणीत्युक्तम्। अनेन जीवेनात्मना मदात्मकजीवेन आत्मतयाऽनुप्रविश्यैतद्विचित्रनामरूपभाक् करवाणीत्यर्थ:। स्वात्मनो जीवस्य चात्मतयाऽनुप्रवेशकृतं नामरूपभाक्त्वमित्युक्तं भवति। तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्च त्यच्चाभवत् (तै.आन.६.२) इति श्रुत्यन्तरेण स्पष्टं सजीवं जगत्परेण ब्रह्मणा आत्मतयाऽनुप्रविष्टमिति।

(सतः, एकस्यैव सतः, अनुप्रवेशानुपपत्तिशङ्का-तत्परिहारौ)

तदेतत्कार्यावस्थस्य च कारणावस्थस्य च  चिदचिद्वस्तुन: स्थूलस्य सूक्ष्मस्य च परब्रह्मशरीरत्वम्, परस्य च ब्रह्मण आत्मत्वमन्तर्यामिब्राह्मणादिषु सिद्धं स्मारतिम् । अनेन पूर्वोक्ता शङ्का निरस्ता ॥

(सदेवेति वाक्यस्य सर्वांशेन उपपन्नता, ब्रह्मणि विकाराद्यसंसर्गश्च)

अचिद्वस्तुनि सजीवे ब्रह्मण्यात्मतयाऽवस्थिते नामरूपव्याकरणवचनाच्चिदचिद्वस्तुशरीरकं ब्रह्मैव जगच्छब्दवाच्यमिति सदेवेदमग्र एकमेवासीत् (छां.६.२.१) इत्यादिसर्वमुपपन्नतरम्। शरीरभूतचिदचिद्वस्तुगतास्सर्वे विकाराश्चापुरुषार्थाश्चेति ब्रह्मणो निरवद्यत्वं कल्याणगुणाकरत्वं च सुस्थितम् । तदेतत् अधिकं तु भेदनिर्देशात् (ब्र.सू.२.१.२२) इत्यनन्तरमेव वक्ष्यति। तथा ऐतदात्म्यमिदं सर्वम् (छां.६.८.७) इति कृत्स्नस्य चेतनाचेतनस्य ब्रह्मतादात्म्यमुपदिशति । तदेव तत्त्वमसि (छां.६.८.७) इति निगमयति।

(श्रुत्यन्तरगतवाक्यानामपि जगतो ब्रह्मानन्यत्वप्रतिपादकता)

तथा प्रकरणान्तरस्थेष्वपि वाक्येषु सर्वं खल्विदं ब्रह्म (छां.३.१४.१) आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम् (बृ.६.५.६) इदं सर्वं यदयमात्मा (बृ.६.५.७) ब्रह्मैवेदं सर्वम्, आत्मैवेदं सर्वम् (छां.७.२५.२) इत्यनन्यत्वं प्रतीयते। तथाऽन्यत्वं च निषिध्यते सर्वं तं परादाद्योऽन्यत्रात्मनस्सर्वं वेद (बृ.६.५.७) नेह नानास्ति किञ्चन। मृत्योस्स मृत्युमाप्नोति इह नानेव पश्यति, (बृ.६.४.१९) इति, तथा यत्र हि द्वैतिमव भवति तदितर इतरं पश्यति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् (बृ.६.५.७) इत्यविदुषो द्वैतदर्शनं विदुषश्चाद्वैतदर्शनं प्रतिपादयदनन्यत्वमेव तात्त्विकमिति प्रतिपादयति। तदेवमारम्भणशब्दादिभ्यो जगत: परमकारणात्परस्माद्ब्रह्मणोऽनन्यत्वमुपपाद्यते।

(कार्यकारणावस्थावत्वं ब्रह्मण एवेत्यंशस्य विशदीकरणम्)

अत्रेदं तत्त्वं –  चिदचिद्वस्तुशरीरतया तत्प्रकारं ब्रह्मैव सर्वदा सर्वशब्दाभिधेयम्। तत्कदाचित् स्वस्मात्स्वशरीरतयापि पृथग्व्यपदेशानर्हासूक्ष्मदशापन्नचिदचिद्वस्तुशरीरम्। तत्कारणावस्थं ब्रह्म। कदाचिच्च विभक्तनामरूपव्यहारार्हास्थूलदशापन्नचिदचिद्वस्तुशरीरम्। तच्च कार्यावस्थमिति कारणात्परस्माद्ब्रह्मण: कार्यरूपं जगदनन्यत्  ॥

(शरीरात्मभावशङ्कितदोषपरिहारः)

