उद्योगपर्वम् अध्यायः 33-50

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

033-अध्यायः-प्रजागरपर्व

वैशम्पायन उवाच||

द्वाःस्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः |

विदुरं द्रष्टुमिच्छामि तमिहानय माचिरम् ||१||

प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत् |

ईश्वरस्त्वां महाराजो महाप्राज्ञ दिदृक्षति ||२||

एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम् |

अब्रवीद्धृतराष्ट्राय द्वाःस्थ मां प्रतिवेदय ||३||

द्वाःस्थ उवाच||

विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात् |

द्रष्टुमिच्छति ते पादौ किं करोतु प्रशाधि माम् ||४||

धृतराष्ट्र उवाच||

प्रवेशय महाप्राज्ञं विदुरं दीर्घदर्शिनम् |

अहं हि विदुरस्यास्य नाकाल्यो जातु दर्शने ||५||

द्वाःस्थ उवाच||

प्रविशान्तःपुरं क्षत्तर्महाराजस्य धीमतः |

न हि ते दर्शनेऽकाल्यो जातु राजा ब्रवीति माम् ||६||

वैशम्पायन उवाच||

ततः प्रविश्य विदुरो धृतराष्ट्रनिवेशनम् |

अब्रवीत्प्राञ्जलिर्वाक्यं चिन्तयानं नराधिपम् ||७||

विदुरोऽहं महाप्राज्ञ सम्प्राप्तस्तव शासनात् |

यदि किञ्चन कर्तव्यमयमस्मि प्रशाधि माम् ||८||

धृतराष्ट्र उवाच||

सञ्जयो विदुर प्राप्तो गर्हयित्वा च मां गतः |

अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति ||९||

तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया |

तन्मे दहति गात्राणि तदकार्षीत्प्रजागरम् ||१०||

जाग्रतो दह्यमानस्य श्रेयो यदिह पश्यसि |

तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि ||११||

यतः प्राप्तः सञ्जयः पाण्डवेभ्यो; न मे यथावन्मनसः प्रशान्तिः |

सर्वेन्द्रियाण्यप्रकृतिं गतानि; किं वक्ष्यतीत्येव हि मेऽद्य चिन्ता ||१२||

विदुर उवाच||

अभियुक्तं बलवता दुर्बलं हीनसाधनम् |

हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः ||१३||

कच्चिदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप |

कच्चिन्न परवित्तेषु गृध्यन्विपरितप्यसे ||१४||

धृतराष्ट्र उवाच||

श्रोतुमिच्छामि ते धर्म्यं परं नैःश्रेयसं वचः |

अस्मिन्राजर्षिवंशे हि त्वमेकः प्राज्ञसंमतः ||१५||

विदुर उवाच||

निषेवते प्रशस्तानि निन्दितानि न सेवते |

अनास्तिकः श्रद्दधान एतत्पण्डितलक्षणम् ||१६||

क्रोधो हर्षश्च दर्पश्च ह्रीस्तम्भो मान्यमानिता |

यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ||१७||

यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे |

कृतमेवास्य जानन्ति स वै पण्डित उच्यते ||१८||

यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः |

समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते ||१९||

यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते |

कामादर्थं वृणीते यः स वै पण्डित उच्यते ||२०||

यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते |

न किञ्चिदवमन्यन्ते पण्डिता भरतर्षभ ||२१||

क्षिप्रं विजानाति चिरं शृणोति; विज्ञाय चार्थं भजते न कामात् |

नासम्पृष्टो व्युपयुङ्क्ते परार्थे; तत्प्रज्ञानं प्रथमं पण्डितस्य ||२२||

नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् |

आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः ||२३||

निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः |

अवन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते ||२४||

आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते |

हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ||२५||

न हृष्यत्यात्मसंमाने नावमानेन तप्यते |

गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उच्यते ||२६||

तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम् |

उपायज्ञो मनुष्याणां नरः पण्डित उच्यते ||२७||

प्रवृत्तवाक्चित्रकथ ऊहवान्प्रतिभानवान् |

आशु ग्रन्थस्य वक्ता च स वै पण्डित उच्यते ||२८||

श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा |

असम्भिन्नार्यमर्यादः पण्डिताख्यां लभेत सः ||२९||

अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः |

अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः ||३०||

स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति |

मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते ||३१||

अकामान्कामयति यः कामयानान्परिद्विषन् |

बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ||३२||

अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च |

कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ||३३||

संसारयति कृत्यानि सर्वत्र विचिकित्सते |

चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ ||३४||

अनाहूतः प्रविशति अपृष्टो बहु भाषते |

विश्वसत्यप्रमत्तेषु मूढचेता नराधमः ||३५||

परं क्षिपति दोषेण वर्तमानः स्वयं तथा |

यश्च क्रुध्यत्यनीशः सन्स च मूढतमो नरः ||३६||

आत्मनो बलमज्ञाय धर्मार्थपरिवर्जितम् |

अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते ||३७||

अशिष्यं शास्ति यो राजन्यश्च शून्यमुपासते |

कदर्यं भजते यश्च तमाहुर्मूढचेतसम् ||३८||

अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव वा |

विचरत्यसमुन्नद्धो यः स पण्डित उच्यते ||३९||

एकः सम्पन्नमश्नाति वस्ते वासश्च शोभनम् |

योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ||४०||

एकः पापानि कुरुते फलं भुङ्क्ते महाजनः |

भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते ||४१||

एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता |

बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् ||४२||

एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु |

पञ्च जित्वा विदित्वा षट्सप्त हित्वा सुखी भव ||४३||

एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते |

सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविस्रवः ||४४||

एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् |

एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ||४५||

एकमेवाद्वितीयं तद्यद्राजन्नावबुध्यसे |

सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ||४६||

एकः क्षमावतां दोषो द्वितीयो नोपलभ्यते |

यदेनं क्षमया युक्तमशक्तं मन्यते जनः ||४७||

एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा |

विद्यैका परमा दृष्टिरहिंसैका सुखावहा ||४८||

द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव |

राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ||४९||

द्वे कर्मणी नरः कुर्वन्नस्मिँल्लोके विरोचते |

अब्रुवन्परुषं किञ्चिदसतो नार्थयंस्तथा ||५०||

द्वाविमौ पुरुषव्याघ्र परप्रत्ययकारिणौ |

स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः ||५१||

द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषणौ |

यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ||५२||

द्वाविमौ पुरुषौ राजन्स्वर्गस्योपरि तिष्ठतः |

प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ||५३||

न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ |

अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् ||५४||

त्रयो न्याया मनुष्याणां श्रूयन्ते भरतर्षभ |

कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः ||५५||

त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः |

नियोजयेद्यथावत्तांस्त्रिविधेष्वेव कर्मसु ||५६||

त्रय एवाधना राजन्भार्या दासस्तथा सुतः |

यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ||५७||

चत्वारि राज्ञा तु महाबलेन; वर्ज्यान्याहुः पण्डितस्तानि विद्यात् |

अल्पप्रज्ञैः सह मन्त्रं न कुर्या; न्न दीर्घसूत्रैरलसैश्चारणैश्च ||५८||

चत्वारि ते तात गृहे वसन्तु; श्रियाभिजुष्टस्य गृहस्थधर्मे |

वृद्धो ज्ञातिरवसन्नः कुलीनः; सखा दरिद्रो भगिनी चानपत्या ||५९||

चत्वार्याह महाराज सद्यस्कानि बृहस्पतिः |

पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे ||६०||

देवतानां च सङ्कल्पमनुभावं च धीमताम् |

विनयं कृतविद्यानां विनाशं पापकर्मणाम् ||६१||

पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः |

पिता माताग्निरात्मा च गुरुश्च भरतर्षभ ||६२||

पञ्चैव पूजयँल्लोके यशः प्राप्नोति केवलम् |

देवान्पितॄन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान् ||६३||

पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि |

मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः ||६४||

पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम् |

ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम् ||६५||

षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता |

निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता ||६६||

षडिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे |

अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ||६७||

अरक्षितारं राजानं भार्यां चाप्रियवादिनीम् |

ग्रामकामं च गोपालं वनकामं च नापितम् ||६८||

षडेव तु गुणाः पुंसा न हातव्याः कदाचन |

सत्यं दानमनालस्यमनसूया क्षमा धृतिः ||६९||

षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति |

न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः ||७०||

षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते |

चोराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः ||७१||

प्रमदाः कामयानेषु यजमानेषु याजकाः |

राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः ||७२||

सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः |

प्रायशो यैर्विनश्यन्ति कृतमूलाश्च पार्थिवाः ||७३||

स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् |

महच्च दण्डपारुष्यमर्थदूषणमेव च ||७४||

अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः |

ब्राह्मणान्प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते ||७५||

ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति |

रमते निन्दया चैषां प्रशंसां नाभिनन्दति ||७६||

नैतान्स्मरति कृत्येषु याचितश्चाभ्यसूयति |

एतान्दोषान्नरः प्राज्ञो बुद्ध्या बुद्ध्वा विवर्जयेत् ||७७||

अष्टाविमानि हर्षस्य नवनीतानि भारत |

वर्तमानानि दृश्यन्ते तान्येव सुसुखान्यपि ||७८||

समागमश्च सखिभिर्महांश्चैव धनागमः |

पुत्रेण च परिष्वङ्गः संनिपातश्च मैथुने ||७९||

समये च प्रियालापः स्वयूथेषु च संनतिः |

अभिप्रेतस्य लाभश्च पूजा च जनसंसदि ||८०||

नवद्वारमिदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम् |

क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स परः कविः ||८१||

दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान् |

मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ||८२||

त्वरमाणश्च भीरुश्च लुब्धः कामी च ते दश |

तस्मादेतेषु भावेषु न प्रसज्जेत पण्डितः ||८३||

अत्रैवोदाहरन्तीममितिहासं पुरातनम् |

पुत्रार्थमसुरेन्द्रेण गीतं चैव सुधन्वना ||८४||

यः काममन्यू प्रजहाति राजा; पात्रे प्रतिष्ठापयते धनं च |

विशेषविच्छ्रुतवान्क्षिप्रकारी; तं सर्वलोकः कुरुते प्रमाणम् ||८५||

जानाति विश्वासयितुं मनुष्या; न्विज्ञातदोषेषु दधाति दण्डम् |

जानाति मात्रां च तथा क्षमां च; तं तादृशं श्रीर्जुषते समग्रा ||८६||

सुदुर्बलं नावजानाति कं चि; द्युक्तो रिपुं सेवते बुद्धिपूर्वम् |

न विग्रहं रोचयते बलस्थैः; काले च यो विक्रमते स धीरः ||८७||

प्राप्यापदं न व्यथते कदा चि; दुद्योगमन्विच्छति चाप्रमत्तः |

दुःखं च काले सहते जितात्मा; धुरन्धरस्तस्य जिताः सपत्नाः ||८८||

अनर्थकं विप्रवासं गृहेभ्यः; पापैः सन्धिं परदाराभिमर्शम् |

दम्भं स्तैन्यं पैशुनं मद्यपानं; न सेवते यः स सुखी सदैव ||८९||

न संरम्भेणारभतेऽर्थवर्ग; माकारितः शंसति तथ्यमेव |

न मात्रार्थे रोचयते विवादं; नापूजितः कुप्यति चाप्यमूढः ||९०||

न योऽभ्यसूयत्यनुकम्पते च; न दुर्बलः प्रातिभाव्यं करोति |

नात्याह किञ्चित्क्षमते विवादं; सर्वत्र तादृग्लभते प्रशंसाम् ||९१||

यो नोद्धतं कुरुते जातु वेषं; न पौरुषेणापि विकत्थतेऽन्यान् |

न मूर्च्छितः कटुकान्याह किं चि; त्प्रियं सदा तं कुरुते जनोऽपि ||९२||

न वैरमुद्दीपयति प्रशान्तं; न दर्पमारोहति नास्तमेति |

न दुर्गतोऽस्मीति करोति मन्युं; तमार्यशीलं परमाहुरग्र्यम् ||९३||

न स्वे सुखे वै कुरुते प्रहर्षं; नान्यस्य दुःखे भवति प्रतीतः |

दत्त्वा न पश्चात्कुरुतेऽनुतापं; न कत्थते सत्पुरुषार्यशीलः ||९४||

देशाचारान्समयाञ्जातिधर्मा; न्बुभूषते यस्तु परावरज्ञः |

स तत्र तत्राधिगतः सदैव; महाजनस्याधिपत्यं करोति ||९५||

दम्भं मोहं मत्सरं पापकृत्यं; राजद्विष्टं पैशुनं पूगवैरम् |

मत्तोन्मत्तैर्दुर्जनैश्चापि वादं; यः प्रज्ञावान्वर्जयेत्स प्रधानः ||९६||

दमं शौचं दैवतं मङ्गलानि; प्रायश्चित्तं विविधाँल्लोकवादान् |

एतानि यः कुरुते नैत्यकानि; तस्योत्थानं देवता राधयन्ति ||९७||

समैर्विवाहं कुरुते न हीनैः; समैः सख्यं व्यवहारं कथाश्च |

गुणैर्विशिष्टांश्च पुरोदधाति; विपश्चितस्तस्य नयाः सुनीताः ||९८||

मितं भुङ्क्ते संविभज्याश्रितेभ्यो; मितं स्वपित्यमितं कर्म कृत्वा |

ददात्यमित्रेष्वपि याचितः सं; स्तमात्मवन्तं प्रजहत्यनर्थाः ||९९||

चिकीर्षितं विप्रकृतं च यस्य; नान्ये जनाः कर्म जानन्ति किञ्चित् |

मन्त्रे गुप्ते सम्यगनुष्ठिते च; स्वल्पो नास्य व्यथते कश्चिदर्थः ||१००||

यः सर्वभूतप्रशमे निविष्टः; सत्यो मृदुर्दानकृच्छुद्धभावः |

अतीव सञ्ज्ञायते ज्ञातिमध्ये; महामणिर्जात्य इव प्रसन्नः ||१०१||

य आत्मनापत्रपते भृशं नरः; स सर्वलोकस्य गुरुर्भवत्युत |

अनन्ततेजाः सुमनाः समाहितः; स्वतेजसा सूर्य इवावभासते ||१०२||

वने जाताः शापदग्धस्य राज्ञः; पाण्डोः पुत्राः पञ्च पञ्चेन्द्रकल्पाः |

त्वयैव बाला वर्धिताः शिक्षिताश्च; तवादेशं पालयन्त्याम्बिकेय ||१०३||

प्रदायैषामुचितं तात राज्यं; सुखी पुत्रैः सहितो मोदमानः |

न देवानां नापि च मानुषाणां; भविष्यसि त्वं तर्कणीयो नरेन्द्र ||१०४||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

