श्रीभाष्यम् 03-01-06 अन्याधिष्ठिताधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अन्याधिष्ठिताधिकरणम् ६॥

(अधिकरणार्थः – अवरोहतो जीवस्य व्रीह्यादिभावः, व्रीह्यादिसंश्लेषमात्रम्, न व्रीह्यादिशरीरकं ब्रह्म)

३११. अन्याधिष्ठिते पूर्ववदभिलापात्॥ २४

अवरोहन्तो जीवा: व्रीह्यादिभावेन जायन्त इति श्रूयते  मेघो भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा जायन्ते (छा.५.१०.६) इति ।

(तत्रत्यो विचारांशः प्रकृतः)

ते किमन्यैर्भोक्तृभिर्व्रीह्यादि-शरीरैरधिष्ठितान्व्रीह्यादीनाश्लिष्यन्ति; उत ते भोक्तारो व्रीह्यादिशरीरा जायन्त इति विशये,

(पूर्वपक्षः युक्तिसहितः)

            जायन्ते (छा.५.१०.६.७) इति वचनाद्देवो जायते मनुष्यो जायत इतिवद्व्रीह्यादिशरीरा एव।

(सिद्धान्तार्थः सौत्रार्थविवरणतः)

इति प्राप्ते उच्यते – अन्याधिष्ठिते इति। जीवान्तरेणाधिष्ठिते व्रीह्यादिशरीरे तेषां संश्लेषमात्रमेव। कुत:? पूर्ववदभिलापात् – आकाशादिमेघपर्यन्तवत्केवल तद्भावाभिलापात् । यत्र हि भोक्तृत्वमभिप्रेतम्; तत्र तत्साधनभूतं कर्माभिलप्यते  रममीयचरणा: … कपूयचरणा: (छा.५.१०.७) इति । इह चाकाशादिवन्नाभिलप्यते कर्म, फलप्रदाने प्रवृत्तस्य स्वर्गोपभोग्यफलस्येष्टादे: कर्मण: स्वर्गोपभोगादेव समाप्तत्वात्, अनारब्धस्य  रमणीयचरणा:…….कपूयचरणा: (छा.५.१०.७) इति वक्ष्यमाणत्वात्, मध्ये कर्मान्तराभावाच्च। अत आकाशादिभाववचनवद्व्रीह्यादिभावेन जन्मवचनमौपचारिकम्॥२४॥

(स्वर्गोपभोगोपधायककर्मणः पापत्वशङ्का)

(तत्परिहारश्च सूत्रतः)

३१२. अशुद्धमिति चेन्न शब्दात् २५

नैतदस्ति – यदन्याधिष्ठिते व्रीह्यादिशरीरे संश्लेषमात्रम्, भोक्तृत्वहेत्वभावान्न व्रीह्यादिभावेन जन्म – इति भोक्तृत्वहेतुसद्भावात् स्वर्गोपभोग्यफलमिष्टादिकर्मैवाशुद्धम् – पापमिश्रम्, अग्नीषोमीयादि हिंसायुक्तत्वात् । हिंसा च  न हिंस्यात्सर्वा भूतानि इति निषिद्धत्वात्पापमेव।

(हिंसानिषेधस्य औत्सर्गिकत्वायोगः)

न चात्र पदाहवनीयादिवदुत्सर्गापवादभावस्सम्भवति, भिन्नविषयत्वात्। अग्नीषोमीयहिंसा-विधि: हिंसाया: क्रतूपकारकत्वं बोधयति;  न हिंस्यात् इति तु हिंसाया: प्रत्यवायफलत्वम्।

(प्रभाकरोक्तः परिहारः, तद्दूषणं च)