शरीरभूतचिदचिद्वस्तुन: शरीरिणो ब्रह्मणश्च कारणावस्थायां कार्यावस्थायां च श्रुतिशत-सिद्धया स्वभावव्यवस्थया गुणदोषव्यवस्था च तु दृष्टान्तभावात् (ब्र.सू.२.१.९) इत्यत्रोक्ता॥

(ब्रह्मज्ञानवाद्युक्तैतत्सूत्रार्थानौचित्यप्रकटनम्)

ये तु कार्यकारणयोरनन्यत्वं कार्यस्य मिथ्यात्वाश्रयेण वर्णयन्ति, न तेषां कार्यकारणयोरनन्यत्वं सिद्ध्यति, सत्यमिथ्यार्थयोरैक्यानुपपत्ते:, तथा सति ब्रह्मणो मिथ्यात्वं जगतस्सत्यत्वं वा स्यात्॥

(भास्करीयसम्मते एतत्सूत्रार्थे वैघठ्यम्)

ये च कार्यमपि पारमार्थिकमभ्युपयन्त एव जीवब्रह्मणोरौपाधिकमन्यत्वम्, स्वाभाविकं चानन्यत्वम्, अचिद्ब्रह्मणोस्तु द्वयमपि स्वाभाविकमिति वदन्ति;

तेषामुपाधिब्रह्मव्यतिरिक्तवस्त्वन्तराभावात् निरवयवस्याखण्डितस्य ब्रह्मण एवोपाधिसम्बन्धात् ब्रह्मस्वरूपस्यैव हेयाकारपरिणामात्, शक्तिपरिणामाभ्युपगमे शक्तिब्रह्मणोः अनन्यत्वाच्च जीवब्रह्मणो: कर्मवश्यत्वापहतपाप्मत्वादिव्यवस्थावादिन्य: अचिद्ब्रह्मणोश्च परिणामापरिणामवादिन्यः श्रुतयो व्याकुप्येयु:॥

(यादवप्रकाशीयसम्मतानन्यत्वे दोषप्रकटनम्)

ये पुन: निरस्तनिखिलभोक्तृत्वादिविकल्पविप्लवं सर्वशक्तियुक्तं सन्मात्रद्रव्यमेव कारणं ब्रह्म; तच्च प्रलयवेलायां शान्ताशेषसुखदु:कानुभवविशेषं स्वप्रकाशमपि सुषुप्तात्मव् अचिदविलक्षणमवस्थितम्, सृष्टिवेलायां मृत्तिकाद्रव्यमिव घटशरावादिरूपम्, समुद्र इव च फेनतरङ्गबुद्बुदादिरूप: भोक्तृभोग्यनियन्तृरूपेणांशत्रयावस्थं अवतिष्ठते; अतो भोक्तृभोग्य-नियन्तृत्वानि तत्प्रयुक्ताश्चगुणदोषा: शरावत्वघटत्वमणिकत्ववत्तद्गतकार्यभेदवच्च व्यवतिष्ठन्ते; भोक्तृभोग्यनियन्तॄणां सदात्मनैकत्वं च घटशरावमणिकादीनां मृदात्मनैकत्ववत् उपपद्यते; अतस्सन्मात्रद्रव्यमेव सर्वावस्थावस्थितमिति ब्रह्मण: अनन्यज्जगदातिष्ठन्ते; तेषां सकलश्रुतिस्मृति इतिहासपुराणन्यायविरोध:।

सर्वा हि श्रुतय: स्मृतीतिहासपुराणास्सर्वेश्वरेश्वरं सदैव सर्वज्ञं सर्वशक्तिं सत्यसङ्कल्पं निरवद्यं देशकालानवच्छिन्नानवधिकातिशयानन्दं परमकारणं ब्रह्म प्रतिपादयन्ति; न पुनरीश्वरादपि परमीश्वरांशि सन्मात्रम्। तथाहि सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् (छा.६.२.१), तदैक्षत बहु स्यां प्रजायेयेति (छा.६.२.३), ब्रह्म वा इदमग्र आसीदेकमेव तदेकं सन्न व्यभवत् तच्छ्रेयो रूपमत्यसृजत क्षत्रं यान्येतानि देवक्षत्राणीन्द्रो वरुणस्सोमो रुद्र: पर्जन्यो यमो मृत्युरीशान इति (बृ.३.४.११), आत्मा वा इदमेक एवाग्र आसीत् नान्यत्किञ्चनमिषत् ऐक्षत लोकान्नु सृजै इति (ऐत.१.१.१), एको वै नारायण आसीत् ब्रह्मा नेशानो नेमे द्यावापृथिवी नक्षत्राणि नापो नाग्निर्न सोमो सूर्य: एकाकी रमेत तस्य ध्यानान्तस्थस्य (महोप.१.१) इत्यादिभि: परमकारणं सर्वेश्वरेश्वरो नारायण एवेत्यवगम्यते ॥