034-अध्यायः

धृतराष्ट्र उवाच||

जाग्रतो दह्यमानस्य यत्कार्यमनुपश्यसि |

तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलः शुचिः ||१||

त्वं मां यथावद्विदुर प्रशाधि; प्रज्ञापूर्वं सर्वमजातशत्रोः |

यन्मन्यसे पथ्यमदीनसत्त्व; श्रेयस्करं ब्रूहि तद्वै कुरूणाम् ||२||

पापाशङ्की पापमेवानुपश्य; न्पृच्छामि त्वां व्याकुलेनात्मनाहम् |

कवे तन्मे ब्रूहि सर्वं यथाव; न्मनीषितं सर्वमजातशत्रोः ||३||

विदुर उवाच||

शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम् |

अपृष्टस्तस्य तद्ब्रूयाद्यस्य नेच्छेत्पराभवम् ||४||

तस्माद्वक्ष्यामि ते राजन्भवमिच्छन्कुरून्प्रति |

वचः श्रेयस्करं धर्म्यं ब्रुवतस्तन्निबोध मे ||५||

मिथ्योपेतानि कर्माणि सिध्येयुर्यानि भारत |

अनुपायप्रयुक्तानि मा स्म तेषु मनः कृथाः ||६||

तथैव योगविहितं न सिध्येत्कर्म यन्नृप |

उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः ||७||

अनुबन्धानवेक्षेत सानुबन्धेषु कर्मसु |

सम्प्रधार्य च कुर्वीत न वेगेन समाचरेत् ||८||

अनुबन्धं च सम्प्रेक्ष्य विपाकांश्चैव कर्मणाम् |

उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा ||९||

यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये |

कोशे जनपदे दण्डे न स राज्येऽवतिष्ठते ||१०||

यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति |

युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति ||११||

न राज्यं प्राप्तमित्येव वर्तितव्यमसाम्प्रतम् |

श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम् ||१२||

भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो बडिशमायसम् |

रूपाभिपाती ग्रसते नानुबन्धमवेक्षते ||१३||

यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत् |

हितं च परिणामे यत्तदद्यं भूतिमिच्छता ||१४||

वनस्पतेरपक्वानि फलानि प्रचिनोति यः |

स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ||१५||

यस्तु पक्वमुपादत्ते काले परिणतं फलम् |

फलाद्रसं स लभते बीजाच्चैव फलं पुनः ||१६||

यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः |

तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया ||१७||

पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् |

मालाकार इवारामे न यथाङ्गारकारकः ||१८||

किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः |

इति कर्माणि सञ्चिन्त्य कुर्याद्वा पुरुषो न वा ||१९||

अनारभ्या भवन्त्यर्थाः केचिन्नित्यं तथागताः |

कृतः पुरुषकारोऽपि भवेद्येषु निरर्थकः ||२०||

कांश्चिदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान् |

क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान् ||२१||

ऋजु पश्यति यः सर्वं चक्षुषानुपिबन्निव |

आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः ||२२||

चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् |

प्रसादयति लोकं यः तं लोकोऽनुप्रसीदति ||२३||

यस्मात्त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव |

सागरान्तामपि महीं लब्ध्वा स परिहीयते ||२४||

पितृपैतामहं राज्यं प्राप्तवान्स्वेन तेजसा |

वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः ||२५||

धर्ममाचरतो राज्ञः सद्भिश्चरितमादितः |

वसुधा वसुसम्पूर्णा वर्धते भूतिवर्धनी ||२६||

अथ सन्त्यजतो धर्ममधर्मं चानुतिष्ठतः |

प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा ||२७||

य एव यत्नः क्रियते परराष्ट्रावमर्दने |

स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने ||२८||

धर्मेण राज्यं विन्देत धर्मेण परिपालयेत् |

धर्ममूलां श्रियं प्राप्य न जहाति न हीयते ||२९||

अप्युन्मत्तात्प्रलपतो बालाच्च परिसर्पतः |

सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ||३०||

सुव्याहृतानि सुधियां सुकृतानि ततस्ततः |

सञ्चिन्वन्धीर आसीत शिलाहारी शिलं यथा ||३१||

गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः |

चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ||३२||

भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा |

अथ या सुदुहा राजन्नैव तां विनयन्त्यपि ||३३||

यदतप्तं प्रणमति न तत्सन्तापयन्त्यपि |

यच्च स्वयं नतं दारु न तत्संनामयन्त्यपि ||३४||

एतयोपमया धीरः संनमेत बलीयसे |

इन्द्राय स प्रणमते नमते यो बलीयसे ||३५||

पर्जन्यनाथाः पशवो राजानो मित्रबान्धवाः |

पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः ||३६||

सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते |

मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ||३७||

मानेन रक्ष्यते धान्यमश्वान्रक्षत्यनुक्रमः |

अभीक्ष्णदर्शनाद्गावः स्त्रियो रक्ष्याः कुचेलतः ||३८||

न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः |

अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते ||३९||

य ईर्ष्युः परवित्तेषु रूपे वीर्ये कुलान्वये |

सुखे सौभाग्यसत्कारे तस्य व्याधिरनन्तकः ||४०||

अकार्यकरणाद्भीतः कार्याणां च विवर्जनात् |

अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत् ||४१||

विद्यामदो धनमदस्तृतीयोऽभिजनो मदः |

एते मदावलिप्तानामेत एव सतां दमाः ||४२||

असन्तोऽभ्यर्थिताः सद्भिः किञ्चित्कार्यं कदाचन |

मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम् ||४३||

गतिरात्मवतां सन्तः सन्त एव सतां गतिः |

असतां च गतिः सन्तो न त्वसन्तः सतां गतिः ||४४||

जिता सभा वस्त्रवता समाशा गोमता जिता |

अध्वा जितो यानवता सर्वं शीलवता जितम् ||४५||

शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति |

न तस्य जीवितेनार्थो न धनेन न बन्धुभिः ||४६||

आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम् |

लवणोत्तरं दरिद्राणां भोजनं भरतर्षभ ||४७||

सम्पन्नतरमेवान्नं दरिद्रा भुञ्जते सदा |

क्षुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा ||४८||

प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते |

दरिद्राणां तु राजेन्द्र अपि काष्ठं हि जीर्यते ||४९||

अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद्भयम् |

उत्तमानां तु मर्त्यानामवमानात्परं भयम् ||५०||

ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः |

ऐश्वर्यमदमत्तो हि नापतित्वा विबुध्यते ||५१||

इन्द्रियैरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः |

तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव ||५२||

यो जितः पञ्चवर्गेण सहजेनात्मकर्शिना |

आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराट् ||५३||

अविजित्य य आत्मानममात्यान्विजिगीषते |

अमित्रान्वाजितामात्यः सोऽवशः परिहीयते ||५४||

आत्मानमेव प्रथमं देशरूपेण यो जयेत् |

ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ||५५||

वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु |

परीक्ष्यकारिणं धीरमत्यन्तं श्रीर्निषेवते ||५६||

रथः शरीरं पुरुषस्य राज; न्नात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः |

तैरप्रमत्तः कुशलः सदश्वै; र्दान्तैः सुखं याति रथीव धीरः ||५७||

एतान्यनिगृहीतानि व्यापादयितुमप्यलम् |

अविधेया इवादान्ता हयाः पथि कुसारथिम् ||५८||

अनर्थमर्थतः पश्यन्नर्थं चैवाप्यनर्थतः |

इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम् ||५९||

धर्मार्थौ यः परित्यज्य स्यादिन्द्रियवशानुगः |

श्रीप्राणधनदारेभ्य क्षिप्रं स परिहीयते ||६०||

अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः |

इन्द्रियाणामनैश्वर्यादैश्वर्याद्भ्रश्यते हि सः ||६१||

आत्मनात्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतैः |

आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ||६२||

क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ |

कामश्च राजन्क्रोधश्च तौ प्रज्ञानं विलुम्पतः ||६३||

समवेक्ष्येह धर्मार्थौ सम्भारान्योऽधिगच्छति |

स वै सम्भृतसम्भारः सततं सुखमेधते ||६४||

यः पञ्चाभ्यन्तराञ्शत्रूनविजित्य मतिक्षयान् |

जिगीषति रिपूनन्यान्रिपवोऽभिभवन्ति तम् ||६५||

दृश्यन्ते हि दुरात्मानो वध्यमानाः स्वकर्मभिः |

इन्द्रियाणामनीशत्वाद्राजानो राज्यविभ्रमैः ||६६||

असन्त्यागात्पापकृतामपापां; स्तुल्यो दण्डः स्पृशते मिश्रभावात् |

शुष्केणार्द्रं दह्यते मिश्रभावा; त्तस्मात्पापैः सह सन्धिं न कुर्यात् ||६७||

निजानुत्पततः शत्रून्पञ्च पञ्चप्रयोजनान् |

यो मोहान्न निगृह्णाति तमापद्ग्रसते नरम् ||६८||

अनसूयार्जवं शौचं सन्तोषः प्रियवादिता |

दमः सत्यमनायासो न भवन्ति दुरात्मनाम् ||६९||

आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता |

वाक्चैव गुप्ता दानं च नैतान्यन्त्येषु भारत ||७०||

आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान् |

वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ||७१||

हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम् |

शुश्रूषा तु बलं स्त्रीणां क्षमा गुणवतां बलम् ||७२||

वाक्संयमो हि नृपते सुदुष्करतमो मतः |

अर्थवच्च विचित्रं च न शक्यं बहु भाषितुम् ||७३||

अभ्यावहति कल्याणं विविधा वाक्सुभाषिता |

सैव दुर्भाषिता राजन्ननर्थायोपपद्यते ||७४||

संरोहति शरैर्विद्धं वनं परशुना हतम् |

वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ||७५||

कर्णिनालीकनाराचा निर्हरन्ति शरीरतः |

वाक्षल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः ||७६||

वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि |

परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु ||७७||

यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् |

बुद्धिं तस्यापकर्षन्ति सोऽपाचीनानि पश्यति ||७८||

बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते |

अनयो नयसङ्काशो हृदयान्नापसर्पति ||७९||

सेयं बुद्धिः परीता ते पुत्राणां तव भारत |

पाण्डवानां विरोधेन न चैनामवबुध्यसे ||८०||

राजा लक्षणसम्पन्नस्त्रैलोक्यस्यापि यो भवेत् |

शिष्यस्ते शासिता सोऽस्तु धृतराष्ट्र युधिष्ठिरः ||८१||

अतीव सर्वान्पुत्रांस्ते भागधेयपुरस्कृतः |

तेजसा प्रज्ञया चैव युक्तो धर्मार्थतत्त्ववित् ||८२||

आनृशंस्यादनुक्रोशाद्योऽसौ धर्मभृतां वरः |

गौरवात्तव राजेन्द्र बहून्क्लेशांस्तितिक्षति ||८३||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

035-अध्यायः

धृतराष्ट्र उवाच||

ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः |

शृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे ||१||

विदुर उवाच||

सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम् |

उभे एते समे स्यातामार्जवं वा विशिष्यते ||२||

आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो |

इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ||३||

यावत्कीर्तिर्मनुष्यस्य पुण्या लोकेषु गीयते |

तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते ||४||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

