श्रीभाष्यम् 02-04-06 ज्योतिराद्यधिष्ठानाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये ज्योतिराद्यधिष्ठानाधिकरणम्॥६॥

(अधिकरणद्वयार्थनिगमनम्)

२८१. ज्योतिराद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात् १३

(अधिकरणद्वयार्थनिगमनम्)

सश्रेष्ठानां प्राणानां ब्रह्मण उत्पत्तिरियत्तापरिमाणं चोक्तम्; तेषां प्राणानामग्न्यादिदेवताधिष्ठितत्वं च पूर्वमेव अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् (शारी.२.१.५) इत्यनेन सूत्रेण प्रसङ्गादुपपादितम्; जीवस्य च स्वभोगसाधनानामेषामधिष्ठातृत्वं लोकसिद्धम्, एवमेवैष एतान् प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते (बृ.४.१.१८) इत्यादिश्रुतिसिद्धं च।

(प्रकृतोपयोगी संशयः, पूर्वपक्षश्च)

तदिदं जीवस्याग्न्यादिदेवतानां च प्राणविषयमधिष्ठानं किं स्वायत्तम्; उत परमात्मायत्तमिति विषये नैरपेक्ष्यात्स्वायत्तम् ॥

(सिद्धान्तमुखेन सूत्रार्तवर्णनम्)

इति प्राप्त उच्यते – ज्योतिराद्यधिष्ठानमिति । प्राणवता – जीवेन सह ज्योतिरादीनामग्न्यादिदेवतानां प्राणविषयमधिष्ठानम्, तदामननात् – तस्य परमात्मन: आमननाद्भवति । आमननम् – आभिमुख्येन मननम्, परमात्मनस्सङ्कल्पादेव भवतीत्यर्थ:। कुत एतत्? शब्दात् – इन्द्रियाणां साभिमानिदेवतानां जीवात्मनश्च स्वकार्येषु परमपुरुषमननायत्तत्त्वशास्त्रात्। यथाऽन्तर्यामिब्राह्मणादिषु योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद यस्याग्निश्शरीरं योऽग्निमन्तरो यमयति आत्माऽन्तर्याम्यमृत: (बृ.५.७.५) यो वायौ तिष्ठन् (बृ...) आदित्ये तिष्ठन् (बृह.५.७.५) आत्मनि तिष्ठन् (बृह.५.७.५) यश्चक्षुषि तिष्ठन् (बृह.५.७.५) इत्यादि। यथा च भीषाऽस्माद्वात: पवते भीषोदेति सूर्य: भीषाऽस्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चम: (तै.आन.८.१) इति । तथा एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत: (बृ.५.८.९) इत्यादि ॥१३॥

(सर्वेषां परमात्माधिष्ठितत्वनैयत्यम्)

२८२. तस्य नित्यत्वात् १४

सर्वेषां परमात्माधिष्ठितत्वस्य नित्यत्वात्, स्वरूपानुबन्धित्वेन नियतत्वाच्च तत्सङ्कल्पादेवैषामधिष्ठातृत्वमवर्जनीयम्। तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्च त्यच्चाभवत् (तै.उ.आन.६-२-३) इत्यादिना परमपुरुषस्य नियन्तृत्वेन सर्वचिदचिद्वस्त्वनुप्रवेश: स्वरूपानुबन्धी श्रूयते; स्मर्यते च विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् (भ.गी.१०.४२) इति ॥१४॥

इति श्रीशारीरकमीमांसाभाष्ये ज्योतिराद्यधिष्ठानाधिकरणम् ॥६॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.