उद्योगपर्वम् अध्यायः 01-32

श्रीः

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

001-अध्यायः

वैशम्पायन उवाच||

कृत्वा विवाहं तु कुरुप्रवीरा; स्तदाभिमन्योर्मुदितस्वपक्षाः |

विश्रम्य चत्वार्युषसः प्रतीताः; सभां विराटस्य ततोऽभिजग्मुः ||१||

सभा तु सा मत्स्यपतेः समृद्धा; मणिप्रवेकोत्तमरत्नचित्रा |

न्यस्तासना माल्यवती सुगन्धा; तामभ्ययुस्ते नरराजवर्याः ||२||

अथासनान्याविशतां पुरस्ता; दुभौ विराटद्रुपदौ नरेन्द्रौ |

वृद्धश्च मान्यः पृथिवीपतीनां; पितामहो रामजनार्दनाभ्याम् ||३||

पाञ्चालराजस्य समीपतस्तु; शिनिप्रवीरः सहरौहिणेयः |

मत्स्यस्य राज्ञस्तु सुसंनिकृष्टौ; जनार्दनश्चैव युधिष्ठिरश्च ||४||

सुताश्च सर्वे द्रुपदस्य राज्ञो; भीमार्जुनौ माद्रवतीसुतौ च |

प्रद्युम्नसाम्बौ च युधि प्रवीरौ; विराटपुत्रश्च सहाभिमन्युः ||५||

सर्वे च शूराः पितृभिः समाना; वीर्येण रूपेण बलेन चैव |

उपाविशन्द्रौपदेयाः कुमाराः; सुवर्णचित्रेषु वरासनेषु ||६||

तथोपविष्टेषु महारथेषु; विभ्राजमानाम्बरभूषणेषु |

रराज सा राजवती समृद्धा; ग्रहैरिव द्यौर्विमलैरुपेता ||७||

ततः कथास्ते समवाययुक्ताः; कृत्वा विचित्राः पुरुषप्रवीराः |

तस्थुर्मुहूर्तं परिचिन्तयन्तः; कृष्णं नृपास्ते समुदीक्षमाणाः ||८||

कथान्तमासाद्य च माधवेन; सङ्घट्टिताः पाण्डवकार्यहेतोः |

ते राजसिंहाः सहिता ह्यशृण्व; न्वाक्यं महार्थं च महोदयं च ||९||

कृष्ण उवाच||

सर्वैर्भवद्भिर्विदितं यथायं; युधिष्ठिरः सौबलेनाक्षवत्याम् |

जितो निकृत्यापहृतं च राज्यं; पुनः प्रवासे समयः कृतश्च ||१०||

शक्तैर्विजेतुं तरसा महीं च; सत्ये स्थितैस्तच्चरितं यथावत् |

पाण्डोः सुतैस्तद्व्रतमुग्ररूपं; वर्षाणि षट्सप्त च भारताग्र्यैः ||११||

त्रयोदशश्चैव सुदुस्तरोऽय; मज्ञायमानैर्भवतां समीपे |

क्लेशानसह्यांश्च तितिक्षमाणै; र्यथोषितं तद्विदितं च सर्वम् ||१२||

एवं गते धर्मसुतस्य राज्ञो; दुर्योधनस्यापि च यद्धितं स्यात् |

तच्चिन्तयध्वं कुरुपाण्डवानां; धर्म्यं च युक्तं च यशस्करं च ||१३||

अधर्मयुक्तं च न कामयेत; राज्यं सुराणामपि धर्मराजः |

धर्मार्थयुक्तं च महीपतित्वं; ग्रामेऽपि कस्मिंश्चिदयं बुभूषेत् ||१४||

पित्र्यं हि राज्यं विदितं नृपाणां; यथापकृष्टं धृतराष्ट्रपुत्रैः |

मिथ्योपचारेण तथाप्यनेन; कृच्छ्रं महत्प्राप्तमसह्यरूपम् ||१५||

न चापि पार्थो विजितो रणे तैः; स्वतेजसा धृतराष्ट्रस्य पुत्रैः |

तथापि राजा सहितः सुहृद्भि; रभीप्सतेऽनामयमेव तेषाम् ||१६||

यत्तत्स्वयं पाण्डुसुतैर्विजित्य; समाहृतं भूमिपतीन्निपीड्य |

तत्प्रार्थयन्ते पुरुषप्रवीराः; कुन्तीसुता माद्रवतीसुतौ च ||१७||

बालास्त्विमे तैर्विविधैरुपायैः; सम्प्रार्थिता हन्तुममित्रसाहाः |

राज्यं जिहीर्षद्भिरसद्भिरुग्रैः; सर्वं च तद्वो विदितं यथावत् ||१८||

तेषां च लोभं प्रसमीक्ष्य वृद्धं; धर्मात्मतां चापि युधिष्ठिरस्य |

सम्बन्धितां चापि समीक्ष्य तेषां; मतिं कुरुध्वं सहिताः पृथक्च ||१९||

इमे च सत्येऽभिरताः सदैव; तं पारयित्वा समयं यथावत् |

अतोऽन्यथा तैरुपचर्यमाणा; हन्युः समेतान्धृतराष्ट्रपुत्रान् ||२०||

तैर्विप्रकारं च निशम्य राज्ञः; सुहृज्जनास्तान्परिवारयेयुः |

युद्धेन बाधेयुरिमांस्तथैव; तैर्वध्यमाना युधि तांश्च हन्युः ||२१||

तथापि नेमेऽल्पतया समर्था; स्तेषां जयायेति भवेन्मतं वः |

समेत्य सर्वे सहिताः सुहृद्भि; स्तेषां विनाशाय यतेयुरेव ||२२||

दुर्योधनस्यापि मतं यथाव; न्न ज्ञायते किं नु करिष्यतीति |

अज्ञायमाने च मते परस्य; किं स्यात्समारभ्यतमं मतं वः ||२३||

तस्मादितो गच्छतु धर्मशीलः; शुचिः कुलीनः पुरुषोऽप्रमत्तः |

दूतः समर्थः प्रशमाय तेषां; राज्यार्धदानाय युधिष्ठिरस्य ||२४||

निशम्य वाक्यं तु जनार्दनस्य; धर्मार्थयुक्तं मधुरं समं च |

समाददे वाक्यमथाग्रजोऽस्य; सम्पूज्य वाक्यं तदतीव राजन् ||२५||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

002-अध्यायः

बलदेव उवाच||

श्रुतं भवद्भिर्गदपूर्वजस्य; वाक्यं यथा धर्मवदर्थवच्च |

अजातशत्रोश्च हितं हितं च; दुर्योधनस्यापि तथैव राज्ञः ||१||

अर्धं हि राज्यस्य विसृज्य वीराः; कुन्तीसुतास्तस्य कृते यतन्ते |

प्रदाय चार्धं धृतराष्ट्रपुत्रः; सुखी सहास्माभिरतीव मोदेत् ||२||

लब्ध्वा हि राज्यं पुरुषप्रवीराः; सम्यक्प्रवृत्तेषु परेषु चैव |

ध्रुवं प्रशान्ताः सुखमाविशेयु; स्तेषां प्रशान्तिश्च हितं प्रजानाम् ||३||

दुर्योधनस्यापि मतं च वेत्तुं; वक्तुं च वाक्यानि युधिष्ठिरस्य |

प्रियं मम स्याद्यदि तत्र कश्चि; द्व्रजेच्छमार्थं कुरुपाण्डवानाम् ||४||

स भीष्ममामन्त्र्य कुरुप्रवीरं; वैचित्रवीर्यं च महानुभावम् |

द्रोणं सपुत्रं विदुरं कृपं च; गान्धारराजं च ससूतपुत्रम् ||५||

सर्वे च येऽन्ये धृतराष्ट्रपुत्रा; बलप्रधाना निगमप्रधानाः |

स्थिताश्च धर्मेषु यथा स्वकेषु; लोकप्रवीराः श्रुतकालवृद्धाः ||६||

एतेषु सर्वेषु समागतेषु; पौरेषु वृद्धेषु च सङ्गतेषु |

ब्रवीतु वाक्यं प्रणिपातयुक्तं; कुन्तीसुतस्यार्थकरं यथा स्यात् ||७||

सर्वास्ववस्थासु च ते न कौट्या; द्ग्रस्तो हि सोऽर्थो बलमाश्रितैस्तैः |

प्रियाभ्युपेतस्य युधिष्ठिरस्य; द्यूते प्रमत्तस्य हृतं च राज्यम् ||८||

निवार्यमाणश्च कुरुप्रवीरैः; सर्वैः सुहृद्भिर्ह्ययमप्यतज्ज्ञः |

गान्धारराजस्य सुतं मताक्षं; समाह्वयेद्देवितुमाजमीढः ||९||

दुरोदरास्तत्र सहस्रशोऽन्ये; युधिष्ठिरो यान्विषहेत जेतुम् |

उत्सृज्य तान्सौबलमेव चायं; समाह्वयत्तेन जितोऽक्षवत्याम् ||१०||

स दीव्यमानः प्रतिदेवनेन; अक्षेषु नित्यं सुपराङ्मुखेषु |

संरम्भमाणो विजितः प्रसह्य; तत्रापराधः शकुनेर्न कश्चित् ||११||

तस्मात्प्रणम्यैव वचो ब्रवीतु; वैचित्रवीर्यं बहुसामयुक्तम् |

तथा हि शक्यो धृतराष्ट्रपुत्रः; स्वार्थे नियोक्तुं पुरुषेण तेन ||१२||

वैशम्पायन उवाच||

एवं ब्रुवत्येव मधुप्रवीरे; शिनिप्रवीरः सहसोत्पपात |

तच्चापि वाक्यं परिनिन्द्य तस्य; समाददे वाक्यमिदं समन्युः ||१३||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

003-अध्यायः

सात्यकिरुवाच||

यादृशः पुरुषस्यात्मा तादृशं सम्प्रभाषते |

यथारूपोऽन्तरात्मा ते तथारूपं प्रभाषसे ||१||

सन्ति वै पुरुषाः शूराः सन्ति कापुरुषास्तथा |

उभावेतौ दृढौ पक्षौ दृश्येते पुरुषान्प्रति ||२||

एकस्मिन्नेव जायेते कुले क्लीबमहारथौ |

फलाफलवती शाखे यथैकस्मिन्वनस्पतौ ||३||

नाभ्यसूयामि ते वाक्यं ब्रुवतो लाङ्गलध्वज |

ये तु शृण्वन्ति ते वाक्यं तानसूयामि माधव ||४||

कथं हि धर्मराजस्य दोषमल्पमपि ब्रुवन् |

लभते परिषन्मध्ये व्याहर्तुमकुतोभयः ||५||

समाहूय महात्मानं जितवन्तोऽक्षकोविदाः |

अनक्षज्ञं यथाश्रद्धं तेषु धर्मजयः कुतः ||६||

यदि कुन्तीसुतं गेहे क्रीडन्तं भ्रातृभिः सह |

अभिगम्य जयेयुस्ते तत्तेषां धर्मतो भवेत् ||७||

समाहूय तु राजानं क्षत्रधर्मरतं सदा |

निकृत्या जितवन्तस्ते किं नु तेषां परं शुभम् ||८||

कथं प्रणिपतेच्चायमिह कृत्वा पणं परम् |

वनवासाद्विमुक्तस्तु प्राप्तः पैतामहं पदम् ||९||

यद्ययं परवित्तानि कामयेत युधिष्ठिरः |

एवमप्ययमत्यन्तं परान्नार्हति याचितुम् ||१०||

कथं च धर्मयुक्तास्ते न च राज्यं जिहीर्षवः |

निवृत्तवासान्कौन्तेयान्य आहुर्विदिता इति ||११||

अनुनीता हि भीष्मेण द्रोणेन च महात्मना |

न व्यवस्यन्ति पाण्डूनां प्रदातुं पैतृकं वसु ||१२||

अहं तु ताञ्शितैर्बाणैरनुनीय रणे बलात् |

पादयोः पातयिष्यामि कौन्तेयस्य महात्मनः ||१३||

अथ ते न व्यवस्यन्ति प्रणिपाताय धीमतः |

गमिष्यन्ति सहामात्या यमस्य सदनं प्रति ||१४||

न हि ते युयुधानस्य संरब्धस्य युयुत्सतः |

वेगं समर्थाः संसोढुं वज्रस्येव महीधराः ||१५||

को हि गाण्डीवधन्वानं कश्च चक्रायुधं युधि |

मां चापि विषहेत्को नु कश्च भीमं दुरासदम् ||१६||

यमौ च दृढधन्वानौ यमकल्पौ महाद्युती |

को जिजीविषुरासीदेद्धृष्टद्युम्नं च पार्षतम् ||१७||

पञ्चेमान्पाण्डवेयांश्च द्रौपद्याः कीर्तिवर्धनान् |

समप्रमाणान्पाण्डूनां समवीर्यान्मदोत्कटान् ||१८||

सौभद्रं च महेष्वासममरैरपि दुःसहम् |

गदप्रद्युम्नसाम्बांश्च कालवज्रानलोपमान् ||१९||

ते वयं धृतराष्ट्रस्य पुत्रं शकुनिना सह |

कर्णेन च निहत्याजावभिषेक्ष्याम पाण्डवम् ||२०||

नाधर्मो विद्यते कश्चिच्छत्रून्हत्वाततायिनः |

अधर्म्यमयशस्यं च शात्रवाणां प्रयाचनम् ||२१||

हृद्गतस्तस्य यः कामस्तं कुरुध्वमतन्द्रिताः |

निसृष्टं धृतराष्ट्रेण राज्यं प्राप्नोतु पाण्डवः ||२२||

अद्य पाण्डुसुतो राज्यं लभतां वा युधिष्ठिरः |

निहता वा रणे सर्वे स्वप्स्यन्ति वसुधातले ||२३||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

004-अध्यायः

द्रुपद उवाच||

एवमेतन्महाबाहो भविष्यति न संशयः |

न हि दुर्योधनो राज्यं मधुरेण प्रदास्यति ||१||

अनुवर्त्स्यति तं चापि धृतराष्ट्रः सुतप्रियः |

भीष्मद्रोणौ च कार्पण्यान्मौर्ख्याद्राधेयसौबलौ ||२||

बलदेवस्य वाक्यं तु मम ज्ञाने न युज्यते |

एतद्धि पुरुषेणाग्रे कार्यं सुनयमिच्छता ||३||

न तु वाच्यो मृदु वचो धार्तराष्ट्रः कथञ्चन |

न हि मार्दवसाध्योऽसौ पापबुद्धिर्मतो मम ||४||

गर्दभे मार्दवं कुर्याद्गोषु तीक्ष्णं समाचरेत् |

मृदु दुर्योधने वाक्यं यो ब्रूयात्पापचेतसि ||५||

मृदु वै मन्यते पापो भाष्यमाणमशक्तिजम् |

जितमर्थं विजानीयादबुधो मार्दवे सति ||६||

एतच्चैव करिष्यामो यत्नश्च क्रियतामिह |

प्रस्थापयाम मित्रेभ्यो बलान्युद्योजयन्तु नः ||७||

शल्यस्य धृष्टकेतोश्च जयत्सेनस्य चाभिभोः |

केकयानां च सर्वेषां दूता गच्छन्तु शीघ्रगाः ||८||

स तु दुर्योधनो नूनं प्रेषयिष्यति सर्वशः |

पूर्वाभिपन्नाः सन्तश्च भजन्ते पूर्वचोदकम् ||९||

तत्त्वरध्वं नरेन्द्राणां पूर्वमेव प्रचोदने |

महद्धि कार्यं वोढव्यमिति मे वर्तते मतिः ||१०||

शल्यस्य प्रेष्यतां शीघ्रं ये च तस्यानुगा नृपाः |

भगदत्ताय राज्ञे च पूर्वसागरवासिने ||११||

अमितौजसे तथोग्राय हार्दिक्यायाहुकाय च |

दीर्घप्रज्ञाय मल्लाय रोचमानाय चाभिभो ||१२||

आनीयतां बृहन्तश्च सेनाबिन्दुश्च पार्थिवः |

पापजित्प्रतिविन्ध्यश्च चित्रवर्मा सुवास्तुकः ||१३||

बाह्लीको मुञ्जकेशश्च चैद्याधिपतिरेव च |

सुपार्श्वश्च सुबाहुश्च पौरवश्च महारथः ||१४||

शकानां पह्लवानां च दरदानां च ये नृपाः |

काम्बोजा ऋषिका ये च पश्चिमानूपकाश्च ये ||१५||

जयत्सेनश्च काश्यश्च तथा पञ्चनदा नृपाः |

क्राथपुत्रश्च दुर्धर्षः पार्वतीयाश्च ये नृपाः ||१६||

जानकिश्च सुशर्मा च मणिमान्पौतिमत्स्यकः |

पांसुराष्ट्राधिपश्चैव धृष्टकेतुश्च वीर्यवान् ||१७||

औड्रश्च दण्डधारश्च बृहत्सेनश्च वीर्यवान् |

अपराजितो निषादश्च श्रेणिमान्वसुमानपि ||१८||

बृहद्बलो महौजाश्च बाहुः परपुरञ्जयः |

समुद्रसेनो राजा च सह पुत्रेण वीर्यवान् ||१९||

अदारिश्च नदीजश्च कर्णवेष्टश्च पार्थिवः |

समर्थश्च सुवीरश्च मार्जारः कन्यकस्तथा ||२०||

महावीरश्च कद्रुश्च निकरस्तुमुलः क्रथः |

नीलश्च वीरधर्मा च भूमिपालश्च वीर्यवान् ||२१||

दुर्जयो दन्तवक्त्रश्च रुक्मी च जनमेजयः |

आषाढो वायुवेगश्च पूर्वपाली च पार्थिवः ||२२||

भूरितेजा देवकश्च एकलव्यस्य चात्मजः |

कारूषकाश्च राजानः क्षेमधूर्तिश्च वीर्यवान् ||२३||

उद्भवः क्षेमकश्चैव वाटधानश्च पार्थिवः |

श्रुतायुश्च दृढायुश्च शाल्वपुत्रश्च वीर्यवान् ||२४||

कुमारश्च कलिङ्गानामीश्वरो युद्धदुर्मदः |

एतेषां प्रेष्यतां शीघ्रमेतद्धि मम रोचते ||२५||

अयं च ब्राह्मणः शीघ्रं मम राजन्पुरोहितः |

प्रेष्यतां धृतराष्ट्राय वाक्यमस्मिन्समर्प्यताम् ||२६||

यथा दुर्योधनो वाच्यो यथा शान्तनवो नृपः |

धृतराष्ट्रो यथा वाच्यो द्रोणश्च विदुषां वरः ||२७||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

005-अध्यायः

वासुदेव उवाच||

उपपन्नमिदं वाक्यं सोमकानां धुरन्धरे |

अर्थसिद्धिकरं राज्ञः पाण्डवस्य महौजसः ||१||

एतच्च पूर्वकार्यं नः सुनीतमभिकाङ्क्षताम् |

अन्यथा ह्याचरन्कर्म पुरुषः स्यात्सुबालिशः ||२||

किं तु सम्बन्धकं तुल्यमस्माकं कुरुपाण्डुषु |

यथेष्टं वर्तमानेषु पाण्डवेषु च तेषु च ||३||

ते विवाहार्थमानीता वयं सर्वे यथा भवान् |

कृते विवाहे मुदिता गमिष्यामो गृहान्प्रति ||४||

भवान्वृद्धतमो राज्ञां वयसा च श्रुतेन च |

शिष्यवत्ते वयं सर्वे भवामेह न संशयः ||५||

भवन्तं धृतराष्ट्रश्च सततं बहु मन्यते |

आचार्ययोः सखा चासि द्रोणस्य च कृपस्य च ||६||

स भवान्प्रेषयत्वद्य पाण्डवार्थकरं वचः |

सर्वेषां निश्चितं तन्नः प्रेषयिष्यति यद्भवान् ||७||

यदि तावच्छमं कुर्यान्न्यायेन कुरुपुङ्गवः |

न भवेत्कुरुपाण्डूनां सौभ्रात्रेण महान्क्षयः ||८||

अथ दर्पान्वितो मोहान्न कुर्याद्धृतराष्ट्रजः |

अन्येषां प्रेषयित्वा च पश्चादस्मान्समाह्वयेः ||९||

ततो दुर्योधनो मन्दः सहामात्यः सबान्धवः |

निष्ठामापत्स्यते मूढः क्रुद्धे गाण्डीवधन्वनि ||१०||

वैशम्पायन उवाच||

ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवीपतिः |

गृहान्प्रस्थापयामास सगणं सहबान्धवम् ||११||

द्वारकां तु गते कृष्णे युधिष्ठिरपुरोगमाः |

चक्रुः साङ्ग्रामिकं सर्वं विराटश्च महीपतिः ||१२||

ततः सम्प्रेषयामास विराटः सह बान्धवैः |

सर्वेषां भूमिपालानां द्रुपदश्च महीपतिः ||१३||

वचनात्कुरुसिंहानां मत्स्यपाञ्चालयोश्च ते |

समाजग्मुर्महीपालाः सम्प्रहृष्टा महाबलाः ||१४||

तच्छ्रुत्वा पाण्डुपुत्राणां समागच्छन्महद्बलम् |

धृतराष्ट्रसुतश्चापि समानिन्ये महीपतीन् ||१५||

समाकुला मही राजन्कुरुपाण्डवकारणात् |

तदा समभवत्कृत्स्ना सम्प्रयाणे महीक्षिताम् ||१६||

बलानि तेषां वीराणामागच्छन्ति ततस्ततः |

चालयन्तीव गां देवीं सपर्वतवनामिमाम् ||१७||

ततः प्रज्ञावयोवृद्धं पाञ्चाल्यः स्वपुरोहितम् |

कुरुभ्यः प्रेषयामास युधिष्ठिरमते तदा ||१८||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

006-अध्यायः

द्रुपद उवाच||

भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः |

बुद्धिमत्सु नराः श्रेष्ठा नराणां तु द्विजातयः ||१||

द्विजेषु वैद्याः श्रेयांसो वैद्येषु कृतबुद्धयः |

स भवान्कृतबुद्धीनां प्रधान इति मे मतिः ||२||

कुलेन च विशिष्टोऽसि वयसा च श्रुतेन च |

प्रज्ञयानवमश्चासि शुक्रेणाङ्गिरसेन च ||३||

विदितं चापि ते सर्वं यथावृत्तः स कौरवः |

पाण्डवश्च यथावृत्तः कुन्तीपुत्रो युधिष्ठिरः ||४||

धृतराष्ट्रस्य विदिते वञ्चिताः पाण्डवाः परैः |

विदुरेणानुनीतोऽपि पुत्रमेवानुवर्तते ||५||

शकुनिर्बुद्धिपूर्वं हि कुन्तीपुत्रं समाह्वयत् |

अनक्षज्ञं मताक्षः सन्क्षत्रवृत्ते स्थितं शुचिम् ||६||

ते तथा वञ्चयित्वा तु धर्मपुत्रं युधिष्ठिरम् |

न कस्याञ्चिदवस्थायां राज्यं दास्यन्ति वै स्वयम् ||७||

भवांस्तु धर्मसंयुक्तं धृतराष्ट्रं ब्रुवन्वचः |

मनांसि तस्य योधानां ध्रुवमावर्तयिष्यति ||८||

विदुरश्चापि तद्वाक्यं साधयिष्यति तावकम् |

भीष्मद्रोणकृपाणां च भेदं सञ्जनयिष्यति ||९||

अमात्येषु च भिन्नेषु योधेषु विमुखेषु च |

पुनरेकाग्रकरणं तेषां कर्म भविष्यति ||१०||

एतस्मिन्नन्तरे पार्थाः सुखमेकाग्रबुद्धयः |

सेनाकर्म करिष्यन्ति द्रव्याणां चैव सञ्चयम् ||११||

भिद्यमानेषु च स्वेषु लम्बमाने च वै त्वयि |

न तथा ते करिष्यन्ति सेनाकर्म न संशयः ||१२||

एतत्प्रयोजनं चात्र प्राधान्येनोपलभ्यते |

सङ्गत्या धृतराष्ट्रश्च कुर्याद्धर्म्यं वचस्तव ||१३||

स भवान्धर्मयुक्तश्च धर्म्यं तेषु समाचरन् |

कृपालुषु परिक्लेशान्पाण्डवानां प्रकीर्तयन् ||१४||

वृद्धेषु कुलधर्मं च ब्रुवन्पूर्वैरनुष्ठितम् |

विभेत्स्यति मनांस्येषामिति मे नात्र संशयः ||१५||

न च तेभ्यो भयं तेऽस्ति ब्राह्मणो ह्यसि वेदवित् |

दूतकर्मणि युक्तश्च स्थविरश्च विशेषतः ||१६||

स भवान्पुष्ययोगेन मुहूर्तेन जयेन च |

कौरवेयान्प्रयात्वाशु कौन्तेयस्यार्थसिद्धये ||१७||

वैशम्पायन उवाच||

तथानुशिष्टः प्रययौ द्रुपदेन महात्मना |

पुरोधा वृत्तसम्पन्नो नगरं नागसाह्वयम् ||१८||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

