श्रीभाष्यम् 03-01-03 अनिष्टादिकार्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये  अनिष्टादिकार्यधिकरणम्॥३॥

(अधिकरणार्थः – केवलपापकारिणां चन्द्रारोहावरोहौ विनैव गतागती)

२९९. अनिष्टादिकारिणामपि श्रुतम् १२

(सङ्गतिः, अधिकरणविचार्योंशश्च)

केवलेष्टापूर्तदत्तकारिणश्चन्द्रमसं गत्वा सानुशया एव निवर्तन्त इत्युक्तम्; इदानीमनिष्टादिकारिणोऽपि चन्द्रमसं गच्छन्ति, नेति चिन्त्यते । ये विहितं न कुर्वन्ति, निषिद्धं च कुर्वन्ति, त उभयेऽपि पापकर्माणोऽनिष्टादिकारिण: ।

(पूर्वपक्षारम्भः सयुक्तिकः)

किं युक्तम्? तेऽपि चन्द्रमसं गच्छन्तीति, कुत:? तेषामपि हि तद्गमनं श्रुतं –  ये वै केचास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति (कौषी.१.२) इत्यविशेषेण सर्वेषामेव गतिश्रवणात्॥१२॥

(पुण्यपापकर्मणोरुभयोरपि गतितौल्यशङ्का-परिहारौ)

एवं तर्हि सुकृतदुष्कृतकारिणोरुभयोरप्यविशिष्टैव गतिस्स्यात्; नेत्याह –

३००. संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् १३

तु शब्दश्शङ्कां व्यावर्तयति; इतरेषाम्  अनिष्टादिकारिणां चन्द्रारोहावरोहौ संयमने – यमशासने तत्प्रयुक्तयातना अनुभूयैव, नान्यथा; कुत:? तद्गतिदर्शनात् – दृश्यते हि पापकर्मणां यमवश्यतया तद्गमनम्  अयं लोको नास्ति पर इति मानी पुन:पुनर्वशमापद्यते मे (कठ.१-२- ६) वैवस्वतं सङ्गमनं जनानां यमं राजानम् (तै.आरण्.२.१) इत्यादिषु॥३॥

(अविशेषेण सर्वेषां यमवश्यतास्मृतिः)

३०१. स्मरन्ति ॥३१४॥

स्मरन्ति च सर्वेषां यमवश्यतां पराशरादय:  सर्वे चैते वशं यान्ति यमस्य भगवन्किल (वि.पु ३-७-५) इत्यादिषु॥१४॥

(पापकारिभिर्गन्तव्याः सप्त नरकाः)

३०२. अपि सप्त॥ १५

पापकर्मणां गन्तव्यत्वेन रौरवादीन् सप्त नरकानपि स्मरन्ति॥१५॥

ननु सप्तसु लोकेषु गच्छतां कथं यमसदनप्राप्ति:, अत आह –

(सप्तलोकेषु यमसम्बन्धोपपत्तिः)

३०३. तत्रापि तद्व्यापारादविरोध: १६

तेष्वपि सप्तसु यमाज्ञयैव गमनादविरोध: ।

(पूर्वपक्षोपसंहरणम्)

अतोऽनिष्टादिकारिणामपि यमलोकं प्राप्य स्वकर्मानुरूपं यातनाश्चानुभूय पश्चाच्चन्द्रारोहावरोहौ स्त: ॥१६॥

(सिद्धान्तारम्भः)

इति प्राप्त उच्यते –

३०४. विद्याकर्मणोरिति तु प्रकृतत्वात् १७

तु शब्द: पक्षव्यावृत्त्यर्थ:।  अनिष्टादिकारिणामपि चन्द्रप्राप्तिरस्तीत्येतन्नोपपद्यते; कुत:? विद्याकर्मणोरिति विद्याकर्मणो: फलभोगार्थत्वाद्देवयानपितृयाणयो:।

(विद्याप्रसङ्गस्य दृष्टान्तार्थत्वम्)

            एतदुक्तं भवति –  अनिष्टादिकारिणां यथा विद्याविधुरत्वाद्देवयानेन पथा गमनं न सम्भवति; तद्वदेवेष्टापूर्तदत्तविधुरत्वात्पितृयाणेन चन्द्रगमनमपि न सम्भवति – इति ।

(उक्तविभागावगमकप्रदर्शनम्)