विरोचनस्य संवादं केशिन्यर्थे सुधन्वना ||५||

केशिन्युवाच||

किं ब्राह्मणाः स्विच्छ्रेयांसो दितिजाः स्विद्विरोचन |

अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति ||६||

विरोचन उवाच||

प्राजापत्या हि वै श्रेष्ठा वयं केशिनि सत्तमाः |

अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः ||७||

केशिन्युवाच||

इहैवास्स्व प्रतीक्षाव उपस्थाने विरोचन |

सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ ||८||

विरोचन उवाच||

तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे |

सुधन्वानं च मां चैव प्रातर्द्रष्टासि सङ्गतौ ||९||

सुधन्वोवाच||

अन्वालभे हिरण्मयं प्राह्रादेऽहं तवासनम् |

एकत्वमुपसम्पन्नो न त्वासेयं त्वया सह ||१०||

विरोचन उवाच||

अन्वाहरन्तु फलकं कूर्चं वाप्यथ वा बृसीम् |

सुधन्वन्न त्वमर्होऽसि मया सह समासनम् ||११||

सुधन्वोवाच||

पितापि ते समासीनमुपासीतैव मामधः |

बालः सुखैधितो गेहे न त्वं किञ्चन बुध्यसे ||१२||

विरोचन उवाच||

हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः |

सुधन्वन्विपणे तेन प्रश्नं पृच्छाव ये विदुः ||१३||

सुधन्वोवाच||

हिरण्यं च गवाश्वं च तवैवास्तु विरोचन |

प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः ||१४||

विरोचन उवाच||

आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते |

न हि देवेष्वहं स्थाता न मनुष्येषु कर्हिचित् ||१५||

सुधन्वोवाच||

पितरं ते गमिष्यावः प्राणयोर्विपणे कृते |

पुत्रस्यापि स हेतोर्हि प्रह्रादो नानृतं वदेत् ||१६||

प्रह्राद उवाच||

इमौ तौ सम्प्रदृश्येते याभ्यां न चरितं सह |

आशीविषाविव क्रुद्धावेकमार्गमिहागतौ ||१७||

किं वै सहैव चरतो न पुरा चरतः सह |

विरोचनैतत्पृच्छामि किं ते सख्यं सुधन्वना ||१८||

विरोचन उवाच||

न मे सुधन्वना सख्यं प्राणयोर्विपणावहे |

प्रह्राद तत्त्वां पृच्छामि मा प्रश्नमनृतं वदीः ||१९||

प्रह्राद उवाच||

उदकं मधुपर्कं चाप्यानयन्तु सुधन्वने |

ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरीकृता ||२०||

सुधन्वोवाच||

उदकं मधुपर्कं च पथ एवार्पितं मम |

प्रह्राद त्वं तु नौ प्रश्नं तथ्यं प्रब्रूहि पृच्छतोः ||२१||

प्रह्राद उवाच||

पुत्रो वान्यो भवान्ब्रह्मन्साक्ष्ये चैव भवेत्स्थितः |

तयोर्विवदतोः प्रश्नं कथमस्मद्विधो वदेत् ||२२||

अथ यो नैव प्रब्रूयात्सत्यं वा यदि वानृतम् |

एतत्सुधन्वन्पृच्छामि दुर्विवक्ता स्म किं वसेत् ||२३||

सुधन्वोवाच||

यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः |

यां च भाराभितप्ताङ्गो दुर्विवक्ता स्म तां वसेत् ||२४||

नगरे प्रतिरुद्धः सन्बहिर्द्वारे बुभुक्षितः |

अमित्रान्भूयसः पश्यन्दुर्विवक्ता स्म तां वसेत् ||२५||

पञ्च पश्वनृते हन्ति दश हन्ति गवानृते |

शतमश्वानृते हन्ति सहस्रं पुरुषानृते ||२६||

हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् |

सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः ||२७||

प्रह्राद उवाच||

मत्तः श्रेयानङ्गिरा वै सुधन्वा त्वद्विरोचन |

मातास्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः ||२८||

विरोचन सुधन्वायं प्राणानामीश्वरस्तव |

सुधन्वन्पुनरिच्छामि त्वया दत्तं विरोचनम् ||२९||

सुधन्वोवाच||

यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः |

पुनर्ददामि ते तस्मात्पुत्रं प्रह्राद दुर्लभम् ||३०||

एष प्रह्राद पुत्रस्ते मया दत्तो विरोचनः |

पादप्रक्षालनं कुर्यात्कुमार्याः संनिधौ मम ||३१||

विदुर उवाच||

तस्माद्राजेन्द्र भूम्यर्थे नानृतं वक्तुमर्हसि |

मा गमः ससुतामात्योऽत्ययं पुत्राननुभ्रमन् ||३२||

न देवा यष्टिमादाय रक्षन्ति पशुपालवत् |

यं तु रक्षितुमिच्छन्ति बुद्ध्या संविभजन्ति तम् ||३३||

यथा यथा हि पुरुषः कल्याणे कुरुते मनः |

तथा तथास्य सर्वार्थाः सिध्यन्ते नात्र संशयः ||३४||

न छन्दांसि वृजिनात्तारयन्ति; मायाविनं मायया वर्तमानम् |

नीडं शकुन्ता इव जातपक्षा; श्छन्दांस्येनं प्रजहत्यन्तकाले ||३५||

मत्तापानं कलहं पूगवैरं; भार्यापत्योरन्तरं ज्ञातिभेदम् |

राजद्विष्टं स्त्रीपुमांसोर्विवादं; वर्ज्यान्याहुर्यश्च पन्थाः प्रदुष्टः ||३६||

सामुद्रिकं वणिजं चोरपूर्वं; शलाकधूर्तं च चिकित्सकं च |

अरिं च मित्रं च कुशीलवं च; नैतान्साक्ष्येष्वधिकुर्वीत सप्त ||३७||

मानाग्निहोत्रमुत मानमौनं; मानेनाधीतमुत मानयज्ञः |

एतानि चत्वार्यभयङ्कराणि; भयं प्रयच्छन्त्ययथाकृतानि ||३८||

अगारदाही गरदः कुण्डाशी सोमविक्रयी |

पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः ||३९||

भ्रूणहा गुरुतल्पी च यश्च स्यात्पानपो द्विजः |

अतितीक्ष्णश्च काकश्च नास्तिको वेदनिन्दकः ||४०||

स्रुवप्रग्रहणो व्रात्यः कीनाशश्चार्थवानपि |

रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्महणैः समाः ||४१||

तृणोल्कया ज्ञायते जातरूपं; युगे भद्रो व्यवहारेण साधुः |

शूरो भयेष्वर्थकृच्छ्रेषु धीरः; कृच्छ्रास्वापत्सु सुहृदश्चारयश्च ||४२||

जरा रूपं हरति हि धैर्यमाशा; मृत्युः प्राणान्धर्मचर्यामसूया |

क्रोधः श्रियं शीलमनार्यसेवा; ह्रियं कामः सर्वमेवाभिमानः ||४३||

श्रीर्मङ्गलात्प्रभवति प्रागल्भ्यात्सम्प्रवर्धते |

दाक्ष्यात्तु कुरुते मूलं संयमात्प्रतितिष्ठति ||४४||

अष्टौ गुणाः पुरुषं दीपयन्ति; प्रज्ञा च कौल्यं च दमः श्रुतं च |

पराक्रमश्चाबहुभाषिता च; दानं यथाशक्ति कृतज्ञता च ||४५||

एतान्गुणांस्तात महानुभावा; नेको गुणः संश्रयते प्रसह्य |

राजा यदा सत्कुरुते मनुष्यं; सर्वान्गुणानेष गुणोऽतिभाति ||४६||

अष्टौ नृपेमानि मनुष्यलोके; स्वर्गस्य लोकस्य निदर्शनानि |

चत्वार्येषामन्ववेतानि सद्भि; श्चत्वार्येषामन्ववयन्ति सन्तः ||४७||

यज्ञो दानमध्ययनं तपश्च; चत्वार्येतान्यन्ववेतानि सद्भिः |

दमः सत्यमार्जवमानृशंस्यं; चत्वार्येतान्यन्ववयन्ति सन्तः ||४८||

न सा सभा यत्र न सन्ति वृद्धा; न ते वृद्धा ये न वदन्ति धर्मम् |

नासौ धर्मो यत्र न सत्यमस्ति; न तत्सत्यं यच्छलेनानुविद्धम् ||४९||

सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् |

शौर्यं च चित्रभाष्यं च दश संसर्गयोनयः ||५०||

पापं कुर्वन्पापकीर्तिः पापमेवाश्नुते फलम् |

पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यमेवाश्नुते फलम् ||५१||

पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः |

नष्टप्रज्ञः पापमेव नित्यमारभते नरः ||५२||

पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः |

वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः ||५३||

असूयको दन्दशूको निष्ठुरो वैरकृन्नरः |

स कृच्छ्रं महदाप्नोति नचिरात्पापमाचरन् ||५४||

अनसूयः कृतप्रज्ञः शोभनान्याचरन्सदा |

अकृच्छ्रात्सुखमाप्नोति सर्वत्र च विराजते ||५५||

प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः |

प्राज्ञो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम् ||५६||

दिवसेनैव तत्कुर्याद्येन रात्रौ सुखं वसेत् |

अष्टमासेन तत्कुर्याद्येन वर्षाः सुखं वसेत् ||५७||

पूर्वे वयसि तत्कुर्याद्येन वृद्धः सुखं वसेत् |

यावज्जीवेन तत्कुर्याद्येन प्रेत्य सुखं वसेत् ||५८||

जीर्णमन्नं प्रशंसन्ति भार्यां च गतयौवनाम् |

शूरं विगतसङ्ग्रामं गतपारं तपस्विनम् ||५९||

धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते |

असंवृतं तद्भवति ततोऽन्यदवदीर्यते ||६०||

गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् |

अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ||६१||

ऋषीणां च नदीनां च कुलानां च महात्मनाम् |

प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ||६२||

द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी |

क्षत्रियः स्वर्गभाग्राजंश्चिरं पालयते महीम् ||६३||

सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः |

शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ||६४||

बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत |

तानि जङ्घाजघन्यानि भारप्रत्यवराणि च ||६५||

दुर्योधने च शकुनौ मूढे दुःशासने तथा |

कर्णे चैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि ||६६||

सर्वैर्गुणैरुपेताश्च पाण्डवा भरतर्षभ |

पितृवत्त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत् ||६७||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

036-अध्यायः

विदुर उवाच||

अत्रैवोदाहरन्तीममितिहासं पुरातनम् |

आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम् ||१||

चरन्तं हंसरूपेण महर्षिं संशितव्रतम् |

साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा ||२||

साध्या देवा वयमस्मो महर्षे; दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम् |

श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः; काव्यां वाचं वक्तुमर्हस्युदाराम् ||३||