007-अध्यायः

वैशम्पायन उवाच||

गते द्वारवतीं कृष्णे बलदेवे च माधवे |

सह वृष्ण्यन्धकैः सर्वैर्भोजैश्च शतशस्तथा ||१||

सर्वमागमयामास पाण्डवानां विचेष्टितम् |

धृतराष्ट्रात्मजो राजा दूतैः प्रणिहितैश्चरैः ||२||

स श्रुत्वा माधवं यातं सदश्वैरनिलोपमैः |

बलेन नातिमहता द्वारकामभ्ययात्पुरीम् ||३||

तमेव दिवसं चापि कौन्तेयः पाण्डुनन्दनः |

आनर्तनगरीं रम्यां जगामाशु धनञ्जयः ||४||

तौ यात्वा पुरुषव्याघ्रौ द्वारकां कुरुनन्दनौ |

सुप्तं ददृशतुः कृष्णं शयानं चोपजग्मतुः ||५||

ततः शयाने गोविन्दे प्रविवेश सुयोधनः |

उच्छीर्षतश्च कृष्णस्य निषसाद वरासने ||६||

ततः किरीटी तस्यानु प्रविवेश महामनाः |

पश्चार्धे च स कृष्णस्य प्रह्वोऽतिष्ठत्कृताञ्जलिः ||७||

प्रतिबुद्धः स वार्ष्णेयो ददर्शाग्रे किरीटिनम् |

स तयोः स्वागतं कृत्वा यथार्हं प्रतिपूज्य च ||८||

तदागमनजं हेतुं पप्रच्छ मधुसूदनः ||८||

ततो दुर्योधनः कृष्णमुवाच प्रहसन्निव |

विग्रहेऽस्मिन्भवान्साह्यं मम दातुमिहार्हति ||९||

समं हि भवतः सख्यं मयि चैवार्जुनेऽपि च |

तथा सम्बन्धकं तुल्यमस्माकं त्वयि माधव ||१०||

अहं चाभिगतः पूर्वं त्वामद्य मधुसूदन |

पूर्वं चाभिगतं सन्तो भजन्ते पूर्वसारिणः ||११||

त्वं च श्रेष्ठतमो लोके सतामद्य जनार्दन |

सततं संमतश्चैव सद्वृत्तमनुपालय ||१२||

कृष्ण उवाच||

भवानभिगतः पूर्वमत्र मे नास्ति संशयः |

दृष्टस्तु प्रथमं राजन्मया पार्थो धनञ्जयः ||१३||

तव पूर्वाभिगमनात्पूर्वं चाप्यस्य दर्शनात् |

साहाय्यमुभयोरेव करिष्यामि सुयोधन ||१४||

प्रवारणं तु बालानां पूर्वं कार्यमिति श्रुतिः |

तस्मात्प्रवारणं पूर्वमर्हः पार्थो धनञ्जयः ||१५||

मत्संहननतुल्यानां गोपानामर्बुदं महत् |

नारायणा इति ख्याताः सर्वे सङ्ग्रामयोधिनः ||१६||

ते वा युधि दुराधर्षा भवन्त्वेकस्य सैनिकाः |

अयुध्यमानः सङ्ग्रामे न्यस्तशस्त्रोऽहमेकतः ||१७||

आभ्यामन्यतरं पार्थ यत्ते हृद्यतरं मतम् |

तद्वृणीतां भवानग्रे प्रवार्यस्त्वं हि धर्मतः ||१८||

वैशम्पायन उवाच||

एवमुक्तस्तु कृष्णेन कुन्तीपुत्रो धनञ्जयः |

अयुध्यमानं सङ्ग्रामे वरयामास केशवम् ||१९||

सहस्राणां सहस्रं तु योधानां प्राप्य भारत |

कृष्णं चापहृतं ज्ञात्वा सम्प्राप परमां मुदम् ||२०||

दुर्योधनस्तु तत्सैन्यं सर्वमादाय पार्थिवः |

ततोऽभ्ययाद्भीमबलो रौहिणेयं महाबलम् ||२१||

सर्वं चागमने हेतुं स तस्मै संन्यवेदयत् |

प्रत्युवाच ततः शौरिर्धार्तराष्ट्रमिदं वचः ||२२||

विदितं ते नरव्याघ्र सर्वं भवितुमर्हति |

यन्मयोक्तं विराटस्य पुरा वैवाहिके तदा ||२३||

निगृह्योक्तो हृषीकेशस्त्वदर्थं कुरुनन्दन |

मया सम्बन्धकं तुल्यमिति राजन्पुनः पुनः ||२४||

न च तद्वाक्यमुक्तं वै केशवः प्रत्यपद्यत |

न चाहमुत्सहे कृष्णं विना स्थातुमपि क्षणम् ||२५||

नाहं सहायः पार्थानां नापि दुर्योधनस्य वै |

इति मे निश्चिता बुद्दिर्वासुदेवमवेक्ष्य ह ||२६||

जातोऽसि भारते वंशे सर्वपार्थिवपूजिते |

गच्छ युध्यस्व धर्मेण क्षात्रेण भरतर्षभ ||२७||

इत्येवमुक्तः स तदा परिष्वज्य हलायुधम् |

कृष्णं चापहृतं ज्ञात्वा युद्धान्मेने जितं जयम् ||२८||

सोऽभ्ययात्कृतवर्माणं धृतराष्ट्रसुतो नृपः |

कृतवर्मा ददौ तस्य सेनामक्षौहिणीं तदा ||२९||

स तेन सर्वसैन्येन भीमेन कुरुनन्दनः |

वृतः प्रतिययौ हृष्टः सुहृदः सम्प्रहर्षयन् ||३०||

गते दुर्योधने कृष्णः किरीटिनमथाब्रवीत् |

अयुध्यमानः कां बुद्धिमास्थायाहं त्वया वृतः ||३१||

अर्जुन उवाच||

भवान्समर्थस्तान्सर्वान्निहन्तुं नात्र संशयः |

निहन्तुमहमप्येकः समर्थः पुरुषोत्तम ||३२||

भवांस्तु कीर्तिमाँल्लोके तद्यशस्त्वां गमिष्यति |

यशसा चाहमप्यर्थी तस्मादसि मया वृतः ||३३||

सारथ्यं तु त्वया कार्यमिति मे मानसं सदा |

चिररात्रेप्सितं कामं तद्भवान्कर्तुमर्हति ||३४||

वासुदेव उवाच||

उपपन्नमिदं पार्थ यत्स्पर्धेथा मया सह |

सारथ्यं ते करिष्यामि कामः सम्पद्यतां तव ||३५||

वैशम्पायन उवाच||

एवं प्रमुदितः पार्थः कृष्णेन सहितस्तदा |

वृतो दाशार्हप्रवरैः पुनरायाद्युधिष्ठिरम् ||३६||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

008-अध्यायः

वैशम्पायन उवाच||

शल्यः श्रुत्वा तु दूतानां सैन्येन महता वृतः |

अभ्ययात्पाण्डवान्राजन्सह पुत्रैर्महारथैः ||१||

तस्य सेनानिवेशोऽभूदध्यर्धमिव योजनम् |

तथा हि बहुलां सेनां स बिभर्ति नरर्षभः ||२||

विचित्रकवचाः शूरा विचित्रध्वजकार्मुकाः |

विचित्राभरणाः सर्वे विचित्ररथवाहनाः ||३||

स्वदेशवेषाभरणा वीराः शतसहस्रशः |

तस्य सेनाप्रणेतारो बभूवुः क्षत्रियर्षभाः ||४||

व्यथयन्निव भूतानि कम्पयन्निव मेदिनीम् |

शनैर्विश्रामयन्सेनां स ययौ येन पाण्डवः ||५||

ततो दुर्योधनः श्रुत्वा महासेनं महारथम् |

उपायान्तमभिद्रुत्य स्वयमानर्च भारत ||६||

कारयामास पूजार्थं तस्य दुर्योधनः सभाः |

रमणीयेषु देशेषु रत्नचित्राः स्वलङ्कृताः ||७||

स ताः सभाः समासाद्य पूज्यमानो यथामरः |

दुर्योधनस्य सचिवैर्देशे देशे यथार्हतः ||८||

आजगाम सभामन्यां देवावसथवर्चसम् ||८||

स तत्र विषयैर्युक्तः कल्याणैरतिमानुषैः |

मेनेऽभ्यधिकमात्मानमवमेने पुरंदरम् ||९||

पप्रच्छ स ततः प्रेष्यान्प्रहृष्टः क्षत्रियर्षभः |

युधिष्ठिरस्य पुरुषाः के नु चक्रुः सभा इमाः ||१०||

आनीयन्तां सभाकाराः प्रदेयार्हा हि मे मताः ||१०||

गूढो दुर्योधनस्तत्र दर्शयामास मातुलम् |

तं दृष्ट्वा मद्रराजस्तु ज्ञात्वा यत्नं च तस्य तम् ||११||

परिष्वज्याब्रवीत्प्रीत इष्टोऽर्थो गृह्यतामिति ||११||

दुर्योधन उवाच||

सत्यवाग्भव कल्याण वरो वै मम दीयताम् |

सर्वसेनाप्रणेता मे भवान्भवितुमर्हति ||१२||

वैशम्पायन उवाच||

कृतमित्यब्रवीच्छल्यः किमन्यत्क्रियतामिति |

कृतमित्येव गान्धारिः प्रत्युवाच पुनः पुनः ||१३||

स तथा शल्यमामन्त्र्य पुनरायात्स्वकं पुरम् |

शल्यो जगाम कौन्तेयानाख्यातुं कर्म तस्य तत् ||१४||

उपप्लव्यं स गत्वा तु स्कन्धावारं प्रविश्य च |

पाण्डवानथ तान्सर्वाञ्शल्यस्तत्र ददर्श ह ||१५||

समेत्य तु महाबाहुः शल्यः पाण्डुसुतैस्तदा |

पाद्यमर्घ्यं च गां चैव प्रत्यगृह्णाद्यथाविधि ||१६||

ततः कुशलपूर्वं स मद्रराजोऽरिसूदनः |

प्रीत्या परमया युक्तः समाश्लिष्य युधिष्ठिरम् ||१७||

तथा भीमार्जुनौ हृष्टौ स्वस्रीयौ च यमावुभौ |

आसने चोपविष्टस्तु शल्यः पार्थमुवाच ह ||१८||

कुशलं राजशार्दूल कच्चित्ते कुरुनन्दन |

अरण्यवासाद्दिष्ट्यासि विमुक्तो जयतां वर ||१९||

सुदुष्करं कृतं राजन्निर्जने वसता वने |

भ्रातृभिः सह राजेन्द्र कृष्णया चानया सह ||२०||

अज्ञातवासं घोरं च वसता दुष्करं कृतम् |

दुःखमेव कुतः सौख्यं राज्यभ्रष्टस्य भारत ||२१||

दुःखस्यैतस्य महतो धार्तराष्ट्रकृतस्य वै |

अवाप्स्यसि सुखं राजन्हत्वा शत्रून्परन्तप ||२२||

विदितं ते महाराज लोकतत्त्वं नराधिप |

तस्माल्लोभकृतं किञ्चित्तव तात न विद्यते ||२३||

ततोऽस्याकथयद्राजा दुर्योधनसमागमम् |

तच्च शुश्रूषितं सर्वं वरदानं च भारत ||२४||

युधिष्ठिर उवाच||

सुकृतं ते कृतं राजन्प्रहृष्टेनान्तरात्मना |

दुर्योधनस्य यद्वीर त्वया वाचा प्रतिश्रुतम् ||२५||

एकं त्विच्छामि भद्रं ते क्रियमाणं महीपते ||२५||

भवानिह महाराज वासुदेवसमो युधि |

कर्णार्जुनाभ्यां सम्प्राप्ते द्वैरथे राजसत्तम ||२६||

कर्णस्य भवता कार्यं सारथ्यं नात्र संशयः ||२६||

तत्र पाल्योऽर्जुनो राजन्यदि मत्प्रियमिच्छसि |

तेजोवधश्च ते कार्यः सौतेरस्मज्जयावहः ||२७||

अकर्तव्यमपि ह्येतत्कर्तुमर्हसि मातुल ||२७||

शल्य उवाच||

शृणु पाण्डव भद्रं ते यद्ब्रवीषि दुरात्मनः |

तेजोवधनिमित्तं मां सूतपुत्रस्य संयुगे ||२८||

अहं तस्य भविष्यामि सङ्ग्रामे सारथिर्ध्रुवम् |

वासुदेवेन हि समं नित्यं मां स हि मन्यते ||२९||

तस्याहं कुरुशार्दूल प्रतीपमहितं वचः |

ध्रुवं सङ्कथयिष्यामि योद्धुकामस्य संयुगे ||३०||

यथा स हृतदर्पश्च हृततेजाश्च पाण्डव |

भविष्यति सुखं हन्तुं सत्यमेतद्ब्रवीमि ते ||३१||

एवमेतत्करिष्यामि यथा तात त्वमात्थ माम् |

यच्चान्यदपि शक्ष्यामि तत्करिष्यामि ते प्रियम् ||३२||

यच्च दुःखं त्वया प्राप्तं द्यूते वै कृष्णया सह |

परुषाणि च वाक्यानि सूतपुत्रकृतानि वै ||३३||

जटासुरात्परिक्लेशः कीचकाच्च महाद्युते |

द्रौपद्याधिगतं सर्वं दमयन्त्या यथाशुभम् ||३४||

सर्वं दुःखमिदं वीर सुखोदर्कं भविष्यति |

नात्र मन्युस्त्वया कार्यो विधिर्हि बलवत्तरः ||३५||

दुःखानि हि महात्मानः प्राप्नुवन्ति युधिष्ठिर |

देवैरपि हि दुःखानि प्राप्तानि जगतीपते ||३६||

इन्द्रेण श्रूयते राजन्सभार्येण महात्मना |

अनुभूतं महद्दुःखं देवराजेन भारत ||३७||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

009-अध्यायः

इन्द्रविजयोपाख्यानम्

युधिष्ठिर उवाच||

कथमिन्द्रेण राजेन्द्र सभार्येण महात्मना |

दुःखं प्राप्तं परं घोरमेतदिच्छामि वेदितुम् ||१||

शल्य उवाच||

शृणु राजन्पुरा वृत्तमितिहासं पुरातनम् |

सभार्येण यथा प्राप्तं दुःखमिन्द्रेण भारत ||२||

त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः |

स पुत्रं वै त्रिशिरसमिन्द्रद्रोहात्किलासृजत् ||३||

ऐन्द्रं स प्रार्थयत्स्थानं विश्वरूपो महाद्युतिः |

तैस्त्रिभिर्वदनैर्घोरैः सूर्येन्दुज्वलनोपमैः ||४||

वेदानेकेन सोऽधीते सुरामेकेन चापिबत् |

एकेन च दिशः सर्वाः पिबन्निव निरीक्षते ||५||

स तपस्वी मृदुर्दान्तो धर्मे तपसि चोद्यतः |

तपोऽतप्यन्महत्तीव्रं सुदुश्चरमरिंदम ||६||

तस्य दृष्ट्वा तपोवीर्यं सत्त्वं चामिततेजसः |

विषादमगमच्छक्र इन्द्रोऽयं मा भवेदिति ||७||

कथं सज्जेत भोगेषु न च तप्येन्महत्तपः |

विवर्धमानस्त्रिशिराः सर्वं त्रिभुवनं ग्रसेत् ||८||

इति सञ्चिन्त्य बहुधा बुद्धिमान्भरतर्षभ |

आज्ञापयत्सोऽप्सरसस्त्वष्टृपुत्रप्रलोभने ||९||

यथा स सज्जेत्त्रिशिराः कामभोगेषु वै भृशम् |

क्षिप्रं कुरुत गच्छध्वं प्रलोभयत माचिरम् ||१०||

शृङ्गारवेषाः सुश्रोण्यो भावैर्युक्ता मनोहरैः |

प्रलोभयत भद्रं वः शमयध्वं भयं मम ||११||

अस्वस्थं ह्यात्मनात्मानं लक्षयामि वराङ्गनाः |

भयमेतन्महाघोरं क्षिप्रं नाशयताबलाः ||१२||

अप्सरस ऊचुः||

तथा यत्नं करिष्यामः शक्र तस्य प्रलोभने |

यथा नावाप्स्यसि भयं तस्माद्बलनिषूदन ||१३||

निर्दहन्निव चक्षुर्भ्यां योऽसावास्ते तपोनिधिः |

तं प्रलोभयितुं देव गच्छामः सहिता वयम् ||१४||

यतिष्यामो वशे कर्तुं व्यपनेतुं च ते भयम् ||१४||

शल्य उवाच||

इन्द्रेण तास्त्वनुज्ञाता जग्मुस्त्रिशिरसोऽन्तिकम् |

तत्र ता विविधैर्भावैर्लोभयन्त्यो वराङ्गनाः ||१५||

नृत्यं संदर्शयन्त्यश्च तथैवाङ्गेषु सौष्ठवम् ||१५||

विचेरुः सम्प्रहर्षं च नाभ्यगच्छन्महातपाः |

इन्द्रियाणि वशे कृत्वा पूर्णसागरसंनिभः ||१६||

तास्तु यत्नं परं कृत्वा पुनः शक्रमुपस्थिताः |

कृताञ्जलिपुटाः सर्वा देवराजमथाब्रुवन् ||१७||

न स शक्यः सुदुर्धर्षो धैर्याच्चालयितुं प्रभो |

यत्ते कार्यं महाभाग क्रियतां तदनन्तरम् ||१८||

सम्पूज्याप्सरसः शक्रो विसृज्य च महामतिः |

चिन्तयामास तस्यैव वधोपायं महात्मनः ||१९||

स तूष्णीं चिन्तयन्वीरो देवराजः प्रतापवान् |

विनिश्चितमतिर्धीमान्वधे त्रिशिरसोऽभवत् ||२०||

वज्रमस्य क्षिपाम्यद्य स क्षिप्रं न भविष्यति |

शत्रुः प्रवृद्धो नोपेक्ष्यो दुर्बलोऽपि बलीयसा ||२१||

शास्त्रबुद्ध्या विनिश्चित्य कृत्वा बुद्धिं वधे दृढाम् |

अथ वैश्वानरनिभं घोररूपं भयावहम् ||२२||

मुमोच वज्रं सङ्क्रुद्धः शक्रस्त्रिशिरसं प्रति ||२२||

स पपात हतस्तेन वज्रेण दृढमाहतः |

पर्वतस्येव शिखरं प्रणुन्नं मेदिनीतले ||२३||

तं तु वज्रहतं दृष्ट्वा शयानमचलोपमम् |

न शर्म लेभे देवेन्द्रो दीपितस्तस्य तेजसा ||२४||

हतोऽपि दीप्ततेजाः स जीवन्निव च दृश्यते ||२४||

अभितस्तत्र तक्षाणं घटमानं शचीपतिः |

अपश्यदब्रवीच्चैनं सत्वरं पाकशासनः ||२५||

क्षिप्रं छिन्धि शिरांस्यस्य कुरुष्व वचनं मम ||२५||

तक्षोवाच||

महास्कन्धो भृशं ह्येष परशुर्न तरिष्यति |

कर्तुं चाहं न शक्ष्यामि कर्म सद्भिर्विगर्हितम् ||२६||

इन्द्र उवाच||

मा भैस्त्वं क्षिप्रमेतद्वै कुरुष्व वचनं मम |

मत्प्रसादाद्धि ते शस्त्रं वज्रकल्पं भविष्यति ||२७||

तक्षोवाच||

कं भवन्तमहं विद्यां घोरकर्माणमद्य वै |

एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथयस्व मे ||२८||

इन्द्र उवाच||

अहमिन्द्रो देवराजस्तक्षन्विदितमस्तु ते |

कुरुष्वैतद्यथोक्तं मे तक्षन्मा त्वं विचारय ||२९||

तक्षोवाच||

क्रूरेण नापत्रपसे कथं शक्रेह कर्मणा |

ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न ते ||३०||

इन्द्र उवाच||

पश्चाद्धर्मं चरिष्यामि पावनार्थं सुदुश्चरम् |

शत्रुरेष महावीर्यो वज्रेण निहतो मया ||३१||

अद्यापि चाहमुद्विग्नस्तक्षन्नस्माद्बिभेमि वै |

क्षिप्रं छिन्धि शिरांसि त्वं करिष्येऽनुग्रहं तव ||३२||

शिरः पशोस्ते दास्यन्ति भागं यज्ञेषु मानवाः |

एष तेऽनुग्रहस्तक्षन्क्षिप्रं कुरु मम प्रियम् ||३३||

शल्य उवाच||

एतच्छ्रुत्वा तु तक्षा स महेन्द्रवचनं तदा |

शिरांस्यथ त्रिशिरसः कुठारेणाच्छिनत्तदा ||३४||

निकृत्तेषु ततस्तेषु निष्क्रामंस्त्रिशिरास्त्वथ |

कपिञ्जलास्तित्तिराश्च कलविङ्काश्च सर्वशः ||३५||

येन वेदानधीते स्म पिबते सोममेव च |

तस्माद्वक्त्रान्विनिष्पेतुः क्षिप्रं तस्य कपिञ्जलाः ||३६||

येन सर्वा दिशो राजन्पिबन्निव निरीक्षते |

तस्माद्वक्त्राद्विनिष्पेतुस्तित्तिरास्तस्य पाण्डव ||३७||

यत्सुरापं तु तस्यासीद्वक्त्रं त्रिशिरसस्तदा |

कलविङ्का विनिष्पेतुस्तेनास्य भरतर्षभ ||३८||

ततस्तेषु निकृत्तेषु विज्वरो मघवानभूत् |

जगाम त्रिदिवं हृष्टस्तक्षापि स्वगृहान्ययौ ||३९||

त्वष्टा प्रजापतिः श्रुत्वा शक्रेणाथ हतं सुतम् |

क्रोधसंरक्तनयन इदं वचनमब्रवीत् ||४०||

तप्यमानं तपो नित्यं क्षान्तं दान्तं जितेन्द्रियम् |

अनापराधिनं यस्मात्पुत्रं हिंसितवान्मम ||४१||

तस्माच्छक्रवधार्थाय वृत्रमुत्पादयाम्यहम् |

लोकाः पश्यन्तु मे वीर्यं तपसश्च बलं महत् ||४२||

स च पश्यतु देवेन्द्रो दुरात्मा पापचेतनः ||४२||

उपस्पृश्य ततः क्रुद्धस्तपस्वी सुमहायशाः |

अग्निं हुत्वा समुत्पाद्य घोरं वृत्रमुवाच ह ||४३||

इन्द्रशत्रो विवर्धस्व प्रभावात्तपसो मम ||४३||

सोऽवर्धत दिवं स्तब्ध्वा सूर्यवैश्वानरोपमः |

किं करोमीति चोवाच कालसूर्य इवोदितः ||४४||

शक्रं जहीति चाप्युक्तो जगाम त्रिदिवं ततः ||४४||

ततो युद्धं समभवद्वृत्रवासवयोस्तदा |

सङ्क्रुद्धयोर्महाघोरं प्रसक्तं कुरुसत्तम ||४५||

ततो जग्राह देवेन्द्रं वृत्रो वीरः शतक्रतुम् |

अपावृत्य स जग्रास वृत्रः क्रोधसमन्वितः ||४६||

ग्रस्ते वृत्रेण शक्रे तु सम्भ्रान्तास्त्रिदशास्तदा |

असृजंस्ते महासत्त्वा जृम्भिकां वृत्रनाशिनीम् ||४७||

विजृम्भमाणस्य ततो वृत्रस्यास्यादपावृतात् |

स्वान्यङ्गान्यभिसङ्क्षिप्य निष्क्रान्तो बलसूदनः ||४८||

ततः प्रभृति लोकेषु जृम्भिका प्राणिसंश्रिता ||४८||

जहृषुश्च सुराः सर्वे दृष्ट्वा शक्रं विनिःसृतम् |

ततः प्रववृते युद्धं वृत्रवासवयोः पुनः ||४९||

संरब्धयोस्तदा घोरं सुचिरं भरतर्षभ ||४९||

यदा व्यवर्धत रणे वृत्रो बलसमन्वितः |

त्वष्टुस्तपोबलाद्विद्वांस्तदा शक्रो न्यवर्तत ||५०||

निवृत्ते तु तदा देवा विषादमगमन्परम् |

समेत्य शक्रेण च ते त्वष्टुस्तेजोविमोहिताः ||५१||

अमन्त्रयन्त ते सर्वे मुनिभिः सह भारत ||५१||

किं कार्यमिति ते राजन्विचिन्त्य भयमोहिताः |

जग्मुः सर्वे महात्मानं मनोभिर्विष्णुमव्ययम् ||५२||

उपविष्टा मन्दराग्रे सर्वे वृत्रवधेप्सवः ||५२||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