देवयानपितृयाणयो: विद्याविषयत्वं पुण्यकर्मविषयत्वं च कथमवगम्यत इति चेत् – प्रकृतत्वात्तयो:। प्रकृता हि देवयाने विद्या, पितृयाणे कर्म  तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते (छा.५.१०.१) इत्युक्त्वा  तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽह: (छा.५.१०.१) इत्यादिना देवयानवचनात्,  अथ इमे ग्राम इष्टापूर्ते दत्तमित्युपासते (छां.५.१०.३) इत्युक्त्वा  ते धूममभिसम्भवन्ति (छा.५.१०.३) इत्यादिना पितृयाणवचनाच्च  ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति (कौषी.१.२) इत्येतदपि वचनं  य इष्टादिकारिण: ते सर्वे इति परिणेयम् ॥

(पापकर्मिणां चन्द्रगमनाभावे शरीरानारम्भशङ्का-परिहारौ)

ननु पापकर्मणां चन्द्रगमनाभावे पञ्चमाहुत्यसम्भवाच्छरीरारम्भ एव नोपपद्यते;  पञ्चम्यामाहुतावाप: पुरुषवचसो  भवन्ति (छा.५.९.१) इति हि शरीराम्भश्श्रूयते, सा चाहुतिश्चन्द्रप्राप्तिपूर्विकेति दर्शितम्; अतश्शरीरारम्भायैव तेषामपि चन्द्रारोहावरोहाववश्याभ्युपेत्यौ इत्यत आह –

३०५. तृतीये तथोपलब्धे: १८

तृतीयस्थानस्य शरीरारम्भाय न पञ्चमाहुत्यपेक्षा; कुत:? तथोपलब्धे: – तृतीयस्थानशब्देन केवलपापकर्माण उच्यन्ते, तेषां देहारम्भे पञ्चमाहुत्यनपेक्षत्वमुपलभ्यते  वेत्थ यथा केनासौ लोकाे संपूर्यते (छा.५.३.३) इत्यस्य प्रश्नस्य प्रतिवचने  अथैतयो: पथोर्न कतरेण तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि  भवन्ति जायस्व म्रियस्वेत्येतत्तृतीयं स्थानं तेनासौ लोको संपूर्यते (छा.५.१०.८) इति तृतीयस्थानस्य द्युलोकारोहावरोहाभावेन द्युलोकासंपूर्तिवचनादस्य तृतीयस्थानस्य शरीरारम्भाय न पञ्चमाहुत्यपेक्षा ।  पञ्चम्यामाहुतौ (छा.६.३.१) इति चापां पञ्चमाग्निसम्बन्धस्य पुरुषवचस्त्वहेतुत्वमात्रं प्रतिपादयति, नान्यन्निवारयति, अवधारणाश्रवणात् ॥१८॥

(मनुष्येष्वपि केषुचित् देहारम्भे पञ्चमाहुत्यनपेक्षा)

३०६. स्मर्यतेऽपि लोके १९

पुण्यकर्मणामपि केषाञ्चित्पञ्चमाहुत्यनपेक्षया देहारम्भो लोके स्मर्यते द्रौपदीधृष्टद्युम्नप्रभृतीनाम्॥१९॥

(पञ्चमाहुत्यनपेक्षया देहारम्भस्य श्रुतितोऽपि सिद्धिः)

३०७. दर्शनाच्च २०

श्रुतावपि दृश्यते केषाञ्चित्पञ्चमाहुत्यनपेक्षया देहारम्भ:  तेषां खल्वेषां भूतानां त्रीण्येव बीजानि  भवन्ति आण्डजं जीवजमुद्भिज्जम् (छां. ६.३.१) इति। एषूद्भिज्जस्वेदजयो: भूतयो: पञ्चमाहुतिमन्तरेणोत्पत्तिर्दृश्यते॥२०॥

(उद्भिज्जशब्देन स्वेदजानां सङ्ग्रहः)

ननु स्वेदजानामत्र न सङ्कीर्तनमस्ति  त्रीण्येव बीजानि (छां.६.३.१) इति वनचात्; तत्राह –

३०८. तृतीयशब्दावरोधस्संशोकजस्य॥ २१

संशोकजस्य – स्वेदजस्यापि  आण्डजं जीवजमुद्भिज्जम् (छा.६.३.१) इत्यत्र तृतीयेनोद्भिज्जशब्देनावरोध: संग्रहो विद्यत इत्यर्थ:; अत: केवलपापकर्मणां चन्द्रप्राप्तिर्न सम्भवति॥२१॥

इति श्रीशारीरकमीमांसाभाष्ये अनिष्टादिकार्यधिकरणम् ॥३॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.