श्रीभाष्यम् 02-01-10 प्रयोजनवत्त्वाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये प्रयोजनवत्त्वाधिकरणम्॥१०॥

(अधिकरणार्थः – ब्रह्मणः अवाप्तसमस्तकामस्यापि, लीलार्थं सर्वजगत्स्रष्टृत्वोपपत्तिः)

(आप्तसमस्तकामस्य भगवतः जगत्सृष्टेः प्रयोजनाभावः)

(अतश्च जगत्कारणत्वानुपपत्तिः)

१७०. प्रयोजनवत्त्वात् ३२

यद्यपीश्वर: प्राक्सृष्टेरेक एव सन् सकलेतरविलक्षणत्वेन सर्वार्थशक्तियुक्त: स्वयमेव विचित्रं जगत्स्रष्टुं शक्नोति, तथापीश्वरकारणत्वं न सम्भवति, प्रयोजनवत्त्वाद्विचित्रसृष्टे:, ईश्वरस्य च प्रयोजनाभावात्। बुद्धिपूर्वकारिणामारम्भे द्विविधं हि प्रयोजनं – स्वार्थ: परार्थो वा। न हि परस्य ब्रह्मणस्स्वभावत एवावाप्तसमस्तकामस्य जगत्सर्गेण किञ्चन प्रयोजनमनवाप्तमवाप्यते। नापि परार्थ:, अवाप्तकामस्य परार्थता हि परानुग्रहेण भवति; न च ईदृशगर्भजन्मजरामरणनरकादि-नानाविधानन्तदु:खमूलं जगत्करुणावान् सृजति; प्रत्युत सुखैकतानमेव जनयेज्जगत्करुणया सृजन्। अत: प्रयोजनाभावाद्ब्रह्मण: कारणत्वं नोपपद्यत इति॥३२॥

(लीलारूपं प्रयोजनं निमित्तीकृत्य ब्रह्मणो जगत्कारणत्वसिद्धान्तः)

एवं प्राप्ते प्रचक्ष्महे –

१७१. लोकवत्तु लीलाकैवल्यम् ३३

अवाप्तसमस्तकामस्य परिपूर्णस्य स्वसङ्कल्पविकार्यविविधविचित्रचिदचिन्मिश्रजगत्सर्गे लीलैव केवला प्रयोजनाम्, लोकवत् – यथा लोके सप्तद्वीपामेव मेदिनीमधितिष्ठत: संपूर्णशौर्यवीर्यपरामक्रस्यापि महाराजस्य केवललीलैकप्रयोजना: कन्तुकाद्यारम्भा दृश्यन्ते; तथैव परस्यापि ब्रह्मण: स्वसङ्कल्पमात्रावकॢप्तजगज्जन्मस्थितिध्वंसादेर्लीलैव प्रयोजनमिति निरवद्यम्॥३३॥

(परमात्मनः सृष्टि वैविध्यनिबन्धनपक्षपातित्व-निर्दयत्वयोः शङ्का-परिहारौ)

१७२. वैषम्यनैर्घ्रृण्ये सापेक्षत्वात्तथा हि दर्शयति ३४

यद्यपि  परमपुरुषस्य सकलेतरचिदचिद्वस्तुविलक्षणस्याचिन्त्यशक्तियोगात्प्राक्सृष्टेरेकस्य निरवयवस्यापि विचित्रचिदचिन्मिश्रजगत्सृष्टिस्सम्भाव्येत, तथापि देवतिर्यङ्मनुष्यस्थावरात्मनः उत्कृष्टमध्यमापकृष्टसृष्ट्या पक्षपात: प्रसज्येत।  अतिघोरदु:खयोगकरणात् नैर्घ्रृण्यं चावर्जनीयमिति। तत्रोत्तरं – न सापेक्षत्वादिति; न प्रसज्येयातां वैषम्यनैर्घृण्ये, कुत: सापेक्षत्वात् – सृज्यमानदेवादिक्षेत्रज्ञकर्मसापेक्षत्वात्  विषमसृष्टे:। देवादीनां क्षेत्रज्ञानां देवादिशरीरयोगं तत्तत्कर्मसापेक्षं दर्शयन्ति हि श्रुतिस्मृतय: – साधुकारी साधुर्भवति पापकारी पापो भवति पुण्य: पुण्येन कर्मणा भवति पाप: पापेन कर्मणा, (बृ.६.४.५) तथा भगवता पराशरेणापि देवादिवैचित्र्यहेतु: सृज्यमानानां क्षेत्रज्ञानां प्राचीनकर्मशक्तिरेवेत्युक्तं – निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि। प्रधानकारणीभूता यतो वै सृज्यशक्तय: निमित्तमात्रं मुक्त्वैव नान्यत्किंचिदपेक्षते। नीयते तपतां श्रेष्ठ स्वशक्त्या वस्तु वस्तुताम् (वि.पु.१.४.५१,५२) इति। स्वशक्त्या स्वकर्मणैव देवादिवस्तुताप्राप्तिरिति॥ ३४॥

(सृष्टेः पूर्वं जीवानामेवाभावात् सृष्टिवैषम्यप्रयोजककर्माभावशङ्का-परिहारौ)

१७३. कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युलभ्यते ३५

प्राक्सृष्टे: क्षेत्रज्ञा न सन्ति; कुत:? अविभागश्रवणात्, सदेव सोम्येदमग्र आसीत् (छा.६.२.१) इति । अतस्तदानीं तदभावात्तत्कर्म न विद्यते; कथं तदपेक्षं सृष्टिवैषम्यमित्युच्यत इति चेत् – न, अनादित्वात् क्षेत्रज्ञानां तत्कर्मप्रवाहाणां च। तदनादित्वेऽप्यविभाग उपपद्यते च; यतस्तत् क्षेत्रज्ञवस्तु परित्यक्तनामरूपं ब्रह्मशरीरतयापि पृथग्व्यपदेशानर्हामतिसूक्ष्मम् । तथाऽनभ्युपगमे अकृताभ्यागमकृतविप्रणाशप्रसङ्गश्च । उपलभ्यते च तेषामनादित्वं – जायते म्रियते वा विपश्चित् (कठ.१.२.१८) इति। सृष्टिप्रवाहानादित्वं च सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् (तै.ना.१.१४) इत्यादौ। तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत (बृ.३-४-७) इति नामरूपव्याकरणमात्रश्रवणात् क्षेत्रज्ञानां स्वरूपानादित्वं सिद्धम्। स्मृतावपि प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि (भ.गी.१३.१९) इति। अतस्सर्वविलक्षणत्वात्सर्वशक्तित्वात्, लीलैकप्रयोजनत्वात्, क्षेत्रज्ञकर्मानुगण्येन विचित्रसृष्टियोगात् ब्रह्मैव जगत्कारणम् ॥ ३५॥

(ब्रह्मणो जगत्कारणत्वे निर्दुष्टतया सर्वार्थोपपन्नता)

१७४. सर्वधर्मोपपत्तेश्च ३६

प्रधानपरमाण्वादीनां कारणत्वे यद्धर्मवैकल्यमुक्तं, वक्ष्यमाणं च, तस्य सर्वस्य धर्मजातस्य कारणत्वोपपादिनो ब्रह्मण्युपपत्तेश्च ब्रह्मैव जगत्कारणमिति स्थितम्॥ ६३॥

इति श्रीशारीरकमीमांसाभाष्ये प्रयोजनवत्त्वाधिकरणम्॥१०॥

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये द्वितीयस्याध्यायस्य प्रथम:पाद:॥१॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.