श्रीभाष्यम् 03-01-01 तदन्तरप्रतिपत्त्यधिकरणम्

श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये

तृतीयः साधनाध्यायः  ॥3 ॥

(अधिकरणानि – 55, सूत्राणि 182)

(अध्यायार्थः – परमकारण-परमपुरुषार्थभूतब्रह्मणः प्राप्त्युपायतया वेदान्तनिहितानां विद्यानां चिन्तनम्)

 प्रथम: वैराग्यपादः 3-1

(अधिकरणानि – 6, सूत्राणि – 27)

(पादार्थः – संसारचक्रे परिवर्तमानस्य जीवस्य जाग्रदवस्थाशेषभूतानां अपुरुषार्थभूतानां दोषाणां चिन्तनम्)

 तदन्तरप्रतिपत्त्यिधकरणम्॥

(पञ्चाग्निविद्याविषयम् – छा.उ.5-3-10)

(अधिकरणार्थः – देहाद्देहान्तरं गच्छतां जीवानां गतागती देहारम्भहेतुभिः भूतसूक्ष्मैः सहैव)

२८८. तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त: प्रश्ननिरूपणाभ्याम्

(सङ्गत्यर्थं पूर्वोत्तरद्विकार्थ (सिद्ध-साध्य) सङ्क्षेपः)

अतिक्रान्ताध्यायद्वयेन निखिलजगदेककारणं निरस्तनिखिलदोषगन्धमपरिमितोदार-गुणसागरं सकलेतरविलक्षणं परं ब्रह्म मुमुक्षुभिरुपास्यतया वेदान्ता: प्रतिपादयन्तीत्ययमर्थ: स्मृतिन्याय-विरोधिपरिहारपरपक्षप्रतिक्षेपवेदान्तवाक्यपरस्परविरोधपरिहाररूपकार्यस्वरूपसंशोधनै: तद्दुर्धर्षणत्वहेतुभिस्सह स्थापित:; अतोऽध्यायद्वयेन ब्रह्मस्वरूपं प्रतिपादितम्  ॥

उत्तरेणेदानीं तत्प्राप्त्युपायैस्सह प्राप्तिप्रकारश्चिन्तयितुमिष्यते  ॥

(तृतीयाध्यायार्थसंक्षेपः)

तत्र तृतीयाध्याये उपायभूतोपासनविषया चिन्ता वर्तते। उपासनारम्भाभ्यर्हितोपायश्च प्राप्यवस्तुव्यतिरिक्तवैतृष्ण्यम्, प्राप्यतृष्णा चेति;  तत्सिद्ध्यर्थं जीवस्य लोकान्तरेषु सञ्चरतो जाग्रतस्स्वपतस्सुषुप्तस्य मूर्च्छतश्च दोषा:, परस्य च ब्रह्मणस्तद्रहितता, कल्याणगुणाकरत्वं च प्रथमद्वितीययो: पादयो: प्रतिपाद्यन्ते  ॥

(प्रकृताधिकरणीयः संशयः)

तत्र देहाद्देहान्तरं गच्छन्नयं जीवो देहान्तरारम्भहेतुभिर्भूतसूक्ष्मैस्सम्परिष्वक्त एव गच्छति, उत नेति चिन्तायाम् –

(सयुक्तिकः पूर्वः पक्षः)

यत्र यत्र जीवो याति; तत्र तत्र भूतसूक्ष्माणां सुलभत्वादसम्परिष्वक्तो यातीति प्राप्तम्। पश्चादपि पूर्वपक्षबीजान्युपन्यस्य निरसिष्यति॥

(सूत्रतः सिद्धान्तस्वरूपवर्णनम्)

तत्र सिद्धान्तमाह  – तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्त:- इति। संज्ञामूर्तिप्ति:  (ब्र.सू. २.४.१७) इति मूर्तिशब्देन देह: प्रस्तुत:; स तच्छब्देन परामृश्यते । तदन्तरप्रतिपत्तौ – देहान्तरगमने भूतसूक्ष्मैस्सम्परिष्वक्तो जीवो रंहति – गच्छतीत्यर्थ:।