हंस उवाच||

एतत्कार्यममराः संश्रुतं मे; धृतिः शमः सत्यधर्मानुवृत्तिः |

ग्रन्थिं विनीय हृदयस्य सर्वं; प्रियाप्रिये चात्मवशं नयीत ||४||

आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षितः |

आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ||५||

नाक्रोशी स्यान्नावमानी परस्य; मित्रद्रोही नोत नीचोपसेवी |

न चातिमानी न च हीनवृत्तो; रूक्षां वाचं रुशतीं वर्जयीत ||६||

मर्माण्यस्थीनि हृदयं तथासू; न्घोरा वाचो निर्दहन्तीह पुंसाम् |

तस्माद्वाचं रुशतीं रूक्षरूपां; धर्मारामो नित्यशो वर्जयीत ||७||

अरुन्तुदं परुषं रूक्षवाचं; वाक्कण्टकैर्वितुदन्तं मनुष्यान् |

विद्यादलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम् ||८||

परश्चेदेनमधिविध्येत बाणै; र्भृशं सुतीक्ष्णैरनलार्कदीप्तैः |

विरिच्यमानोऽप्यतिरिच्यमानो; विद्यात्कविः सुकृतं मे दधाति ||९||

यदि सन्तं सेवते यद्यसन्तं; तपस्विनं यदि वा स्तेनमेव |

वासो यथा रङ्गवशं प्रयाति; तथा स तेषां वशमभ्युपैति ||१०||

वादं तु यो न प्रवदेन्न वादये; द्यो नाहतः प्रतिहन्यान्न घातयेत् |

यो हन्तुकामस्य न पापमिच्छे; त्तस्मै देवाः स्पृहयन्त्यागताय ||११||

अव्याहृतं व्याहृताच्छ्रेय आहुः; सत्यं वदेद्व्याहृतं तद्द्वितीयम् |

प्रियं वदेद्व्याहृतं तत्तृतीयं; धर्म्यं वदेद्व्याहृतं तच्चतुर्थम् ||१२||

यादृशैः संविवदते यादृशांश्चोपसेवते |

यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ||१३||

यतो यतो निवर्तते ततस्ततो विमुच्यते |

निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि ||१४||

न जीयते नोत जिगीषतेऽन्या; न्न वैरकृच्चाप्रतिघातकश्च |

निन्दाप्रशंसासु समस्वभावो; न शोचते हृष्यति नैव चायम् ||१५||

भावमिच्छति सर्वस्य नाभावे कुरुते मतिम् |

सत्यवादी मृदुर्दान्तो यः स उत्तमपूरुषः ||१६||

नानर्थकं सान्त्वयति प्रतिज्ञाय ददाति च |

राद्धापराद्धे जानाति यः स मध्यमपूरुषः ||१७||

दुःशासनस्तूपहन्ता न शास्ता; नावर्तते मन्युवशात्कृतघ्नः |

न कस्यचिन्मित्रमथो दुरात्मा; कलाश्चैता अधमस्येह पुंसः ||१८||

न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशङ्कितः |

निराकरोति मित्राणि यो वै सोऽधमपूरुषः ||१९||

उत्तमानेव सेवेत प्राप्ते काले तु मध्यमान् |

अधमांस्तु न सेवेत य इच्छेच्छ्रेय आत्मनः ||२०||

प्राप्नोति वै वित्तमसद्बलेन; नित्योत्थानात्प्रज्ञया पौरुषेण |

न त्वेव सम्यग्लभते प्रशंसां; न वृत्तमाप्नोति महाकुलानाम् ||२१||

धृतराष्ट्र उवाच||

महाकुलानां स्पृहयन्ति देवा; धर्मार्थवृद्धाश्च बहुश्रुताश्च |

पृच्छामि त्वां विदुर प्रश्नमेतं; भवन्ति वै कानि महाकुलानि ||२२||

विदुर उवाच||

तपो दमो ब्रह्मवित्त्वं वितानाः; पुण्या विवाहाः सततान्नदानम् |

येष्वेवैते सप्त गुणा भवन्ति; सम्यग्वृत्तास्तानि महाकुलानि ||२३||

येषां न वृत्तं व्यथते न योनि; र्वृत्तप्रसादेन चरन्ति धर्मम् |

ये कीर्तिमिच्छन्ति कुले विशिष्टां; त्यक्तानृतास्तानि महाकुलानि ||२४||

अनिज्ययाविवाहैश्च वेदस्योत्सादनेन च |

कुलान्यकुलतां यान्ति धर्मस्यातिक्रमेण च ||२५||

देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च |

कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ||२६||

ब्राह्मणानां परिभवात्परिवादाच्च भारत |

कुलान्यकुलतां यान्ति न्यासापहरणेन च ||२७||

कुलानि समुपेतानि गोभिः पुरुषतोऽश्वतः |

कुलसङ्ख्यां न गच्छन्ति यानि हीनानि वृत्ततः ||२८||

वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि |

कुलसङ्ख्यां तु गच्छन्ति कर्षन्ति च महद्यशः ||२९||

मा नः कुले वैरकृत्कश्चिदस्तु; राजामात्यो मा परस्वापहारी |

मित्रद्रोही नैकृतिकोऽनृती वा; पूर्वाशी वा पितृदेवातिथिभ्यः ||३०||

यश्च नो ब्राह्मणं हन्याद्यश्च नो ब्राह्मणान्द्विषेत् |

न नः स समितिं गच्छेद्यश्च नो निर्वपेत्कृषिम् ||३१||

तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता |

सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन ||३२||

श्रद्धया परया राजन्नुपनीतानि सत्कृतिम् |

प्रवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मणाम् ||३३||

सूक्ष्मोऽपि भारं नृपते स्यन्दनो वै; शक्तो वोढुं न तथान्ये महीजाः |

एवं युक्ता भारसहा भवन्ति; महाकुलीना न तथान्ये मनुष्याः ||३४||

न तन्मित्रं यस्य कोपाद्बिभेति; यद्वा मित्रं शङ्कितेनोपचर्यम् |

यस्मिन्मित्रे पितरीवाश्वसीत; तद्वै मित्रं सङ्गतानीतराणि ||३५||

यदि चेदप्यसम्बन्धो मित्रभावेन वर्तते |

स एव बन्धुस्तन्मित्रं सा गतिस्तत्परायणम् ||३६||

चलचित्तस्य वै पुंसो वृद्धाननुपसेवतः |

पारिप्लवमतेर्नित्यमध्रुवो मित्रसङ्ग्रहः ||३७||

चलचित्तमनात्मानमिन्द्रियाणां वशानुगम् |

अर्थाः समतिवर्तन्ते हंसाः शुष्कं सरो यथा ||३८||

अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः |

शीलमेतदसाधूनामभ्रं पारिप्लवं यथा ||३९||

सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये |

तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते ||४०||

अर्थयेदेव मित्राणि सति वासति वा धने |

नानर्थयन्विजानाति मित्राणां सारफल्गुताम् ||४१||

सन्तापाद्भ्रश्यते रूपं सन्तापाद्भ्रश्यते बलम् |

सन्तापाद्भ्रश्यते ज्ञानं सन्तापाद्व्याधिमृच्छति ||४२||

अनवाप्यं च शोकेन शरीरं चोपतप्यते |

अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः ||४३||

पुनर्नरो म्रियते जायते च; पुनर्नरो हीयते वर्धते पुनः |

पुनर्नरो याचति याच्यते च; पुनर्नरः शोचति शोच्यते पुनः ||४४||

सुखं च दुःखं च भवाभवौ च; लाभालाभौ मरणं जीवितं च |

पर्यायशः सर्वमिह स्पृशन्ति; तस्माद्धीरो नैव हृष्येन्न शोचेत् ||४५||

चलानि हीमानि षडिन्द्रियाणि; तेषां यद्यद्वर्तते यत्र यत्र |

ततस्ततः स्रवते बुद्धिरस्य; छिद्रोदकुम्भादिव नित्यमम्भः ||४६||

धृतराष्ट्र उवाच||

तनुरुच्छः शिखी राजा मिथ्योपचरितो मया |

मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ||४७||

नित्योद्विग्नमिदं सर्वं नित्योद्विग्नमिदं मनः |

यत्तत्पदमनुद्विग्नं तन्मे वद महामते ||४८||

विदुर उवाच||

नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात् |

नान्यत्र लोभसन्त्यागाच्छान्तिं पश्यामि तेऽनघ ||४९||

बुद्ध्या भयं प्रणुदति तपसा विन्दते महत् |

गुरुशुश्रूषया ज्ञानं शान्तिं त्यागेन विन्दति ||५०||

अनाश्रिता दानपुण्यं वेदपुण्यमनाश्रिताः |

रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः ||५१||

स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः |

तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते ||५२||

स्वास्तीर्णानि शयनानि प्रपन्ना; न वै भिन्ना जातु निद्रां लभन्ते |

न स्त्रीषु राजन्रतिमाप्नुवन्ति; न मागधैः स्तूयमाना न सूतैः ||५३||

न वै भिन्ना जातु चरन्ति धर्मं; न वै सुखं प्राप्नुवन्तीह भिन्नाः |

न वै भिन्ना गौरवं मानयन्ति; न वै भिन्नाः प्रशमं रोचयन्ति ||५४||

न वै तेषां स्वदते पथ्यमुक्तं; योगक्षेमं कल्पते नोत तेषाम् |

भिन्नानां वै मनुजेन्द्र परायणं; न विद्यते किञ्चिदन्यद्विनाशात् ||५५||

सम्भाव्यं गोषु सम्पन्नं सम्भाव्यं ब्राह्मणे तपः |

सम्भाव्यं स्त्रीषु चापल्यं सम्भाव्यं ज्ञातितो भयम् ||५६||

तन्तवोऽप्यायता नित्यं तन्तवो बहुलाः समाः |

बहून्बहुत्वादायासान्सहन्तीत्युपमा सताम् ||५७||

धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च |

धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ||५८||

ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च |

वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते ||५९||

महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः |

प्रसह्य एव वातेन शाखास्कन्धं विमर्दितुम् ||६०||

अथ ये सहिता वृक्षाः सङ्घशः सुप्रतिष्ठिताः |

ते हि शीघ्रतमान्वातान्सहन्तेऽन्योन्यसंश्रयात् ||६१||

एवं मनुष्यमप्येकं गुणैरपि समन्वितम् |

शक्यं द्विषन्तो मन्यन्ते वायुर्द्रुममिवैकजम् ||६२||

अन्योन्यसमुपष्टम्भादन्योन्यापाश्रयेण च |

ज्ञातयः सम्प्रवर्धन्ते सरसीवोत्पलान्युत ||६३||

अवध्या ब्राह्मणा गावः स्त्रियो बालाश्च ज्ञातयः |

येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः ||६४||

न मनुष्ये गुणः कश्चिदन्यो धनवतामपि |

अनातुरत्वाद्भद्रं ते मृतकल्पा हि रोगिणः ||६५||

अव्याधिजं कटुकं शीर्षरोगं; पापानुबन्धं परुषं तीक्ष्णमुग्रम् |

सतां पेयं यन्न पिबन्त्यसन्तो; मन्युं महाराज पिब प्रशाम्य ||६६||

रोगार्दिता न फलान्याद्रियन्ते; न वै लभन्ते विषयेषु तत्त्वम् |

दुःखोपेता रोगिणो नित्यमेव; न बुध्यन्ते धनभोगान्न सौख्यम् ||६७||

पुरा ह्युक्तो नाकरोस्त्वं वचो मे; द्यूते जितां द्रौपदीं प्रेक्ष्य राजन् |

दुर्योधनं वारयेत्यक्षवत्यां; कितवत्वं पण्डिता वर्जयन्ति ||६८||

न तद्बलं यन्मृदुना विरुध्यते; मिश्रो धर्मस्तरसा सेवितव्यः |

प्रध्वंसिनी क्रूरसमाहिता श्री; र्मृदुप्रौढा गच्छति पुत्रपौत्रान् ||६९||

धार्तराष्ट्राः पाण्डवान्पालयन्तु; पाण्डोः सुतास्तव पुत्रांश्च पान्तु |

एकारिमित्राः कुरवो ह्येकमन्त्रा; जीवन्तु राजन्सुखिनः समृद्धाः ||७०||

मेढीभूतः कौरवाणां त्वमद्य; त्वय्याधीनं कुरुकुलमाजमीढ |

पार्थान्बालान्वनवासप्रतप्ता; न्गोपायस्व स्वं यशस्तात रक्षन् ||७१||

सन्धत्स्व त्वं कौरवान्पाण्डुपुत्रै; र्मा तेऽन्तरं रिपवः प्रार्थयन्तु |

सत्ये स्थितास्ते नरदेव सर्वे; दुर्योधनं स्थापय त्वं नरेन्द्र ||७२||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

037-अध्यायः

विदुर उवाच||

सप्तदशेमान्राजेन्द्र मनुः स्वायम्भुवोऽब्रवीत् |

वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः ||१||

तानेवेन्द्रस्य हि धनुरनाम्यं नमतोऽब्रवीत् |

अथो मरीचिनः पादाननाम्यान्नमतस्तथा ||२||

यश्चाशिष्यं शासति यश्च कुप्यते; यश्चातिवेलं भजते द्विषन्तम् |

स्त्रियश्च योऽरक्षति भद्रमस्तु ते; यश्चायाच्यं याचति यश्च कत्थते ||३||

यश्चाभिजातः प्रकरोत्यकार्यं; यश्चाबलो बलिना नित्यवैरी |

अश्रद्दधानाय च यो ब्रवीति; यश्चाकाम्यं कामयते नरेन्द्र ||४||

वध्वा हासं श्वशुरो यश्च मन्यते; वध्वा वसन्नुत यो मानकामः |

परक्षेत्रे निर्वपति यश्च बीजं; स्त्रियं च यः परिवदतेऽतिवेलम् ||५||

यश्चैव लब्ध्वा न स्मरामीत्युवाच; दत्त्वा च यः कत्थति याच्यमानः |

यश्चासतः सान्त्वमुपासतीह; एतेऽनुयान्त्यनिलं पाशहस्ताः ||६||

यस्मिन्यथा वर्तते यो मनुष्य; स्तस्मिंस्तथा वर्तितव्यं स धर्मः |

मायाचारो मायया वर्तितव्यः; साध्वाचारः साधुना प्रत्युदेयः ||७||

धृतराष्ट्र उवाच||

शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा |

नाप्नोत्यथ च तत्सर्वमायुः केनेह हेतुना ||८||

विदुर उवाच||

अतिवादोऽतिमानश्च तथात्यागो नराधिप |

क्रोधश्चातिविवित्सा च मित्रद्रोहश्च तानि षट् ||९||

एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम् |

एतानि मानवान्घ्नन्ति न मृत्युर्भद्रमस्तु ते ||१०||

विश्वस्तस्यैति यो दारान्यश्चापि गुरुतल्पगः |

वृषलीपतिर्द्विजो यश्च पानपश्चैव भारत ||११||

शरणागतहा चैव सर्वे ब्रह्महणैः समाः |

एतैः समेत्य कर्तव्यं प्रायश्चित्तमिति श्रुतिः ||१२||

गृही वदान्योऽनपविद्धवाक्यः; शेषान्नभोक्ताप्यविहिंसकश्च |

नानर्थकृत्त्यक्तकलिः कृतज्ञः; सत्यो मृदुः स्वर्गमुपैति विद्वान् ||१३||

सुलभाः पुरुषा राजन्सततं प्रियवादिनः |

अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ||१४||

यो हि धर्मं व्यपाश्रित्य हित्वा भर्तुः प्रियाप्रिये |

अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ||१५||

त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् |

ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ||१६||

आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि |

आत्मानं सततं रक्षेद्दारैरपि धनैरपि ||१७||

उक्तं मया द्यूतकालेऽपि राज; न्नैवं युक्तं वचनं प्रातिपीय |

तदौषधं पथ्यमिवातुरस्य; न रोचते तव वैचित्रवीर्य ||१८||

काकैरिमांश्चित्रबर्हान्मयूरा; न्पराजैष्ठाः पाण्डवान्धार्तराष्ट्रैः |

हित्वा सिंहान्क्रोष्टुकान्गूहमानः; प्राप्ते काले शोचिता त्वं नरेन्द्र ||१९||

यस्तात न क्रुध्यति सर्वकालं; भृत्यस्य भक्तस्य हिते रतस्य |

तस्मिन्भृत्या भर्तरि विश्वसन्ति; न चैनमापत्सु परित्यजन्ति ||२०||

न भृत्यानां वृत्तिसंरोधनेन; बाह्यं जनं सञ्जिघृक्षेदपूर्वम् |

त्यजन्ति ह्येनमुचितावरुद्धाः; स्निग्धा ह्यमात्याः परिहीनभोगाः ||२१||

कृत्यानि पूर्वं परिसङ्ख्याय सर्वा; ण्यायव्ययावनुरूपां च वृत्तिम् |

सङ्गृह्णीयादनुरूपान्सहाया; न्सहायसाध्यानि हि दुष्कराणि ||२२||

अभिप्रायं यो विदित्वा तु भर्तुः; सर्वाणि कार्याणि करोत्यतन्द्रीः |

वक्ता हितानामनुरक्त आर्यः; शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः ||२३||

वाक्यं तु यो नाद्रियतेऽनुशिष्टः; प्रत्याह यश्चापि नियुज्यमानः |

प्रज्ञाभिमानी प्रतिकूलवादी; त्याज्यः स तादृक्त्वरयैव भृत्यः ||२४||

अस्तब्धमक्लीबमदीर्घसूत्रं; सानुक्रोशं श्लक्ष्णमहार्यमन्यैः |

अरोगजातीयमुदारवाक्यं; दूतं वदन्त्यष्टगुणोपपन्नम् ||२५||

न विश्वासाज्जातु परस्य गेहं; गच्छेन्नरश्चेतयानो विकाले |

न चत्वरे निशि तिष्ठेन्निगूढो; न राजन्यां योषितं प्रार्थयीत ||२६||

न निह्नवं सत्रगतस्य गच्छे; त्संसृष्टमन्त्रस्य कुसङ्गतस्य |

न च ब्रूयान्नाश्वसामि त्वयीति; सकारणं व्यपदेशं तु कुर्यात् ||२७||

घृणी राजा पुंश्चली राजभृत्यः; पुत्रो भ्राता विधवा बालपुत्रा |

सेनाजीवी चोद्धृतभक्त एव; व्यवहारे वै वर्जनीयाः स्युरेते ||२८||

गुणा दश स्नानशीलं भजन्ते; बलं रूपं स्वरवर्णप्रशुद्धिः |

स्पर्शश्च गन्धश्च विशुद्धता च; श्रीः सौकुमार्यं प्रवराश्च नार्यः ||२९||

गुणाश्च षण्मितभुक्तं भजन्ते; आरोग्यमायुश्च सुखं बलं च |

अनाविलं चास्य भवेदपत्यं; न चैनमाद्यून इति क्षिपन्ति ||३०||

अकर्मशीलं च महाशनं च; लोकद्विष्टं बहुमायं नृशंसम् |

अदेशकालज्ञमनिष्टवेष; मेतान्गृहे न प्रतिवासयीत ||३१||

कदर्यमाक्रोशकमश्रुतं च; वराकसम्भूतममान्यमानिनम् |

निष्ठूरिणं कृतवैरं कृतघ्न; मेतान्भृशार्तोऽपि न जातु याचेत् ||३२||

सङ्क्लिष्टकर्माणमतिप्रवादं; नित्यानृतं चादृढभक्तिकं च |

विकृष्टरागं बहुमानिनं चा; प्येतान्न सेवेत नराधमान्षट् ||३३||

सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः |

अन्योन्यबन्धनावेतौ विनान्योन्यं न सिध्यतः ||३४||

उत्पाद्य पुत्राननृणांश्च कृत्वा; वृत्तिं च तेभ्योऽनुविधाय काञ्चित् |

स्थाने कुमारीः प्रतिपाद्य सर्वा; अरण्यसंस्थो मुनिवद्बुभूषेत् ||३५||

हितं यत्सर्वभूतानामात्मनश्च सुखावहम् |

तत्कुर्यादीश्वरो ह्येतन्मूलं धर्मार्थसिद्धये ||३६||

बुद्धिः प्रभावस्तेजश्च सत्त्वमुत्थानमेव च |

व्यवसायश्च यस्य स्यात्तस्यावृत्तिभयं कुतः ||३७||

पश्य दोषान्पाण्डवैर्विग्रहे त्वं; यत्र व्यथेरन्नपि देवाः सशक्राः |

पुत्रैर्वैरं नित्यमुद्विग्नवासो; यशःप्रणाशो द्विषतां च हर्षः ||३८||

भीष्मस्य कोपस्तव चेन्द्रकल्प; द्रोणस्य राज्ञश्च युधिष्ठिरस्य |

उत्सादयेल्लोकमिमं प्रवृद्धः; श्वेतो ग्रहस्तिर्यगिवापतन्खे ||३९||

तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः |

पृथिवीमनुशासेयुरखिलां सागराम्बराम् ||४०||

धार्तराष्ट्रा वनं राजन्व्याघ्राः पाण्डुसुता मताः |

मा वनं छिन्धि सव्याघ्रं मा व्याघ्रान्नीनशो वनात् ||४१||

न स्याद्वनमृते व्याघ्रान्व्याघ्रा न स्युरृते वनम् |

वनं हि रक्ष्यते व्याघ्रैर्व्याघ्रान्रक्षति काननम् ||४२||

न तथेच्छन्त्यकल्याणाः परेषां वेदितुं गुणान् |

यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः ||४३||

अर्थसिद्धिं परामिच्छन्धर्ममेवादितश्चरेत् |

न हि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम् ||४४||

यस्यात्मा विरतः पापात्कल्याणे च निवेशितः |

तेन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या ||४५||

यो धर्ममर्थं कामं च यथाकालं निषेवते |

धर्मार्थकामसंयोगं सोऽमुत्रेह च विन्दति ||४६||

संनियच्छति यो वेगमुत्थितं क्रोधहर्षयोः |

स श्रियो भाजनं राजन्यश्चापत्सु न मुह्यति ||४७||

बलं पञ्चविधं नित्यं पुरुषाणां निबोध मे |

यत्तु बाहुबलं नाम कनिष्ठं बलमुच्यते ||४८||

अमात्यलाभो भद्रं ते द्वितीयं बलमुच्यते |

धनलाभस्तृतीयं तु बलमाहुर्जिगीषवः ||४९||

यत्त्वस्य सहजं राजन्पितृपैतामहं बलम् |

अभिजातबलं नाम तच्चतुर्थं बलं स्मृतम् ||५०||

येन त्वेतानि सर्वाणि सङ्गृहीतानि भारत |

यद्बलानां बलं श्रेष्ठं तत्प्रज्ञाबलमुच्यते ||५१||

महते योऽपकाराय नरस्य प्रभवेन्नरः |

तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत् ||५२||

स्त्रीषु राजसु सर्पेषु स्वाध्याये शत्रुसेविषु |

भोगे चायुषि विश्वासं कः प्राज्ञः कर्तुमर्हति ||५३||

प्रज्ञाशरेणाभिहतस्य जन्तो; श्चिकित्सकाः सन्ति न चौषधानि |

न होममन्त्रा न च मङ्गलानि; नाथर्वणा नाप्यगदाः सुसिद्धाः ||५४||

सर्पश्चाग्निश्च सिंहश्च कुलपुत्रश्च भारत |

नावज्ञेया मनुष्येण सर्वे ते ह्यतितेजसः ||५५||

अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु |

न चोपयुङ्क्ते तद्दारु यावन्नो दीप्यते परैः ||५६||

स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते |

तदा तच्च वनं चान्यन्निर्दहत्याशु तेजसा ||५७||

एवमेव कुले जाताः पावकोपमतेजसः |

क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ||५८||

लताधर्मा त्वं सपुत्रः शालाः पाण्डुसुता मताः |

न लता वर्धते जातु महाद्रुममनाश्रिता ||५९||

वनं राजंस्त्वं सपुत्रोऽम्बिकेय; सिंहान्वने पाण्डवांस्तात विद्धि |

सिंहैर्विहीनं हि वनं विनश्ये; त्सिंहा विनश्येयुरृते वनेन ||६०||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