010-अध्यायः

इन्द्र उवाच||

सर्वं व्याप्तमिदं देवा वृत्रेण जगदव्ययम् |

न ह्यस्य सदृशं किञ्चित्प्रतिघाताय यद्भवेत् ||१||

समर्थो ह्यभवं पूर्वमसमर्थोऽस्मि साम्प्रतम् |

कथं कुर्यां नु भद्रं वो दुष्प्रधर्षः स मे मतः ||२||

तेजस्वी च महात्मा च युद्धे चामितविक्रमः |

ग्रसेत्त्रिभुवनं सर्वं सदेवासुरमानुषम् ||३||

तस्माद्विनिश्चयमिमं शृणुध्वं मे दिवौकसः |

विष्णोः क्षयमुपागम्य समेत्य च महात्मना ||४||

तेन संमन्त्र्य वेत्स्यामो वधोपायं दुरात्मनः ||४||

शल्य उवाच||

एवमुक्ते मघवता देवाः सर्षिगणास्तदा |

शरण्यं शरणं देवं जग्मुर्विष्णुं महाबलम् ||५||

ऊचुश्च सर्वे देवेशं विष्णुं वृत्रभयार्दिताः |

त्वया लोकास्त्रयः क्रान्तास्त्रिभिर्विक्रमणैः प्रभो ||६||

अमृतं चाहृतं विष्णो दैत्याश्च निहता रणे |

बलिं बद्ध्वा महादैत्यं शक्रो देवाधिपः कृतः ||७||

त्वं प्रभुः सर्वलोकानां त्वया सर्वमिदं ततम् |

त्वं हि देव महादेवः सर्वलोकनमस्कृतः ||८||

गतिर्भव त्वं देवानां सेन्द्राणाममरोत्तम |

जगद्व्याप्तमिदं सर्वं वृत्रेणासुरसूदन ||९||

विष्णुरुवाच||

अवश्यं करणीयं मे भवतां हितमुत्तमम् |

तस्मादुपायं वक्ष्यामि यथासौ न भविष्यति ||१०||

गच्छध्वं सर्षिगन्धर्वा यत्रासौ विश्वरूपधृक् |

साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ ||११||

भविष्यति गतिर्देवाः शक्रस्य मम तेजसा |

अदृश्यश्च प्रवेक्ष्यामि वज्रमस्यायुधोत्तमम् ||१२||

गच्छध्वमृषिभिः सार्धं गन्धर्वैश्च सुरोत्तमाः |

वृत्रस्य सह शक्रेण सन्धिं कुरुत माचिरम् ||१३||

शल्य उवाच||

एवमुक्तास्तु देवेन ऋषयस्त्रिदशास्तथा |

ययुः समेत्य सहिताः शक्रं कृत्वा पुरःसरम् ||१४||

समीपमेत्य च तदा सर्व एव महौजसः |

तं तेजसा प्रज्वलितं प्रतपन्तं दिशो दश ||१५||

ग्रसन्तमिव लोकांस्त्रीन्सूर्याचन्द्रमसौ यथा |

ददृशुस्तत्र ते वृत्रं शक्रेण सह देवताः ||१६||

ऋषयोऽथ ततोऽभ्येत्य वृत्रमूचुः प्रियं वचः |

व्याप्तं जगदिदं सर्वं तेजसा तव दुर्जय ||१७||

न च शक्नोषि निर्जेतुं वासवं भूरिविक्रमम् |

युध्यतोश्चापि वां कालो व्यतीतः सुमहानिह ||१८||

पीड्यन्ते च प्रजाः सर्वाः सदेवासुरमानवाः |

सख्यं भवतु ते वृत्र शक्रेण सह नित्यदा ||१९||

अवाप्स्यसि सुखं त्वं च शक्रलोकांश्च शाश्वतान् ||१९||

ऋषिवाक्यं निशम्याथ स वृत्रः सुमहाबलः |

उवाच तांस्तदा सर्वान्प्रणम्य शिरसासुरः ||२०||

सर्वे यूयं महाभागा गन्धर्वाश्चैव सर्वशः |

यद्ब्रूत तच्छ्रुतं सर्वं ममापि शृणुतानघाः ||२१||

सन्धिः कथं वै भविता मम शक्रस्य चोभयोः |

तेजसोर्हि द्वयोर्देवाः सख्यं वै भविता कथम् ||२२||

ऋषय ऊचुः||

सकृत्सतां सङ्गतं लिप्सितव्यं; ततः परं भविता भव्यमेव |

नातिक्रमेत्सत्पुरुषेण सङ्गतं; तस्मात्सतां सङ्गतं लिप्सितव्यम् ||२३||

दृढं सतां सङ्गतं चापि नित्यं; ब्रूयाच्चार्थं ह्यर्थकृच्छ्रेषु धीरः |

महार्थवत्सत्पुरुषेण सङ्गतं; तस्मात्सन्तं न जिघांसेत धीरः ||२४||

इन्द्रः सतां संमतश्च निवासश्च महात्मनाम् |

सत्यवादी ह्यदीनश्च धर्मवित्सुविनिश्चितः ||२५||

तेन ते सह शक्रेण सन्धिर्भवतु शाश्वतः |

एवं विश्वासमागच्छ मा ते भूद्बुद्धिरन्यथा ||२६||

शल्य उवाच||

महर्षिवचनं श्रुत्वा तानुवाच महाद्युतिः |

अवश्यं भगवन्तो मे माननीयास्तपस्विनः ||२७||

ब्रवीमि यदहं देवास्तत्सर्वं क्रियतामिह |

ततः सर्वं करिष्यामि यदूचुर्मां द्विजर्षभाः ||२८||

न शुष्केण न चार्द्रेण नाश्मना न च दारुणा |

न शस्त्रेण न वज्रेण न दिवा न तथा निशि ||२९||

वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः |

एवं मे रोचते सन्धिः शक्रेण सह नित्यदा ||३०||

बाढमित्येव ऋषयस्तमूचुर्भरतर्षभ |

एवं कृते तु सन्धाने वृत्रः प्रमुदितोऽभवत् ||३१||

यत्तः सदाभवच्चापि शक्रोऽमर्षसमन्वितः |

वृत्रस्य वधसंयुक्तानुपायाननुचिन्तयन् ||३२||

रन्ध्रान्वेषी समुद्विग्नः सदाभूद्बलवृत्रहा ||३२||

स कदाचित्समुद्रान्ते तमपश्यन्महासुरम् |

सन्ध्याकाल उपावृत्ते मुहूर्ते रम्यदारुणे ||३३||

ततः सञ्चिन्त्य भगवान्वरदानं महात्मनः |

सन्ध्येयं वर्तते रौद्रा न रात्रिर्दिवसं न च ||३४||

वृत्रश्चावश्यवध्योऽयं मम सर्वहरो रिपुः ||३४||

यदि वृत्रं न हन्म्यद्य वञ्चयित्वा महासुरम् |

महाबलं महाकायं न मे श्रेयो भविष्यति ||३५||

एवं सञ्चिन्तयन्नेव शक्रो विष्णुमनुस्मरन् |

अथ फेनं तदापश्यत्समुद्रे पर्वतोपमम् ||३६||

नायं शुष्को न चार्द्रोऽयं न च शस्त्रमिदं तथा |

एनं क्षेप्स्यामि वृत्रस्य क्षणादेव नशिष्यति ||३७||

सवज्रमथ फेनं तं क्षिप्रं वृत्रे निसृष्टवान् |

प्रविश्य फेनं तं विष्णुरथ वृत्रं व्यनाशयत् ||३८||

निहते तु ततो वृत्रे दिशो वितिमिराभवन् |

प्रववौ च शिवो वायुः प्रजाश्च जहृषुस्तदा ||३९||

ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः |

ऋषयश्च महेन्द्रं तमस्तुवन्विविधैः स्तवैः ||४०||

नमस्कृतः सर्वभूतैः सर्वभूतानि सान्त्वयन् |

हतशत्रुः प्रहृष्टात्मा वासवः सह दैवतैः ||४१||

विष्णुं त्रिभुवनश्रेष्ठं पूजयामास धर्मवित् ||४१||

ततो हते महावीर्ये वृत्रे देवभयङ्करे |

अनृतेनाभिभूतोऽभूच्छक्रः परमदुर्मनाः ||४२||

त्रैशीर्षयाभिभूतश्च स पूर्वं ब्रह्महत्यया ||४२||

सोऽन्तमाश्रित्य लोकानां नष्टसञ्ज्ञो विचेतनः |

न प्राज्ञायत देवेन्द्रस्त्वभिभूतः स्वकल्मषैः ||४३||

प्रतिच्छन्नो वसत्यप्सु चेष्टमान इवोरगः ||४३||

ततः प्रनष्टे देवेन्द्रे ब्रह्महत्याभयार्दिते |

भूमिः प्रध्वस्तसङ्काशा निर्वृक्षा शुष्ककानना ||४४||

विच्छिन्नस्रोतसो नद्यः सरांस्यनुदकानि च ||४४||

सङ्क्षोभश्चापि सत्त्वानामनावृष्टिकृतोऽभवत् |

देवाश्चापि भृशं त्रस्तास्तथा सर्वे महर्षयः ||४५||

अराजकं जगत्सर्वमभिभूतमुपद्रवैः |

ततो भीताभवन्देवाः को नो राजा भवेदिति ||४६||

दिवि देवर्षयश्चापि देवराजविनाकृताः |

न च स्म कश्चिद्देवानां राज्याय कुरुते मनः ||४७||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

011-अध्यायः

शल्य उवाच||

ऋषयोऽथाब्रुवन्सर्वे देवाश्च त्रिदशेश्वराः |

अयं वै नहुषः श्रीमान्देवराज्येऽभिषिच्यताम् ||१||

ते गत्वाथाब्रुवन्सर्वे राजा नो भव पार्थिव ||१||

स तानुवाच नहुषो देवानृषिगणांस्तथा |

पितृभिः सहितान्राजन्परीप्सन्हितमात्मनः ||२||

दुर्बलोऽहं न मे शक्तिर्भवतां परिपालने |

बलवाञ्जायते राजा बलं शक्रे हि नित्यदा ||३||

तमब्रुवन्पुनः सर्वे देवाः सर्षिपुरोगमाः |

अस्माकं तपसा युक्तः पाहि राज्यं त्रिविष्टपे ||४||

परस्परभयं घोरमस्माकं हि न संशयः |

अभिषिच्यस्व राजेन्द्र भव राजा त्रिविष्टपे ||५||

देवदानवयक्षाणामृषीणां रक्षसां तथा |

पितृगन्धर्वभूतानां चक्षुर्विषयवर्तिनाम् ||६||

तेज आदास्यसे पश्यन्बलवांश्च भविष्यसि ||६||

धर्मं पुरस्कृत्य सदा सर्वलोकाधिपो भव |

ब्रह्मर्षींश्चापि देवांश्च गोपायस्व त्रिविष्टपे ||७||

सुदुर्लभं वरं लब्ध्वा प्राप्य राज्यं त्रिविष्टपे |

धर्मात्मा सततं भूत्वा कामात्मा समपद्यत ||८||

देवोद्यानेषु सर्वेषु नन्दनोपवनेषु च |

कैलासे हिमवत्पृष्ठे मन्दरे श्वेतपर्वते ||९||

सह्ये महेन्द्रे मलये समुद्रेषु सरित्सु च ||९||

अप्सरोभिः परिवृतो देवकन्यासमावृतः |

नहुषो देवराजः सन्क्रीडन्बहुविधं तदा ||१०||

शृण्वन्दिव्या बहुविधाः कथाः श्रुतिमनोहराः |

वादित्राणि च सर्वाणि गीतं च मधुरस्वरम् ||११||

विश्वावसुर्नारदश्च गन्धर्वाप्सरसां गणाः |

ऋतवः षट्च देवेन्द्रं मूर्तिमन्त उपस्थिताः ||१२||

मारुतः सुरभिर्वाति मनोज्ञः सुखशीतलः ||१२||

एवं हि क्रीडतस्तस्य नहुषस्य महात्मनः |

सम्प्राप्ता दर्शनं देवी शक्रस्य महिषी प्रिया ||१३||

स तां संदृश्य दुष्टात्मा प्राह सर्वान्सभासदः |

इन्द्रस्य महिषी देवी कस्मान्मां नोपतिष्ठति ||१४||

अहमिन्द्रोऽस्मि देवानां लोकानां च तथेश्वरः |

आगच्छतु शची मह्यं क्षिप्रमद्य निवेशनम् ||१५||

तच्छ्रुत्वा दुर्मना देवी बृहस्पतिमुवाच ह |

रक्ष मां नहुषाद्ब्रह्मंस्तवास्मि शरणं गता ||१६||

सर्वलक्षणसम्पन्नां ब्रह्मस्त्वं मां प्रभाषसे |

देवराजस्य दयितामत्यन्तसुखभागिनीम् ||१७||

अवैधव्येन संयुक्तामेकपत्नीं पतिव्रताम् |

उक्तवानसि मां पूर्वमृतां तां कुरु वै गिरम् ||१८||

नोक्तपूर्वं च भगवन्मृषा ते किञ्चिदीश्वर |

तस्मादेतद्भवेत्सत्यं त्वयोक्तं द्विजसत्तम ||१९||

बृहस्पतिरथोवाच इन्द्राणीं भयमोहिताम् |

यदुक्तासि मया देवि सत्यं तद्भविता ध्रुवम् ||२०||

द्रक्ष्यसे देवराजानमिन्द्रं शीघ्रमिहागतम् |

न भेतव्यं च नहुषात्सत्यमेतद्ब्रवीमि ते ||२१||

समानयिष्ये शक्रेण नचिराद्भवतीमहम् ||२१||

अथ शुश्राव नहुष इन्द्राणीं शरणं गताम् |

बृहस्पतेरङ्गिरसश्चुक्रोध स नृपस्तदा ||२२||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

012-अध्यायः

शल्य उवाच||

क्रुद्धं तु नहुषं ज्ञात्वा देवाः सर्षिपुरोगमाः |

अब्रुवन्देवराजानं नहुषं घोरदर्शनम् ||१||

देवराज जहि क्रोधं त्वयि क्रुद्धे जगद्विभो |

त्रस्तं सासुरगन्धर्वं सकिंनरमहोरगम् ||२||

जहि क्रोधमिमं साधो न क्रुध्यन्ति भवद्विधाः |

परस्य पत्नी सा देवी प्रसीदस्व सुरेश्वर ||३||

निवर्तय मनः पापात्परदाराभिमर्शनात् |

देवराजोऽसि भद्रं ते प्रजा धर्मेण पालय ||४||

एवमुक्तो न जग्राह तद्वचः काममोहितः |

अथ देवानुवाचेदमिन्द्रं प्रति सुराधिपः ||५||

अहल्या धर्षिता पूर्वमृषिपत्नी यशस्विनी |

जीवतो भर्तुरिन्द्रेण स वः किं न निवारितः ||६||

बहूनि च नृशंसानि कृतानीन्द्रेण वै पुरा |

वैधर्म्याण्युपधाश्चैव स वः किं न निवारितः ||७||

उपतिष्ठतु मां देवी एतदस्या हितं परम् |

युष्माकं च सदा देवाः शिवमेवं भविष्यति ||८||

देवा ऊचुः||

इन्द्राणीमानयिष्यामो यथेच्छसि दिवस्पते |

जहि क्रोधमिमं वीर प्रीतो भव सुरेश्वर ||९||

शल्य उवाच||

इत्युक्त्वा ते तदा देवा ऋषिभिः सह भारत |

जग्मुर्बृहस्पतिं वक्तुमिन्द्राणीं चाशुभं वचः ||१०||

जानीमः शरणं प्राप्तमिन्द्राणीं तव वेश्मनि |

दत्ताभयां च विप्रेन्द्र त्वया देवर्षिसत्तम ||११||

ते त्वां देवाः सगन्धर्वा ऋषयश्च महाद्युते |

प्रसादयन्ति चेन्द्राणी नहुषाय प्रदीयताम् ||१२||

इन्द्राद्विशिष्टो नहुषो देवराजो महाद्युतिः |

वृणोत्वियं वरारोहा भर्तृत्वे वरवर्णिनी ||१३||

एवमुक्ते तु सा देवी बाष्पमुत्सृज्य सस्वरम् |

उवाच रुदती दीना बृहस्पतिमिदं वचः ||१४||

नाहमिच्छामि नहुषं पतिमन्वास्य तं प्रभुम् |

शरणागतास्मि ते ब्रह्मंस्त्राहि मां महतो भयात् ||१५||

बृहस्पतिरुवाच||

शरणागतां न त्यजेयमिन्द्राणि मम निश्चितम् |

धर्मज्ञां धर्मशीलां च न त्यजे त्वामनिन्दिते ||१६||

नाकार्यं कर्तुमिच्छामि ब्राह्मणः सन्विशेषतः |

श्रुतधर्मा सत्यशीलो जानन्धर्मानुशासनम् ||१७||

नाहमेतत्करिष्यामि गच्छध्वं वै सुरोत्तमाः |

अस्मिंश्चार्थे पुरा गीतं ब्रह्मणा श्रूयतामिदम् ||१८||

न तस्य बीजं रोहति बीजकाले; न चास्य वर्षं वर्षति वर्षकाले |

भीतं प्रपन्नं प्रददाति शत्रवे; न सोऽन्तरं लभते त्राणमिच्छन् ||१९||

मोघमन्नं विन्दति चाप्यचेताः; स्वर्गाल्लोकाद्भ्रश्यति नष्टचेष्टः |

भीतं प्रपन्नं प्रददाति यो वै; न तस्य हव्यं प्रतिगृह्णन्ति देवाः ||२०||

प्रमीयते चास्य प्रजा ह्यकाले; सदा विवासं पितरोऽस्य कुर्वते |

भीतं प्रपन्नं प्रददाति शत्रवे; सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम् ||२१||

एतदेवं विजानन्वै न दास्यामि शचीमिमाम् |

इन्द्राणीं विश्रुतां लोके शक्रस्य महिषीं प्रियाम् ||२२||

अस्या हितं भवेद्यच्च मम चापि हितं भवेत् |

क्रियतां तत्सुरश्रेष्ठा न हि दास्याम्यहं शचीम् ||२३||

शल्य उवाच||

अथ देवास्तमेवाहुर्गुरुमङ्गिरसां वरम् |

कथं सुनीतं तु भवेन्मन्त्रयस्व बृहस्पते ||२४||

बृहस्पतिरुवाच||

नहुषं याचतां देवी किञ्चित्कालान्तरं शुभा |

इन्द्राणीहितमेतद्धि तथास्माकं भविष्यति ||२५||

बहुविघ्नकरः कालः कालः कालं नयिष्यति |

दर्पितो बलवांश्चापि नहुषो वरसंश्रयात् ||२६||

शल्य उवाच||

ततस्तेन तथोक्ते तु प्रीता देवास्तमब्रुवन् |

ब्रह्मन्साध्विदमुक्तं ते हितं सर्वदिवौकसाम् ||२७||

एवमेतद्द्विजश्रेष्ठ देवी चेयं प्रसाद्यताम् ||२७||

ततः समस्ता इन्द्राणीं देवाः साग्निपुरोगमाः |

ऊचुर्वचनमव्यग्रा लोकानां हितकाम्यया ||२८||

त्वया जगदिदं सर्वं धृतं स्थावरजङ्गमम् |

एकपत्न्यसि सत्या च गच्छस्व नहुषं प्रति ||२९||

क्षिप्रं त्वामभिकामश्च विनशिष्यति पार्थिवः |

नहुषो देवि शक्रश्च सुरैश्वर्यमवाप्स्यति ||३०||

एवं विनिश्चयं कृत्वा इन्द्राणी कार्यसिद्धये |

अभ्यगच्छत सव्रीडा नहुषं घोरदर्शनम् ||३१||

दृष्ट्वा तां नहुषश्चापि वयोरूपसमन्विताम् |

समहृष्यत दुष्टात्मा कामोपहतचेतनः ||३२||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

013-अध्यायः

शल्य उवाच||

अथ तामब्रवीद्दृष्ट्वा नहुषो देवराट्तदा |

त्रयाणामपि लोकानामहमिन्द्रः शुचिस्मिते ||१||

भजस्व मां वरारोहे पतित्वे वरवर्णिनि ||१||

एवमुक्ता तु सा देवी नहुषेण पतिव्रता |

प्रावेपत भयोद्विग्ना प्रवाते कदली यथा ||२||

नमस्य सा तु ब्रह्माणं कृत्वा शिरसि चाञ्जलिम् |

देवराजमथोवाच नहुषं घोरदर्शनम् ||३||

कालमिच्छाम्यहं लब्धुं किञ्चित्त्वत्तः सुरेश्वर |

न हि विज्ञायते शक्रः प्राप्तः किं वा क्व वा गतः ||४||

तत्त्वमेतत्तु विज्ञाय यदि न ज्ञायते प्रभो |

ततोऽहं त्वामुपस्थास्ये सत्यमेतद्ब्रवीमि ते ||५||

एवमुक्तः स इन्द्राण्या नहुषः प्रीतिमानभूत् ||५||

नहुष उवाच||

एवं भवतु सुश्रोणि यथा मामभिभाषसे |

ज्ञात्वा चागमनं कार्यं सत्यमेतदनुस्मरेः ||६||

शल्य उवाच||

नहुषेण विसृष्टा च निश्चक्राम ततः शुभा |

बृहस्पतिनिकेतं सा जगाम च तपस्विनी ||७||

तस्याः संश्रुत्य च वचो देवाः साग्निपुरोगमाः |

मन्त्रयामासुरेकाग्राः शक्रार्थं राजसत्तम ||८||

देवदेवेन सङ्गम्य विष्णुना प्रभविष्णुना |

ऊचुश्चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः ||९||

ब्रह्महत्याभिभूतो वै शक्रः सुरगणेश्वरः |

गतिश्च नस्त्वं देवेश पूर्वजो जगतः प्रभुः ||१०||

रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ||१०||

त्वद्वीर्यान्निहते वृत्रे वासवो ब्रह्महत्यया |

वृतः सुरगणश्रेष्ठ मोक्षं तस्य विनिर्दिश ||११||

तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् |

मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ||१२||

पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः |

पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः ||१३||

स्वकर्मभिश्च नहुषो नाशं यास्यति दुर्मतिः |

कञ्चित्कालमिमं देवा मर्षयध्वमतन्द्रिताः ||१४||

श्रुत्वा विष्णोः शुभां सत्यां तां वाणीममृतोपमाम् |

ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः ||१५||

यत्र शक्रो भयोद्विग्नस्तं देशमुपचक्रमुः ||१५||

तत्राश्वमेधः सुमहान्महेन्द्रस्य महात्मनः |

ववृते पावनार्थं वै ब्रह्महत्यापहो नृप ||१६||

विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च |

पर्वतेषु पृथिव्यां च स्त्रीषु चैव युधिष्ठिर ||१७||

संविभज्य च भूतेषु विसृज्य च सुरेश्वरः |

विज्वरः पूतपाप्मा च वासवोऽभवदात्मवान् ||१८||

अकम्प्यं नहुषं स्थानाद्दृष्ट्वा च बलसूदनः |

तेजोघ्नं सर्वभूतानां वरदानाच्च दुःसहम् ||१९||

ततः शचीपतिर्वीरः पुनरेव व्यनश्यत |

अदृश्यः सर्वभूतानां कालाकाङ्क्षी चचार ह ||२०||

प्रनष्टे तु ततः शक्रे शची शोकसमन्विता |

हा शक्रेति तदा देवी विललाप सुदुःखिता ||२१||

यदि दत्तं यदि हुतं गुरवस्तोषिता यदि |

एकभर्तृत्वमेवास्तु सत्यं यद्यस्ति वा मयि ||२२||

पुण्यां चेमामहं दिव्यां प्रवृत्तामुत्तरायणे |

देवीं रात्रिं नमस्यामि सिध्यतां मे मनोरथः ||२३||

प्रयता च निशां देवीमुपातिष्ठत तत्र सा |

पतिव्रतात्वात्सत्येन सोपश्रुतिमथाकरोत् ||२४||

यत्रास्ते देवराजोऽसौ तं देशं दर्शयस्व मे |

इत्याहोपश्रुतिं देवी सत्यं सत्येन दृश्यताम् ||२५||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

