श्रीभाष्यम् 03-01-02 कृतात्ययाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये कृतात्ययाधिकरणम्॥२॥

(अधिकरणार्थः सुकृतफलमनुभूय अमुष्माल्लोकान्निवर्तमानस्य भुक्तशेषेण कर्मणा सहैव जीवस्य प्रत्यवरोहः)

२९५. कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथेतमनेवं

(सङ्गतिप्रतिपादनं विषयश्च)

केवलेष्टापूर्तदत्तकारिणां धूमादिना पितृयाणेन पथा गमनं कर्मफलावसाने पुनरावर्तनं चाम्नातं  यावत्सम्पातमुषित्वाऽथैतमेवाध्वानं पुनिर्निवर्तन्ते (छा.५.१०.३) इति  ॥

(अधिकरणीयः संशयः)

तत्र प्रत्यवरोहन् जीव: किमनुशयवान् प्रत्यवरोहति, उत नेति संशय्यते ।

(पूर्वपक्षः सयुक्तिकः)

किं युक्तम्? कर्मण: कृत्स्नस्योपभुक्तत्वात् नानुशयवानिति प्राप्तम् । अनुशयो ह्युपभुक्तशिष्टं कर्म। तच्च कृत्स्नफलोपभोगे सति नावशिष्यते ।  यावत्सम्पातमुषित्वा (छा.५.१०.४) इति वचनात् कृत्स्नोपभोगश्च ज्ञायते । सम्पतन्त्यनेन स्वर्गं लोकमिति सम्पात: कर्मोच्यते। श्रुत्यन्तरं च  प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् ।  तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे (बृ.६.४.६) इति॥

(सिद्धान्तस्य प्रतिपादनम्)

एवं प्राप्तेऽभिधीयते – अनुशयवान् प्रत्यवरोहति – इति। कुत:? दृष्टस्मृतिभ्याम्  – श्रुतिस्मृतिभ्यामित्यर्थ:। श्रुतिस्तावत् – तद्य इह रमणीयचरणा अभ्याशो यत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं क्षत्रिययोनिं वैश्ययोनिं वा अथ इह कपूयचरणा अभ्याशो यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डलायोनिं वा (छा.५.१०.७) इति प्रत्यवरूढान् प्रति श्रूयते। अमुष्माल्लोकात्प्रत्यवरूढेषु रमणीयकर्माणो रमणीयां ब्राह्मणादियोनिं प्रतिपद्यन्ते; कपूयचरणा: – कुत्सितकर्माण: कुत्सितां श्वसूकरचण्डलादियोनिं प्रतिपद्यन्त इति प्रत्यवरूढानां पुण्यपापकर्मयोगं दर्शयति । स्मृतिरपि  वर्णा आश्रमाश्च स्वकर्मनिष्ठा: प्रेत्य कर्मफलमनुभूय तत: शेषेण विशिष्टदेशजातिकुलरूपायुश्श्रुतवित्तवृत्तसुखमेधसो जन्म प्रतिपद्यन्ते विष्वञ्चो विपरीता नश्यन्ति (गौतम.२.११.१२,१३) इति । तथा  तत: परिवृत्तौ कर्मफलशेषेण जातिं रूपं वर्णं बलं मेधां प्रज्ञां द्रव्याणि धर्मानुष्ठानमिति प्रतिपद्यन्ते तच्चक्रवदुभयोर्लोकयोस्सुख एव वर्तते (आपस्तम्ब.२.१.२,३) इति ।  यावत्सम्पातम् (छा.५.१०.७) इति फलदानप्रवृत्तकर्मविशेषविषयम्;  यत्किंचेह करोत्ययम् (बृ.६.४.६) इतीदमपि  तद्विषयमेव । अभुक्तफलानामकृतप्रायश्चित्तानां च कर्मणां कर्मान्तरफलानुभवान्नाशोऽप्यनुपपन्न:। अतोऽमुं लोकं गतास्सानुशया एव यथेतमनेवं च पुनर्निवर्तन्ते – आरोहणप्रकारेण प्रकारान्तरेण च पुनर्निवर्तन्त इत्यर्थ: ।