038-अध्यायः

विदुर उवाच||

ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति |

प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ||१||

पीठं दत्त्वा साधवेऽभ्यागताय; आनीयापः परिनिर्णिज्य पादौ |

सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थं; ततो दद्यादन्नमवेक्ष्य धीरः ||२||

यस्योदकं मधुपर्कं च गां च; नमन्त्रवित्प्रतिगृह्णाति गेहे |

लोभाद्भयादर्थकार्पण्यतो वा; तस्यानर्थं जीवितमाहुरार्याः ||३||

चिकित्सकः शल्यकर्तावकीर्णी; स्तेनः क्रूरो मद्यपो भ्रूणहा च |

सेनाजीवी श्रुतिविक्रायकश्च; भृशं प्रियोऽप्यतिथिर्नोदकार्हः ||४||

अविक्रेयं लवणं पक्वमन्नं; दधि क्षीरं मधु तैलं घृतं च |

तिला मांसं मूलफलानि शाकं; रक्तं वासः सर्वगन्धा गुडश्च ||५||

अरोषणो यः समलोष्टकाञ्चनः; प्रहीणशोको गतसन्धिविग्रहः |

निन्दाप्रशंसोपरतः प्रियाप्रिये; चरन्नुदासीनवदेष भिक्षुकः ||६||

नीवारमूलेङ्गुदशाकवृत्तिः; सुसंयतात्माग्निकार्येष्वचोद्यः |

वने वसन्नतिथिष्वप्रमत्तो; धुरन्धरः पुण्यकृदेष तापसः ||७||

अपकृत्वा बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत् |

दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ||८||

न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् |

विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ||९||

अनीर्ष्युर्गुप्तदारः स्यात्संविभागी प्रियंवदः |

श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत् ||१०||

पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः |

स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशेषतः ||११||

पितुरन्तःपुरं दद्यान्मातुर्दद्यान्महानसम् |

गोषु चात्मसमं दद्यात्स्वयमेव कृषिं व्रजेत् ||१२||

भृत्यैर्वणिज्याचारं च पुत्रैः सेवेत ब्राह्मणान् ||१२||

अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् |

तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ||१३||

नित्यं सन्तः कुले जाताः पावकोपमतेजसः |

क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ||१४||

यस्य मन्त्रं न जानन्ति बाह्याश्चाभ्यन्तराश्च ये |

स राजा सर्वतश्चक्षुश्चिरमैश्वर्यमश्नुते ||१५||

करिष्यन्न प्रभाषेत कृतान्येव च दर्शयेत् |

धर्मकामार्थकार्याणि तथा मन्त्रो न भिद्यते ||१६||

गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः |

अरण्ये निःशलाके वा तत्र मन्त्रो विधीयते ||१७||

नासुहृत्परमं मन्त्रं भारतार्हति वेदितुम् |

अपण्डितो वापि सुहृत्पण्डितो वाप्यनात्मवान् ||१८||

अमात्ये ह्यर्थलिप्सा च मन्त्ररक्षणमेव च ||१८||

कृतानि सर्वकार्याणि यस्य वा पार्षदा विदुः |

गूढमन्त्रस्य नृपतेस्तस्य सिद्धिरसंशयम् ||१९||

अप्रशस्तानि कर्माणि यो मोहादनुतिष्ठति |

स तेषां विपरिभ्रंशे भ्रश्यते जीवितादपि ||२०||

कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम् |

तेषामेवाननुष्ठानं पश्चात्तापकरं महत् ||२१||

स्थानवृद्धिक्षयज्ञस्य षाड्गुण्यविदितात्मनः |

अनवज्ञातशीलस्य स्वाधीना पृथिवी नृप ||२२||

अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः |

आत्मप्रत्ययकोशस्य वसुधेयं वसुन्धरा ||२३||

नाममात्रेण तुष्येत छत्रेण च महीपतिः |

भृत्येभ्यो विसृजेदर्थान्नैकः सर्वहरो भवेत् ||२४||

ब्राह्मणो ब्राह्मणं वेद भर्ता वेद स्त्रियं तथा |

अमात्यं नृपतिर्वेद राजा राजानमेव च ||२५||

न शत्रुरङ्कमापन्नो मोक्तव्यो वध्यतां गतः |

अहताद्धि भयं तस्माज्जायते नचिरादिव ||२६||

दैवतेषु च यत्नेन राजसु ब्राह्मणेषु च |

नियन्तव्यः सदा क्रोधो वृद्धबालातुरेषु च ||२७||

निरर्थं कलहं प्राज्ञो वर्जयेन्मूढसेवितम् |

कीर्तिं च लभते लोके न चानर्थेन युज्यते ||२८||

प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः |

न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ||२९||

न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये |

लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः ||३०||

विद्याशीलवयोवृद्धान्बुद्धिवृद्धांश्च भारत |

धनाभिजनवृद्धांश्च नित्यं मूढोऽवमन्यते ||३१||

अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम् |

अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ||३२||

अविसंवादनं दानं समयस्याव्यतिक्रमः |

आवर्तयन्ति भूतानि सम्यक्प्रणिहिता च वाक् ||३३||

अविसंवादको दक्षः कृतज्ञो मतिमानृजुः |

अपि सङ्क्षीणकोशोऽपि लभते परिवारणम् ||३४||

धृतिः शमो दमः शौचं कारुण्यं वागनिष्ठुरा |

मित्राणां चानभिद्रोहः सप्तैताः समिधः श्रियः ||३५||

असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः |

तादृङ्नराधमो लोके वर्जनीयो नराधिप ||३६||

न स रात्रौ सुखं शेते ससर्प इव वेश्मनि |

यः कोपयति निर्दोषं सदोषोऽभ्यन्तरं जनम् ||३७||

येषु दुष्टेषु दोषः स्याद्योगक्षेमस्य भारत |

सदा प्रसादनं तेषां देवतानामिवाचरेत् ||३८||

येऽर्थाः स्त्रीषु समासक्ताः प्रथमोत्पतितेषु च |

ये चानार्यसमासक्ताः सर्वे ते संशयं गताः ||३९||

यत्र स्त्री यत्र कितवो यत्र बालोऽनुशास्ति च |

मज्जन्ति तेऽवशा देशा नद्यामश्मप्लवा इव ||४०||

प्रयोजनेषु ये सक्ता न विशेषेषु भारत |

तानहं पण्डितान्मन्ये विशेषा हि प्रसङ्गिनः ||४१||

यं प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः |

यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः ||४२||

हित्वा तान्परमेष्वासान्पाण्डवानमितौजसः |

आहितं भारतैश्वर्यं त्वया दुर्योधने महत् ||४३||

तं द्रक्ष्यसि परिभ्रष्टं तस्मात्त्वं नचिरादिव |

ऐश्वर्यमदसंमूढं बलिं लोकत्रयादिव ||४४||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

