श्रीभाष्यम् 04-03-05 कार्याधिकरणम्

श्री शारीरकमीमांसाभाष्ये कार्याधिकरणम्॥६॥

(अधिकरणार्थः – अर्चिरादिरातिवाहिको गणः ब्रह्मात्मकं प्रकृतिवियुक्तात्मानं च उपासीनानेव ब्रह्मपदं नयति, न तु कार्यं हिरण्यगर्भादिकमुपासीनान्)

५१४. कार्यं बादरिरस्य गत्युपपत्ते:

(अवान्तरसङ्गतिप्रदर्शनम्)

अर्चिरादिनैव गच्छति विद्वान्; अर्चिरादिरमानवान्तश्च गण आतिवाहिको विद्वांसं ब्रह्म गमयतीत्युक्तम्।

(प्रकृताधिकरणार्था चिन्ता)

इदमिदानीं चिन्त्यते । किमयमर्चिरादिको गण: कार्यं हिरण्यगर्भमुपासीनान्नयति, उत परमेव ब्रह्मोपासीनान्, अथ परं ब्रह्मोपासीनान् प्रत्यगात्मानं ब्रह्मात्मकतयोपासीनांश्च – इति विशये –

(सूत्रार्थतः बादरिमतप्रदर्शनम्)

कार्यमुपासीनानेव गमयतीति बादरिराचार्यो मन्यते। कुत:? अस्य – हिरण्यगर्भमुपासीनस्यैव गत्युपपत्ते:; न हि परिपूर्णं सर्वज्ञं सर्वगतं सर्वात्मभूतं परं ब्रह्मोपासीनस्य तत्प्राप्तये देशान्तरगतिरुपपद्यते, प्राप्तत्वादेव  ॥

(उपासनवैयर्थ्यपरिहारः)

नित्यप्राप्तपरब्रह्मविषयाविद्यानिवृत्तिमात्रमेव हि परविद्याकार्यम्। कार्यं तु हिरण्यगर्भरूपं ब्रह्मोपासीनस्य परिच्छिन्नदेशवर्तिप्राप्यप्राप्त्यर्थं गमनमुपपद्यते। अतोऽर्चिरादिरातिवाहिकगणः तमेव नयति ॥६॥

(उक्तबातरिमताभ्युच्चायकश्रुतिः)

५१५. विशेषितत्वाच्च

पुरुषोऽमानव एत्य ब्रह्मलोकान्गमयति (बृ.८.२.१५) इति लोकशब्देन बहुवचनेन च लौकिकविशेषवर्तिनं हिरण्यगर्भमुपासीनमेवामानवो गमयतीति विशेष्यते। किञ्च  प्रजापतेस्सभां वेश्म प्रपद्ये (छां.८.१४.१) इति कार्यस्य हिरण्यगर्भस्य समीपगमनमर्चिरादिना गत: प्रत्यभिसन्धत्ते ॥७॥

(उक्तपक्षे ब्रह्म गमयतीति निर्देशौचित्यम्)

नन्वेवं  तत्पुरुषोऽमानव: (छा.४.१५.५)  एनान् ब्रह्म गमयति (छां.४.१४.६) इत्ययं निर्देशो नोपपद्यते; हिरण्यगर्भनयने हि स एनान् ब्रह्माणं गमयति इति निर्देष्टव्यं स्यात्; अत आह-

५१६. सामीप्यात्तु तद्व्यपदेश:

यो ब्रह्माणं विदधाति (श्वे.६.१८) इति हिरण्यगर्भस्य प्रथमजत्वेन ब्रह्मसामीप्यात्तस्य ब्रह्मशब्देन व्यपदेश इति गत्यनुपपत्तिविशेषणादिभिरुक्तैर्हेातुभिर्निश्चीयत इत्यर्थ: ॥८॥

(कार्यब्रह्मपरत्वेऽपि अमृतत्वाद्युक्तिनिर्वाहः)

अथ स्यात् –  अर्चिरादिना हिरण्यगर्भप्राप्तौ  एष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते (छा.४.१५.६)  तयोर्ध्वमायन्नमृतत्वमेति (कठ.२.६.१६)  इत्यमृतत्वप्राप्त्यपुनरावृत्तिव्यपदेशो नोपपद्यते, हिरण्यगर्भस्य कार्यभूतस्य द्विपरार्धकालावसाने विनाशशास्त्रात्, आब्रह्मभुवनाल्लोका: पुनरावर्तिनोऽर्जुन (भ.गी.८.१६) इति वचनाद्धिरण्यगर्भं प्राप्तस्य पुनरावृतेरवर्जनीयत्वादिति; अत्राह –