कुत:? प्रश्ननिरूपणाभ्यां – प्रश्नप्रतिवचनाभ्याम्।

(सूत्रोपात्तयोः प्रश्न-प्रतिवचनयोः निरूपणम्)

पञ्चाग्निविद्यायामेवं प्रश्नप्रतिवचने आम्नायेते – श्वेतकेतुं किलारुणेयं पाञ्चाल: प्रवाहण: कर्मिणां गन्तव्यदेशं, पुनरावृत्तिप्रकारं, देवयानपितृयाणपथव्यावर्तने, अमुष्य लोकस्याप्राप्तारं च वेत्थेति पृष्ट्वेदमपि पप्रच्छ – वेत्थ यथा पञ्चम्यामाहुतावाप: पुरुषवचसो  भवन्ति (छां. ५.३.३) इति। तत इमं पश्चिमं प्रश्नं प्रतिब्रुवंश्च द्युलोकमग्नित्वेन रूपयित्वा  तस्मिन्नेतस्मिन्नग्नौ देवा: श्रद्धां जुह्वति तस्या आहुतेस्सोमो राजा सम्भवति (छा.५.४.२) इत्यादिना – देवाख्या: जीवस्य प्राणा:  अग्नित्वेन रूपिते द्युलोके श्रद्धाख्यं वस्तु प्रक्षिपन्ति; सा च श्रद्धा सोमराजाख्यामृतमयदेहरूपेण परिणमते; तं चामृतमयं देहं त एव प्राणा: पर्जन्येऽग्नित्वेन रूपिते प्रक्षिपन्ति; स च देहस्तत्र प्रक्षिप्तो वर्षं भवति; तच्च वर्षं त एव प्राणा: पृथिव्यामग्नित्वरूपितायां प्रक्षिपन्ति; तच्च तत्र प्रक्षिप्तमन्नं भवति; तच्चान्नं त एव पुरुषेऽग्नित्वरूपिते प्रक्षिपन्ति; तच्च तत्र रेतो भवति; तच्च त एव योषायामग्नित्वरूपितायां प्रक्षिपन्ति; तच्च तत्र प्रक्षिप्तं गर्भो भवतीत्युक्त्वा आह –  इति तु पञ्चम्यामाहुतावाप: पुरुषवचसो  भवन्ति (छा.५.९.१) इति । एवं पञ्चम्यामाहुतौ हुतायामाप: पुरुषशब्दाभिलप्या भवन्तीत्यर्थ: ॥

(उक्तार्थसिद्धेर्निगमनम्)

एवमुक्ते – पूर्वास्वप्याहुतिष्वनुवर्तमानानामेवापां सूक्ष्मरूपाणामिदानीं पुरुषाकारत्वं भवतीत्युक्तं भवति। अत एवं प्रश्नप्रतिवचनाभ्यां देहहेतुभूतैर्भूतसूक्ष्मैस्सह तत्र  तत्रयातीति गम्यते॥१॥

(अद्भिः परिष्वङ्गवचसः सर्वभूतसूक्ष्मपरिष्वङ्गपरता)

ननु  आप: पुरुषवचस: (छा.५.९.१) इत्युक्ते अपां पुरुषाकारपरिणामप्रतीतेर्गच्छता जीवेन तासामेव परिष्वङ्ग: प्रतीयते; अत: कथं सर्वेषां भूतसूक्ष्माणां परिष्वङ्ग इति; तत्राह –

२८९. त्र्यात्मकत्वात्तु भूयस्त्वात्

तुशब्दश्चोद्यं व्यावर्तयति। देहारम्भकाणामपां केवलानां न देहारम्भसम्भव: देहाद्यारम्भाय हि तासां त्रिवृतं त्रिवृतमेकैकामकरोत् (छा.६.३.३) इति त्रिवृत्करणम्। केवलानामपां श्रवणं तु तासां भूयस्त्वात्। देहे च लोहितादिभूयस्त्वेनारम्भकेष्वपां भूयस्त्वं गम्यते॥२॥

(प्राणगतिश्रवणान्यथानुपपत्त्याऽपि भूतसूक्ष्मपरिष्वङ्गसिद्धिः)