(सामान्यशब्दानां विशेषपर्यवसानम्)

(नारायणस्यैव जगत्कारणता च)

सद्ब्रह्मात्मशब्दा हि तुल्यप्रकरणस्थास्तत्तुल्यप्रकरणस्थेन नारायणशब्देन विशेषितास्तमेवावगमयन्ति। तमीश्वराणां परमं महेश्वरम् (श्वे.६.७) कारणं करणाधिपाधिपो चास्य कश्चिज्जनिता चाधिप: (श्वे.६.९) इतीश्वरस्यैव कारणत्वं श्रूयते। स्मृतिरपि मानवी ततस्स्वयम्भूर्भगवान् (मनु.१.६) इति प्रकृत्य सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधा: प्रजा: अप एव ससर्जादौ तासु वीर्यमपासृजत् (मनु.१.८) इति। इतिहासपुराणान्यपि पुरुषोत्तममेव परमकारणमभिदधति नारायणो जगन्मूर्तिरनन्तात्मा सनातन: सिसृक्षुस्सहस्रांशादसृजत्पुरुषान् द्विधा (म.भा.मो.८.१२) विष्णोस्सकाशादुद्भूतं जगत्तत्रैव च स्थितम् (वि.पु.१.१.३१) इत्यादिषु  ॥

(ईश्वरस्य सन्मात्रताभ्युपगमे अनौचित्यम्)

न चेश्वरस्सन्मात्रमेवेति वक्तुं शक्यम्, तस्य तदंशत्वाभ्युपगमात्सविशेषत्वाच्च। न च तस्य ज्ञानानन्दाद्यनन्तकल्याणगुणयोग: कादाचित्क इति वक्तुं शक्यते, तेषां स्वाभाविकत्वेन सदातनत्वात्, पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया (श्वै.६.८) यस्सर्वज्ञस्सर्ववित् (मु.१.१.९) इत्यादिभ्य:। ज्ञानानन्दादिशक्तियोग एवास्य स्वाभाविक इति मा वोच:, शक्ति: स्वाभाविकी, ज्ञानबलक्रिया च स्वाभाविकी, इति पृथङ्निर्देशाल्लक्षणाप्रसङ्गाच्च। न च पाचकादिवत् सर्वज्ञ: इत्यादिषु शक्तिमात्रे कृत्प्रत्यय इति वक्तुं शक्यम्, कृत्प्रत्ययमात्रस्य शक्तावस्मरणात्, शक्तौ हस्तिकवाटयो:, (अष्टा.३.२.५४) इत्यादिषु केषांञ्चिदेव कृत्प्रत्ययानां शक्तिविषयत्वस्मरणात्। पाचकादिषु त्वगत्या लक्षणा समाश्रीयते।

(एकस्यैव अंशाशित्वयोर्विरोधः)

किञ्च ईश्वरस्य तदंशविशेषत्वात्तस्य चांशित्वे तरङ्गात्समुद्रस्येवांशादंशिन: अधिकत्वात्, तमीश्वराणां परमं महेश्वरम् (श्वे.६.७) तत्समश्चाभ्यिधकश्च दृश्यते (श्वेत.६.८) इत्यादीनीश्वरविषयाणि परश्शतानि वचांसि बाध्येरन्। किञ्च सन्मात्रस्य सर्वात्मकत्वे, अंशित्वे च ईश्वरस्य तदंशविशेषत्वात् तस्य सर्वात्मकत्वांशित्वोपदेशा व्याहन्येरन्। न हि मणिकात्मकत्वं तदंशत्वं वा घटशरावादे:। स्वांशेषु सर्वेषु सन्मात्रस्य पूर्णत्वेनेश्वरांशेऽपि तस्य पूर्णत्वात् तदात्मकानि तदंशाश्चेतराणि वस्तूनीति चेन्न, घटेऽपि सन्मात्रस्य पूर्णत्वादीश्वरस्यापि घटात्मकत्वतदंशत्वप्रसङ्गात्। न च सन्मात्रस्य घटोऽस्ति, पटोऽस्ति इति वस्तुधर्मतयाऽवगतस्य द्रव्यत्वं कारणत्वं वोपपद्यते। व्यवहारयोग्यता हि सत्त्वम्। विरोधिव्यवहारयोग्यता तद्व्यवहारयोग्यस्यासत्त्वम्। द्रव्यमेव सदित्यभ्युपगमे क्रियादीनामसत्त्वप्रसङ्ग:। क्रियादिषु काशकुशावलम्बनेनापि सर्वत्रैकरूपा सत्ता दुरुपपादा। सदात्मना च सर्वस्याभिन्नत्वे सर्वज्ञत्वेन सर्वस्वभावप्रतिसन्धानात्सर्वगुणदोषसङ्करप्रसङ्गश्च पूर्वमेवोक्त:। अतो यथोक्तप्रकारमेव अनन्यत्वम् ॥१५॥