014-अध्यायः

शल्य उवाच||

अथैनां रुपिणीं साध्वीमुपातिष्ठदुपश्रुतिः |

तां वयोरूपसम्पन्नां दृष्ट्वा देवीमुपस्थिताम् ||१||

इन्द्राणी सम्प्रहृष्टा सा सम्पूज्यैनामपृच्छत |

इच्छामि त्वामहं ज्ञातुं का त्वं ब्रूहि वरानने ||२||

उपश्रुतिरुवाच||

उपश्रुतिरहं देवि तवान्तिकमुपागता |

दर्शनं चैव सम्प्राप्ता तव सत्येन तोषिता ||३||

पतिव्रतासि युक्ता च यमेन नियमेन च |

दर्शयिष्यामि ते शक्रं देवं वृत्रनिषूदनम् ||४||

क्षिप्रमन्वेहि भद्रं ते द्रक्ष्यसे सुरसत्तमम् ||४||

शल्य उवाच||

ततस्तां प्रस्थितां देवीमिन्द्राणी सा समन्वगात् |

देवारण्यान्यतिक्रम्य पर्वतांश्च बहूंस्ततः ||५||

हिमवन्तमतिक्रम्य उत्तरं पार्श्वमागमत् ||५||

समुद्रं च समासाद्य बहुयोजनविस्तृतम् |

आससाद महाद्वीपं नानाद्रुमलतावृतम् ||६||

तत्रापश्यत्सरो दिव्यं नानाशकुनिभिर्वृतम् |

शतयोजनविस्तीर्णं तावदेवायतं शुभम् ||७||

तत्र दिव्यानि पद्मानि पञ्चवर्णानि भारत |

षट्पदैरुपगीतानि प्रफुल्लानि सहस्रशः ||८||

पद्मस्य भित्त्वा नालं च विवेश सहिता तया |

बिसतन्तुप्रविष्टं च तत्रापश्यच्छतक्रतुम् ||९||

तं दृष्ट्वा च सुसूक्ष्मेण रूपेणावस्थितं प्रभुम् |

सूक्ष्मरूपधरा देवी बभूवोपश्रुतिश्च सा ||१०||

इन्द्रं तुष्टाव चेन्द्राणी विश्रुतैः पूर्वकर्मभिः |

स्तूयमानस्ततो देवः शचीमाह पुरंदरः ||११||

किमर्थमसि सम्प्राप्ता विज्ञातश्च कथं त्वहम् |

ततः सा कथयामास नहुषस्य विचेष्टितम् ||१२||

इन्द्रत्वं त्रिषु लोकेषु प्राप्य वीर्यमदान्वितः |

दर्पाविष्टश्च दुष्टात्मा मामुवाच शतक्रतो ||१३||

उपतिष्ठ मामिति क्रूरः कालं च कृतवान्मम ||१३||

यदि न त्रास्यसि विभो करिष्यति स मां वशे |

एतेन चाहं सन्तप्ता प्राप्ता शक्र तवान्तिकम् ||१४||

जहि रौद्रं महाबाहो नहुषं पापनिश्चयम् ||१४||

प्रकाशयस्व चात्मानं दैत्यदानवसूदन |

तेजः समाप्नुहि विभो देवराज्यं प्रशाधि च ||१५||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

015-अध्यायः

शल्य उवाच||

एवमुक्तः स भगवाञ्शच्या पुनरथाब्रवीत् |

विक्रमस्य न कालोऽयं नहुषो बलवत्तरः ||१||

विवर्धितश्च ऋषिभिर्हव्यैः कव्यैश्च भामिनि |

नीतिमत्र विधास्यामि देवि तां कर्तुमर्हसि ||२||

गुह्यं चैतत्त्वया कार्यं नाख्यातव्यं शुभे क्वचित् |

गत्वा नहुषमेकान्ते ब्रवीहि तनुमध्यमे ||३||

ऋषियानेन दिव्येन मामुपैहि जगत्पते |

एवं तव वशे प्रीता भविष्यामीति तं वद ||४||

इत्युक्ता देवराजेन पत्नी सा कमलेक्षणा |

एवमस्त्वित्यथोक्त्वा तु जगाम नहुषं प्रति ||५||

नहुषस्तां ततो दृष्ट्वा विस्मितो वाक्यमब्रवीत् |

स्वागतं ते वरारोहे किं करोमि शुचिस्मिते ||६||

भक्तं मां भज कल्याणि किमिच्छसि मनस्विनि |

तव कल्याणि यत्कार्यं तत्करिष्ये सुमध्यमे ||७||

न च व्रीडा त्वया कार्या सुश्रोणि मयि विश्वस |

सत्येन वै शपे देवि कर्तास्मि वचनं तव ||८||

इन्द्राण्युवाच||

यो मे त्वया कृतः कालस्तमाकाङ्क्षे जगत्पते |

ततस्त्वमेव भर्ता मे भविष्यसि सुराधिप ||९||

कार्यं च हृदि मे यत्तद्देवराजावधारय |

वक्ष्यामि यदि मे राजन्प्रियमेतत्करिष्यसि ||१०||

वाक्यं प्रणयसंयुक्तं ततः स्यां वशगा तव ||१०||

इन्द्रस्य वाजिनो वाहा हस्तिनोऽथ रथास्तथा |

इच्छाम्यहमिहापूर्वं वाहनं ते सुराधिप ||११||

यन्न विष्णोर्न रुद्रस्य नासुराणां न रक्षसाम् ||११||

वहन्तु त्वां महाराज ऋषयः सङ्गता विभो |

सर्वे शिबिकया राजन्नेतद्धि मम रोचते ||१२||

नासुरेषु न देवेषु तुल्यो भवितुमर्हसि |

सर्वेषां तेज आदत्स्व स्वेन वीर्येण दर्शनात् ||१३||

न ते प्रमुखतः स्थातुं कश्चिदिच्छति वीर्यवान् ||१३||

शल्य उवाच||

एवमुक्तस्तु नहुषः प्राहृष्यत तदा किल |

उवाच वचनं चापि सुरेन्द्रस्तामनिन्दिताम् ||१४||

अपूर्वं वाहनमिदं त्वयोक्तं वरवर्णिनि |

दृढं मे रुचितं देवि त्वद्वशोऽस्मि वरानने ||१५||

न ह्यल्पवीर्यो भवति यो वाहान्कुरुते मुनीन् |

अहं तपस्वी बलवान्भूतभव्यभवत्प्रभुः ||१६||

मयि क्रुद्धे जगन्न स्यान्मयि सर्वं प्रतिष्ठितम् |

देवदानवगन्धर्वाः किंनरोरगराक्षसाः ||१७||

न मे क्रुद्धस्य पर्याप्ताः सर्वे लोकाः शुचिस्मिते |

चक्षुषा यं प्रपश्यामि तस्य तेजो हराम्यहम् ||१८||

तस्मात्ते वचनं देवि करिष्यामि न संशयः |

सप्तर्षयो मां वक्ष्यन्ति सर्वे ब्रह्मर्षयस्तथा ||१९||

पश्य माहात्म्यमस्माकमृद्धिं च वरवर्णिनि ||१९||

एवमुक्त्वा तु तां देवीं विसृज्य च वराननाम् |

विमाने योजयित्वा स ऋषीन्नियममास्थितान् ||२०||

अब्रह्मण्यो बलोपेतो मत्तो वरमदेन च |

कामवृत्तः स दुष्टात्मा वाहयामास तानृषीन् ||२१||

नहुषेण विसृष्टा च बृहस्पतिमुवाच सा |

समयोऽल्पावशेषो मे नहुषेणेह यः कृतः ||२२||

शक्रं मृगय शीघ्रं त्वं भक्तायाः कुरु मे दयाम् ||२२||

बाढमित्येव भगवान्बृहस्पतिरुवाच ताम् |

न भेतव्यं त्वया देवि नहुषाद्दुष्टचेतसः ||२३||

न ह्येष स्थास्यति चिरं गत एष नराधमः |

अधर्मज्ञो महर्षीणां वाहनाच्च हतः शुभे ||२४||

इष्टिं चाहं करिष्यामि विनाशायास्य दुर्मतेः |

शक्रं चाधिगमिष्यामि मा भैस्त्वं भद्रमस्तु ते ||२५||

ततः प्रज्वाल्य विधिवज्जुहाव परमं हविः |

बृहस्पतिर्महातेजा देवराजोपलब्धये ||२६||

तस्माच्च भगवान्देवः स्वयमेव हुताशनः |

स्त्रीवेषमद्भुतं कृत्वा सहसान्तरधीयत ||२७||

स दिशः प्रदिशश्चैव पर्वतांश्च वनानि च |

पृथिवीं चान्तरिक्षं च विचीयातिमनोगतिः ||२८||

निमेषान्तरमात्रेण बृहस्पतिमुपागमत् ||२८||

अग्निरुवाच||

बृहस्पते न पश्यामि देवराजमहं क्वचित् |

आपः शेषाः सदा चापः प्रवेष्टुं नोत्सहाम्यहम् ||२९||

न मे तत्र गतिर्ब्रह्मन्किमन्यत्करवाणि ते ||२९||

शल्य उवाच||

तमब्रवीद्देवगुरुरपो विश महाद्युते |

अग्निरुवाच||

नापः प्रवेष्टुं शक्ष्यामि क्षयो मेऽत्र भविष्यति |

शरणं त्वां प्रपन्नोऽस्मि स्वस्ति तेऽस्तु महाद्युते ||३१||

अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् |

तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ||३२||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

016-अध्यायः

बृहस्पतिरुवाच||

त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट् |

त्वमन्तः सर्वभूतानां गूढश्चरसि साक्षिवत् ||१||

त्वामाहुरेकं कवयस्त्वामाहुस्त्रिविधं पुनः |

त्वया त्यक्तं जगच्चेदं सद्यो नश्येद्धुताशन ||२||

कृत्वा तुभ्यं नमो विप्राः स्वकर्मविजितां गतिम् |

गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् ||३||

त्वमेवाग्ने हव्यवाहस्त्वमेव परमं हविः |

यजन्ति सत्रैस्त्वामेव यज्ञैश्च परमाध्वरे ||४||

सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह; प्राप्ते काले पचसि पुनः समिद्धः |

सर्वस्यास्य भुवनस्य प्रसूति; स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा ||५||

त्वामग्ने जलदानाहुर्विद्युतश्च त्वमेव हि |

दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः ||६||

त्वय्यापो निहिताः सर्वास्त्वयि सर्वमिदं जगत् |

न तेऽस्त्यविदितं किञ्चित्त्रिषु लोकेषु पावक ||७||

स्वयोनिं भजते सर्वो विशस्वापोऽविशङ्कितः |

अहं त्वां वर्धयिष्यामि ब्राह्मैर्मन्त्रैः सनातनैः ||८||

शल्य उवाच||

एवं स्तुतो हव्यवाहो भगवान्कविरुत्तमः |

बृहस्पतिमथोवाच प्रीतिमान्वाक्यमुत्तमम् ||९||

दर्शयिष्यामि ते शक्रं सत्यमेतद्ब्रवीमि ते ||९||

प्रविश्यापस्ततो वह्निः ससमुद्राः सपल्वलाः |

आजगाम सरस्तच्च गूढो यत्र शतक्रतुः ||१०||

अथ तत्रापि पद्मानि विचिन्वन्भरतर्षभ |

अन्वपश्यत्स देवेन्द्रं बिसमध्यगतं स्थितम् ||११||

आगत्य च ततस्तूर्णं तमाचष्ट बृहस्पतेः |

अणुमात्रेण वपुषा पद्मतन्त्वाश्रितं प्रभुम् ||१२||

गत्वा देवर्षिगन्धर्वैः सहितोऽथ बृहस्पतिः |

पुराणैः कर्मभिर्देवं तुष्टाव बलसूदनम् ||१३||

महासुरो हतः शक्र नमुचिर्दारुणस्त्वया |

शम्बरश्च बलश्चैव तथोभौ घोरविक्रमौ ||१४||

शतक्रतो विवर्धस्व सर्वाञ्शत्रून्निषूदय |

उत्तिष्ठ वज्रिन्सम्पश्य देवर्षींश्च समागतान् ||१५||

महेन्द्र दानवान्हत्वा लोकास्त्रातास्त्वया विभो |

अपां फेनं समासाद्य विष्णुतेजोपबृंहितम् ||१६||

त्वया वृत्रो हतः पूर्वं देवराज जगत्पते ||१६||

त्वं सर्वभूतेषु वरेण्य ईड्य; स्त्वया समं विद्यते नेह भूतम् |

त्वया धार्यन्ते सर्वभूतानि शक्र; त्वं देवानां महिमानं चकर्थ ||१७||

पाहि देवान्सलोकांश्च महेन्द्र बलमाप्नुहि |

एवं संस्तूयमानश्च सोऽवर्धत शनैः शनैः ||१८||

स्वं चैव वपुरास्थाय बभूव स बलान्वितः |

अब्रवीच्च गुरुं देवो बृहस्पतिमुपस्थितम् ||१९||

किं कार्यमवशिष्टं वो हतस्त्वाष्ट्रो महासुरः |

वृत्रश्च सुमहाकायो ग्रस्तुं लोकानियेष यः ||२०||

बृहस्पतिरुवाच||

मानुषो नहुषो राजा देवर्षिगणतेजसा |

देवराज्यमनुप्राप्तः सर्वान्नो बाधते भृशम् ||२१||

इन्द्र उवाच||

कथं नु नहुषो राज्यं देवानां प्राप दुर्लभम् |

तपसा केन वा युक्तः किंवीर्यो वा बृहस्पते ||२२||

बृहस्पतिरुवाच||

देवा भीताः शक्रमकामयन्त; त्वया त्यक्तं महदैन्द्रं पदं तत् |

तदा देवाः पितरोऽथर्षयश्च; गन्धर्वसङ्घाश्च समेत्य सर्वे ||२३||

गत्वाब्रुवन्नहुषं शक्र तत्र; त्वं नो राजा भव भुवनस्य गोप्ता |

तानब्रवीन्नहुषो नास्मि शक्त; आप्यायध्वं तपसा तेजसा च ||२४||

एवमुक्तैर्वर्धितश्चापि देवै; राजाभवन्नहुषो घोरवीर्यः |

त्रैलोक्ये च प्राप्य राज्यं तपस्विनः; कृत्वा वाहान्याति लोकान्दुरात्मा ||२५||

तेजोहरं दृष्टिविषं सुघोरं; मा त्वं पश्येर्नहुषं वै कदाचित् |

देवाश्च सर्वे नहुषं भयार्ता; न पश्यन्तो गूढरूपाश्चरन्ति ||२६||

शल्य उवाच||

एवं वदत्यङ्गिरसां वरिष्ठे; बृहस्पतौ लोकपालः कुबेरः |

वैवस्वतश्चैव यमः पुराणो; देवश्च सोमो वरुणश्चाजगाम ||२७||

ते वै समागम्य महेन्द्रमूचु; र्दिष्ट्या त्वाष्ट्रो निहतश्चैव वृत्रः |

दिष्ट्या च त्वां कुशलिनमक्षतं च; पश्यामो वै निहतारिं च शक्र ||२८||

स तान्यथावत्प्रतिभाष्य शक्रः; सञ्चोदयन्नहुषस्यान्तरेण |

राजा देवानां नहुषो घोररूप; स्तत्र साह्यं दीयतां मे भवद्भिः ||२९||

ते चाब्रुवन्नहुषो घोररूपो; दृष्टीविषस्तस्य बिभीम देव |

त्वं चेद्राजन्नहुषं पराजये; स्तद्वै वयं भागमर्हाम शक्र ||३०||

इन्द्रोऽब्रवीद्भवतु भवानपां पति; र्यमः कुबेरश्च महाभिषेकम् |

सम्प्राप्नुवन्त्वद्य सहैव तेन; रिपुं जयामो नहुषं घोरदृष्टिम् ||३१||

ततः शक्रं ज्वलनोऽप्याह भागं; प्रयच्छ मह्यं तव साह्यं करिष्ये |

तमाह शक्रो भविताग्ने तवापि; ऐन्द्राग्नो वै भाग एको महाक्रतौ ||३२||

एवं सञ्चिन्त्य भगवान्महेन्द्रः पाकशासनः |

कुबेरं सर्वयक्षाणां धनानां च प्रभुं तथा ||३३||

वैवस्वतं पितॄणां च वरुणं चाप्यपां तथा |

आधिपत्यं ददौ शक्रः सत्कृत्य वरदस्तदा ||३४||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

017-अध्यायः

शल्य उवाच||

अथ सञ्चिन्तयानस्य देवराजस्य धीमतः |

नहुषस्य वधोपायं लोकपालैः सहैव तैः ||१||

तपस्वी तत्र भगवानगस्त्यः प्रत्यदृश्यत ||१||

सोऽब्रवीदर्च्य देवेन्द्रं दिष्ट्या वै वर्धते भवान् |

विश्वरूपविनाशेन वृत्रासुरवधेन च ||२||

दिष्ट्या च नहुषो भ्रष्टो देवराज्यात्पुरंदर |

दिष्ट्या हतारिं पश्यामि भवन्तं बलसूदन ||३||

इन्द्र उवाच||

स्वागतं ते महर्षेऽस्तु प्रीतोऽहं दर्शनात्तव |

पाद्यमाचमनीयं च गामर्घ्यं च प्रतीच्छ मे ||४||

शल्य उवाच||

पूजितं चोपविष्टं तमासने मुनिसत्तमम् |

पर्यपृच्छत देवेशः प्रहृष्टो ब्राह्मणर्षभम् ||५||

एतदिच्छामि भगवन्कथ्यमानं द्विजोत्तम |

परिभ्रष्टः कथं स्वर्गान्नहुषः पापनिश्चयः ||६||

अगस्त्य उवाच||

शृणु शक्र प्रियं वाक्यं यथा राजा दुरात्मवान् |

स्वर्गाद्भ्रष्टो दुराचारो नहुषो बलदर्पितः ||७||

श्रमार्तास्तु वहन्तस्तं नहुषं पापकारिणम् |

देवर्षयो महाभागास्तथा ब्रह्मर्षयोऽमलाः ||८||

पप्रच्छुः संशयं देव नहुषं जयतां वर ||८||

य इमे ब्रह्मणा प्रोक्ता मन्त्रा वै प्रोक्षणे गवाम् |

एते प्रमाणं भवत उताहो नेति वासव ||९||

नहुषो नेति तानाह तमसा मूढचेतनः ||९||

ऋषय ऊचुः||

अधर्मे सम्प्रवृत्तस्त्वं धर्मं न प्रतिपद्यसे |

प्रमाणमेतदस्माकं पूर्वं प्रोक्तं महर्षिभिः ||१०||

अगस्त्य उवाच||

ततो विवदमानः स मुनिभिः सह वासव |

अथ मामस्पृशन्मूर्ध्नि पादेनाधर्मपीडितः ||११||

तेनाभूद्धततेजाः स निःश्रीकश्च शचीपते |

ततस्तमहमाविग्नमवोचं भयपीडितम् ||१२||

यस्मात्पूर्वैः कृतं ब्रह्म ब्रह्मर्षिभिरनुष्ठितम् |

अदुष्टं दूषयसि वै यच्च मूर्ध्न्यस्पृशः पदा ||१३||

यच्चापि त्वमृषीन्मूढ ब्रह्मकल्पान्दुरासदान् |

वाहान्कृत्वा वाहयसि तेन स्वर्गाद्धतप्रभः ||१४||

ध्वंस पाप परिभ्रष्टः क्षीणपुण्यो महीतलम् |

दश वर्षसहस्राणि सर्परूपधरो महान् ||१५||

विचरिष्यसि पूर्णेषु पुनः स्वर्गमवाप्स्यसि ||१५||

एवं भ्रष्टो दुरात्मा स देवराज्यादरिंदम |

दिष्ट्या वर्धामहे शक्र हतो ब्राह्मणकण्टकः ||१६||

त्रिविष्टपं प्रपद्यस्व पाहि लोकाञ्शचीपते |

जितेन्द्रियो जितामित्रः स्तूयमानो महर्षिभिः ||१७||

शल्य उवाच||

ततो देवा भृशं तुष्टा महर्षिगणसंवृताः |

पितरश्चैव यक्षाश्च भुजगा राक्षसास्तथा ||१८||

गन्धर्वा देवकन्याश्च सर्वे चाप्सरसां गणाः |

सरांसि सरितः शैलाः सागराश्च विशां पते ||१९||

उपगम्याब्रुवन्सर्वे दिष्ट्या वर्धसि शत्रुहन् |

हतश्च नहुषः पापो दिष्ट्यागस्त्येन धीमता ||२०||

दिष्ट्या पापसमाचारः कृतः सर्पो महीतले ||२०||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