२९०. प्राणगतेश्च॥

इतश्च भूतसूक्ष्मपरिष्वक्तस्य गमनमिति गम्यते। उत्क्रामति जीवे प्राणानां तदनुगतिश्श्रूयते – तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति (बृ. ६.४.२) इति। स्मर्यते च  मनष्षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति। शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वर: गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् (भ.गी.१५.७) इति। न च निराश्रयाणां गतिरुपपद्यत इति तदाश्रयभूतानां भूतसूक्ष्माणामपि गतिरभ्युपगन्तव्या ॥३॥

(वागादीनां प्राणानां अग्न्याद्यप्ययश्रुतेर्गौणतया निर्वाहः)

२९१. अग्न्यादिगतश्रुतेरिति चेन्न भाक्तत्वात्

यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति, वातं प्राणश्चक्षुरादित्यम् (बृ.५.२.१३) इत्यादिना प्राणानां जीवमरणकाले अग्न्यादिष्वप्ययश्रवणान्न तेषां जीवेन सह गमनमिति गतिश्रुतिरन्यथा नेयेति चेत् – न, भाक्तत्वात् अग्न्यादिष्वप्ययश्रवणस्य। कथं भाक्तत्वम्?  ओषधीर्लोमानि वनस्पतीन् केशा: (बृ.५.२.३) इत्यनपियद्भिर्लोमादिभिस्सह श्रवणात्। अतश्चक्षुराद्यप्ययश्रुतिः अधिष्ठातृदेवतापक्रमणपरा ॥४॥

(प्रथमहोमे अपाम् अश्रवणशङ्का, श्रद्धाशब्देन अपामभिधानात्परिहारश्च)

२९२. प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्ते:

यदुक्तमद्भिस्सूक्ष्माभिर्भूतान्तरसंसृष्टाभि: परिष्वक्तो जीवो गच्छतीति प्रश्नप्रतिवचनाभ्यामवगम्यत इति; तन्नोपपद्यते, द्युलोकाग्निविषये प्रथमे होमे अपां होम्यत्वाश्रवणात्।  तस्मिन्नेतस्मिन्नग्नौ देवा: श्रद्धां जुह्वति (छा.५.५.२) इति श्रद्धैव होम्यत्वेन श्रुता। श्रद्धा नाम जीवस्य मनोवृत्तिविशेषत्वेन प्रसिद्धा । अतो नापस्तत्र होम्या इति चेत् – न, यत: ता: आप एव श्रद्धाशब्देन तत्राभिधीयन्ते; कुत:? प्रश्नप्रतिवचनोपपत्ते: ॥

(प्रश्न-प्रतिवचनयोरुपादानम्)

            वेत्थ यथा पञ्चम्यामाहुतावाप: पुरुषवचसो  भवन्ति (छां.५.३.३) इति प्रश्नस्य प्रतिवनचोपक्रमे हि श्रद्धा द्युलोकाग्नौ होम्यत्वेन श्रुता; तत्र यदि श्रद्धाशब्देनापो नोच्येरन्; ततोऽन्यथा प्रश्नोऽन्यथा प्रतिवचनमित्यसङ्गतं स्यात्  इति तु पञ्चम्यामाहुतावाप: पुरुषवचस: (छा.५.९.१) इति प्रतिवचननिगमनं च श्रद्धाया अप्त्वमेव सूचयति।  वेत्थ यथा (छा. ५-३-३) इति हि प्रश्नगत: प्रकार:  इति तु पञ्चम्याम् (छां.५.३.३) इतीतिशब्देन परिहारे निगम्यते। श्रद्धासोमराजवर्षान्नरेतोगर्भरूपेणापां परिणाममुक्त्वा ह्येवमाप: पुरुषवचस इति निगम्यते।

(श्रद्धाशब्दस्य अप्परत्वोपपत्तिः)

श्रद्धाशब्दस्य चाप्सु वैदिकप्रयोगो दृश्यते –  अप: प्रणयति श्रद्धा वा आप: इति।  श्रद्धां जुह्वति (तै.ब्रा.२.४.३३) तथा आहुतेस्सोमो राजा सम्भवति (छां.५.४.२) इति सोमाकारेण परिणामश्चापामेवोपपद्यते। अतो भूतान्तरसंसृष्टाभिरद्भिस्सम्परिष्वक्तो जीवो रंहतीत्युपपन्नम् ॥५॥