039-अध्यायः

धृतराष्ट्र उवाच||

अनीश्वरोऽयं पुरुषो भवाभवे; सूत्रप्रोता दारुमयीव योषा |

धात्रा तु दिष्टस्य वशे किलायं; तस्माद्वद त्वं श्रवणे धृतोऽहम् ||१||

विदुर उवाच||

अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् |

लभते बुद्ध्यवज्ञानमवमानं च भारत ||२||

प्रियो भवति दानेन प्रियवादेन चापरः |

मन्त्रं मूलबलेनान्यो यः प्रियः प्रिय एव सः ||३||

द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः |

प्रिये शुभानि कर्माणि द्वेष्ये पापानि भारत ||४||

न स क्षयो महाराज यः क्षयो वृद्धिमावहेत् |

क्षयः स त्विह मन्तव्यो यं लब्ध्वा बहु नाशयेत् ||५||

समृद्धा गुणतः केचिद्भवन्ति धनतोऽपरे |

धनवृद्धान्गुणैर्हीनान्धृतराष्ट्र विवर्जयेत् ||६||

धृतराष्ट्र उवाच||

सर्वं त्वमायतीयुक्तं भाषसे प्राज्ञसंमतम् |

न चोत्सहे सुतं त्यक्तुं यतो धर्मस्ततो जयः ||७||

विदुर उवाच||

स्वभावगुणसम्पन्नो न जातु विनयान्वितः |

सुसूक्ष्ममपि भूतानामुपमर्दं प्रयोक्ष्यते ||८||

परापवादनिरताः परदुःखोदयेषु च |

परस्परविरोधे च यतन्ते सततोत्थिताः ||९||

सदोषं दर्शनं येषां संवासे सुमहद्भयम् |

अर्थादाने महान्दोषः प्रदाने च महद्भयम् ||१०||

ये पापा इति विख्याताः संवासे परिगर्हिताः |

युक्ताश्चान्यैर्महादोषैर्ये नरास्तान्विवर्जयेत् ||११||

निवर्तमाने सौहार्दे प्रीतिर्नीचे प्रणश्यति |

या चैव फलनिर्वृत्तिः सौहृदे चैव यत्सुखम् ||१२||

यतते चापवादाय यत्नमारभते क्षये |

अल्पेऽप्यपकृते मोहान्न शान्तिमुपगच्छति ||१३||

तादृशैः सङ्गतं नीचैर्नृशंसैरकृतात्मभिः |

निशाम्य निपुणं बुद्ध्या विद्वान्दूराद्विवर्जयेत् ||१४||

यो ज्ञातिमनुगृह्णाति दरिद्रं दीनमातुरम् |

स पुत्रपशुभिर्वृद्धिं यशश्चाव्ययमश्नुते ||१५||

ज्ञातयो वर्धनीयास्तैर्य इच्छन्त्यात्मनः शुभम् |

कुलवृद्धिं च राजेन्द्र तस्मात्साधु समाचर ||१६||

श्रेयसा योक्ष्यसे राजन्कुर्वाणो ज्ञातिसत्क्रियाम् |

विगुणा ह्यपि संरक्ष्या ज्ञातयो भरतर्षभ ||१७||

किं पुनर्गुणवन्तस्ते त्वत्प्रसादाभिकाङ्क्षिणः |

प्रसादं कुरु दीनानां पाण्डवानां विशां पते ||१८||

दीयन्तां ग्रामकाः केचित्तेषां वृत्त्यर्थमीश्वर |

एवं लोके यशःप्राप्तो भविष्यसि नराधिप ||१९||

वृद्धेन हि त्वया कार्यं पुत्राणां तात रक्षणम् |

मया चापि हितं वाच्यं विद्धि मां त्वद्धितैषिणम् ||२०||

ज्ञातिभिर्विग्रहस्तात न कर्तव्यो भवार्थिना |

सुखानि सह भोज्यानि ज्ञातिभिर्भरतर्षभ ||२१||

सम्भोजनं सङ्कथनं सम्प्रीतिश्च परस्परम् |

ज्ञातिभिः सह कार्याणि न विरोधः कथञ्चन ||२२||

ज्ञातयस्तारयन्तीह ज्ञातयो मज्जयन्ति च |

सुवृत्तास्तारयन्तीह दुर्वृत्ता मज्जयन्ति च ||२३||

सुवृत्तो भव राजेन्द्र पाण्डवान्प्रति मानद |

अधर्षणीयः शत्रूणां तैर्वृतस्त्वं भविष्यसि ||२४||

श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति |

दिग्धहस्तं मृग इव स एनस्तस्य विन्दति ||२५||

पश्चादपि नरश्रेष्ठ तव तापो भविष्यति |

तान्वा हतान्सुतान्वापि श्रुत्वा तदनुचिन्तय ||२६||

येन खट्वां समारूढः परितप्येत कर्मणा |

आदावेव न तत्कुर्यादध्रुवे जीविते सति ||२७||

न कश्चिन्नापनयते पुमानन्यत्र भार्गवात् |

शेषसम्प्रतिपत्तिस्तु बुद्धिमत्स्वेव तिष्ठति ||२८||

दुर्योधनेन यद्येतत्पापं तेषु पुरा कृतम् |

त्वया तत्कुलवृद्धेन प्रत्यानेयं नरेश्वर ||२९||

तांस्त्वं पदे प्रतिष्ठाप्य लोके विगतकल्मषः |

भविष्यसि नरश्रेष्ठ पूजनीयो मनीषिणाम् ||३०||

सुव्याहृतानि धीराणां फलतः प्रविचिन्त्य यः |

अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति ||३१||

अवृत्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः |

हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् ||३२||

परिच्छदेन क्षेत्रेण वेश्मना परिचर्यया |

परीक्षेत कुलं राजन्भोजनाच्छादनेन च ||३३||

ययोश्चित्तेन वा चित्तं नैभृतं नैभृतेन वा |

समेति प्रज्ञया प्रज्ञा तयोर्मैत्री न जीर्यते ||३४||

दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव |

विवर्जयीत मेधावी तस्मिन्मैत्री प्रणश्यति ||३५||

अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च |

तथैवापेतधर्मेषु न मैत्रीमाचरेद्बुधः ||३६||

कृतज्ञं धार्मिकं सत्यमक्षुद्रं दृढभक्तिकम् |

जितेन्द्रियं स्थितं स्थित्यां मित्रमत्यागि चेष्यते ||३७||

इन्द्रियाणामनुत्सर्गो मृत्युना न विशिष्यते |

अत्यर्थं पुनरुत्सर्गः सादयेद्दैवतान्यपि ||३८||

मार्दवं सर्वभूतानामनसूया क्षमा धृतिः |

आयुष्याणि बुधाः प्राहुर्मित्राणां चाविमानना ||३९||

अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीषते |

मतिमास्थाय सुदृढां तदकापुरुषव्रतम् ||४०||

आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः |

अतीते कार्यशेषज्ञो नरोऽर्थैर्न प्रहीयते ||४१||

कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते |

तदेवापहरत्येनं तस्मात्कल्याणमाचरेत् ||४२||

मङ्गलालम्भनं योगः श्रुतमुत्थानमार्जवम् |

भूतिमेतानि कुर्वन्ति सतां चाभीक्ष्णदर्शनम् ||४३||

अनिर्वेदः श्रियो मूलं दुःखनाशे सुखस्य च |

महान्भवत्यनिर्विण्णः सुखं चात्यन्तमश्नुते ||४४||

नातः श्रीमत्तरं किञ्चिदन्यत्पथ्यतमं तथा |

प्रभविष्णोर्यथा तात क्षमा सर्वत्र सर्वदा ||४५||

क्षमेदशक्तः सर्वस्य शक्तिमान्धर्मकारणात् |

अर्थानर्थौ समौ यस्य तस्य नित्यं क्षमा हिता ||४६||

यत्सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते |

कामं तदुपसेवेत न मूढव्रतमाचरेत् ||४७||

दुःखार्तेषु प्रमत्तेषु नास्तिकेष्वलसेषु च |

न श्रीर्वसत्यदान्तेषु ये चोत्साहविवर्जिताः ||४८||

आर्जवेन नरं युक्तमार्जवात्सव्यपत्रपम् |

अशक्तिमन्तं मन्यन्तो धर्षयन्ति कुबुद्धयः ||४९||

अत्यार्यमतिदातारमतिशूरमतिव्रतम् |

प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति ||५०||

अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् |

रतिपुत्रफला दारा दत्तभुक्तफलं धनम् ||५१||

अधर्मोपार्जितैरर्थैर्यः करोत्यौर्ध्वदेहिकम् |

न स तस्य फलं प्रेत्य भुङ्क्तेऽर्थस्य दुरागमात् ||५२||

कान्तारवनदुर्गेषु कृच्छ्रास्वापत्सु सम्भ्रमे |

उद्यतेषु च शस्त्रेषु नास्ति शेषवतां भयम् ||५३||

उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः |

समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तत् ||५४||

तपो बलं तापसानां ब्रह्म ब्रह्मविदां बलम् |

हिंसा बलमसाधूनां क्षमा गुणवतां बलम् ||५५||

अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः |

हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम् ||५६||

न तत्परस्य संदध्यात्प्रतिकूलं यदात्मनः |

सङ्ग्रहेणैष धर्मः स्यात्कामादन्यः प्रवर्तते ||५७||

अक्रोधेन जयेत्क्रोधमसाधुं साधुना जयेत् |

जयेत्कदर्यं दानेन जयेत्सत्येन चानृतम् ||५८||

स्त्रीधूर्तकेऽलसे भीरौ चण्डे पुरुषमानिनि |

चौरे कृतघ्ने विश्वासो न कार्यो न च नास्तिके ||५९||

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः |

चत्वारि सम्प्रवर्धन्ते कीर्तिरायुर्यशोबलम् ||६०||

अतिक्लेशेन येऽर्थाः स्युर्धर्मस्यातिक्रमेण च |

अरेर्वा प्रणिपातेन मा स्म तेषु मनः कृथाः ||६१||

अविद्यः पुरुषः शोच्यः शोच्यं मिथुनमप्रजम् |

निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकम् ||६२||

अध्वा जरा देहवतां पर्वतानां जलं जरा |

असम्भोगो जरा स्त्रीणां वाक्षल्यं मनसो जरा ||६३||

अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् |

कौतूहलमला साध्वी विप्रवासमलाः स्त्रियः ||६४||

सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु |

ज्ञेयं त्रपुमलं सीसं सीसस्यापि मलं मलम् ||६५||

न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत् |

नेन्धनेन जयेदग्निं न पानेन सुरां जयेत् ||६६||

यस्य दानजितं मित्रममित्रा युधि निर्जिताः |

अन्नपानजिता दाराः सफलं तस्य जीवितम् ||६७||

सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा |

धृतराष्ट्रं विमुञ्चेच्छां न कथञ्चिन्न जीव्यते ||६८||

यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः |

नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति ||६९||

राजन्भूयो ब्रवीमि त्वां पुत्रेषु सममाचर |

समता यदि ते राजन्स्वेषु पाण्डुसुतेषु च ||७०||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

040-अध्यायः

विदुर उवाच||

योऽभ्यर्थितः सद्भिरसज्जमानः; करोत्यर्थं शक्तिमहापयित्वा |

क्षिप्रं यशस्तं समुपैति सन्तमलं; प्रसन्ना हि सुखाय सन्तः ||१||

महान्तमप्यर्थमधर्मयुक्तं; यः सन्त्यजत्यनुपाक्रुष्ट एव |

सुखं स दुःखान्यवमुच्य शेते; जीर्णां त्वचं सर्प इवावमुच्य ||२||

अनृतं च समुत्कर्षे राजगामि च पैशुनम् |

गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ||३||

असूयैकपदं मृत्युरतिवादः श्रियो वधः |

अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः ||४||

सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम् |

सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा सुखं त्यजेत् ||५||

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः |

नान्तकः सर्वभूतानां न पुंसां वामलोचना ||६||

आशा धृतिं हन्ति समृद्धिमन्तकः; क्रोधः श्रियं हन्ति यशः कदर्यता |

अपालनं हन्ति पशूंश्च राज; न्नेकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम् ||७||

अजश्च कांस्यं च रथश्च नित्यं; मध्वाकर्षः शकुनिः श्रोत्रियश्च |

वृद्धो ज्ञातिरवसन्नो वयस्य; एतानि ते सन्तु गृहे सदैव ||८||

अजोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी |

विषमौदुम्बरं शङ्खः स्वर्णं नाभिश्च रोचना ||९||

गृहे स्थापयितव्यानि धन्यानि मनुरब्रवीत् |

देवब्राह्मणपूजार्थमतिथीनां च भारत ||१०||

इदं च त्वां सर्वपरं ब्रवीमि; पुण्यं पदं तात महाविशिष्टम् |

न जातु कामान्न भयान्न लोभा; द्धर्मं त्यजेज्जीवितस्यापि हेतोः ||११||

नित्यो धर्मः सुखदुःखे त्वनित्ये; नित्यो जीवो धातुरस्य त्वनित्यः |

त्यक्त्वानित्यं प्रतितिष्ठस्व नित्ये; सन्तुष्य त्वं तोषपरो हि लाभः ||१२||

महाबलान्पश्य महानुभावा; न्प्रशास्य भूमिं धनधान्यपूर्णाम् |

राज्यानि हित्वा विपुलांश्च भोगा; न्गतान्नरेन्द्रान्वशमन्तकस्य ||१३||

मृतं पुत्रं दुःखपुष्टं मनुष्या; उत्क्षिप्य राजन्स्वगृहान्निर्हरन्ति |

तं मुक्तकेशाः करुणं रुदन्त; श्चितामध्ये काष्ठमिव क्षिपन्ति ||१४||

अन्यो धनं प्रेतगतस्य भुङ्क्ते; वयांसि चाग्निश्च शरीरधातून् |

द्वाभ्यामयं सह गच्छत्यमुत्र; पुण्येन पापेन च वेष्ट्यमानः ||१५||

उत्सृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः |

अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयङ्कृतम् ||१६||

अस्माल्लोकादूर्ध्वममुष्य चाधो; महत्तमस्तिष्ठति ह्यन्धकारम् |

तद्वै महामोहनमिन्द्रियाणां; बुध्यस्व मा त्वां प्रलभेत राजन् ||१७||

इदं वचः शक्ष्यसि चेद्यथाव; न्निशम्य सर्वं प्रतिपत्तुमेवम् |

यशः परं प्राप्स्यसि जीवलोके; भयं न चामुत्र न चेह तेऽस्ति ||१८||

आत्मा नदी भारत पुण्यतीर्था; सत्योदका धृतिकूला दमोर्मिः |

तस्यां स्नातः पूयते पुण्यकर्मा; पुण्यो ह्यात्मा नित्यमम्भोऽम्भ एव ||१९||

कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम् |

कृत्वा धृतिमयीं नावं जन्मदुर्गाणि सन्तर ||२०||

प्रज्ञावृद्धं धर्मवृद्धं स्वबन्धुं; विद्यावृद्धं वयसा चापि वृद्धम् |

कार्याकार्ये पूजयित्वा प्रसाद्य; यः सम्पृच्छेन्न स मुह्येत्कदाचित् ||२१||

धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा |

चक्षुःश्रोत्रे च मनसा मनो वाचं च कर्मणा ||२२||

नित्योदकी नित्ययज्ञोपवीती; नित्यस्वाध्यायी पतितान्नवर्जी |

ऋतं ब्रुवन्गुरवे कर्म कुर्व; न्न ब्राह्मणश्च्यवते ब्रह्मलोकात् ||२३||

अधीत्य वेदान्परिसंस्तीर्य चाग्नी; निष्ट्वा यज्ञैः पालयित्वा प्रजाश्च |

गोब्राह्मणार्थे शस्त्रपूतान्तरात्मा; हतः सङ्ग्रामे क्षत्रियः स्वर्गमेति ||२४||

वैश्योऽधीत्य ब्राह्मणान्क्षत्रियांश्च; धनैः काले संविभज्याश्रितांश्च |

त्रेतापूतं धूममाघ्राय पुण्यं; प्रेत्य स्वर्गे देवसुखानि भुङ्क्ते ||२५||

ब्रह्मक्षत्रं वैश्यवर्णं च शूद्रः; क्रमेणैतान्न्यायतः पूजयानः |

तुष्टेष्वेतेष्वव्यथो दग्धपाप; स्त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते ||२६||

चातुर्वर्ण्यस्यैष धर्मस्तवोक्तो; हेतुं चात्र ब्रुवतो मे निबोध |

क्षात्राद्धर्माद्धीयते पाण्डुपुत्र; स्तं त्वं राजन्राजधर्मे नियुङ्क्ष्व ||२७||

धृतराष्ट्र उवाच||

एवमेतद्यथा मां त्वमनुशाससि नित्यदा |

ममापि च मतिः सौम्य भवत्येवं यथात्थ माम् ||२८||

सा तु बुद्धिः कृताप्येवं पाण्डवान्प्रति मे सदा |

दुर्योधनं समासाद्य पुनर्विपरिवर्तते ||२९||

न दिष्टमभ्यतिक्रान्तुं शक्यं मर्त्येन केनचित् |

दिष्टमेव कृतं मन्ये पौरुषं तु निरर्थकम् ||३०||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

041-अध्यायः

धृतराष्ट्र उवाच||

अनुक्तं यदि ते किञ्चिद्वाचा विदुर विद्यते |

तन्मे शुश्रूषवे ब्रूहि विचित्राणि हि भाषसे ||१||

विदुर उवाच||

धृतराष्ट्र कुमारो वै यः पुराणः सनातनः |

सनत्सुजातः प्रोवाच मृत्युर्नास्तीति भारत ||२||

स ते गुह्यान्प्रकाशांश्च सर्वान्हृदयसंश्रयान् |

प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः ||३||

धृतराष्ट्र उवाच||

किं त्वं न वेद तद्भूयो यन्मे ब्रूयात्सनातनः |

त्वमेव विदुर ब्रूहि प्रज्ञाशेषोऽस्ति चेत्तव ||४||

विदुर उवाच||

शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे |

कुमारस्य तु या बुद्धिर्वेद तां शाश्वतीमहम् ||५||

ब्राह्मीं हि योनिमापन्नः सुगुह्यमपि यो वदेत् |

न तेन गर्ह्यो देवानां तस्मादेतद्ब्रवीमि ते ||६||

धृतराष्ट्र उवाच||

ब्रवीहि विदुर त्वं मे पुराणं तं सनातनम् |

कथमेतेन देहेन स्यादिहैव समागमः ||७||

वैशम्पायन उवाच||

चिन्तयामास विदुरस्तमृषिं संशितव्रतम् |

स च तच्चिन्तितं ज्ञात्वा दर्शयामास भारत ||८||

स चैनं प्रतिजग्राह विधिदृष्टेन कर्मणा |

सुखोपविष्टं विश्रान्तमथैनं विदुरोऽब्रवीत् ||९||

भगवन्संशयः कश्चिद्धृतराष्ट्रस्य मानसे |

यो न शक्यो मया वक्तुं तमस्मै वक्तुमर्हसि ||१०||

यं श्रुत्वायं मनुष्येन्द्रः सुखदुःखातिगो भवेत् ||१०||

लाभालाभौ प्रियद्वेष्यौ यथैनं न जरान्तकौ |

विषहेरन्भयामर्षौ क्षुत्पिपासे मदोद्भवौ ||११||

अरतिश्चैव तन्द्री च कामक्रोधौ क्षयोदयौ ||११||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