018-अध्यायः

शल्य उवाच||

ततः शक्रः स्तूयमानो गन्धर्वाप्सरसां गणैः |

ऐरावतं समारुह्य द्विपेन्द्रं लक्षणैर्युतम् ||१||

पावकश्च महातेजा महर्षिश्च बृहस्पतिः |

यमश्च वरुणश्चैव कुबेरश्च धनेश्वरः ||२||

सर्वैर्देवैः परिवृतः शक्रो वृत्रनिषूदनः |

गन्धर्वैरप्सरोभिश्च यातस्त्रिभुवनं प्रभुः ||३||

स समेत्य महेन्द्राण्या देवराजः शतक्रतुः |

मुदा परमया युक्तः पालयामास देवराट् ||४||

ततः स भगवांस्तत्र अङ्गिराः समदृश्यत |

अथर्ववेदमन्त्रैश्च देवेन्द्रं समपूजयत् ||५||

ततस्तु भगवानिन्द्रः प्रहृष्टः समपद्यत |

वरं च प्रददौ तस्मै अथर्वाङ्गिरसे तदा ||६||

अथर्वाङ्गिरसं नाम अस्मिन्वेदे भविष्यति |

उदाहरणमेतद्धि यज्ञभागं च लप्स्यसे ||७||

एवं सम्पूज्य भगवानथर्वाङ्गिरसं तदा |

व्यसर्जयन्महाराज देवराजः शतक्रतुः ||८||

सम्पूज्य सर्वांस्त्रिदशानृषींश्चापि तपोधनान् |

इन्द्रः प्रमुदितो राजन्धर्मेणापालयत्प्रजाः ||९||

एवं दुःखमनुप्राप्तमिन्द्रेण सह भार्यया |

अज्ञातवासश्च कृतः शत्रूणां वधकाङ्क्षया ||१०||

नात्र मन्युस्त्वया कार्यो यत्क्लिष्टोऽसि महावने |

द्रौपद्या सह राजेन्द्र भ्रातृभिश्च महात्मभिः ||११||

एवं त्वमपि राजेन्द्र राज्यं प्राप्स्यसि भारत |

वृत्रं हत्वा यथा प्राप्तः शक्रः कौरवनन्दन ||१२||

दुराचारश्च नहुषो ब्रह्मद्विट्पापचेतनः |

अगस्त्यशापाभिहतो विनष्टः शाश्वतीः समाः ||१३||

एवं तव दुरात्मानः शत्रवः शत्रुसूदन |

क्षिप्रं नाशं गमिष्यन्ति कर्णदुर्योधनादयः ||१४||

ततः सागरपर्यन्तां भोक्ष्यसे मेदिनीमिमाम् |

भ्रातृभिः सहितो वीर द्रौपद्या च सहाभिभो ||१५||

उपाख्यानमिदं शक्रविजयं वेदसंमितम् |

राज्ञा व्यूढेष्वनीकेषु श्रोतव्यं जयमिच्छता ||१६||

तस्मात्संश्रावयामि त्वां विजयं जयतां वर |

संस्तूयमाना वर्धन्ते महात्मानो युधिष्ठिर ||१७||

क्षत्रियाणामभावोऽयं युधिष्ठिर महात्मनाम् |

दुर्योधनापराधेन भीमार्जुनबलेन च ||१८||

आख्यानमिन्द्रविजयं य इदं नियतः पठेत् |

धूतपाप्मा जितस्वर्गः स प्रेत्येह च मोदते ||१९||

न चारिजं भयं तस्य न चापुत्रो भवेन्नरः |

नापदं प्राप्नुयात्काञ्चिद्दीर्घमायुश्च विन्दति ||२०||

सर्वत्र जयमाप्नोति न कदाचित्पराजयम् ||२०||

वैशम्पायन उवाच||

एवमाश्वासितो राजा शल्येन भरतर्षभ |

पूजयामास विधिवच्छल्यं धर्मभृतां वरः ||२१||

श्रुत्वा शल्यस्य वचनं कुन्तीपुत्रो युधिष्ठिरः |

प्रत्युवाच महाबाहुर्मद्रराजमिदं वचः ||२२||

भवान्कर्णस्य सारथ्यं करिष्यति न संशयः |

तत्र तेजोवधः कार्यः कर्णस्य मम संस्तवैः ||२३||

शल्य उवाच||

एवमेतत्करिष्यामि यथा मां सम्प्रभाषसे |

यच्चान्यदपि शक्ष्यामि तत्करिष्याम्यहं तव ||२४||

वैशम्पायन उवाच||

तत आमन्त्र्य कौन्तेयाञ्शल्यो मद्राधिपस्तदा |

जगाम सबलः श्रीमान्दुर्योधनमरिंदमः ||२५||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

019-अध्यायः

वैशम्पायन उवाच||

युयुधानस्ततो वीरः सात्वतानां महारथः |

महता चतुरङ्गेण बलेनागाद्युधिष्ठिरम् ||१||

तस्य योधा महावीर्या नानादेशसमागताः |

नानाप्रहरणा वीराः शोभयां चक्रिरे बलम् ||२||

परश्वधैर्भिण्डिपालैः शक्तितोमरमुद्गरैः |

शक्त्यृष्टिपरशुप्रासैः करवालैश्च निर्मलैः ||३||

खड्गकार्मुकनिर्यूहैः शरैश्च विविधैरपि |

तैलधौतैः प्रकाशद्भिस्तदशोभत वै बलम् ||४||

तस्य मेघप्रकाशस्य शस्त्रैस्तैः शोभितस्य च |

बभूव रूपं सैन्यस्य मेघस्येव सविद्युतः ||५||

अक्षौहिणी हि सेना सा तदा यौधिष्ठिरं बलम् |

प्रविश्यान्तर्दधे राजन्सागरं कुनदी यथा ||६||

तथैवाक्षौहिणीं गृह्य चेदीनामृषभो बली |

धृष्टकेतुरुपागच्छत्पाण्डवानमितौजसः ||७||

मागधश्च जयत्सेनो जारासन्धिर्महाबलः |

अक्षौहिण्यैव सैन्यस्य धर्मराजमुपागमत् ||८||

तथैव पाण्ड्यो राजेन्द्र सागरानूपवासिभिः |

वृतो बहुविधैर्योधैर्युधिष्ठिरमुपागमत् ||९||

तस्य सैन्यमतीवासीत्तस्मिन्बलसमागमे |

प्रेक्षणीयतरं राजन्सुवेषं बलवत्तदा ||१०||

द्रुपदस्याप्यभूत्सेना नानादेशसमागतैः |

शोभिता पुरुषैः शूरैः पुत्रैश्चास्य महारथैः ||११||

तथैव राजा मत्स्यानां विराटो वाहिनीपतिः |

पार्वतीयैर्महीपालैः सहितः पाण्डवानियात् ||१२||

इतश्चेतश्च पाण्डूनां समाजग्मुर्महात्मनाम् |

अक्षौहिण्यस्तु सप्तैव विविधध्वजसङ्कुलाः ||१३||

युयुत्समानाः कुरुभिः पाण्डवान्समहर्षयन् ||१३||

तथैव धार्तराष्ट्रस्य हर्षं समभिवर्धयन् |

भगदत्तो महीपालः सेनामक्षौहिणीं ददौ ||१४||

तस्य चीनैः किरातैश्च काञ्चनैरिव संवृतम् |

बभौ बलमनाधृष्यं कर्णिकारवनं यथा ||१५||

तथा भूरिश्रवाः शूरः शल्यश्च कुरुनन्दन |

दुर्योधनमुपायातावक्षौहिण्या पृथक्पृथक् ||१६||

कृतवर्मा च हार्दिक्यो भोजान्धकबलैः सह |

अक्षौहिण्यैव सेनाया दुर्योधनमुपागमत् ||१७||

तस्य तैः पुरुषव्याघ्रैर्वनमालाधरैर्बलम् |

अशोभत यथा मत्तैर्वनं प्रक्रीडितैर्गजैः ||१८||

जयद्रथमुखाश्चान्ये सिन्धुसौवीरवासिनः |

आजग्मुः पृथिवीपालाः कम्पयन्त इवाचलान् ||१९||

तेषामक्षौहिणी सेना बहुला विबभौ तदा |

विधूयमाना वातेन बहुरूपा इवाम्बुदाः ||२०||

सुदक्षिणश्च काम्बोजो यवनैश्च शकैस्तथा |

उपाजगाम कौरव्यमक्षौहिण्या विशां पते ||२१||

तस्य सेनासमावायः शलभानामिवाबभौ |

स च सम्प्राप्य कौरव्यं तत्रैवान्तर्दधे तदा ||२२||

तथा माहिष्मतीवासी नीलो नीलायुधैः सह |

महीपालो महावीर्यैर्दक्षिणापथवासिभिः ||२३||

आवन्त्यौ च महीपालौ महाबलसुसंवृतौ |

पृथगक्षौहिणीभ्यां तावभियातौ सुयोधनम् ||२४||

केकयाश्च नरव्याघ्राः सोदर्याः पञ्च पार्थिवाः |

संहर्षयन्तः कौरव्यमक्षौहिण्या समाद्रवन् ||२५||

इतश्चेतश्च सर्वेषां भूमिपानां महात्मनाम् |

तिस्रोऽन्याः समवर्तन्त वाहिन्यो भरतर्षभ ||२६||

एवमेकादशावृत्ताः सेना दुर्योधनस्य ताः |

युयुत्समानाः कौन्तेयान्नानाध्वजसमाकुलाः ||२७||

न हास्तिनपुरे राजन्नवकाशोऽभवत्तदा |

राज्ञां सबलमुख्यानां प्राधान्येनापि भारत ||२८||

ततः पञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम् |

तथा रोहितकारण्यं मरुभूमिश्च केवला ||२९||

अहिच्छत्रं कालकूटं गङ्गाकूलं च भारत |

वारणा वाटधानं च यामुनश्चैव पर्वतः ||३०||

एष देशः सुविस्तीर्णः प्रभूतधनधान्यवान् |

बभूव कौरवेयाणां बलेन सुसमाकुलः ||३१||

तत्र सैन्यं तथायुक्तं ददर्श स पुरोहितः |

यः स पाञ्चालराजेन प्रेषितः कौरवान्प्रति ||३२||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

020-अध्यायः

वैशम्पायन उवाच||

स तु कौरव्यमासाद्य द्रुपदस्य पुरोहितः |

सत्कृतो धृतराष्ट्रेण भीष्मेण विदुरेण च ||१||

सर्वं कौशल्यमुक्त्वादौ पृष्ट्वा चैवमनामयम् |

सर्वसेनाप्रणेतॄणां मध्ये वाक्यमुवाच ह ||२||

सर्वैर्भवद्भिर्विदितो राजधर्मः सनातनः |

वाक्योपादानहेतोस्तु वक्ष्यामि विदिते सति ||३||

धृतराष्ट्रश्च पाण्डुश्च सुतावेकस्य विश्रुतौ |

तयोः समानं द्रविणं पैतृकं नात्र संशयः ||४||

धृतराष्ट्रस्य ये पुत्रास्ते प्राप्ताः पैतृकं वसु |

पाण्डुपुत्राः कथं नाम न प्राप्ताः पैतृकं वसु ||५||

एवं गते पाण्डवेयैर्विदितं वः पुरा यथा |

न प्राप्तं पैतृकं द्रव्यं धार्तराष्ट्रेण संवृतम् ||६||

प्राणान्तिकैरप्युपायैः प्रयतद्भिरनेकशः |

शेषवन्तो न शकिता नयितुं यमसादनम् ||७||

पुनश्च वर्धितं राज्यं स्वबलेन महात्मभिः |

छद्मनापहृतं क्षुद्रैर्धार्तराष्ट्रैः ससौबलैः ||८||

तदप्यनुमतं कर्म तथायुक्तमनेन वै |

वासिताश्च महारण्ये वर्षाणीह त्रयोदश ||९||

सभायां क्लेशितैर्वीरैः सहभार्यैस्तथा भृशम् |

अरण्ये विविधाः क्लेशाः सम्प्राप्तास्तैः सुदारुणाः ||१०||

तथा विराटनगरे योन्यन्तरगतैरिव |

प्राप्तः परमसङ्क्लेशो यथा पापैर्महात्मभिः ||११||

ते सर्वे पृष्ठतः कृत्वा तत्सर्वं पूर्वकिल्बिषम् |

सामैव कुरुभिः सार्धमिच्छन्ति कुरुपुङ्गवाः ||१२||

तेषां च वृत्तमाज्ञाय वृत्तं दुर्योधनस्य च |

अनुनेतुमिहार्हन्ति धृतराष्ट्रं सुहृज्जनाः ||१३||

न हि ते विग्रहं वीराः कुर्वन्ति कुरुभिः सह |

अविनाशेन लोकस्य काङ्क्षन्ते पाण्डवाः स्वकम् ||१४||

यश्चापि धार्तराष्ट्रस्य हेतुः स्याद्विग्रहं प्रति |

स च हेतुर्न मन्तव्यो बलीयांसस्तथा हि ते ||१५||

अक्षौहिण्यो हि सप्तैव धर्मपुत्रस्य सङ्गताः |

युयुत्समानाः कुरुभिः प्रतीक्षन्तेऽस्य शासनम् ||१६||

अपरे पुरुषव्याघ्राः सहस्राक्षौहिणीसमाः |

सात्यकिर्भीमसेनश्च यमौ च सुमहाबलौ ||१७||

एकादशैताः पृतना एकतश्च समागताः |

एकतश्च महाबाहुर्बहुरूपो धनञ्जयः ||१८||

यथा किरीटी सेनाभ्यः सर्वाभ्यो व्यतिरिच्यते |

एवमेव महाबाहुर्वासुदेवो महाद्युतिः ||१९||

बहुलत्वं च सेनानां विक्रमं च किरीटिनः |

बुद्धिमत्तां च कृष्णस्य बुद्ध्वा युध्येत को नरः ||२०||

ते भवन्तो यथाधर्मं यथासमयमेव च |

प्रयच्छन्तु प्रदातव्यं मा वः कालोऽत्यगादयम् ||२१||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

021-अध्यायः

वैशम्पायन उवाच||

तस्य तद्वचनं श्रुत्वा प्रज्ञावृद्धो महाद्युतिः |

सम्पूज्यैनं यथाकालं भीष्मो वचनमब्रवीत् ||१||

दिष्ट्या कुशलिनः सर्वे पाण्डवाः सह बान्धवैः |

दिष्ट्या सहायवन्तश्च दिष्ट्या धर्मे च ते रताः ||२||

दिष्ट्या च सन्धिकामास्ते भ्रातरः कुरुनन्दनाः |

दिष्ट्या न युद्धमनसः सह दामोदरेण ते ||३||

भवता सत्यमुक्तं च सर्वमेतन्न संशयः |

अतितीक्ष्णं तु ते वाक्यं ब्राह्मण्यादिति मे मतिः ||४||

असंशयं क्लेशितास्ते वने चेह च पाण्डवाः |

प्राप्ताश्च धर्मतः सर्वं पितुर्धनमसंशयम् ||५||

किरीटी बलवान्पार्थः कृतास्त्रश्च महाबलः |

को हि पाण्डुसुतं युद्धे विषहेत धनञ्जयम् ||६||

अपि वज्रधरः साक्षात्किमुतान्ये धनुर्भृतः |

त्रयाणामपि लोकानां समर्थ इति मे मतिः ||७||

भीष्मे ब्रुवति तद्वाक्यं धृष्टमाक्षिप्य मन्युमान् |

दुर्योधनं समालोक्य कर्णो वचनमब्रवीत् ||८||

न तन्न विदितं ब्रह्मँल्लोके भूतेन केनचित् |

पुनरुक्तेन किं तेन भाषितेन पुनः पुनः ||९||

दुर्योधनार्थे शकुनिर्द्यूते निर्जितवान्पुरा |

समयेन गतोऽरण्यं पाण्डुपुत्रो युधिष्ठिरः ||१०||

न तं समयमादृत्य राज्यमिच्छति पैतृकम् |

बलमाश्रित्य मत्स्यानां पाञ्चालानां च पार्थिवः ||११||

दुर्योधनो भयाद्विद्वन्न दद्यात्पदमन्ततः |

धर्मतस्तु महीं कृत्स्नां प्रदद्याच्छत्रवेऽपि च ||१२||

यदि काङ्क्षन्ति ते राज्यं पितृपैतामहं पुनः |

यथाप्रतिज्ञं कालं तं चरन्तु वनमाश्रिताः ||१३||

ततो दुर्योधनस्याङ्के वर्तन्तामकुतोभयाः |

अधार्मिकामिमां बुद्धिं कुर्युर्मौर्ख्याद्धि केवलम् ||१४||

अथ ते धर्ममुत्सृज्य युद्धमिच्छन्ति पाण्डवाः |

आसाद्येमान्कुरुश्रेष्ठान्स्मरिष्यन्ति वचो मम ||१५||

भीष्म उवाच||

किं नु राधेय वाचा ते कर्म तत्स्मर्तुमर्हसि |

एक एव यदा पार्थः षड्रथाञ्जितवान्युधि ||१६||

न चेदेवं करिष्यामो यदयं ब्राह्मणोऽब्रवीत् |

ध्रुवं युधि हतास्तेन भक्षयिष्याम पांसुकान् ||१७||

वैशम्पायन उवाच||

धृतराष्ट्रस्ततो भीष्ममनुमान्य प्रसाद्य च |

अवभर्त्स्य च राधेयमिदं वचनमब्रवीत् ||१८||

अस्मद्धितमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् |

पाण्डवानां हितं चैव सर्वस्य जगतस्तथा ||१९||

चिन्तयित्वा तु पार्थेभ्यः प्रेषयिष्यामि सञ्जयम् |

स भवान्प्रतियात्वद्य पाण्डवानेव माचिरम् ||२०||

स तं सत्कृत्य कौरव्यः प्रेषयामास पाण्डवान् |

सभामध्ये समाहूय सञ्जयं वाक्यमब्रवीत् ||२१||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

022-अध्यायः-संजययानपर्व

धृतराष्ट्र उवाच||

प्राप्तानाहुः सञ्जय पाण्डुपुत्रा; नुपप्लव्ये तान्विजानीहि गत्वा |

अजातशत्रुं च सभाजयेथा; दिष्ट्यानघ ग्राममुपस्थितस्त्वम् ||१||

सर्वान्वदेः सञ्जय स्वस्तिमन्तः; कृच्छ्रं वासमतदर्हा निरुष्य |

तेषां शान्तिर्विद्यतेऽस्मासु शीघ्रं; मिथ्योपेतानामुपकारिणां सताम् ||२||

नाहं क्वचित्सञ्जय पाण्डवानां; मिथ्यावृत्तिं काञ्चन जात्वपश्यम् |

सर्वां श्रियं ह्यात्मवीर्येण लब्ध्वा; पर्याकार्षुः पाण्डवा मह्यमेव ||३||

दोषं ह्येषां नाधिगच्छे परिक्ष; न्नित्यं कञ्चिद्येन गर्हेय पार्थान् |

धर्मार्थाभ्यां कर्म कुर्वन्ति नित्यं; सुखप्रिया नानुरुध्यन्ति कामान् ||४||

घर्मं शीतं क्षुत्पिपासे तथैव; निद्रां तन्द्रीं क्रोधहर्षौ प्रमादम् |

धृत्या चैव प्रज्ञया चाभिभूय; धर्मार्थयोगान्प्रयतन्ति पार्थाः ||५||

त्यजन्ति मित्रेषु धनानि काले; न संवासाज्जीर्यति मैत्रमेषाम् |

यथार्हमानार्थकरा हि पार्था; स्तेषां द्वेष्टा नास्त्याजमीढस्य पक्षे ||६||

अन्यत्र पापाद्विषमान्मन्दबुद्धे; र्दुर्योधनात्क्षुद्रतराच्च कर्णात् |

तेषां हीमे हीनसुखप्रियाणां; महात्मनां सञ्जनयन्ति तेजः ||७||

उत्थानवीर्यः सुखमेधमानो; दुर्योधनः सुकृतं मन्यते तत् |

तेषां भागं यच्च मन्येत बालः; शक्यं हर्तुं जीवतां पाण्डवानाम् ||८||

यस्यार्जुनः पदवीं केशवश्च; वृकोदरः सात्यकोऽजातशत्रोः |

माद्रीपुत्रौ सृञ्जयाश्चापि सर्वे; पुरा युद्धात्साधु तस्य प्रदानम् ||९||

स ह्येवैकः पृथिवीं सव्यसाची; गाण्डीवधन्वा प्रणुदेद्रथस्थः |

तथा विष्णुः केशवोऽप्यप्रधृष्यो; लोकत्रयस्याधिपतिर्महात्मा ||१०||

तिष्ठेत कस्तस्य मर्त्यः पुरस्ता; द्यः सर्वदेवेषु वरेण्य ईड्यः |

पर्जन्यघोषान्प्रवपञ्शरौघा; न्पतङ्गसङ्घानिव शीघ्रवेगान् ||११||

दिशं ह्युदीचीमपि चोत्तरान्कुरू; न्गाण्डीवधन्वैकरथो जिगाय |

धनं चैषामाहरत्सव्यसाची; सेनानुगान्बलिदांश्चैव चक्रे ||१२||

यश्चैव देवान्खाण्डवे सव्यसाची; गाण्डीवधन्वा प्रजिगाय सेन्द्रान् |

उपाहरत्फल्गुनो जातवेदसे; यशो मानं वर्धयन्पाण्डवानाम् ||१३||

गदाभृतां नाद्य समोऽस्ति भीमा; द्धस्त्यारोहो नास्ति समश्च तस्य |

रथेऽर्जुनादाहुरहीनमेनं; बाह्वोर्बले चायुतनागवीर्यम् ||१४||

सुशिक्षितः कृतवैरस्तरस्वी; दहेत्क्रुद्धस्तरसा धार्तराष्ट्रान् |

सदात्यमर्षी बलवान्न शक्यो; युद्धे जेतुं वासवेनापि साक्षात् ||१५||

सुचेतसौ बलिनौ शीघ्रहस्तौ; सुशिक्षितौ भ्रातरौ फल्गुनेन |

श्येनौ यथा पक्षिपूगान्रुजन्तौ; माद्रीपुत्रौ नेह कुरून्विशेताम् ||१६||

तेषां मध्ये वर्तमानस्तरस्वी; धृष्टद्युम्नः पाण्डवानामिहैकः |

सहामात्यः सोमकानां प्रबर्हः; सन्त्यक्तात्मा पाण्डवानां जयाय ||१७||

सहोषितश्चरितार्थो वयःस्थः; शाल्वेयानामधिपो वै विराटः |

सह पुत्रैः पाण्डवार्थे च शश्व; द्युधिष्ठिरं भक्त इति श्रुतं मे ||१८||

अवरुद्धा बलिनः केकयेभ्यो; महेष्वासा भ्रातरः पञ्च सन्ति |

केकयेभ्यो राज्यमाकाङ्क्षमाणा; युद्धार्थिनश्चानुवसन्ति पार्थान् ||१९||

सर्वे च वीराः पृथिवीपतीनां; समानीताः पाण्डवार्थे निविष्टाः |

शूरानहं भक्तिमतः शृणोमि; प्रीत्या युक्तान्संश्रितान्धर्मराजम् ||२०||

गिर्याश्रया दुर्गनिवासिनश्च; योधाः पृथिव्यां कुलजा विशुद्धाः |

म्लेच्छाश्च नानायुधवीर्यवन्तः; समागताः पाण्डवार्थे निविष्टाः ||२१||

पाण्ड्यश्च राजामित इन्द्रकल्पो; युधि प्रवीरैर्बहुभिः समेतः |

समागतः पाण्डवार्थे महात्मा; लोकप्रवीरोऽप्रतिवीर्यतेजाः ||२२||

अस्त्रं द्रोणादर्जुनाद्वासुदेवा; त्कृपाद्भीष्माद्येन कृतं शृणोमि |

यं तं कार्ष्णिप्रतिमं प्राहुरेकं; स सात्यकिः पाण्डवार्थे निविष्टः ||२३||

अपाश्रिताश्चेदिकरूषकाश्च; सर्वोत्साहैर्भूमिपालैः समेताः |

तेषां मध्ये सूर्यमिवातपन्तं; श्रिया वृतं चेदिपतिं ज्वलन्तम् ||२४||

अस्तम्भनीयं युधि मन्यमानं; ज्याकर्षतां श्रेष्ठतमं पृथिव्याम् |

सर्वोत्साहं क्षत्रियाणां निहत्य; प्रसह्य कृष्णस्तरसा ममर्द ||२५||

यशोमानौ वर्धयन्यादवानां; पुराभिनच्छिशुपालं समीके |

यस्य सर्वे वर्धयन्ति स्म मानं; करूषराजप्रमुखा नरेन्द्राः ||२६||

तमसह्यं केशवं तत्र मत्वा; सुग्रीवयुक्तेन रथेन कृष्णम् |

सम्प्राद्रवंश्चेदिपतिं विहाय; सिंहं दृष्ट्वा क्षुद्रमृगा इवान्ये ||२७||

यस्तं प्रतीपस्तरसा प्रत्युदीया; दाशंसमानो द्वैरथे वासुदेवम् |

सोऽशेत कृष्णेन हतः परासु; र्वातेनेवोन्मथितः कर्णिकारः ||२८||

पराक्रमं मे यदवेदयन्त; तेषामर्थे सञ्जय केशवस्य |

अनुस्मरंस्तस्य कर्माणि विष्णो; र्गावल्गणे नाधिगच्छामि शान्तिम् ||२९||

न जातु ताञ्शत्रुरन्यः सहेत; येषां स स्यादग्रणीर्वृष्णिसिंहः |

प्रवेपते मे हृदयं भयेन; श्रुत्वा कृष्णावेकरथे समेतौ ||३०||

नो चेद्गच्छेत्सङ्गरं मन्दबुद्धि; स्ताभ्यां सुतो मे विपरीतचेताः |

नो चेत्कुरून्सञ्जय निर्दहेता; मिन्द्राविष्णू दैत्यसेनां यथैव ||३१||

मतो हि मे शक्रसमो धनञ्जयः; सनातनो वृष्णिवीरश्च विष्णुः ||३१||

धर्मारामो ह्रीनिषेधस्तरस्वी; कुन्तीपुत्रः पाण्डवोऽजातशत्रुः |

दुर्योधनेन निकृतो मनस्वी; नो चेत्क्रुद्धः प्रदहेद्धार्तराष्ट्रान् ||३२||

नाहं तथा ह्यर्जुनाद्वासुदेवा; द्भीमाद्वापि यमयोर्वा बिभेमि |

यथा राज्ञः क्रोधदीप्तस्य सूत; मन्योरहं भीततरः सदैव ||३३||

अलं तपोब्रह्मचर्येण युक्तः; सङ्कल्पोऽयं मानसस्तस्य सिध्येत् |

तस्य क्रोधं सञ्जयाहं समीके; स्थाने जानन्भृशमस्म्यद्य भीतः ||३४||

स गच्छ शीघ्रं प्रहितो रथेन; पाञ्चालराजस्य चमूं परेत्य |

अजातशत्रुं कुशलं स्म पृच्छेः; पुनः पुनः प्रीतियुक्तं वदेस्त्वम् ||३५||

जनार्दनं चापि समेत्य तात; महामात्रं वीर्यवतामुदारम् |

अनामयं मद्वचनेन पृच्छे; र्धृतराष्ट्रः पाण्डवैः शान्तिमीप्सुः ||३६||

न तस्य किञ्चिद्वचनं न कुर्या; त्कुन्तीपुत्रो वासुदेवस्य सूत |

प्रियश्चैषामात्मसमश्च कृष्णो; विद्वांश्चैषां कर्मणि नित्ययुक्तः ||३७||

समानीय पाण्डवान्सृञ्जयांश्च; जनार्दनं युयुधानं विराटम् |

अनामयं मद्वचनेन पृच्छेः; सर्वांस्तथा द्रौपदेयांश्च पञ्च ||३८||

यद्यत्तत्र प्राप्तकालं परेभ्य; स्त्वं मन्येथा भारतानां हितं च |

तत्तद्भाषेथाः सञ्जय राजमध्ये; न मूर्छयेद्यन्न भवेच्च युद्धम् ||३९||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