(श्रुतौ जीवस्याश्रवणात् अप्परिष्वक्तजीवगमनासिद्धिशङ्का-परिहारौ)

२९३. अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीते:

यत्पुनरुक्तमद्भिस्संपरिष्वक्तो जीवो यातीत्ययमर्थ एतस्माद्वाक्यादवगम्यत इति; तन्नोपपद्यते,  अस्मिन्वाक्ये जीवस्याश्रवणात् । अत्र हि श्रद्धादय एवावस्थाविशेषा होम्यत्वेन श्रुता:; न तु जीवस्तत्परिष्वक्त इति चेत् – तन्न, इष्टादिकारिणां प्रतीते: – अस्मिन्नेव वाक्ये ह्युत्तरत्र ब्रह्मज्ञानविधुरेष्टापूर्तदत्तकारिणो द्युलोकं प्राप्य सोमराजानो  भवन्ति; पुण्यकर्मावसाने च पुनरागत्य गर्भं प्राप्नुवन्तीत्युच्यते  अथ इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति (छा.५.१०.३) इत्यारभ्य पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति (छां.५.१०.३)  तस्मिन्यावत्सम्पातमुषित्वाऽथैतमेवाध्वानं पुनर्निवर्तन्ते (छां.५.१०.३)  यो यो ह्यन्नमत्ति यो रेतस्सिञ्चति तद्भूय एव भवति (छां.५.१०.३) इति । अत्रापि द्युलोकाग्नौ  श्रद्धां जुह्वति तस्या आहुतेस्सोमो राजा सम्भवति इति तदेकार्थत्वाछ्रद्धावस्थदेहविशिष्टस्सोमरूपदेहविशिष्टो भवतीत्युक्तमिति गम्यते। देहस्य जीवविशेषणतैकस्वरूपस्य वाचक: शब्दो विशेष्ये जीव एव पर्यवस्यति; अतस्सम्परिष्वक्तो जीवो यातीत्युपपद्यते॥६॥

(सोमराजपदस्य जीवपरत्वाभावशङ्का-परिहारौ)

ननु च  तं देवा भक्षयन्ति (छां.५.१.-३) इति देवैर्भक्ष्यमाणत्ववचनात्  सोमो राजा (छां.५.१०.४) इति न जीव उच्यते, जीवस्यानदनीयत्वात्; तत्राह

२९४. भाक्तं वाऽनात्मवित्वात्तथा हि दर्शयति

वाशब्दश्चोद्यं  व्यावर्तयति। इष्टादिकारिणोऽनात्मवित्त्वात्स देवानां भोगोपकरणत्वेन इहामुत्र च वर्तते। इहेष्टादिना तदाराधनं कुर्वन्नुपकरोति; आराधनप्रीतैर्देवैर्दत्तममुं लोकं प्राप्य तत्र तत्समानभोगस्तदुपकरणं भवति । यथा पशुरेवं देवानाम् (बृ.३.४.१०) इत्यनात्मविदो देवानामुपकरणत्वं दर्शयति श्रुति: । स्मृतिरप्यात्मविदां ब्रह्मप्राप्तिमनात्मविदां च देवभोग्यत्वं दर्शयति  देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि (गी.७-२३) इति। अतो जीवस्य देवानां भोगोपकरणत्वाभिप्रायमन्नत्वेन भक्ष्यत्ववचनम्; अतस्तद्भाक्तम्। तेन तृप्तिरेव च देवानां भक्षणमिति श्रूयते   वै देवा अश्नन्ति पिबन्ति एतदेवामृतं दृष्ट्वा तृप्यन्ति (छा.३.६.१) इति। तस्माद्भूतसूक्ष्मैस्सम्परिष्वक्तो जीवो रंहतीति सिद्धम्॥७॥

इति श्रीशारीरकमीमांसाभाष्ये तदन्तरप्रतिपत्त्यधिकरणम्॥१॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.