042-अध्यायः-सनत्सुजातपर्व

वैशम्पायन उवाच||

ततो राजा धृतराष्ट्रो मनीषी; सम्पूज्य वाक्यं विदुरेरितं तत् |

सनत्सुजातं रहिते महात्मा; पप्रच्छ बुद्धिं परमां बुभूषन् ||१||

धृतराष्ट्र उवाच||

सनत्सुजात यदीदं शृणोमि; मृत्युर्हि नास्तीति तवोपदेशम् |

देवासुरा ह्याचरन्ब्रह्मचर्य; ममृत्यवे तत्कतरन्नु सत्यम् ||२||

सनत्सुजात उवाच||

अमृत्युः कर्मणा केचिन्मृत्युर्नास्तीति चापरे |

शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः ||३||

उभे सत्ये क्षत्रियाद्यप्रवृत्ते; मोहो मृत्युः संमतो यः कवीनाम् |

प्रमादं वै मृत्युमहं ब्रवीमि; सदाप्रमादममृतत्वं ब्रवीमि ||४||

प्रमादाद्वै असुराः पराभव; न्नप्रमादाद्ब्रह्मभूता भवन्ति |

न वै मृत्युर्व्याघ्र इवात्ति जन्तू; न्न ह्यस्य रूपमुपलभ्यते ह ||५||

यमं त्वेके मृत्युमतोऽन्यमाहु; रात्मावसन्नममृतं ब्रह्मचर्यम् |

पितृलोके राज्यमनुशास्ति देवः; शिवः शिवानामशिवोऽशिवानाम् ||६||

आस्यादेष निःसरते नराणां; क्रोधः प्रमादो मोहरूपश्च मृत्युः |

ते मोहितास्तद्वशे वर्तमाना; इतः प्रेतास्तत्र पुनः पतन्ति ||७||

ततस्तं देवा अनु विप्लवन्ते; अतो मृत्युर्मरणाख्यामुपैति |

कर्मोदये कर्मफलानुरागा; स्तत्रानु यान्ति न तरन्ति मृत्युम् ||८||

योऽभिध्यायन्नुत्पतिष्णून्निहन्या; दनादरेणाप्रतिबुध्यमानः |

स वै मृत्युर्मृत्युरिवात्ति भूत्वा; एवं विद्वान्यो विनिहन्ति कामान् ||९||

कामानुसारी पुरुषः कामाननु विनश्यति |

कामान्व्युदस्य धुनुते यत्किञ्चित्पुरुषो रजः ||१०||

तमोऽप्रकाशो भूतानां नरकोऽयं प्रदृश्यते |

गृह्यन्त इव धावन्ति गच्छन्तः श्वभ्रमुन्मुखाः ||११||

अभिध्या वै प्रथमं हन्ति चैनं; कामक्रोधौ गृह्य चैनं तु पश्चात् |

एते बालान्मृत्यवे प्रापयन्ति; धीरास्तु धैर्येण तरन्ति मृत्युम् ||१२||

अमन्यमानः क्षत्रिय किञ्चिदन्य; न्नाधीयते तार्ण इवास्य व्याघ्रः |

क्रोधाल्लोभान्मोहमयान्तरात्मा; स वै मृत्युस्त्वच्छरीरे य एषः ||१३||

एवं मृत्युं जायमानं विदित्वा; ज्ञाने तिष्ठन्न बिभेतीह मृत्योः |

विनश्यते विषये तस्य मृत्यु; र्मृत्योर्यथा विषयं प्राप्य मर्त्यः ||१४||

धृतराष्ट्र उवाच||

येऽस्मिन्धर्मान्नाचरन्तीह के चि; त्तथा धर्मान्केचिदिहाचरन्ति |

धर्मः पापेन प्रतिहन्यते स्म; उताहो धर्मः प्रतिहन्ति पापम् ||१५||

सनत्सुजात उवाच||

उभयमेव तत्रोपभुज्यते फलं; धर्मस्यैवेतरस्य च |

धर्मेणाधर्मं प्रणुदतीह विद्वा; न्धर्मो बलीयानिति तस्य विद्धि ||१६||

धृतराष्ट्र उवाच||

यानिमानाहुः स्वस्य धर्मस्य लोका; न्द्विजातीनां पुण्यकृतां सनातनान् |

तेषां परिक्रमान्कथयन्तस्ततोऽन्या; न्नैतद्विद्वन्नैव कृतं च कर्म ||१७||

सनत्सुजात उवाच||

येषां बले न विस्पर्धा बले बलवतामिव |

ते ब्राह्मणा इतः प्रेत्य स्वर्गलोके प्रकाशते ||१८||

यत्र मन्येत भूयिष्ठं प्रावृषीव तृणोलपम् |

अन्नं पानं च ब्राह्मणस्तज्जीवन्नानुसञ्ज्वरेत् ||१९||

यत्राकथयमानस्य प्रयच्छत्यशिवं भयम् |

अतिरिक्तमिवाकुर्वन्स श्रेयान्नेतरो जनः ||२०||

यो वाकथयमानस्य आत्मानं नानुसञ्ज्वरेत् |

ब्रह्मस्वं नोपभुञ्जेद्वा तदन्नं संमतं सताम् ||२१||

यथा स्वं वान्तमश्नाति श्वा वै नित्यमभूतये |

एवं ते वान्तमश्नन्ति स्ववीर्यस्योपजीवनात् ||२२||

नित्यमज्ञातचर्या मे इति मन्येत ब्राह्मणः |

ज्ञातीनां तु वसन्मध्ये नैव विद्येत किञ्चन ||२३||

को ह्येवमन्तरात्मानं ब्राह्मणो हन्तुमर्हति |

तस्माद्धि किञ्चित्क्षत्रिय ब्रह्मावसति पश्यति ||२४||

अश्रान्तः स्यादनादानात्संमतो निरुपद्रवः |

शिष्टो न शिष्टवत्स स्याद्ब्राह्मणो ब्रह्मवित्कविः ||२५||

अनाढ्या मानुषे वित्ते आढ्या वेदेषु ये द्विजाः |

ते दुर्धर्षा दुष्प्रकम्प्या विद्यात्तान्ब्रह्मणस्तनुम् ||२६||

सर्वान्स्विष्टकृतो देवान्विद्याद्य इह कश्चन |

न समानो ब्राह्मणस्य यस्मिन्प्रयतते स्वयम् ||२७||

यमप्रयतमानं तु मानयन्ति स मानितः |

न मान्यमानो मन्येत नामानादभिसञ्ज्वरेत् ||२८||

विद्वांसो मानयन्तीह इति मन्येत मानितः |

अधर्मविदुषो मूढा लोकशास्त्रविशारदाः ||२९||

न मान्यं मानयिष्यन्ति इति मन्येदमानितः ||२९||

न वै मानं च मौनं च सहितौ चरतः सदा |

अयं हि लोको मानस्य असौ मानस्य तद्विदुः ||३०||

श्रीः सुखस्येह संवासः सा चापि परिपन्थिनी |

ब्राह्मी सुदुर्लभा श्रीर्हि प्रज्ञाहीनेन क्षत्रिय ||३१||

द्वाराणि तस्या हि वदन्ति सन्तो; बहुप्रकाराणि दुरावराणि |

सत्यार्जवे ह्रीर्दमशौचविद्याः; षण्मानमोहप्रतिबाधनानि ||३२||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

043-अध्यायः

धृतराष्ट्र उवाच||

ऋचो यजूंष्यधीते यः सामवेदं च यो द्विजः |

पापानि कुर्वन्पापेन लिप्यते न स लिप्यते ||१||

सनत्सुजात उवाच||

नैनं सामान्यृचो वापि न यजूंषि विचक्षण |

त्रायन्ते कर्मणः पापान्न ते मिथ्या ब्रवीम्यहम् ||२||

न छन्दांसि वृजिनात्तारयन्ति; मायाविनं मायया वर्तमानम् |

नीडं शकुन्ता इव जातपक्षा; श्छन्दांस्येनं प्रजहत्यन्तकाले ||३||

धृतराष्ट्र उवाच||

न चेद्वेदा वेदविदं शक्तास्त्रातुं विचक्षण |

अथ कस्मात्प्रलापोऽयं ब्राह्मणानां सनातनः ||४||

सनत्सुजात उवाच||

अस्मिँल्लोके तपस्तप्तं फलमन्यत्र दृश्यते |

ब्राह्मणानामिमे लोका ऋद्धे तपसि संयताः ||५||

धृतराष्ट्र उवाच||

कथं समृद्धमप्यृद्धं तपो भवति केवलम् |

सनत्सुजात तद्ब्रूहि यथा विद्याम तद्वयम् ||६||

सनत्सुजात उवाच||

क्रोधादयो द्वादश यस्य दोषा; स्तथा नृशंसादि षडत्र राजन् |

धर्मादयो द्वादश चाततानाः; शास्त्रे गुणा ये विदिता द्विजानाम् ||७||

क्रोधः कामो लोभमोहौ विवित्सा; कृपासूया मानशोकौ स्पृहा च |

ईर्ष्या जुगुप्सा च मनुष्यदोषा; वर्ज्याः सदा द्वादशैते नरेण ||८||

एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते |

लिप्समानोऽन्तरं तेषां मृगाणामिव लुब्धकः ||९||

विकत्थनः स्पृहयालुर्मनस्वी; बिभ्रत्कोपं चपलोऽरक्षणश्च |

एते प्राप्ताः षण्नरान्पापधर्मा; न्प्रकुर्वते नोत सन्तः सुदुर्गे ||१०||

सम्भोगसंविद्द्विषमेधमानो; दत्तानुतापी कृपणोऽबलीयान् |

वर्गप्रशंसी वनितासु द्वेष्टा; एतेऽपरे सप्त नृशंसधर्माः ||११||

धर्मश्च सत्यं च दमस्तपश्च; अमात्सर्यं ह्रीस्तितिक्षानसूया |

यज्ञश्च दानं च धृतिः श्रुतं च; महाव्रता द्वादश ब्राह्मणस्य ||१२||

यस्त्वेतेभ्यः प्रवसेद्द्वादशेभ्यः; सर्वामपीमां पृथिवीं प्रशिष्यात् |

त्रिभिर्द्वाभ्यामेकतो वा विशिष्टो; नास्य स्वमस्तीति स वेदितव्यः ||१३||

दमस्त्यागोऽप्रमादश्च एतेष्वमृतमाहितम् |

तानि सत्यमुखान्याहुर्ब्राह्मणा ये मनीषिणः ||१४||

दमोऽष्टादशदोषः स्यात्प्रतिकूलं कृताकृते |

अनृतं चाभ्यसूया च कामार्थौ च तथा स्पृहा ||१५||

क्रोधः शोकस्तथा तृष्णा लोभः पैशुन्यमेव च |

मत्सरश्च विवित्सा च परितापस्तथा रतिः ||१६||

अपस्मारः सातिवादस्तथा सम्भावनात्मनि |

एतैर्विमुक्तो दोषैर्यः स दमः सद्भिरुच्यते ||१७||

श्रेयांस्तु षड्विधस्त्यागः प्रियं प्राप्य न हृष्यति |

अप्रिये तु समुत्पन्ने व्यथां जातु न चार्च्छति ||१८||

इष्टान्दारांश्च पुत्रांश्च न चान्यं यद्वचो भवेत् |

अर्हते याचमानाय प्रदेयं तद्वचो भवेत् ||१९||

अप्यवाच्यं वदत्येव स तृतीयो गुणः स्मृतः ||१९||

त्यक्तैर्द्रव्यैर्यो भवति नोपयुङ्क्ते च कामतः |

न च कर्मसु तद्धीनः शिष्यबुद्धिर्नरो यथा ||२०||

सर्वैरेव गुणैर्युक्तो द्रव्यवानपि यो भवेत् ||२०||

अप्रमादोऽष्टदोषः स्यात्तान्दोषान्परिवर्जयेत् |

इन्द्रियेभ्यश्च पञ्चभ्यो मनसश्चैव भारत ||२१||

अतीतानागतेभ्यश्च मुक्तो ह्येतैः सुखी भवेत् ||२१||

दोषैरेतैर्विमुक्तं तु गुणैरेतैः समन्वितम् |

एतत्समृद्धमप्यृद्धं तपो भवति केवलम् ||२२||

यन्मां पृच्छसि राजेन्द्र किं भूयः श्रोतुमिच्छसि ||२२||

धृतराष्ट्र उवाच||

आख्यानपञ्चमैर्वेदैर्भूयिष्ठं कथ्यते जनः |

तथैवान्ये चतुर्वेदास्त्रिवेदाश्च तथापरे ||२३||

द्विवेदाश्चैकवेदाश्च अनृचश्च तथापरे |

तेषां तु कतमः स स्याद्यमहं वेद ब्राह्मणम् ||२४||

सनत्सुजात उवाच||

एकस्य वेदस्याज्ञानाद्वेदास्ते बहवोऽभवन् |

सत्यस्यैकस्य राजेन्द्र सत्ये कश्चिदवस्थितः ||२५||

एवं वेदमनुत्साद्य प्रज्ञां महति कुर्वते ||२५||

दानमध्ययनं यज्ञो लोभादेतत्प्रवर्तते |

सत्यात्प्रच्यवमानानां सङ्कल्पो वितथो भवेत् ||२६||

ततो यज्ञः प्रतायेत सत्यस्यैवावधारणात् |

मनसान्यस्य भवति वाचान्यस्योत कर्मणा ||२७||

सङ्कल्पसिद्धः पुरुषः सङ्कल्पानधितिष्ठति ||२७||

अनैभृत्येन वै तस्य दीक्षितव्रतमाचरेत् |

नामैतद्धातुनिर्वृत्तं सत्यमेव सतां परम् ||२८||

ज्ञानं वै नाम प्रत्यक्षं परोक्षं जायते तपः ||२८||

विद्याद्बहु पठन्तं तु बहुपाठीति ब्राह्मणम् |

तस्मात्क्षत्रिय मा मंस्था जल्पितेनैव ब्राह्मणम् ||२९||

य एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया ||२९||

छन्दांसि नाम क्षत्रिय तान्यथर्वा; जगौ पुरस्तादृषिसर्ग एषः |

छन्दोविदस्ते य उ तानधीत्य; न वेद्यवेदस्य विदुर्न वेद्यम् ||३०||

न वेदानां वेदिता कश्चिदस्ति; कश्चिद्वेदान्बुध्यते वापि राजन् |

यो वेद वेदान्न स वेद वेद्यं; सत्ये स्थितो यस्तु स वेद वेद्यम् ||३१||

अभिजानामि ब्राह्मणमाख्यातारं विचक्षणम् |

यश्छिन्नविचिकित्सः सन्नाचष्टे सर्वसंशयान् ||३२||

तस्य पर्येषणं गच्छेत्प्राचीनं नोत दक्षिणम् |

नार्वाचीनं कुतस्तिर्यङ्नादिशं तु कथञ्चन ||३३||

तूष्णीम्भूत उपासीत न चेष्टेन्मनसा अपि |

अभ्यावर्तेत ब्रह्मास्य अन्तरात्मनि वै श्रितम् ||३४||

मौनाद्धि स मुनिर्भवति नारण्यवसनान्मुनिः |

अक्षरं तत्तु यो वेद स मुनिः श्रेष्ठ उच्यते ||३५||

सर्वार्थानां व्याकरणाद्वैयाकरण उच्यते |

प्रत्यक्षदर्शी लोकानां सर्वदर्शी भवेन्नरः ||३६||

सत्ये वै ब्राह्मणस्तिष्ठन्ब्रह्म पश्यति क्षत्रिय |

वेदानां चानुपूर्व्येण एतद्विद्वन्ब्रवीमि ते ||३७||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

044-अध्यायः

धृतराष्ट्र उवाच||

सनत्सुजात यदिमां परार्थां; ब्राह्मीं वाचं प्रवदसि विश्वरूपाम् |

परां हि कामेषु सुदुर्लभां कथां; तद्ब्रूहि मे वाक्यमेतत्कुमार ||१||

सनत्सुजात उवाच||

नैतद्ब्रह्म त्वरमाणेन लभ्यं; यन्मां पृच्छस्यभिहृष्यस्यतीव |

अव्यक्तविद्यामभिधास्ये पुराणीं; बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम् ||२||

धृतराष्ट्र उवाच||

अव्यक्तविद्यामिति यत्सनातनीं; ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम् |