023-अध्यायः

वैशम्पायन उवाच||

राज्ञस्तु वचनं श्रुत्वा धृतराष्ट्रस्य सञ्जयः |

उपप्लव्यं ययौ द्रष्टुं पाण्डवानमितौजसः ||१||

स तु राजानमासाद्य धर्मात्मानं युधिष्ठिरम् |

प्रणिपत्य ततः पूर्वं सूतपुत्रोऽभ्यभाषत ||२||

गावल्गणिः सञ्जयः सूतसूनु; रजातशत्रुमवदत्प्रतीतः |

दिष्ट्या राजंस्त्वामरोगं प्रपश्ये; सहायवन्तं च महेन्द्रकल्पम् ||३||

अनामयं पृच्छति त्वाम्बिकेयो; वृद्धो राजा धृतराष्ट्रो मनीषी |

कच्चिद्भीमः कुशली पाण्डवाग्र्यो; धनञ्जयस्तौ च माद्रीतनूजौ ||४||

कच्चित्कृष्णा द्रौपदी राजपुत्री; सत्यव्रता वीरपत्नी सपुत्रा |

मनस्विनी यत्र च वाञ्छसि त्व; मिष्टान्कामान्भारत स्वस्तिकामः ||५||

युधिष्ठिर उवाच||

गावल्गणे सञ्जय स्वागतं ते; प्रीतात्माहं त्वाभिवदामि सूत |

अनामयं प्रतिजाने तवाहं; सहानुजैः कुशली चास्मि विद्वन् ||६||

चिरादिदं कुशलं भारतस्य; श्रुत्वा राज्ञः कुरुवृद्धस्य सूत |

मन्ये साक्षाद्दृष्टमहं नरेन्द्रं; दृष्ट्वैव त्वां सञ्जय प्रीतियोगात् ||७||

पितामहो नः स्थविरो मनस्वी; महाप्राज्ञः सर्वधर्मोपपन्नः |

स कौरव्यः कुशली तात भीष्मो; यथापूर्वं वृत्तिरप्यस्य कच्चित् ||८||

कच्चिद्राजा धृतराष्ट्रः सपुत्रो; वैचित्रवीर्यः कुशली महात्मा |

महाराजो बाह्लिकः प्रातिपेयः; कच्चिद्विद्वान्कुशली सूतपुत्र ||९||

स सोमदत्तः कुशली तात कच्चि; द्भूरिश्रवाः सत्यसन्धः शलश्च |

द्रोणः सपुत्रश्च कृपश्च विप्रो; महेष्वासाः कच्चिदेतेऽप्यरोगाः ||१०||

महाप्राज्ञाः सर्वशास्त्रावदाता; धनुर्भृतां मुख्यतमाः पृथिव्याम् |

कच्चिन्मानं तात लभन्त एते; धनुर्भृतः कच्चिदेतेऽप्यरोगाः ||११||

सर्वे कुरुभ्यः स्पृहयन्ति सञ्जय; धनुर्धरा ये पृथिव्यां युवानः |

येषां राष्ट्रे निवसति दर्शनीयो; महेष्वासः शीलवान्द्रोणपुत्रः ||१२||

वैश्यापुत्रः कुशली तात कच्चि; न्महाप्राज्ञो राजपुत्रो युयुत्सुः |

कर्णोऽमात्यः कुशली तात कच्चि; त्सुयोधनो यस्य मन्दो विधेयः ||१३||

स्त्रियो वृद्धा भारतानां जनन्यो; महानस्यो दासभार्याश्च सूत |

वध्वः पुत्रा भागिनेया भगिन्यो; दौहित्रा वा कच्चिदप्यव्यलीकाः ||१४||

कच्चिद्राजा ब्राह्मणानां यथाव; त्प्रवर्तते पूर्ववत्तात वृत्तिम् |

कच्चिद्दायान्मामकान्धार्तराष्ट्रो; द्विजातीनां सञ्जय नोपहन्ति ||१५||

कच्चिद्राजा धृतराष्ट्रः सपुत्र; उपेक्षते ब्राह्मणातिक्रमान्वै |

कच्चिन्न हेतोरिव वर्त्मभूत; उपेक्षते तेषु स न्यूनवृत्तिम् ||१६||

एतज्ज्योतिरुत्तमं जीवलोके; शुक्लं प्रजानां विहितं विधात्रा |

ते चेल्लोभं न नियच्छन्ति मन्दाः; कृत्स्नो नाशो भविता कौरवाणाम् ||१७||

कच्चिद्राजा धृतराष्ट्रः सपुत्रो; बुभूषते वृत्तिममात्यवर्गे |

कच्चिन्न भेदेन जिजीविषन्ति; सुहृद्रूपा दुर्हृदश्चैकमित्राः ||१८||

कच्चिन्न पापं कथयन्ति तात; ते पाण्डवानां कुरवः सर्व एव |

कच्चिद्दृष्ट्वा दस्युसङ्घान्समेता; न्स्मरन्ति पार्थस्य युधां प्रणेतुः ||१९||

मौर्वीभुजाग्रप्रहितान्स्म तात; दोधूयमानेन धनुर्धरेण |

गाण्डीवमुक्तान्स्तनयित्नुघोषा; नजिह्मगान्कच्चिदनुस्मरन्ति ||२०||

न ह्यपश्यं कञ्चिदहं पृथिव्यां; श्रुतं समं वाधिकमर्जुनेन |

यस्यैकषष्टिर्निशितास्तीक्ष्णधाराः; सुवाससः संमतो हस्तवापः ||२१||

गदापाणिर्भीमसेनस्तरस्वी; प्रवेपयञ्शत्रुसङ्घाननीके |

नागः प्रभिन्न इव नड्वलासु; चङ्क्रम्यते कच्चिदेनं स्मरन्ति ||२२||

माद्रीपुत्रः सहदेवः कलिङ्गा; न्समागतानजयद्दन्तकूरे |

वामेनास्यन्दक्षिणेनैव यो वै; महाबलं कच्चिदेनं स्मरन्ति ||२३||

उद्यन्नयं नकुलः प्रेषितो वै; गावल्गणे सञ्जय पश्यतस्ते |

दिशं प्रतीचीं वशमानयन्मे; माद्रीसुतं कच्चिदेनं स्मरन्ति ||२४||

अभ्याभवो द्वैतवने य आसी; द्दुर्मन्त्रिते घोषयात्रागतानाम् |

यत्र मन्दाञ्शत्रुवशं प्रयाता; नमोचयद्भीमसेनो जयश्च ||२५||

अहं पश्चादर्जुनमभ्यरक्षं; माद्रीपुत्रौ भीमसेनश्च चक्रे |

गाण्डीवभृच्छत्रुसङ्घानुदस्य; स्वस्त्यागमत्कच्चिदेनं स्मरन्ति ||२६||

न कर्मणा साधुनैकेन नूनं; कर्तुं शक्यं भवतीह सञ्जय |

सर्वात्मना परिजेतुं वयं चे; न्न शक्नुमो धृतराष्ट्रस्य पुत्रम् ||२७||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

024-अध्यायः

सञ्जय उवाच||

यथार्हसे पाण्डव तत्तथैव; कुरून्कुरुश्रेष्ठ जनं च पृच्छसि |

अनामयास्तात मनस्विनस्ते; कुरुश्रेष्ठान्पृच्छसि पार्थ यांस्त्वम् ||१||

सन्त्येव वृद्धाः साधवो धार्तराष्ट्रे; सन्त्येव पापाः पाण्डव तस्य विद्धि |

दद्याद्रिपोश्चापि हि धार्तराष्ट्रः; कुतो दायाँल्लोपयेद्ब्राह्मणानाम् ||२||

यद्युष्माकं वर्ततेऽसौ न धर्म्य; मद्रुग्धेषु द्रुग्धवत्तन्न साधु |

मित्रध्रुक्स्याद्धृतराष्ट्रः सपुत्रो; युष्मान्द्विषन्साधुवृत्तानसाधुः ||३||

न चानुजानाति भृशं च तप्यते; शोचत्यन्तः स्थविरोऽजातशत्रो |

शृणोति हि ब्राह्मणानां समेत्य; मित्रद्रोहः पातकेभ्यो गरीयान् ||४||

स्मरन्ति तुभ्यं नरदेव सङ्गमे; युद्धे च जिष्णोश्च युधां प्रणेतुः |

समुत्कृष्टे दुन्दुभिशङ्खशब्दे; गदापाणिं भीमसेनं स्मरन्ति ||५||

माद्रीसुतौ चापि रणाजिमध्ये; सर्वा दिशः सम्पतन्तौ स्मरन्ति |

सेनां वर्षन्तौ शरवर्षैरजस्रं; महारथौ समरे दुष्प्रकम्प्यौ ||६||

न त्वेव मन्ये पुरुषस्य राज; न्ननागतं ज्ञायते यद्भविष्यम् |

त्वं चेदिमं सर्वधर्मोपपन्नः; प्राप्तः क्लेशं पाण्डव कृच्छ्ररूपम् ||७||

त्वमेवैतत्सर्वमतश्च भूयः; समीकुर्याः प्रज्ञयाजातशत्रो |

न कामार्थं सन्त्यजेयुर्हि धर्मं; पाण्डोः सुताः सर्व एवेन्द्रकल्पाः ||८||

त्वमेवैतत्प्रज्ञयाजातशत्रो; शमं कुर्या येन शर्माप्नुयुस्ते |

धार्तराष्ट्राः पाण्डवाः सृञ्जयाश्च; ये चाप्यन्ये पार्थिवाः संनिविष्टाः ||९||

यन्माब्रवीद्धृतराष्ट्रो निशाया; मजातशत्रो वचनं पिता ते |

सहामात्यः सहपुत्रश्च राज; न्समेत्य तां वाचमिमां निबोध ||१०||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

025-अध्यायः

युधिष्ठिर उवाच||

समागताः पाण्डवाः सृञ्जयाश्च; जनार्दनो युयुधानो विराटः |

यत्ते वाक्यं धृतराष्ट्रानुशिष्टं; गावल्गणे ब्रूहि तत्सूतपुत्र ||१||

सञ्जय उवाच||

अजातशत्रुं च वृकोदरं च; धनञ्जयं माद्रवतीसुतौ च |

आमन्त्रये वासुदेवं च शौरिं; युयुधानं चेकितानं विराटम् ||२||

पाञ्चालानामधिपं चैव वृद्धं; धृष्टद्युम्नं पार्षतं याज्ञसेनिम् |

सर्वे वाचं शृणुतेमां मदीयां; वक्ष्यामि यां भूतिमिच्छन्कुरूणाम् ||३||

शमं राजा धृतराष्ट्रोऽभिनन्द; न्नयोजयत्त्वरमाणो रथं मे |

सभ्रातृपुत्रस्वजनस्य राज्ञ; स्तद्रोचतां पाण्डवानां शमोऽस्तु ||४||

सर्वैर्धर्मैः समुपेताः स्थ पार्थाः; प्रस्थानेन मार्दवेनार्जवेन |

जाताः कुले अनृशंसा वदान्या; ह्रीनिषेधाः कर्मणां निश्चयज्ञाः ||५||

न युज्यते कर्म युष्मासु हीनं; सत्त्वं हि वस्तादृशं भीमसेनाः |

उद्भासते ह्यञ्जनबिन्दुवत्त; च्छुक्ले वस्त्रे यद्भवेत्किल्बिषं वः ||६||

सर्वक्षयो दृश्यते यत्र कृत्स्नः; पापोदयो निरयोऽभावसंस्थः |

कस्तत्कुर्याज्जातु कर्म प्रजान; न्पराजयो यत्र समो जयश्च ||७||

ते वै धन्या यैः कृतं ज्ञातिकार्यं; ये वः पुत्राः सुहृदो बान्धवाश्च |

उपक्रुष्टं जीवितं सन्त्यजेयु; स्ततः कुरूणां नियतो वै भवः स्यात् ||८||

ते चेत्कुरूननुशास्य स्थ पार्था; निनीय सर्वान्द्विषतो निगृह्य |

समं वस्तज्जीवितं मृत्युना स्या; द्यज्जीवध्वं ज्ञातिवधे न साधु ||९||

को ह्येव युष्मान्सह केशवेन; सचेकितानान्पार्षतबाहुगुप्तान् |

ससात्यकीन्विषहेत प्रजेतुं; लब्ध्वापि देवान्सचिवान्सहेन्द्रान् ||१०||

को वा कुरून्द्रोणभीष्माभिगुप्ता; नश्वत्थाम्ना शल्यकृपादिभिश्च |

रणे प्रसोढुं विषहेत राज; न्राधेयगुप्तान्सह भूमिपालैः ||११||

महद्बलं धार्तराष्ट्रस्य राज्ञः; को वै शक्तो हन्तुमक्षीयमाणः |

सोऽहं जये चैव पराजये च; निःश्रेयसं नाधिगच्छामि किञ्चित् ||१२||

कथं हि नीचा इव दौष्कुलेया; निर्धर्मार्थं कर्म कुर्युश्च पार्थाः |

सोऽहं प्रसाद्य प्रणतो वासुदेवं; पाञ्चालानामधिपं चैव वृद्धम् ||१३||

कृताञ्जलिः शरणं वः प्रपद्ये; कथं स्वस्ति स्यात्कुरुसृञ्जयानाम् |

न ह्येव ते वचनं वासुदेवो; धनञ्जयो वा जातु किञ्चिन्न कुर्यात् ||१४||

प्राणानादौ याच्यमानः कुतोऽन्य; देतद्विद्वन्साधनार्थं ब्रवीमि |

एतद्राज्ञो भीष्मपुरोगमस्य; मतं यद्वः शान्तिरिहोत्तमा स्यात् ||१५||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

026-अध्यायः

युधिष्ठिर उवाच||

कां नु वाचं सञ्जय मे शृणोषि; युद्धैषिणीं येन युद्धाद्बिभेषि |

अयुद्धं वै तात युद्धाद्गरीयः; कस्तल्लब्ध्वा जातु युध्येत सूत ||१||

अकुर्वतश्चेत्पुरुषस्य सञ्जय; सिध्येत्सङ्कल्पो मनसा यं यमिच्छेत् |

न कर्म कुर्याद्विदितं ममैत; दन्यत्र युद्धाद्बहु यल्लघीयः ||२||

कुतो युद्धं जातु नरः प्रजान; न्को दैवशप्तोऽभिवृणीत युद्धम् |

सुखैषिणः कर्म कुर्वन्ति पार्था; धर्मादहीनं यच्च लोकस्य पथ्यम् ||३||

कर्मोदयं सुखमाशंसमानः; कृच्छ्रोपायं तत्त्वतः कर्म दुःखम् |

सुखप्रेप्सुर्विजिघांसुश्च दुःखं; य इन्द्रियाणां प्रीतिवशानुगामी ||४||

कामाभिध्या स्वशरीरं दुनोति; यया प्रयुक्तोऽनुकरोति दुःखम् ||४||

यथेध्यमानस्य समिद्धतेजसो; भूयो बलं वर्धते पावकस्य |

कामार्थलाभेन तथैव भूयो; न तृप्यते सर्पिषेवाग्निरिद्धः ||५||

सम्पश्येमं भोगचयं महान्तं; सहास्माभिर्धृतराष्ट्रस्य राज्ञः ||५||

नाश्रेयसामीश्वरो विग्रहाणां; नाश्रेयसां गीतशब्दं शृणोति |

नाश्रेयसः सेवते माल्यगन्धा; न्न चाप्यश्रेयांस्यनुलेपनानि ||६||

नाश्रेयसः प्रावरानध्यवस्ते; कथं त्वस्मान्सम्प्रणुदेत्कुरुभ्यः |

अत्रैव च स्यादवधूय एष; कामः शरीरे हृदयं दुनोति ||७||

स्वयं राजा विषमस्थः परेषु; सामस्थ्यमन्विच्छति तन्न साधु |

यथात्मनः पश्यति वृत्तमेव; तथा परेषामपि सोऽभ्युपैति ||८||

आसन्नमग्निं तु निदाघकाले; गम्भीरकक्षे गहने विसृज्य |

यथा वृद्धं वायुवशेन शोचे; त्क्षेमं मुमुक्षुः शिशिरव्यपाये ||९||

प्राप्तैश्वर्यो धृतराष्ट्रोऽद्य राजा; लालप्यते सञ्जय कस्य हेतोः |

प्रगृह्य दुर्बुद्धिमनार्जवे रतं; पुत्रं मन्दं मूढममन्त्रिणं तु ||१०||

अनाप्तः सन्नाप्ततमस्य वाचं; सुयोधनो विदुरस्यावमन्य |

सुतस्य राजा धृतराष्ट्रः प्रियैषी; सम्बुध्यमानो विशतेऽधर्ममेव ||११||

मेधाविनं ह्यर्थकामं कुरूणां; बहुश्रुतं वाग्मिनं शीलवन्तम् |

सूत राजा धृतराष्ट्रः कुरुभ्यो; न सोऽस्मरद्विदुरं पुत्रकाम्यात् ||१२||

मानघ्नस्य आत्मकामस्य चेर्ष्योः; संरम्भिणश्चार्थधर्मातिगस्य |

दुर्भाषिणो मन्युवशानुगस्य; कामात्मनो दुर्हृदो भावनस्य ||१३||

अनेयस्याश्रेयसो दीर्घमन्यो; र्मित्रद्रुहः सञ्जय पापबुद्धेः |

सुतस्य राजा धृतराष्ट्रः प्रियैषी; प्रपश्यमानः प्रजहाद्धर्मकामौ ||१४||

तदैव मे सञ्जय दीव्यतोऽभू; न्नो चेत्कुरूनागतः स्यादभावः |

काव्यां वाचं विदुरो भाषमाणो; न विन्दते धृतराष्ट्रात्प्रशंसाम् ||१५||

क्षत्तुर्यदा अन्ववर्तन्त बुद्धिं; कृच्छ्रं कुरून्न तदाभ्याजगाम |

यावत्प्रज्ञामन्ववर्तन्त तस्य; तावत्तेषां राष्ट्रवृद्धिर्बभूव ||१६||

तदर्थलुब्धस्य निबोध मेऽद्य; ये मन्त्रिणो धार्तराष्ट्रस्य सूत |

दुःशासनः शकुनिः सूतपुत्रो; गावल्गणे पश्य संमोहमस्य ||१७||

सोऽहं न पश्यामि परीक्षमाणः; कथं स्वस्ति स्यात्कुरुसृञ्जयानाम् |

आत्तैश्वर्यो धृतराष्ट्रः परेभ्यः; प्रव्राजिते विदुरे दीर्घदृष्टौ ||१८||

आशंसते वै धृतराष्ट्रः सपुत्रो; महाराज्यमसपत्नं पृथिव्याम् |

तस्मिञ्शमः केवलं नोपलभ्यो; अत्यासन्नं मद्गतं मन्यतेऽर्थम् ||१९||

यत्तत्कर्णो मन्यते पारणीयं; युद्धे गृहीतायुधमर्जुनेन |

आसंश्च युद्धानि पुरा महान्ति; कथं कर्णो नाभवद्द्वीप एषाम् ||२०||

कर्णश्च जानाति सुयोधनश्च; द्रोणश्च जानाति पितामहश्च |

अन्ये च ये कुरवस्तत्र सन्ति; यथार्जुनान्नास्त्यपरो धनुर्धरः ||२१||

जानन्त्येते कुरवः सर्व एव; ये चाप्यन्ये भूमिपालाः समेताः |

दुर्योधनं चापराधे चरन्त; मरिंदमे फल्गुनेऽविद्यमाने ||२२||

तेनार्थबद्धं मन्यते धार्तराष्ट्रः; शक्यं हर्तुं पाण्डवानां ममत्वम् |

किरीटिना तालमात्रायुधेन; तद्वेदिना संयुगं तत्र गत्वा ||२३||

गाण्डीवविस्फारितशब्दमाजा; वशृण्वाना धार्तराष्ट्रा ध्रियन्ते |

क्रुद्धस्य चेद्भीमसेनस्य वेगा; त्सुयोधनो मन्यते सिद्धमर्थम् ||२४||

इन्द्रोऽप्येतन्नोत्सहेत्तात हर्तु; मैश्वर्यं नो जीवति भीमसेने |

धनञ्जये नकुले चैव सूत; तथा वीरे सहदेवे मदीये ||२५||

स चेदेतां प्रतिपद्येत बुद्धिं; वृद्धो राजा सह पुत्रेण सूत |

एवं रणे पाण्डवकोपदग्धा; न नश्येयुः सञ्जय धार्तराष्ट्राः ||२६||

जानासि त्वं क्लेशमस्मासु वृत्तं; त्वां पूजयन्सञ्जयाहं क्षमेयम् |

यच्चास्माकं कौरवैर्भूतपूर्वं; या नो वृत्तिर्धार्तराष्ट्रे तदासीत् ||२७||

अद्यापि तत्तत्र तथैव वर्ततां; शान्तिं गमिष्यामि यथा त्वमात्थ |

इन्द्रप्रस्थे भवतु ममैव राज्यं; सुयोधनो यच्छतु भारताग्र्यः ||२८||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