(बुद्धिशब्दान्तरादीनां अवस्थानिबन्धनत्वनैयत्याभावशङ्का-परिहारौ)

अथोच्येत – एकस्यैवावस्थान्तरयोगेऽपि बुद्धिशब्दान्तरादयो बालत्वयुवत्वादिषु दृश्यन्ते, मृद्दारुहिरण्यादिषु द्रव्यान्तरत्वेऽपि दृश्यन्ते, तत्र मृद्घटादिषु कार्यकारणेषु बद्धिशब्दान्तरादयोऽवस्थानिबन्धना एवेति कुतो निर्णीयते – इति। तत्रोत्तरम् –

१५४. भावे चोपलब्धे: १६

कुण्डलादिकार्यसद्भावे च कारणभूतहिरण्यस्योपलब्धे: – इदं कुण्डलं हिरण्यम् इति हिरण्यत्वेन प्रत्यभिज्ञानादित्यर्थ:। न चैवं हिरण्यादिषु द्रव्यान्तरेषु मृदादय उपलभ्यन्ते। अतो बालयुवादिवत्कारणभूतमेव द्रव्यमवस्थान्तरापन्नं कार्यमिति गीयते; द्रव्यान्तरत्वादिनाऽपि अभ्युपेतेनावस्थान्तरयोगेन बुद्धिशब्दान्तरादिषूपपन्नेष्वनुपलब्धद्रव्यान्तरकल्पनानुपपत्तेश्च  ॥

(प्रत्यभिज्ञा जात्यैक्यत एव, न व्य्क्तैक्यात् इति शङ्का-तत्परिहारौ)

न च जातिनिबन्धनेयं प्रत्यभिज्ञा, जात्याश्रयभूतद्रव्यान्तरानुपलब्धे: एकमेव हेमजातीयं द्रव्यं कार्यकारणोभयावस्थं दृश्यते। न च द्रव्यभेदे समवायिकारणानुवृत्त्या कार्ये प्रतिसन्धानमिति वक्तुं शक्यम्, द्रव्यान्तरत्वे सत्याश्रयानुवृत्तिमात्रेण तदाश्रितद्रव्यान्तरे प्रतिसन्धानानुपपत्ते: ॥

गोमयादिकार्ये वृश्चिकादौ गोमयादिप्रतिसन्धानं न दृश्यत इति चेन्न, तत्राप्याद्यकारणभूत-पृथिवीद्रव्यप्रत्यभिज्ञानात्। अग्निकार्ये धूमे अग्निप्रत्यभिज्ञानं दृश्यत इति चेत्- भवतु, न तत्र प्रत्यभिज्ञानम्; तथापि न दोष:, अग्नेर्निमित्तकारणमात्रत्वात्। अग्निसंयुक्तार्द्रेन्धनाद्धि धूमो जायते। गन्धैक्याच्चार्द्रेन्धनकार्यमेव धूम:। अत: कार्यभावे च तदेवेदमित्युपलब्धे: बुद्धिशब्दान्तरादयोऽवस्थाभेदमात्रनिबन्धना इत्यवगम्यते। तस्मात्कारणादनन्यत्कार्यम्॥ १६॥

(सत्कार्यवादतः, कारणात् कार्यस्यानन्यता)

इतश्च –

१५५. सत्वाच्चापरस्य १७

अपरस्य कार्यस्य कारणे सत्त्वाच्च कारणात्कार्यस्यानन्यत्वम्। लोकवेदयोर्हि कार्यमेव कारणतया व्यपदिश्यते; यथा लोके सर्वमिदं घटशरावादिकं पूर्वाह्णे मृत्तिकैवासीत् इति; वेदे च सदेव सोम्येदमग्र आसीत् (छा.६.२.१) इति॥१७ ॥

(सत्कार्यवादस्य श्रुतिविरोधशङ्का, तत्परिहारश्च)

१५६. असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषाद्युक्तेश्शब्दान्तराच्च १८