५१७. कार्यात्यये तदध्यक्षेण सहात: परमभिधानात्

कार्यस्य ब्रह्मलोकस्यात्यये तदध्यक्षेण – हिरण्यगर्भेणाधिकारिकेणावसिताधिकारेण विदुषा सह स्वयमपि तत्राधिगतविद्य:; अत: कार्याद्ब्रह्मलोकात् परं ब्रह्म प्राप्नोतीत्यर्चिरादिना गतस्यामृतत्वप्राप्त्यपुनरावृत्त्यभिधानात्  ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे (तै.ना.१०.२४.५) इति वचनाच्चावगम्यते ॥९॥

(उक्तार्थस्य स्मृतितोऽपि सिद्धिः)

५१८. स्मृतेश्च १०

स्मृतेश्चायमर्थोऽवगम्यते – ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मन: प्रविशन्ति परं पदम्  इति । अत: कार्यमुपासीनमेवार्चिरादिको गणो नयतीति बादरेर्मतम्॥१०॥

(ब्रह्मशब्दमुख्यत्वानुगुणं जैमिनिमतम्)

अत्र जैमिनि: पक्षान्तरपरिग्रहेण प्रत्यवतिष्ठते –

५१९. परं जैमिनिर्मुख्यत्वात् ११

परं ब्रह्मोपासीनानर्चिरादिर्नयतीति जैमिनिराचार्यो मन्यते; कुत:? मुख्यत्वात् –  तत्पुरुषोऽमानवस्स एनान् ब्रह्म गमयति इति ब्रह्मशब्दस्य परस्मिन्नेव ब्रह्मणि मुख्यत्वात् । प्रामाणान्तरेण कार्यत्वनिश्चये सत्येव हि लाक्षणिकत्वं युक्तम् ।

(गमनान्यथानुपपत्तेः कार्यब्रह्मगमकतानिरासः)

न च गमनानुपपत्ति: प्रमाणम्, परस्य ब्रह्मणस्सर्वगतत्वेऽपि विदुषो विशिष्टदेशगतस्यैव अविद्यानिवृत्तिशास्त्रात् । यथा हि विद्योत्पत्तिर्वर्णाश्रमधर्मशौचाचारदेशकालाद्यपेक्षा तमेतं वेदानुवचनेन इत्यादिशास्त्रादवगम्यते, तथा निश्शेषाविद्यानिवर्तनरूपविद्यानिष्पत्तिरपि विशिष्टदेशगतिसापेक्षेति गतिशास्त्रादवगम्यते । विदुष उत्क्रान्तिप्रतिषेधादि तु पूर्वमेव परिहृतम् ।

(विशेषितत्वाच्चेति सूत्रोक्तयुक्तिनिरासः)

यत्तु  ब्रह्मलोकान् (बृ.८-२-१५) इति लोकशब्दबहुवचनाभ्यां विशेषणात्कार्य- भूतहिरण्यगर्भप्रतीतिरिति; तदयुक्तम्, निषादस्थपतिन्यायेन ब्रह्मैव लोको ब्रह्मलोक इति कर्मधारयस्यैव युक्तत्वात्, अर्थस्य चैकत्वे निश्चिते बहुवचनम् अदिति: पाशान्  (जै.मी.सू.९.३.५) इतिवदुपपत्ते:; परस्य ब्रह्मण: परिपूर्णस्य सर्वगतस्य सत्यसङ्कल्पस्य स्वेच्छापरिकल्पिता:  स्वासाधारणा अप्राकृताश्च लोका नात्यन्ताय न सन्ति, श्रुतिस्मृतीतिहासपुराणप्रामाण्यात्॥११॥

(देहान्निष्क्रममाणस्य श्रौतत्वज्ञापनम्)

५२०. दर्शनाच्च १२

दर्शयति श्रुति: मूर्धन्यनाड्या निष्क्रम्य देवयानेन गतस्य परब्रह्मप्राप्तिम्  एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते इति॥१२॥

(कार्यब्रह्मप्रत्यभिज्ञापकनिरासः)

यदुक्तं  प्रजापतेस्सभां वेश्म प्रपद्ये इत्यर्चिरादिना गतस्य कार्ये प्रत्यभिसन्धिर्दृश्यत इति तत्रोत्तरं –