027-अध्यायः

सञ्जय उवाच||

धर्मे नित्या पाण्डव ते विचेष्टा; लोके श्रुता दृश्यते चापि पार्थ |

महास्रावं जीवितं चाप्यनित्यं; सम्पश्य त्वं पाण्डव मा विनीनशः ||१||

न चेद्भागं कुरवोऽन्यत्र युद्धा; त्प्रयच्छन्ते तुभ्यमजातशत्रो |

भैक्षचर्यामन्धकवृष्णिराज्ये; श्रेयो मन्ये न तु युद्धेन राज्यम् ||२||

अल्पकालं जीवितं यन्मनुष्ये; महास्रावं नित्यदुःखं चलं च |

भूयश्च तद्वयसो नानुरूपं; तस्मात्पापं पाण्डव मा प्रसार्षीः ||३||

कामा मनुष्यं प्रसजन्त एव; धर्मस्य ये विघ्नमूलं नरेन्द्र |

पूर्वं नरस्तान्धृतिमान्विनिघ्नँ; ल्लोके प्रशंसां लभतेऽनवद्याम् ||४||

निबन्धनी ह्यर्थतृष्णेह पार्थ; तामेषतो बाध्यते धर्म एव |

धर्मं तु यः प्रवृणीते स बुद्धः; कामे गृद्धो हीयतेऽर्थानुरोधात् ||५||

धर्मं कृत्वा कर्मणां तात मुख्यं; महाप्रतापः सवितेव भाति |

हानेन धर्मस्य महीमपीमां; लब्ध्वा नरः सीदति पापबुद्धिः ||६||

वेदोऽधीतश्चरितं ब्रह्मचर्यं; यज्ञैरिष्टं ब्राह्मणेभ्यश्च दत्तम् |

परं स्थानं मन्यमानेन भूय; आत्मा दत्तो वर्षपूगं सुखेभ्यः ||७||

सुखप्रिये सेवमानोऽतिवेलं; योगाभ्यासे यो न करोति कर्म |

वित्तक्षये हीनसुखोऽतिवेलं; दुःखं शेते कामवेगप्रणुन्नः ||८||

एवं पुनरर्थचर्याप्रसक्तो; हित्वा धर्मं यः प्रकरोत्यधर्मम् |

अश्रद्दधत्परलोकाय मूढो; हित्वा देहं तप्यते प्रेत्य मन्दः ||९||

न कर्मणां विप्रणाशोऽस्त्यमुत्र; पुण्यानां वाप्यथ वा पापकानाम् |

पूर्वं कर्तुर्गच्छति पुण्यपापं; पश्चात्त्वेतदनुयात्येव कर्ता ||१०||

न्यायोपेतं ब्राह्मणेभ्यो यदन्नं; श्रद्धापूतं गन्धरसोपपन्नम् |

अन्वाहार्येषूत्तमदक्षिणेषु; तथारूपं कर्म विख्यायते ते ||११||

इह क्षेत्रे क्रियते पार्थ कार्यं; न वै किञ्चिद्विद्यते प्रेत्य कार्यम् |

कृतं त्वया पारलोक्यं च कार्यं; पुण्यं महत्सद्भिरनुप्रशस्तम् ||१२||

जहाति मृत्युं च जरां भयं च; न क्षुत्पिपासे मनसश्चाप्रियाणि |

न कर्तव्यं विद्यते तत्र किं चि; दन्यत्र वै इन्द्रियप्रीणनार्थात् ||१३||

एवंरूपं कर्मफलं नरेन्द्र; मात्रावता हृदयस्य प्रियेण |

स क्रोधजं पाण्डव हर्षजं च; लोकावुभौ मा प्रहासीश्चिराय ||१४||

अन्तं गत्वा कर्मणां या प्रशंसा; सत्यं दमश्चार्जवमानृशंस्यम् |

अश्वमेधो राजसूयस्तथेष्टः; पापस्यान्तं कर्मणो मा पुनर्गाः ||१५||

तच्चेदेवं देशरूपेण पार्थाः; करिष्यध्वं कर्म पापं चिराय |

निवसध्वं वर्षपूगान्वनेषु; दुःखं वासं पाण्डवा धर्महेतोः ||१६||

अप्रव्रज्ये योजयित्वा पुरस्ता; दात्माधीनं यद्बलं ते तदासीत् |

नित्यं पाञ्चालाः सचिवास्तवेमे; जनार्दनो युयुधानश्च वीरः ||१७||

मत्स्यो राजा रुक्मरथः सपुत्रः; प्रहारिभिः सह पुत्रैर्विराटः |

राजानश्च ये विजिताः पुरस्ता; त्त्वामेव ते संश्रयेयुः समस्ताः ||१८||

महासहायः प्रतपन्बलस्थः; पुरस्कृतो वासुदेवार्जुनाभ्याम् |

वरान्हनिष्यन्द्विषतो रङ्गमध्ये; व्यनेष्यथा धार्तराष्ट्रस्य दर्पम् ||१९||

बलं कस्माद्वर्धयित्वा परस्य; निजान्कस्मात्कर्शयित्वा सहायान् |

निरुष्य कस्माद्वर्षपूगान्वनेषु; युयुत्ससे पाण्डव हीनकालम् ||२०||

अप्रज्ञो वा पाण्डव युध्यमानो; अधर्मज्ञो वा भूतिपथाद्व्यपैति |

प्रज्ञावान्वा बुध्यमानोऽपि धर्मं; संरम्भाद्वा सोऽपि भूतेरपैति ||२१||

नाधर्मे ते धीयते पार्थ बुद्धि; र्न संरम्भात्कर्म चकर्थ पापम् |

अद्धा किं तत्कारणं यस्य हेतोः; प्रज्ञाविरुद्धं कर्म चिकीर्षसीदम् ||२२||

अव्याधिजं कटुकं शीर्षरोगं; यशोमुषं पापफलोदयं च |

सतां पेयं यन्न पिबन्त्यसन्तो; मन्युं महाराज पिब प्रशाम्य ||२३||

पापानुबन्धं को नु तं कामयेत; क्षमैव ते ज्यायसी नोत भोगाः |

यत्र भीष्मः शान्तनवो हतः स्या; द्यत्र द्रोणः सहपुत्रो हतः स्यात् ||२४||

कृपः शल्यः सौमदत्तिर्विकर्णो; विविंशतिः कर्णदुर्योधनौ च |

एतान्हत्वा कीदृशं तत्सुखं स्या; द्यद्विन्देथास्तदनुब्रूहि पार्थ ||२५||

लब्ध्वापीमां पृथिवीं सागरान्तां; जरामृत्यू नैव हि त्वं प्रजह्याः |

प्रियाप्रिये सुखदुःखे च राज; न्नेवं विद्वान्नैव युद्धं कुरुष्व ||२६||

अमात्यानां यदि कामस्य हेतो; रेवंयुक्तं कर्म चिकीर्षसि त्वम् |

अपाक्रमेः सम्प्रदाय स्वमेभ्यो; मा गास्त्वं वै देवयानात्पथोऽद्य ||२७||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

028-अध्यायः

युधिष्ठिर उवाच||

असंशयं सञ्जय सत्यमेत; द्धर्मो वरः कर्मणां यत्त्वमात्थ |

ज्ञात्वा तु मां सञ्जय गर्हयेस्त्वं; यदि धर्मं यद्यधर्मं चरामि ||१||

यत्राधर्मो धर्मरूपाणि बिभ्र; द्धर्मः कृत्स्नो दृश्यतेऽधर्मरूपः |

तथा धर्मो धारयन्धर्मरूपं; विद्वांसस्तं सम्प्रपश्यन्ति बुद्ध्या ||२||

एवमेतावापदि लिङ्गमेत; द्धर्माधर्मौ वृत्तिनित्यौ भजेताम् |

आद्यं लिङ्गं यस्य तस्य प्रमाण; मापद्धर्मं सञ्जय तं निबोध ||३||

लुप्तायां तु प्रकृतौ येन कर्म; निष्पादयेत्तत्परीप्सेद्विहीनः |

प्रकृतिस्थश्चापदि वर्तमान; उभौ गर्ह्यौ भवतः सञ्जयैतौ ||४||

अविलोपमिच्छतां ब्राह्मणानां; प्रायश्चित्तं विहितं यद्विधात्रा |

आपद्यथाकर्मसु वर्तमाना; न्विकर्मस्थान्सञ्जय गर्हयेत ||५||

मनीषिणां तत्त्वविच्छेदनाय; विधीयते सत्सु वृत्तिः सदैव |

अब्राह्मणाः सन्ति तु ये न वैद्याः; सर्वोच्छेदं साधु मन्येत तेभ्यः ||६||

तदर्था नः पितरो ये च पूर्वे; पितामहा ये च तेभ्यः परेऽन्ये |

प्रज्ञैषिणो ये च हि कर्म चक्रु; र्नास्त्यन्ततो नास्ति नास्तीति मन्ये ||७||

यत्किञ्चिदेतद्वित्तमस्यां पृथिव्यां; यद्देवानां त्रिदशानां परत्र |

प्राजापत्यं त्रिदिवं ब्रह्मलोकं; नाधर्मतः सञ्जय कामये तत् ||८||

धर्मेश्वरः कुशलो नीतिमांश्चा; प्युपासिता ब्राह्मणानां मनीषी |

नानाविधांश्चैव महाबलांश्च; राजन्यभोजाननुशास्ति कृष्णः ||९||

यदि ह्यहं विसृजन्स्यामगर्ह्यो; युध्यमानो यदि जह्यां स्वधर्मम् |

महायशाः केशवस्तद्ब्रवीतु; वासुदेवस्तूभयोरर्थकामः ||१०||

शैनेया हि चैत्रकाश्चान्धकाश्च; वार्ष्णेयभोजाः कौकुराः सृञ्जयाश्च |

उपासीना वासुदेवस्य बुद्धिं; निगृह्य शत्रून्सुहृदो नन्दयन्ति ||११||

वृष्ण्यन्धका ह्युग्रसेनादयो वै; कृष्णप्रणीताः सर्व एवेन्द्रकल्पाः |

मनस्विनः सत्यपराक्रमाश्च; महाबला यादवा भोगवन्तः ||१२||

काश्यो बभ्रुः श्रियमुत्तमां गतो; लब्ध्वा कृष्णं भ्रातरमीशितारम् |

यस्मै कामान्वर्षति वासुदेवो; ग्रीष्मात्यये मेघ इव प्रजाभ्यः ||१३||

ईदृशोऽयं केशवस्तात भूयो; विद्मो ह्येनं कर्मणां निश्चयज्ञम् |

प्रियश्च नः साधुतमश्च कृष्णो; नातिक्रमे वचनं केशवस्य ||१४||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

029-अध्यायः

वासुदेव उवाच||

अविनाशं सञ्जय पाण्डवाना; मिच्छाम्यहं भूतिमेषां प्रियं च |

तथा राज्ञो धृतराष्ट्रस्य सूत; सदाशंसे बहुपुत्रस्य वृद्धिम् ||१||

कामो हि मे सञ्जय नित्यमेव; नान्यद्ब्रूयां तान्प्रति शाम्यतेति |

राज्ञश्च हि प्रियमेतच्छृणोमि; मन्ये चैतत्पाण्डवानां समर्थम् ||२||

सुदुष्करश्चात्र शमो हि नूनं; प्रदर्शितः सञ्जय पाण्डवेन |

यस्मिन्गृद्धो धृतराष्ट्रः सपुत्रः; कस्मादेषां कलहो नात्र मूर्च्छेत् ||३||

तत्त्वं धर्मं विचरन्सञ्जयेह; मत्तश्च जानासि युधिष्ठिराच्च |

अथो कस्मात्सञ्जय पाण्डवस्य; उत्साहिनः पूरयतः स्वकर्म ||४||

यथाख्यातमावसतः कुटुम्बं; पुराकल्पात्साधु विलोपमात्थ ||४||

अस्मिन्विधौ वर्तमाने यथाव; दुच्चावचा मतयो ब्राह्मणानाम् |

कर्मणाहुः सिद्धिमेके परत्र; हित्वा कर्म विद्यया सिद्धिमेके ||५||

नाभुञ्जानो भक्ष्यभोज्यस्य तृप्ये; द्विद्वानपीह विदितं ब्राह्मणानाम् ||५||

या वै विद्याः साधयन्तीह कर्म; तासां फलं विद्यते नेतरासाम् |

तत्रेह वै दृष्टफलं तु कर्म; पीत्वोदकं शाम्यति तृष्णयार्तः ||६||

सोऽयं विधिर्विहितः कर्मणैव; तद्वर्तते सञ्जय तत्र कर्म |

तत्र योऽन्यत्कर्मणः साधु मन्ये; न्मोघं तस्य लपितं दुर्बलस्य ||७||

कर्मणामी भान्ति देवाः परत्र; कर्मणैवेह प्लवते मातरिश्वा |

अहोरात्रे विदधत्कर्मणैव; अतन्द्रितो नित्यमुदेति सूर्यः ||८||

मासार्धमासानथ नक्षत्रयोगा; नतन्द्रितश्चन्द्रमा अभ्युपैति |

अतन्द्रितो दहते जातवेदाः; समिध्यमानः कर्म कुर्वन्प्रजाभ्यः ||९||

अतन्द्रिता भारमिमं महान्तं; बिभर्ति देवी पृथिवी बलेन |

अतन्द्रिताः शीघ्रमपो वहन्ति; सन्तर्पयन्त्यः सर्वभूतानि नद्यः ||१०||

अतन्द्रितो वर्षति भूरितेजाः; संनादयन्नन्तरिक्षं दिवं च |

अतन्द्रितो ब्रह्मचर्यं चचार; श्रेष्ठत्वमिच्छन्बलभिद्देवतानाम् ||११||

हित्वा सुखं मनसश्च प्रियाणि; तेन शक्रः कर्मणा श्रैष्ठ्यमाप |

सत्यं धर्मं पालयन्नप्रमत्तो; दमं तितिक्षां समतां प्रियं च ||१२||

एतानि सर्वाण्युपसेवमानो; देवराज्यं मघवान्प्राप मुख्यम् ||१२||

बृहस्पतिर्ब्रह्मचर्यं चचार; समाहितः संशितात्मा यथावत् |

हित्वा सुखं प्रतिरुध्येन्द्रियाणि; तेन देवानामगमद्गौरवं सः ||१३||

नक्षत्राणि कर्मणामुत्र भान्ति; रुद्रादित्या वसवोऽथापि विश्वे |

यमो राजा वैश्रवणः कुबेरो; गन्धर्वयक्षाप्सरसश्च शुभ्राः ||१४||

ब्रह्मचर्यं वेदविद्याः क्रियाश्च; निषेवमाणा मुनयोऽमुत्र भान्ति ||१४||

जानन्निमं सर्वलोकस्य धर्मं; ब्राह्मणानां क्षत्रियाणां विशां च |

स कस्मात्त्वं जानतां ज्ञानवान्स; न्व्यायच्छसे सञ्जय कौरवार्थे ||१५||

आम्नायेषु नित्यसंयोगमस्य; तथाश्वमेधे राजसूये च विद्धि |

संयुज्यते धनुषा वर्मणा च; हस्तत्राणै रथशस्त्रैश्च भूयः ||१६||

ते चेदिमे कौरवाणामुपाय; मधिगच्छेयुरवधेनैव पार्थाः |

धर्मत्राणं पुण्यमेषां कृतं स्या; दार्ये वृत्ते भीमसेनं निगृह्य ||१७||

ते चेत्पित्र्ये कर्मणि वर्तमाना; आपद्येरन्दिष्टवशेन मृत्युम् |

यथाशक्त्या पूरयन्तः स्वकर्म; तदप्येषां निधनं स्यात्प्रशस्तम् ||१८||

उताहो त्वं मन्यसे सर्वमेव; राज्ञां युद्धे वर्तते धर्मतन्त्रम् |

अयुद्धे वा वर्तते धर्मतन्त्रं; तथैव ते वाचमिमां शृणोमि ||१९||

चातुर्वर्ण्यस्य प्रथमं विभाग; मवेक्ष्य त्वं सञ्जय स्वं च कर्म |

निशम्याथो पाण्डवानां स्वकर्म; प्रशंस वा निन्द वा या मतिस्ते ||२०||

अधीयीत ब्राह्मणोऽथो यजेत; दद्यादियात्तीर्थमुख्यानि चैव |

अध्यापयेद्याजयेच्चापि याज्या; न्प्रतिग्रहान्वा विदितान्प्रतीच्छेत् ||२१||

तथा राजन्यो रक्षणं वै प्रजानां; कृत्वा धर्मेणाप्रमत्तोऽथ दत्त्वा |

यज्ञैरिष्ट्वा सर्ववेदानधीत्य; दारान्कृत्वा पुण्यकृदावसेद्गृहान् ||२२||

वैश्योऽधीत्य कृषिगोरक्षपण्यै; र्वित्तं चिन्वन्पालयन्नप्रमत्तः |

प्रियं कुर्वन्ब्राह्मणक्षत्रियाणां; धर्मशीलः पुण्यकृदावसेद्गृहान् ||२३||

परिचर्या वन्दनं ब्राह्मणानां; नाधीयीत प्रतिषिद्धोऽस्य यज्ञः |

नित्योत्थितो भूतयेऽतन्द्रितः स्या; देष स्मृतः शूद्रधर्मः पुराणः ||२४||

एतान्राजा पालयन्नप्रमत्तो; नियोजयन्सर्ववर्णान्स्वधर्मे |

अकामात्मा समवृत्तिः प्रजासु; नाधार्मिकाननुरुध्येत कामान् ||२५||

श्रेयांस्तस्माद्यदि विद्येत कश्चि; दभिज्ञातः सर्वधर्मोपपन्नः |

स तं दुष्टमनुशिष्यात्प्रजान; न्न चेद्गृध्येदिति तस्मिन्न साधु ||२६||

यदा गृध्येत्परभूमिं नृशंसो; विधिप्रकोपाद्बलमाददानः |

ततो राज्ञां भविता युद्धमेत; त्तत्र जातं वर्म शस्त्रं धनुश्च ||२७||

इन्द्रेणेदं दस्युवधाय कर्म; उत्पादितं वर्म शस्त्रं धनुश्च ||२७||

स्तेनो हरेद्यत्र धनं ह्यदृष्टः; प्रसह्य वा यत्र हरेत दृष्टः |

उभौ गर्ह्यौ भवतः सञ्जयैतौ; किं वै पृथक्त्वं धृतराष्ट्रस्य पुत्रे ||२८||

योऽयं लोभान्मन्यते धर्ममेतं; यमिच्छते मन्युवशानुगामी ||२८||

भागः पुनः पाण्डवानां निविष्ट; स्तं नोऽकस्मादाददीरन्परे वै |

अस्मिन्पदे युध्यतां नो वधोऽपि; श्लाघ्यः पित्र्यः परराज्याद्विशिष्टः ||२९||

एतान्धर्मान्कौरवाणां पुराणा; नाचक्षीथाः सञ्जय राज्यमध्ये ||२९||

ये ते मन्दा मृत्युवशाभिपन्नाः; समानीता धार्तराष्ट्रेण मूढाः |

इदं पुनः कर्म पापीय एव; सभामध्ये पश्य वृत्तं कुरूणाम् ||३०||

प्रियां भार्यां द्रौपदीं पाण्डवानां; यशस्विनीं शीलवृत्तोपपन्नाम् |

यदुपेक्षन्त कुरवो भीष्ममुख्याः; कामानुगेनोपरुद्धां रुदन्तीम् ||३१||

तं चेत्तदा ते सकुमारवृद्धा; अवारयिष्यन्कुरवः समेताः |

मम प्रियं धृतराष्ट्रोऽकरिष्य; त्पुत्राणां च कृतमस्याभविष्यत् ||३२||

दुःशासनः प्रातिलोम्यान्निनाय; सभामध्ये श्वशुराणां च कृष्णाम् |

सा तत्र नीता करुणान्यवोच; न्नान्यं क्षत्तुर्नाथमदृष्ट कञ्चित् ||३३||

कार्पण्यादेव सहितास्तत्र राज्ञो; नाशक्नुवन्प्रतिवक्तुं सभायाम् |

एकः क्षत्ता धर्म्यमर्थं ब्रुवाणो; धर्मं बुद्ध्वा प्रत्युवाचाल्पबुद्धिम् ||३४||

अनुक्त्वा त्वं धर्ममेवं सभाया; मथेच्छसे पाण्डवस्योपदेष्टुम् |

कृष्णा त्वेतत्कर्म चकार शुद्धं; सुदुष्करं तद्धि सभां समेत्य ||३५||

येन कृच्छ्रात्पाण्डवानुज्जहार; तथात्मानं नौरिव सागरौघात् ||३५||

यत्राब्रवीत्सूतपुत्रः सभायां; कृष्णां स्थितां श्वशुराणां समीपे |

न ते गतिर्विद्यते याज्ञसेनि; प्रपद्येदानीं धार्तराष्ट्रस्य वेश्म ||३६||

पराजितास्ते पतयो न सन्ति; पतिं चान्यं भामिनि त्वं वृणीष्व ||३६||

यो बीभत्सोर्हृदये प्रौढ आसी; दस्थिप्रच्छिन्मर्मघाती सुघोरः |

कर्णाच्छरो वाङ्मयस्तिग्मतेजाः; प्रतिष्ठितो हृदये फल्गुनस्य ||३७||

कृष्णाजिनानि परिधित्समाना; न्दुःशासनः कटुकान्यभ्यभाषत् |

एते सर्वे षण्ढतिला विनष्टाः; क्षयं गता नरकं दीर्घकालम् ||३८||

गान्धारराजः शकुनिर्निकृत्या; यदब्रवीद्द्यूतकाले स पार्थान् |

पराजितो नकुलः किं तवास्ति; कृष्णया त्वं दीव्य वै याज्ञसेन्या ||३९||

जानासि त्वं सञ्जय सर्वमेत; द्द्यूतेऽवाच्यं वाक्यमेवं यथोक्तम् |

स्वयं त्वहं प्रार्थये तत्र गन्तुं; समाधातुं कार्यमेतद्विपन्नम् ||४०||

अहापयित्वा यदि पाण्डवार्थं; शमं कुरूणामथ चेच्चरेयम् |

पुण्यं च मे स्याच्चरितं महोदयं; मुच्येरंश्च कुरवो मृत्युपाशात् ||४१||

अपि वाचं भाषमाणस्य काव्यां; धर्मारामामर्थवतीमहिंस्राम् |

अवेक्षेरन्धार्तराष्ट्राः समक्षं; मां च प्राप्तं कुरवः पूजयेयुः ||४२||

अतोऽन्यथा रथिना फल्गुनेन; भीमेन चैवाहवदंशितेन |

परासिक्तान्धार्तराष्ट्रांस्तु विद्धि; प्रदह्यमानान्कर्मणा स्वेन मन्दान् ||४३||

पराजितान्पाण्डवेयांस्तु वाचो; रौद्ररूपा भाषते धार्तराष्ट्रः |

गदाहस्तो भीमसेनोऽप्रमत्तो; दुर्योधनं स्मारयित्वा हि काले ||४४||

सुयोधनो मन्युमयो महाद्रुमः; स्कन्धः कर्णः शकुनिस्तस्य शाखाः |

दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रोऽमनीषी ||४५||

युधिष्ठिरो धर्ममयो महाद्रुमः; स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः |

माद्रीपुत्रौ पुष्पफले समृद्धे; मूलं त्वहं ब्रह्म च ब्राह्मणाश्च ||४६||

वनं राजा धृतराष्ट्रः सपुत्रो; व्याघ्रा वने सञ्जय पाण्डवेयाः |

मा वनं छिन्धि सव्याघ्रं मा व्याघ्रान्नीनशो वनात् ||४७||

निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम् |

तस्माद्व्याघ्रो वनं रक्षेद्वनं व्याघ्रं च पालयेत् ||४८||

लताधर्मा धार्तराष्ट्राः शालाः सञ्जय पाण्डवाः |

न लता वर्धते जातु अनाश्रित्य महाद्रुमम् ||४९||

स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिंदमाः |

यत्कृत्यं धृतराष्ट्रस्य तत्करोतु नराधिपः ||५०||

स्थिताः शमे महात्मानः पाण्डवा धर्मचारिणः |

योधाः समृद्धास्तद्विद्वन्नाचक्षीथा यथातथम् ||५१||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