अथोच्येत – अग्नीषोमीयादिषु विधित: प्रवृत्तेर्न  तद्विषयं निषेधविधिरास्कन्दति, रागप्राप्तविषयत्वात्तस्येति; नैवम्, इहापि रागप्राप्तेरविशिष्टत्वात्।  स्वर्गकामो यजेत (यजु.२.५.५) इत्येवमादौ हि कामिन: कर्तव्यतया यागाद्युपदेशाद्यागादे: स्वर्गादिसाधनत्वमवगम्य फलरागत एव यागादौ प्रवर्तते । अग्नीषोमीयादिष्वपि तेषां फलसाधनभूतस्य यागादेरुपकारकत्वं शास्त्रादवगम्य रागादेव प्रवर्तते । लौकिक्यामपि हिंसायां केनचित्प्रमाणेन हिंसाया: स्वसमीहितसाधनत्वमवगम्य रागात्प्रवर्तत इति न कश्चन विशेष: । तथा नित्येष्वपि कर्मसु  सर्ववर्णानां स्वधर्मानुष्ठाने परमपरिमितं सुखम् (आप.श्रौ.२.१.२.२) इत्यादिवचनात्फल- साधनत्वमवगम्य रागादेव प्रवृत्तिरिति तेषामप्यशुद्धियुक्तत्वम् ।

(शङ्कोपसंहारः)

अत इष्टादीनां पापमिश्रत्वेनाशुद्धियुक्तानां स्वर्गेऽनुभाव्यं फलं स्वर्गेऽनुभूय हिंसांशस्य फलं व्रीह्यादिस्थावरभावेनानुभूयते। स्थावरभावं च पापफलं स्मरन्ति  शरीरजै: कमदोषैर्याति स्थावरतां नर: (मनु.१.२.९) इति । अतो व्रीह्यादिभावेन भोगायानुशयिनो जायन्त इति चेत् –

(प्राप्तशङ्कादूषणम्, सूत्रोत्तरखण्डेन)

तन्न, कुत:? शब्दात् – अग्नीषोमीयादेस्संज्ञपनस्य स्वर्गलोकप्राप्तिहेतुतया हिंसात्वाभावशब्दात्। पशोर्हि संज्ञपननिमित्तां स्वर्गलोकप्राप्तिं वदन्तं शब्दमामनन्ति, हिरण्यशरीर ऊर्ध्व: स्वर्गं लोकमेति इत्यादिकम् ।  अतिशयिताभ्युदयसाधनभूतो व्यापारोऽल्पदु:खदोऽपि न हिंसा; प्रत्युत रक्षणमेव । तथा च मन्त्रवर्ण:  वा एतन्म्रियसे रिष्यसि देवान् इदेषि पथिभिस्सुगेभि: यत्र यन्ति सुकृतो नापि दुष्कृतस्तत्र त्वा देवस्सविता दधातु (तै.ब्रा.३.७.९२) इति। चिकित्सकं च तादात्विकाल्पदु:खकारिणमपि रक्षकमेव वदन्ति, पूजयन्ति च तज्ज्ञा:॥२५॥

(अवरोहतो जीवस्य रेतः सेकमिव व्रीह्यादावपि संश्लेष एव)

३१३. रेतस्सिग्योगोऽथ २६

इतश्चौपचारिकं व्रीह्यादिजन्मवचनम्, व्रीह्यादिभाववचनानन्तरं  यो यो ह्यन्नमत्ति यो रेतस्सिञ्चति तद्भूय एव भवति (छा.५.१०.६) इति रेतस्सिग्भावोऽनुशयिनां श्रूयमाणो यथा तद्योगमात्रं प्रतिपादयति; तद्वद्ब्रीह्यादिभावोऽपीत्यर्थ:॥२६॥

(शरीरप्राप्तेः योनिप्राप्त्यनन्तरभाविता)

३१४. योनेश्शरीरम् २७

योनिप्राप्ते: पश्चादेवानुशयिनां शरीरप्राप्ति: तत्रैव सुखदु:खोपभोगसद्भावात् ।  तत: प्रागाकाशादिप्राप्तिप्रभृति तद्योगमात्रमेवेत्यर्थ: ॥ २७ ॥

इति श्रीशारीरकमीमांसाभाष्ये अन्याधिष्ठिताधिकरणम् ॥६॥

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये तृतीयस्याध्यायस्य प्रथम:पाद: ॥१॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.