५२१. कार्ये प्रत्यभिसन्धि: १३

न चायं प्रत्यभिसन्धि: कार्ये हिरण्यगर्भे;  अपि तु परस्मिन्नेव ब्रह्मणि, वाक्यशेषे  यशोऽहं भवामि ब्राह्मणानाम् (छा.८.१४.१) इति तस्याभिसन्धातुस्सर्वाविद्याविमोकपूर्वकसर्वात्म-भावाभिसन्धानात्, अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य। धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानि (छा.८.१३.१) इत्यभिसम्भाव्यस्य ब्रह्मलोकस्याकृतत्वश्रवणात्, सर्वबन्धविनिर्मोकस्य च साक्षाच्छ्रवणात्। अत: परमेव ब्रह्मोपासीनमर्चिरादिरातिवाहिको गणो नयतीति जैमिनेर्मतम् ॥१३॥

(बादरायणमतेन सिद्धान्तार्थप्रदर्शनम्)

इदानीं बादरायणस्तु भगवान् स्वमतेन सिद्धान्तमाह –

५२२. अप्रतीकालम्बनान्नयतीति बादरायण उभयधा दोषात्तत्क्रतुश्च १४

अप्रतीकालम्बनान् प्रतीकालम्बनव्यतिरिक्तान् नयत्यर्चिरादिरातिवाहिको गण इति भगवान् बादरायणो मन्यते  ॥

(आतिवाहिकनीयमानचेतनस्वरूपनिगमनम्)

एतदुक्तं भवति – कार्यमुपासीनान्नयतीति नायं पक्षस्सम्भवति; परमेवोपासीनानित्ययमपि नियमो नास्ति; न च प्रतीकालम्बनानपि नयति;  अपि तु ये परं ब्रह्मोपासते, ये चात्मानं प्रकृतिवियुक्तं ब्रह्मात्मकमुपासते; तानुभयविधान्नयति; ये तु ब्रह्मकार्यान्तर्भूतनामादिकं वस्तु देवदत्तादिषु सिंहादिदृष्टिवत् ब्रह्मदृष्ट्या, केवलं वा तत्तद्वस्तूपासते, न तान्नयति। अत: परं ब्रह्मोपसीनानात्मानं च प्रकृतिवियुक्तं ब्रह्मात्मकमुपासीनान्नयति इति ।

(उक्तार्थे हेतुप्रदर्शनम्)

कुत:? उभयधा च दोषात्। कार्यमुपासीनान्नयतीति पक्षे अस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य इत्यादिका: श्रुतय: प्रकुप्येयु:; परमेवोपासीनानिति नियमे  तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ति (छा.५.१०.१) इति पञ्चाग्निविदोऽर्चिरादिर्गणो नयतीति श्रुति: प्रकुप्येत्। अत: उभयस्मिन्नपि पक्षे दोषस्स्यात् । तस्मादुभयविधान्नयतीति । तदेतदाह – तत्क्रतुश्च – इति। तत्क्रतु: – तथोपासीनस्तथैव प्राप्नोतीत्यर्थ:,  यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेत: प्रेत्य भवति (छा.३.१४.१)  तं यथायथोपासते (मुद्ग.उ.३) इति न्यायात् । पञ्चाग्निविदोप्यर्चिरादिना गतिश्श्रवणात्,  अर्चिरादिना गतस्य ब्रह्मप्राप्त्यपुनरावृत्तिश्रवणाच्च । अत एव तत्क्रतुन्यायात्प्रकृतिविनिर्मुक्त-ब्रह्मात्मकात्मा-नुसन्धानं  सिद्धम् । नामादिप्राणपर्यन्त-प्रतीकालम्बनानां तु उभयविधश्रुतिसिद्ध-उपासनाभावात्, अचिन्मिश्रोपासने तत्क्रतुन्यायाच्चार्चिरादिना गतिर्ब्रह्मप्राप्तिश्च न विद्यते ॥१४॥

(उक्तस्य विशेषस्य श्रौतत्वप्रदर्शनम्)

तमिमं विशेषं श्रुतिरेव दर्शयतीत्याह –

५२३. विशेषञ्च दर्शयति १५

यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति (छा.७.१.५) इत्यादिका श्रुति: नामादिप्राणपर्यन्तप्रतीकमुपासीनानां गत्यनपेक्षं परिमितफलविशेषं च दर्शयति, तस्मादचिन्मिश्रं केवलं वा अचिद्वस्तु ब्रह्मदृष्ट्या  तद्वियोगेन च य उपासते, न तान् नयति, अपि तु परं ब्रह्मोपासीनानात्मानं च प्रकृतिवियुक्तं ब्रह्मात्मकमुपासीनानातिवाहिको गणो नयतीति सिद्धम्॥

इति श्रीशारीरकमीमांसाभाष्ये कार्याधिकरणम्॥५॥

इति भगवद्रामानुजिवरिचते शारीरकमीमांसाभाष्ये चतुर्थस्याध्यायस्य तृतीय:पाद:॥३॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.