030-अध्यायः

सञ्जय उवाच||

आमन्त्रये त्वा नरदेवदेव; गच्छाम्यहं पाण्डव स्वस्ति तेऽस्तु |

कच्चिन्न वाचा वृजिनं हि किं चि; दुच्चारितं मे मनसोऽभिषङ्गात् ||१||

जनार्दनं भीमसेनार्जुनौ च; माद्रीसुतौ सात्यकिं चेकितानम् |

आमन्त्र्य गच्छामि शिवं सुखं वः; सौम्येन मां पश्यत चक्षुषा नृपाः ||२||

युधिष्ठिर उवाच||

अनुज्ञातः सञ्जय स्वस्ति गच्छ; न नोऽकार्षीरप्रियं जातु किञ्चित् |

विद्मश्च त्वा ते च वयं च सर्वे; शुद्धात्मानं मध्यगतं सभास्थम् ||३||

आप्तो दूतः सञ्जय सुप्रियोऽसि; कल्याणवाक्षीलवान्दृष्टिमांश्च |

न मुह्येस्त्वं सञ्जय जातु मत्या; न च क्रुध्येरुच्यमानोऽपि तथ्यम् ||४||

न मर्मगां जातु वक्तासि रूक्षां; नोपस्तुतिं कटुकां नोत शुक्ताम् |

धर्मारामामर्थवतीमहिंस्रा; मेतां वाचं तव जानामि सूत ||५||

त्वमेव नः प्रियतमोऽसि दूत; इहागच्छेद्विदुरो वा द्वितीयः |

अभीक्ष्णदृष्टोऽसि पुरा हि नस्त्वं; धनञ्जयस्यात्मसमः सखासि ||६||

इतो गत्वा सञ्जय क्षिप्रमेव; उपातिष्ठेथा ब्राह्मणान्ये तदर्हाः |

विशुद्धवीर्यांश्चरणोपपन्ना; न्कुले जातान्सर्वधर्मोपपन्नान् ||७||

स्वाध्यायिनो ब्राह्मणा भिक्षवश्च; तपस्विनो ये च नित्या वनेषु |

अभिवाद्या वै मद्वचनेन वृद्धा; स्तथेतरेषां कुशलं वदेथाः ||८||

पुरोहितं धृतराष्ट्रस्य राज्ञ; आचार्याश्च ऋत्विजो ये च तस्य |

तैश्च त्वं तात सहितैर्यथार्हं; सङ्गच्छेथाः कुशलेनैव सूत ||९||

आचार्य इष्टोऽनपगो विधेयो; वेदानीप्सन्ब्रह्मचर्यं चचार |

योऽस्त्रं चतुष्पात्पुनरेव चक्रे; द्रोणः प्रसन्नोऽभिवाद्यो यथार्हम् ||१०||

अधीतविद्यश्चरणोपपन्नो; योऽस्त्रं चतुष्पात्पुनरेव चक्रे |

गन्धर्वपुत्रप्रतिमं तरस्विनं; तमश्वत्थामानं कुशलं स्म पृच्छेः ||११||

शारद्वतस्यावसथं स्म गत्वा; महारथस्यास्त्रविदां वरस्य |

त्वं मामभीक्ष्णं परिकीर्तयन्वै; कृपस्य पादौ सञ्जय पाणिना स्पृशेः ||१२||

यस्मिञ्शौर्यमानृशंस्यं तपश्च; प्रज्ञा शीलं श्रुतिसत्त्वे धृतिश्च |

पादौ गृहीत्वा कुरुसत्तमस्य; भीष्मस्य मां तत्र निवेदयेथाः ||१३||

प्रज्ञाचक्षुर्यः प्रणेता कुरूणां; बहुश्रुतो वृद्धसेवी मनीषी |

तस्मै राज्ञे स्थविरायाभिवाद्य; आचक्षीथाः सञ्जय मामरोगम् ||१४||

ज्येष्ठः पुत्रो धृतराष्ट्रस्य मन्दो; मूर्खः शठः सञ्जय पापशीलः |

प्रशास्ता वै पृथिवी येन सर्वा; सुयोधनं कुशलं तात पृच्छेः ||१५||

भ्राता कनीयानपि तस्य मन्द; स्तथाशीलः सञ्जय सोऽपि शश्वत् |

महेष्वासः शूरतमः कुरूणां; दुःशासनं कुशलं तात पृच्छेः ||१६||

वृन्दारकं कविमर्थेष्वमूढं; महाप्रज्ञं सर्वधर्मोपपन्नम् |

न तस्य युद्धं रोचते वै कदा चि; द्वैश्यापुत्रं कुशलं तात पृच्छेः ||१७||

निकर्तने देवने योऽद्वितीय; श्छन्नोपधः साधुदेवी मताक्षः |

यो दुर्जयो देवितव्येन सङ्ख्ये; स चित्रसेनः कुशलं तात वाच्यः ||१८||

यस्य कामो वर्तते नित्यमेव; नान्यः शमाद्भारतानामिति स्म |

स बाह्लिकानामृषभो मनस्वी; पुरा यथा माभिवदेत्प्रसन्नः ||१९||

गुणैरनेकैः प्रवरैश्च युक्तो; विज्ञानवान्नैव च निष्ठुरो यः |

स्नेहादमर्षं सहते सदैव; स सोमदत्तः पूजनीयो मतो मे ||२०||

अर्हत्तमः कुरुषु सौमदत्तिः; स नो भ्राता सञ्जय मत्सखा च |

महेष्वासो रथिनामुत्तमो यः; सहामात्यः कुशलं तस्य पृच्छेः ||२१||

ये चैवान्ये कुरुमुख्या युवानः; पुत्राः पौत्रा भ्रातरश्चैव ये नः |

यं यमेषां येन येनाभिगच्छे; रनामयं मद्वचनेन वाच्यः ||२२||

ये राजानः पाण्डवायोधनाय; समानीता धार्तराष्ट्रेण केचित् |

वसातयः शाल्वकाः केकयाश्च; तथाम्बष्ठा ये त्रिगर्ताश्च मुख्याः ||२३||

प्राच्योदीच्या दाक्षिणात्याश्च शूरा; स्तथा प्रतीच्याः पार्वतीयाश्च सर्वे |

अनृशंसाः शीलवृत्तोपपन्ना; स्तेषां सर्वेषां कुशलं तात पृच्छेः ||२४||

हस्त्यारोहा रथिनः सादिनश्च; पदातयश्चार्यसङ्घा महान्तः |

आख्याय मां कुशलिनं स्म तेषा; मनामयं परिपृच्छेः समग्रान् ||२५||

तथा राज्ञो ह्यर्थयुक्तानमात्या; न्दौवारिकान्ये च सेनां नयन्ति |

आयव्ययं ये गणयन्ति युक्ता; अर्थांश्च ये महतश्चिन्तयन्ति ||२६||

गान्धारराजः शकुनिः पार्वतीयो; निकर्तने योऽद्वितीयोऽक्षदेवी |

मानं कुर्वन्धार्तराष्ट्रस्य सूत; मिथ्याबुद्धेः कुशलं तात पृच्छेः ||२७||

यः पाण्डवानेकरथेन वीरः; समुत्सहत्यप्रधृष्यान्विजेतुम् |

यो मुह्यतां मोहयिताद्वितीयो; वैकर्तनं कुशलं तात पृच्छेः ||२८||

स एव भक्तः स गुरुः स भृत्यः; स वै पिता स च माता सुहृच्च |

अगाधबुद्धिर्विदुरो दीर्घदर्शी; स नो मन्त्री कुशलं तात पृच्छेः ||२९||

वृद्धाः स्त्रियो याश्च गुणोपपन्ना; या ज्ञायन्ते सञ्जय मातरस्ताः |

ताभिः सर्वाभिः सहिताभिः समेत्य; स्त्रीभिर्वृद्धाभिरभिवादं वदेथाः ||३०||

कच्चित्पुत्रा जीवपुत्राः सुसम्य; ग्वर्तन्ते वो वृत्तिमनृशंसरूपाम् |

इति स्मोक्त्वा सञ्जय ब्रूहि पश्चा; दजातशत्रुः कुशली सपुत्रः ||३१||

या नो भार्याः सञ्जय वेत्थ तत्र; तासां सर्वासां कुशलं तात पृच्छेः |

सुसङ्गुप्ताः सुरभयोऽनवद्याः; कच्चिद्गृहानावसथाप्रमत्ताः ||३२||

कच्चिद्वृत्तिं श्वशुरेषु भद्राः; कल्याणीं वर्तध्वमनृशंसरूपाम् |

यथा च वः स्युः पतयोऽनुकूला; स्तथा वृत्तिमात्मनः स्थापयध्वम् ||३३||

या नः स्नुषाः सञ्जय वेत्थ तत्र; प्राप्ताः कुलेभ्यश्च गुणोपपन्नाः |

प्रजावत्यो ब्रूहि समेत्य ताश्च; युधिष्ठिरो वोऽभ्यवदत्प्रसन्नः ||३४||

कन्याः स्वजेथाः सदनेषु सञ्जय; अनामयं मद्वचनेन पृष्ट्वा |

कल्याणा वः सन्तु पतयोऽनुकूला; यूयं पतीनां भवतानुकूलाः ||३५||

अलङ्कृता वस्त्रवत्यः सुगन्धा; अबीभत्साः सुखिता भोगवत्यः |

लघु यासां दर्शनं वाक्च लघ्वी; वेशस्त्रियः कुशलं तात पृच्छेः ||३६||

दासीपुत्रा ये च दासाः कुरूणां; तदाश्रया बहवः कुब्जखञ्जाः |

आख्याय मां कुशलिनं स्म तेभ्यो; अनामयं परिपृच्छेर्जघन्यम् ||३७||

कच्चिद्वृत्तिर्वर्तते वै पुराणी; कच्चिद्भोगान्धार्तराष्ट्रो ददाति |

अङ्गहीनान्कृपणान्वामनांश्च; आनृशंस्याद्धृतराष्ट्रो बिभर्ति ||३८||

अन्धाश्च सर्वे स्थविरास्तथैव; हस्ताजीवा बहवो येऽत्र सन्ति |

आख्याय मां कुशलिनं स्म तेषा; मनामयं परिपृच्छेर्जघन्यम् ||३९||

मा भैष्ट दुःखेन कुजीवितेन; नूनं कृतं परलोकेषु पापम् |

निगृह्य शत्रून्सुहृदोऽनुगृह्य; वासोभिरन्नेन च वो भरिष्ये ||४०||

सन्त्येव मे ब्राह्मणेभ्यः कृतानि; भावीन्यथो नो बत वर्तयन्ति |

पश्याम्यहं युक्तरूपांस्तथैव; तामेव सिद्धिं श्रावयेथा नृपं तम् ||४१||

ये चानाथा दुर्बलाः सर्वकाल; मात्मन्येव प्रयतन्तेऽथ मूढाः |

तांश्चापि त्वं कृपणान्सर्वथैव; अस्मद्वाक्यात्कुशलं तात पृच्छेः ||४२||

ये चाप्यन्ये संश्रिता धार्तराष्ट्रा; न्नानादिग्भ्योऽभ्यागताः सूतपुत्र |

दृष्ट्वा तांश्चैवार्हतश्चापि सर्वा; न्सम्पृच्छेथाः कुशलं चाव्ययं च ||४३||

एवं सर्वानागताभ्यागतांश्च; राज्ञो दूतान्सर्वदिग्भ्योऽभ्युपेतान् |

पृष्ट्वा सर्वान्कुशलं तांश्च सूत; पश्चादहं कुशली तेषु वाच्यः ||४४||

न हीदृशाः सन्त्यपरे पृथिव्यां; ये योधका धार्तराष्ट्रेण लब्धाः |

धर्मस्तु नित्यो मम धर्म एव; महाबलः शत्रुनिबर्हणाय ||४५||

इदं पुनर्वचनं धार्तराष्ट्रं; सुयोधनं सञ्जय श्रावयेथाः |

यस्ते शरीरे हृदयं दुनोति; कामः कुरूनसपत्नोऽनुशिष्याम् ||४६||

न विद्यते युक्तिरेतस्य का चि; न्नैवंविधाः स्याम यथा प्रियं ते |

ददस्व वा शक्रपुरं ममैव; युध्यस्व वा भारतमुख्य वीर ||४७||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

031-अध्यायः

युधिष्ठिर उवाच||

उत सन्तमसन्तं च बालं वृद्धं च सञ्जय |

उताबलं बलीयांसं धाता प्रकुरुते वशे ||१||

उत बालाय पाण्डित्यं पण्डितायोत बालताम् |

ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ||२||

अलं विज्ञापनाय स्यादाचक्षीथा यथातथम् |

अथो मन्त्रं मन्त्रयित्वा अन्योन्येनातिहृष्टवत् ||३||

गावल्गणे कुरून्गत्वा धृतराष्ट्रं महाबलम् |

अभिवाद्योपसङ्गृह्य ततः पृच्छेरनामयम् ||४||

ब्रूयाश्चैनं त्वमासीनं कुरुभिः परिवारितम् |

तवैव राजन्वीर्येण सुखं जीवन्ति पाण्डवाः ||५||

तव प्रसादाद्बालास्ते प्राप्ता राज्यमरिंदम |

राज्ये तान्स्थापयित्वाग्रे नोपेक्षीर्विनशिष्यतः ||६||

सर्वमप्येतदेकस्य नालं सञ्जय कस्यचित् |

तात संहत्य जीवामो मा द्विषद्भ्यो वशं गमः ||७||

तथा भीष्मं शान्तनवं भारतानां पितामहम् |

शिरसाभिवदेथास्त्वं मम नाम प्रकीर्तयन् ||८||

अभिवाद्य च वक्तव्यस्ततोऽस्माकं पितामहः |

भवता शन्तनोर्वंशो निमग्नः पुनरुद्धृतः ||९||

स त्वं कुरु तथा तात स्वमतेन पितामह |

यथा जीवन्ति ते पौत्राः प्रीतिमन्तः परस्परम् ||१०||

तथैव विदुरं ब्रूयाः कुरूणां मन्त्रधारिणम् |

अयुद्धं सौम्य भाषस्व हितकामो युधिष्ठिरः ||११||

अथो सुयोधनं ब्रूया राजपुत्रममर्षणम् |

मध्ये कुरूणामासीनमनुनीय पुनः पुनः ||१२||

अपश्यन्मामुपेक्षन्तं कृष्णामेकां सभागताम् |

तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति ||१३||

एवं पूर्वापरान्क्लेशानतितिक्षन्त पाण्डवाः |

यथा बलीयसः सन्तस्तत्सर्वं कुरवो विदुः ||१४||

यन्नः प्राव्राजयः सौम्य अजिनैः प्रतिवासितान् |

तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति ||१५||

यत्तत्सभायामाक्रम्य कृष्णां केशेष्वधर्षयत् |

दुःशासनस्तेऽनुमते तच्चास्माभिरुपेक्षितम् ||१६||

यथोचितं स्वकं भागं लभेमहि परन्तप |

निवर्तय परद्रव्ये बुद्धिं गृद्धां नरर्षभ ||१७||

शान्तिरेवं भवेद्राजन्प्रीतिश्चैव परस्परम् |

राज्यैकदेशमपि नः प्रयच्छ शममिच्छताम् ||१८||

कुशस्थलं वृकस्थलमासन्दी वारणावतम् |

अवसानं भवेदत्र किञ्चिदेव तु पञ्चमम् ||१९||

भ्रातॄणां देहि पञ्चानां ग्रामान्पञ्च सुयोधन |

शान्तिर्नोऽस्तु महाप्राज्ञ ज्ञातिभिः सह सञ्जय ||२०||

भ्राता भ्रातरमन्वेतु पिता पुत्रेण युज्यताम् |

स्मयमानाः समायान्तु पाञ्चालाः कुरुभिः सह ||२१||

अक्षतान्कुरुपाञ्चालान्पश्येम इति कामये |

सर्वे सुमनसस्तात शाम्याम भरतर्षभ ||२२||

अलमेव शमायास्मि तथा युद्धाय सञ्जय |

धर्मार्थयोरलं चाहं मृदवे दारुणाय च ||२३||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

032-अध्यायः

वैशम्पायन उवाच||

अनुज्ञातः पाण्डवेन प्रययौ सञ्जयस्तदा |

शासनं धृतराष्ट्रस्य सर्वं कृत्वा महात्मनः ||१||

सम्प्राप्य हास्तिनपुरं शीघ्रं च प्रविवेश ह |

अन्तःपुरमुपस्थाय द्वाःस्थं वचनमब्रवीत् ||२||

आचक्ष्व मां धृतराष्ट्राय द्वाःस्थ; उपागतं पाण्डवानां सकाशात् |

जागर्ति चेदभिवदेस्त्वं हि क्षत्तः; प्रविशेयं विदितो भूमिपस्य ||३||

द्वाःस्थ उवाच||

सञ्जयोऽयं भूमिपते नमस्ते; दिदृक्षया द्वारमुपागतस्ते |

प्राप्तो दूतः पाण्डवानां सकाशा; त्प्रशाधि राजन्किमयं करोतु ||४||

धृतराष्ट्र उवाच||

आचक्ष्व मां सुखिनं काल्यमस्मै; प्रवेश्यतां स्वागतं सञ्जयाय |

न चाहमेतस्य भवाम्यकाल्यः; स मे कस्माद्द्वारि तिष्ठेत क्षत्तः ||५||

वैशम्पायन उवाच||

ततः प्रविश्यानुमते नृपस्य; महद्वेश्म प्राज्ञशूरार्यगुप्तम् |

सिंहासनस्थं पार्थिवमाससाद; वैचित्रवीर्यं प्राञ्जलिः सूतपुत्रः ||६||

सञ्जय उवाच||

सञ्जयोऽहं भूमिपते नमस्ते; प्राप्तोऽस्मि गत्वा नरदेव पाण्डवान् |

अभिवाद्य त्वां पाण्डुपुत्रो मनस्वी; युधिष्ठिरः कुशलं चान्वपृच्छत् ||७||

स ते पुत्रान्पृच्छति प्रीयमाणः; कच्चित्पुत्रैः प्रीयसे नप्तृभिश्च |

तथा सुहृद्भिः सचिवैश्च राज; न्ये चापि त्वामुपजीवन्ति तैश्च ||८||

धृतराष्ट्र उवाच||

अभ्येत्य त्वां तात वदामि सञ्जय; अजातशत्रुं च सुखेन पार्थम् |

कच्चित्स राजा कुशली सपुत्रः; सहामात्यः सानुजः कौरवाणाम् ||९||

सञ्जय उवाच||

सहामात्यः कुशली पाण्डुपुत्रो; भूयश्चातो यच्च तेऽग्रे मनोऽभूत् |

निर्णिक्तधर्मार्थकरो मनस्वी; बहुश्रुतो दृष्टिमाञ्शीलवांश्च ||१०||

परं धर्मात्पाण्डवस्यानृशंस्यं; धर्मः परो वित्तचयान्मतोऽस्य |

सुखप्रिये धर्महीने न पार्थो; ऽनुरुध्यते भारत तस्य विद्धि ||११||

परप्रयुक्तः पुरुषो विचेष्टते; सूत्रप्रोता दारुमयीव योषा |

इमं दृष्ट्वा नियमं पाण्डवस्य; मन्ये परं कर्म दैवं मनुष्यात् ||१२||

इमं च दृष्ट्वा तव कर्मदोषं; पादोदर्कं घोरमवर्णरूपम् |

यावन्नरः कामयतेऽतिकाल्यं; तावन्नरोऽयं लभते प्रशंसाम् ||१३||

अजातशत्रुस्तु विहाय पापं; जीर्णां त्वचं सर्प इवासमर्थाम् |

विरोचतेऽहार्यवृत्तेन धीरो; युधिष्ठिरस्त्वयि पापं विसृज्य ||१४||

अङ्गात्मनः कर्म निबोध राज; न्धर्मार्थयुक्तादार्यवृत्तादपेतम् |

उपक्रोशं चेह गतोऽसि राज; न्नोहेश्च पापं प्रसजेदमुत्र ||१५||

स त्वमर्थं संशयितं विना तै; राशंससे पुत्रवशानुगोऽद्य |

अधर्मशब्दश्च महान्पृथिव्यां; नेदं कर्म त्वत्समं भारताग्र्य ||१६||

हीनप्रज्ञो दौष्कुलेयो नृशंसो; दीर्घवैरी क्षत्रविद्यास्वधीरः |

एवन्धर्मा नापदः सन्तितीर्षे; द्धीनवीर्यो यश्च भवेदशिष्टः ||१७||

कुले जातो धर्मवान्यो यशस्वी; बहुश्रुतः सुखजीवी यतात्मा |

धर्मार्थयोर्ग्रथितयोर्बिभर्ति; नान्यत्र दिष्टस्य वशादुपैति ||१८||

कथं हि मन्त्राग्र्यधरो मनीषी; धर्मार्थयोरापदि सम्प्रणेता |

एवंयुक्तः सर्वमन्त्रैरहीनो; अनानृशंस्यं कर्म कुर्यादमूढः ||१९||

तवापीमे मन्त्रविदः समेत्य; समासते कर्मसु नित्ययुक्ताः |

तेषामयं बलवान्निश्चयश्च; कुरुक्षयार्थे निरयो व्यपादि ||२०||

अकालिकं कुरवो नाभविष्य; न्पापेन चेत्पापमजातशत्रुः |

इच्छेज्जातु त्वयि पापं विसृज्य; निन्दा चेयं तव लोकेऽभविष्यत् ||२१||

किमन्यत्र विषयादीश्वराणां; यत्र पार्थः परलोकं ददर्श |

अत्यक्रामत्स तथा संमतः स्या; न्न संशयो नास्ति मनुष्यकारः ||२२||

एतान्गुणान्कर्मकृतानवेक्ष्य; भावाभावौ वर्तमानावनित्यौ |

बलिर्हि राजा पारमविन्दमानो; नान्यत्कालात्कारणं तत्र मेने ||२३||

चक्षुः श्रोत्रे नासिका त्वक्च जिह्वा; ज्ञानस्यैतान्यायतनानि जन्तोः |

तानि प्रीतान्येव तृष्णाक्षयान्ते; तान्यव्यथो दुःखहीनः प्रणुद्यात् ||२४||

न त्वेव मन्ये पुरुषस्य कर्म; संवर्तते सुप्रयुक्तं यथावत् |

मातुः पितुः कर्मणाभिप्रसूतः; संवर्धते विधिवद्भोजनेन ||२५||

प्रियाप्रिये सुखदुःखे च राज; न्निन्दाप्रशंसे च भजेत एनम् |

परस्त्वेनं गर्हयतेऽपराधे; प्रशंसते साधुवृत्तं तमेव ||२६||

स त्वा गर्हे भारतानां विरोधा; दन्तो नूनं भवितायं प्रजानाम् |

नो चेदिदं तव कर्मापराधा; त्कुरून्दहेत्कृष्णवर्त्मेव कक्षम् ||२७||

त्वमेवैको जातपुत्रेषु राज; न्वशं गन्ता सर्वलोके नरेन्द्र |

कामात्मनां श्लाघसे द्यूतकाले; नान्यच्छमात्पश्य विपाकमस्य ||२८||

अनाप्तानां प्रग्रहात्त्वं नरेन्द्र; तथाप्तानां निग्रहाच्चैव राजन् |

भूमिं स्फीतां दुर्बलत्वादनन्तां; न शक्तस्त्वं रक्षितुं कौरवेय ||२९||

अनुज्ञातो रथवेगावधूतः; श्रान्तो निपद्ये शयनं नृसिंह |

प्रातः श्रोतारः कुरवः सभाया; मजातशत्रोर्वचनं समेताः ||३०||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.