यदुक्तं कारणे कार्यस्य सत्त्वं लोकवेदाभ्यामवगम्यते इति; तदयुक्तम्, असद्व्यपदेशात्, असदेवेदमग्र आसीत् (छां.६.१.१) असद्वा इदमग्र आसीत् (शथ.ब्रा.६.१.१) इदं वा अग्रे नैव किञ्चनासीत् (यजु.२.अष्ट.२.९) इति; लोके च सर्वमिदं घटशरावादिकं पूर्वाह्णे नासीत् इति। अतो यथोक्तं नोपपद्यत इति चेत् तन्न, धर्मान्तरेण तथा व्यपदेशात्। स खल्वसद्व्यपदेशस्तस्यैव कार्यद्रव्यस्य पूर्वकाले धर्मान्तरेण – संस्थानान्तरेण; न भवदभिप्रेतेन तुच्छत्वेन ॥

(सत्वासत्वयोः स्वरूपविवेकः)

सत्त्वासत्त्वे हि द्रव्यधर्मावित्युक्तम्। तत्र सत्त्वधर्माद्धर्मान्तरमसत्त्वम्। इदं शब्दनिर्दिष्टस्य जगतस्सत्वधर्मो नामरूपे; असत्त्वधर्मस्तु  तद्विरोधिनी सूक्ष्मावस्था। अतो जगतो नामरूपयुक्तस्य  तद्विरोधिसूक्ष्मदशापत्तिरसत्त्वम् ॥

(वाक्यशेषादेः उक्तार्थगमकता)

कथमिदमवगम्यते  वाक्यशेषाद्युक्ते: शब्दान्तराच्च – वाक्यशेषस्तावत्। इदं वा अग्रे नैव किञ्चनासीत् (तै.यजु.२.अष्ट.२.९) इत्यत्र तदसदेव सन्मनोऽकुरुत स्यामिति (तै.यजु.२.अष्ट.२.९) इति; अनेन वाक्यशेषगतेन मनस्कारलिङ्गेनासच्छब्दार्थे तुच्छातिरिक्ते निश्चिते, तदैकार्थ्यात् असदेवेदम् (छा.६.२.२) इत्यादिष्वप्यसच्छब्दस्यायमेवार्थ इति निश्चीयते। युक्तेश्चासत्त्वस्य धर्मान्तरत्वमवगम्यते । युक्तिर्हि सत्त्वासत्त्वे पदार्थधर्माववगमयति। मृद्द्रव्यस्य पृथबुध्नोदराकारयोगो घटोऽस्तीति व्यवहारहेतु:; तस्यैव  तद्विरोध्यवस्थान्तरयोगो घटो नास्तीति व्यवहारहेतु:; तत्र कपालाद्यवस्थायास्तद्विरोधित्वेन सैव घटावस्थस्य नास्तीति व्यवहारहेतु:। न च तद्व्यतिरिक्तो घटाभावो नाम कश्चिदुपलभ्यते; न च कल्प्यते तावतैवाभावव्यवहारोपपत्ते:। तथा शब्दान्तराच्च पूर्वकाले धर्मान्तरयोग एवावगम्यते। शब्दान्तरञ्च पूर्वोदाहृतम् सदेव सोम्येदमग्र आसीत् (छां.६.२.१) इत्यादिकम्। तत्र हि कुतस्तु खलु सोम्यैवं स्यात् (छां.६.२.२) इति तुच्छत्वमाक्षिप्य सदेव सोम्येदमग्र आसीत् (छां.६.२.२) इति स्थापितम्। तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत (बृ.३.४.७) इति सुस्पष्टमुक्तम्॥ १८॥

(पटप्राणदृष्टान्ताभ्यां कार्यस्य कारणादनन्यता)

इदानीं कार्यस्य कारणादनन्यत्वे निदर्शनद्वयं द्वाभ्यां सूत्राभ्यां दर्शयति

१५७. पटवच्च १९

यथा तन्तव एव व्यतिषङ्गविशेषभाज: पट इति नामरूपकार्यान्तरादिकं भजन्ते; तद्वद्ब्रह्मापि॥१९॥

१५८. यथा प्राणादि: २०

यथा च वायुरेक एव शरीरे वृत्तिविशेषं भजमान: प्राणापानादिनामरूपकार्यान्तराणि भजते; तद्वद्ब्रह्मैकमेव विचित्रस्थिरत्रसरूपं जगद्भवतीति परमकारणात्परस्माद्ब्रह्मणोऽनन्यत्वं जगतस्सिद्धम्॥२०॥

इति श्रीशारीरकमीमांसाभाष्ये आरम्भणाधिकरणम्॥६॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.