(आरोहणावरोहणक्रमयोः विवरणम्)

आरोहणं हि धूमरात्र्यपरपक्षदक्षिणायनषण्मासपितृलोकाकाशचन्द्रक्रमेण। अवरोहणं तु चन्द्रमस: स्थानादाकाश-वायुधूमाभ्रमेघक्रमेण। तत्राकाशावरोहणाद्यथेतम्; वाय्वादिप्राप्ते: पितृलोकाद्यप्राप्तेश्चानेवम् ॥८॥

(चरण शब्दस्य पुण्यपापपरत्वाभावशङ्का-परिहारौ)

२९६. चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनि:

रमणीयचरणा: (छा.५.१०.७)  कपूयचरणा: (छां.५.१०.७) इति न चरणशब्देन पुण्यपापरूपं कर्माभिधीयते, चरणशब्दस्य लोकवेदयोराचारे प्रसिद्धे: । लौकिका: खलु चरणमाचार: शीलं वृत्तमिति पर्यायानभिमन्यते । वेदे च यान्यनवद्यानि कर्माणि तानि सेवितव्यानि (तै.शि.११.२) यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि (तै.शि. ११.२) इति चरणकर्मणी भेदेन व्यपदिश्येते, अत: चरणात् – शीलात् योनिविशेषप्राप्ति:, नानुशयादिति चेत् – तन्न, चरणश्रुति: कर्मोपलक्षणार्थेति कार्ष्णाजिनिराचार्यो मन्यते, केवलादाचारात्सुखदु:खप्राप्त्यसम्भवात्। सुखदु:खे हि पुण्यपापरूपकर्मफले॥९॥

(आचारवैफल्यात् तद्विधानानर्थक्यशङ्का-परिहारौ)

२९७. आनर्थक्यमिति चेन्न तदपेक्षत्वात् १०

एवं तर्ह्यफलत्वादाचारस्य स्मृतिविहितस्यानर्थक्यमेवेति चेत् – तन्न तदपेक्षत्वात्पुण्यस्य कर्मण:। आचारवत एव पुण्यकर्मस्वधिकार: –  सन्ध्याहीनोऽशुचिर्नित्यमनर्हास्सर्वकर्मसु (दक्ष.स्मृ. २-२२)  आचारहीनं पुनन्ति वेदा: इत्यादिवचनेभ्य:। अतश्चरणश्रुति: कर्मोपलक्षणार्थेति कार्ष्णाजिनेरभिप्राय: ॥१०॥

(चरणशब्दाभिधेयत्वं पुण्यपापकर्मणोरेवेति बादर्याशयः)

२९८. सुकृतदुष्कृते एवेति तु बादरि: ११

पुण्यं कर्माचरति, पापं  कर्माचरति इति कर्मणि चरते: प्रयोगात् पृथङ्निर्देशस्य च प्रत्यक्षश्रुतिसिद्धाचारानुमितश्रुतिसिद्धविषयत्वेन गोबलीवर्दन्यायेनोपपत्ते:। मुख्ये सम्भवति न लक्षणा न्याय्येति सुकृतदुष्कृते एव चरणशब्दाभिधेये; इति बादरिराचार्यो मन्यते ।

(अस्मिन् विषये बादरिमतस्यैव बादरायणमतत्वम्)

अत्र बादरिमतमेव स्वमतम्; आचारानुमितश्रुतिविहितसन्ध्यावन्दनादे: कर्मान्तराधिकार-सम्पादनं फलमिति तु स्वीकृतम्। अतस्सानुशया एव प्रत्यवरोहन्ति॥ ११॥

इति श्रीशारीरकमीमांसाभाष्ये कृतात्ययाधिकरणम्॥२॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.