श्रीभाष्यम् 02-01-08 उपसंहारदर्शनाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये उपसंहारदर्शनाधिकरणम् ८॥

(अधिकरणार्थः – अत्यद्भुतसर्वशक्तेर्ब्रह्मणः, इतरानपेक्षं सङ्कल्पमात्रतो जगत्सृष्टियोगः)

१६२. उपसंहारदर्शनान्नेति चेन्नक्षीरवद्धि २४

(अवान्तरसङ्गतिप्रदर्शनम्)

परस्य ब्रह्मणस्सर्वज्ञस्य सत्यसङ्कल्पस्य स्थूलसूक्ष्मावस्थसर्वचेतनाचेतनवस्तु शरीरतया सर्वप्रकारत्वेन सर्वात्मत्वं सकलेतरिवलक्षणत्वं चाविरुद्धमिति  स्थापितम्। इदानीं सत्यसङ्कल्पस्य परस्य ब्रह्मण: सङ्कल्पमात्रेण विचित्रजगत्सृष्टियोगो न विरुद्ध इति स्थाप्यते ॥

(एतदधिकरणोत्थापकशङ्कानुदयाक्षेपः)

ननु च परिमितशक्तीनां कारककलापोपसंहारसापेक्षत्वदर्शनेन सर्वशक्तेर्ब्रह्मण: कारककलापानुपसंहारेण जगत्कारणत्वविरोध: कथमाशङ्क्यते?; उच्यते – लोके तत्तत्कार्यजननशक्तियुक्तस्यापि तत्तदुपकरणापेक्षत्वदर्शनात्सर्वशक्तियुक्तस्य परस्य ब्रह्मणोऽपि तत्तदुपकरणविरहिण: स्रष्टृत्वं नोपपद्यत इति कस्यचिन्मन्दधियश्शङ्का जायत इति सा निराक्रियते ॥

(एतदधिकरणीयः पूर्वः पक्षः)

घटपटादिकारणभूतानां कुलालकुविन्दादीनां तज्जननसामर्थ्ये सत्यपि कानिचिदुपकरणान्युपसंहृत्यैव जनयितृत्वं दृश्यते। तज्जननाशक्ता: कारककलापोपसंहारेऽपि जनयितुं न शक्नुवन्ति; शक्ता: पुन: कारककलापोपसंहारे जनयन्तीत्येतावानेव विशेष:। ब्रह्मणोऽपि सर्वशक्ते: सर्वस्य जनयितृत्वं तदुपकरणानामनुपसंहारे नोपपद्यते ॥

(पूर्वपक्षहेतोः उपकरणानुपसंहारस्य श्रुतिप्रतिपन्नता)

प्राक्सृष्टेश्चासहायत्वं सदेव सोम्येदमग्र आसीत (छा.६.२.२) एको ह वै नारायण आसीत् (महोप.१.१) इत्यादिषु प्रतीयते। अतस्स्रष्टृत्वं नोपपद्यत इत्येवं प्राप्तम्। तदिदमाशङ्कते – उपसंहारदर्शनान्नेतिचेत् – इति॥

 (सिद्धान्तप्रदर्शनम्)

परिहरति – न क्षीरवद्धि – इति; न सर्वेषां कार्यजननशक्तानामुपसंहारसापेक्षत्वमस्ति; यथा क्षीरजलादेर्दधिहिमजननशक्तस्य तज्जनने; एवं ब्रह्मणोऽपि स्वयमेव सर्वजननशक्तेस्ससर्वस्य जनियतृत्वमुपपद्यते। हीति प्रसिद्धवन्निर्देशश्चोद्यस्य मन्दताख्यापनाय। क्षीरादिषु आतञ्जनादि अपेक्षा न दध्यादिभावाय; अपितु शैघ्र्यार्थं रसविशेषार्थं वा॥

१६३. देवादिवदपि लोके २५

यथा देवादय: स्वे स्वे लोके सङ्कल्पमात्रेण स्वापेक्षितानि सृजन्ति; तथाऽसौ पुरुषोत्तम: कृत्स्नं जगत्सङ्कल्पमात्रेण सृजति। देवादीनां वेदावगतशक्तीनां दृष्टान्ततयोपादानम्, ब्रह्मणो वेदावगतशक्तेस्सुखग्रहणायेति प्रतिपत्तव्यम्॥

इति श्रीशारीरकमीमांसाभाष्ये उपसंहारदर्शनाधिकरणम्॥८॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.