अनारभ्या वसतीहार्य काले; कथं ब्राह्मण्यममृतत्वं लभेत ||३||

सनत्सुजात उवाच||

येऽस्मिँल्लोके विजयन्तीह कामा; न्ब्राह्मीं स्थितिमनुतितिक्षमाणाः |

त आत्मानं निर्हरन्तीह देहा; न्मुञ्जादिषीकामिव सत्त्वसंस्थाः ||४||

शरीरमेतौ कुरुतः पिता माता च भारत |

आचार्यशास्ता या जातिः सा सत्या साजरामरा ||५||

आचार्ययोनिमिह ये प्रविश्य; भूत्वा गर्भं ब्रह्मचर्यं चरन्ति |

इहैव ते शास्त्रकारा भवन्ति; प्रहाय देहं परमं यान्ति योगम् ||६||

य आवृणोत्यवितथेन कर्णा; वृतं कुर्वन्नमृतं सम्प्रयच्छन् |

तं मन्येत पितरं मातरं च; तस्मै न द्रुह्येत्कृतमस्य जानन् ||७||

गुरुं शिष्यो नित्यमभिमन्यमानः; स्वाध्यायमिच्छेच्छुचिरप्रमत्तः |

मानं न कुर्यान्न दधीत रोष; मेष प्रथमो ब्रह्मचर्यस्य पादः ||८||

आचार्यस्य प्रियं कुर्यात्प्राणैरपि धनैरपि |

कर्मणा मनसा वाचा द्वितीयः पाद उच्यते ||९||

समा गुरौ यथा वृत्तिर्गुरुपत्न्यां तथा भवेत् |

यथोक्तकारी प्रियकृत्तृतीयः पाद उच्यते ||१०||

नाचार्यायेहोपकृत्वा प्रवादं; प्राज्ञः कुर्वीत नैतदहं करोमि |

इतीव मन्येत न भाषयेत; स वै चतुर्थो ब्रह्मचर्यस्य पादः ||११||

एवं वसन्तं यदुपप्लवेद्धन; माचार्याय तदनुप्रयच्छेत् |

सतां वृत्तिं बहुगुणामेवमेति; गुरोः पुत्रे भवति च वृत्तिरेषा ||१२||

एवं वसन्सर्वतो वर्धतीह; बहून्पुत्राँल्लभते च प्रतिष्ठाम् |

वर्षन्ति चास्मै प्रदिशो दिशश्च; वसन्त्यस्मिन्ब्रह्मचर्ये जनाश्च ||१३||

एतेन ब्रह्मचर्येण देवा देवत्वमाप्नुवन् |

ऋषयश्च महाभागा ब्रह्मलोकं मनीषिणः ||१४||

गन्धर्वाणामनेनैव रूपमप्सरसामभूत् |

एतेन ब्रह्मचर्येण सूर्यो अह्नाय जायते ||१५||

य आशयेत्पाटयेच्चापि राज; न्सर्वं शरीरं तपसा तप्यमानः |

एतेनासौ बाल्यमत्येति विद्वा; न्मृत्युं तथा रोधयत्यन्तकाले ||१६||

अन्तवन्तः क्षत्रिय ते जयन्ति; लोकाञ्जनाः कर्मणा निर्मितेन |

ब्रह्मैव विद्वांस्तेन अभ्येति सर्वं; नान्यः पन्था अयनाय विद्यते ||१७||

धृतराष्ट्र उवाच||

आभाति शुक्लमिव लोहितमिव; अथो कृष्णमथाञ्जनं काद्रवं वा |

तद्ब्राह्मणः पश्यति योऽत्र विद्वा; न्कथंरूपं तदमृतमक्षरं पदम् ||१८||

सनत्सुजात उवाच||

नाभाति शुक्लमिव लोहितमिव; अथो कृष्णमायसमर्कवर्णम् |

न पृथिव्यां तिष्ठति नान्तरिक्षे; नैतत्समुद्रे सलिलं बिभर्ति ||१९||

न तारकासु न च विद्युदाश्रितं; न चाभ्रेषु दृश्यते रूपमस्य |

न चापि वायौ न च देवतासु; न तच्चन्द्रे दृश्यते नोत सूर्ये ||२०||

नैवर्क्षु तन्न यजुःषु नाप्यथर्वसु; न चैव दृश्यत्यमलेषु सामसु |

रथन्तरे बार्हते चापि राज; न्महाव्रते नैव दृश्येद्ध्रुवं तत् ||२१||

अपारणीयं तमसः परस्ता; त्तदन्तकोऽप्येति विनाशकाले |

अणीयरूपं क्षुरधारया त; न्महच्च रूपं त्वपि पर्वतेभ्यः ||२२||

सा प्रतिष्ठा तदमृतं लोकास्तद्ब्रह्म तद्यशः |

भूतानि जज्ञिरे तस्मात्प्रलयं यान्ति तत्र च ||२३||

अनामयं तन्महदुद्यतं यशो; वाचो विकारान्कवयो वदन्ति |

तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं; ये तद्विदुरमृतास्ते भवन्ति ||२४||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

045-अध्यायः

सनत्सुजात उवाच||

यत्तच्छुक्रं महज्ज्योतिर्दीप्यमानं महद्यशः |

तद्वै देवा उपासन्ते यस्मादर्को विराजते ||१||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||१||

शुक्राद्ब्रह्म प्रभवति ब्रह्म शुक्रेण वर्धते |

तच्छुक्रं ज्योतिषां मध्येऽतप्तं तपति तापनम् ||२||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||२||

आपोऽथ अद्भ्यः सलिलस्य मध्ये; उभौ देवौ शिश्रियातेऽन्तरिक्षे |

स सध्रीचीः स विषूचीर्वसाना; उभे बिभर्ति पृथिवीं दिवं च ||३||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||३||

उभौ च देवौ पृथिवीं दिवं च; दिशश्च शुक्रं भुवनं बिभर्ति |

तस्माद्दिशः सरितश्च स्रवन्ति; तस्मात्समुद्रा विहिता महान्तः ||४||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||४||

चक्रे रथस्य तिष्ठन्तं ध्रुवस्याव्ययकर्मणः |

केतुमन्तं वहन्त्यश्वास्तं दिव्यमजरं दिवि ||५||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||५||

न सादृश्ये तिष्ठति रूपमस्य; न चक्षुषा पश्यति कश्चिदेनम् |

मनीषयाथो मनसा हृदा च; य एवं विदुरमृतास्ते भवन्ति ||६||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||६||

द्वादशपूगां सरितं देवरक्षितम् |

मधु ईशन्तस्तदा सञ्चरन्ति घोरम् ||७||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||७||

तदर्धमासं पिबति सञ्चित्य भ्रमरो मधु |

ईशानः सर्वभूतेषु हविर्भूतमकल्पयत् ||८||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||८||

हिरण्यपर्णमश्वत्थमभिपत्य अपक्षकाः |

ते तत्र पक्षिणो भूत्वा प्रपतन्ति यथादिशम् ||९||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||९||

पूर्णात्पूर्णान्युद्धरन्ति पूर्णात्पूर्णानि चक्रिरे |

हरन्ति पूर्णात्पूर्णानि पूर्णमेवावशिष्यते ||१०||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||१०||

तस्माद्वै वायुरायातस्तस्मिंश्च प्रयतः सदा |

तस्मादग्निश्च सोमश्च तस्मिंश्च प्राण आततः ||११||

सर्वमेव ततो विद्यात्तत्तद्वक्तुं न शक्नुमः |

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||१२||

अपानं गिरति प्राणः प्राणं गिरति चन्द्रमाः |

आदित्यो गिरते चन्द्रमादित्यं गिरते परः ||१३||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||१३||

एकं पादं नोत्क्षिपति सलिलाद्धंस उच्चरन् |

तं चेत्सततमृत्विजं न मृत्युर्नामृतं भवेत् ||१४||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||१४||

एवं देवो महात्मा स पावकं पुरुषो गिरन् |

यो वै तं पुरुषं वेद तस्येहात्मा न रिष्यते ||१५||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||१५||

यः सहस्रं सहस्राणां पक्षान्सन्तत्य सम्पतेत् |

मध्यमे मध्य आगच्छेदपि चेत्स्यान्मनोजवः ||१६||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||१६||

न दर्शने तिष्ठति रूपमस्य; पश्यन्ति चैनं सुविशुद्धसत्त्वाः |

हितो मनीषी मनसाभिपश्ये; द्ये तं श्रयेयुरमृतास्ते भवन्ति ||१७||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||१७||

गूहन्ति सर्पा इव गह्वराणि; स्वशिक्षया स्वेन वृत्तेन मर्त्याः |

तेषु प्रमुह्यन्ति जना विमूढा; यथाध्वानं मोहयन्ते भयाय ||१८||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||१८||

सदा सदासत्कृतः स्यान्न मृत्युरमृतं कुतः |

सत्यानृते सत्यसमानबन्धने; सतश्च योनिरसतश्चैक एव ||१९||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||१९||

न साधुना नोत असाधुना वा; समानमेतद्दृश्यते मानुषेषु |

समानमेतदमृतस्य विद्या; देवंयुक्तो मधु तद्वै परीप्सेत् ||२०||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||२०||

नास्यातिवादा हृदयं तापयन्ति; नानधीतं नाहुतमग्निहोत्रम् |

मनो ब्राह्मीं लघुतामादधीत; प्रज्ञानमस्य नाम धीरा लभन्ते ||२१||

योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||२१||

एवं यः सर्वभूतेषु आत्मानमनुपश्यति |

अन्यत्रान्यत्र युक्तेषु किं स शोचेत्ततः परम् ||२२||

यथोदपाने महति सर्वतः सम्प्लुतोदके |

एवं सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ||२३||

अङ्गुष्ठमात्रः पुरुषो महात्मा; न दृश्यतेऽसौ हृदये निविष्टः |

अजश्चरो दिवारात्रमतन्द्रितश्च; स तं मत्वा कविरास्ते प्रसन्नः ||२४||

अहमेवास्मि वो माता पिता पुत्रोऽस्म्यहं पुनः |

आत्माहमपि सर्वस्य यच्च नास्ति यदस्ति च ||२५||

पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत |

ममैव यूयमात्मस्था न मे यूयं न वोऽप्यहम् ||२६||

आत्मैव स्थानं मम जन्म चात्मा; वेदप्रोक्तोऽहमजरप्रतिष्ठः |

अणोरणीयान्सुमनाः सर्वभूतेषु जागृमि |

पितरं सर्वभूतानां पुष्करे निहितं विदुः ||२८||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

046-अध्यायः-यानसंधिपर्व

वैशम्पायन उवाच||

एवं सनत्सुजातेन विदुरेण च धीमता |

सार्धं कथयतो राज्ञः सा व्यतीयाय शर्वरी ||१||

तस्यां रजन्यां व्युष्टायां राजानः सर्व एव ते |

सभामाविविशुर्हृष्टाः सूतस्योपदिदृक्षया ||२||

शुश्रूषमाणाः पार्थानां वचो धर्मार्थसंहितम् |

धृतराष्ट्रमुखाः सर्वे ययू राजसभां शुभाम् ||३||

सुधावदातां विस्तीर्णां कनकाजिरभूषिताम् |

चन्द्रप्रभां सुरुचिरां सिक्तां परमवारिणा ||४||

रुचिरैरासनैः स्तीर्णां काञ्चनैर्दारवैरपि |

अश्मसारमयैर्दान्तैः स्वास्तीर्णैः सोत्तरच्छदैः ||५||

भीष्मो द्रोणः कृपः शल्यः कृतवर्मा जयद्रथः |

अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः ||६||

विदुरश्च महाप्राज्ञो युयुत्सुश्च महारथः |

सर्वे च सहिताः शूराः पार्थिवा भरतर्षभ ||७||

धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां शुभाम् ||७||

दुःशासनश्चित्रसेनः शकुनिश्चापि सौबलः |

दुर्मुखो दुःसहः कर्ण उलूकोऽथ विविंशतिः ||८||

कुरुराजं पुरस्कृत्य दुर्योधनममर्षणम् |

विविशुस्तां सभां राजन्सुराः शक्रसदो यथा ||९||

आविशद्भिस्तदा राजञ्शूरैः परिघबाहुभिः |

शुशुभे सा सभा राजन्सिंहैरिव गिरेर्गुहा ||१०||

ते प्रविश्य महेष्वासाः सभां समितिशोभनाः |

आसनानि महार्हाणि भेजिरे सूर्यवर्चसः ||११||

आसनस्थेषु सर्वेषु तेषु राजसु भारत |

द्वाःस्थो निवेदयामास सूतपुत्रमुपस्थितम् ||१२||

अयं स रथ आयाति योऽयासीत्पाण्डवान्प्रति |

दूतो नस्तूर्णमायातः सैन्धवैः साधुवाहिभिः ||१३||

उपयाय तु स क्षिप्रं रथात्प्रस्कन्द्य कुण्डली |

प्रविवेश सभां पूर्णां महीपालैर्महात्मभिः ||१४||

सञ्जय उवाच||

प्राप्तोऽस्मि पाण्डवान्गत्वा तद्विजानीत कौरवाः |

यथावयः कुरून्सर्वान्प्रतिनन्दन्ति पाण्डवाः ||१५||

अभिवादयन्ति वृद्धांश्च वयस्यांश्च वयस्यवत् |

यूनश्चाभ्यवदन्पार्थाः प्रतिपूज्य यथावयः ||१६||

यथाहं धृतराष्ट्रेण शिष्टः पूर्वमितो गतः |

अब्रुवं पाण्डवान्गत्वा तन्निबोधत पार्थिवाः ||१७||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

047-अध्यायः

धृतराष्ट्र उवाच||

पृच्छामि त्वां सञ्जय राजमध्ये; किमब्रवीद्वाक्यमदीनसत्त्वः |

धनञ्जयस्तात युधां प्रणेता; दुरात्मनां जीवितच्छिन्महात्मा ||१||

सञ्जय उवाच||

दुर्योधनो वाचमिमां शृणोतु; यदब्रवीदर्जुनो योत्स्यमानः |

युधिष्ठिरस्यानुमते महात्मा; धनञ्जयः शृण्वतः केशवस्य ||२||

अन्वत्रस्तो बाहुवीर्यं विदान; उपह्वरे वासुदेवस्य धीरः |

अवोचन्मां योत्स्यमानः किरीटी; मध्ये ब्रूया धार्तराष्ट्रं कुरूणाम् ||३||

ये वै राजानः पाण्डवायोधनाय; समानीताः शृण्वतां चापि तेषाम् |

यथा समग्रं वचनं मयोक्तं; सहामात्यं श्रावयेथा नृपं तम् ||४||

यथा नूनं देवराजस्य देवाः; शुश्रूषन्ते वज्रहस्तस्य सर्वे |

तथाशृण्वन्पाण्डवाः सृञ्जयाश्च; किरीटिना वाचमुक्तां समर्थाम् ||५||

इत्यब्रवीदर्जुनो योत्स्यमानो; गाण्डीवधन्वा लोहितपद्मनेत्रः |

न चेद्राज्यं मुञ्चति धार्तराष्ट्रो; युधिष्ठिरस्याजमीढस्य राज्ञः ||६||

अस्ति नूनं कर्म कृतं पुरस्ता; दनिर्विष्टं पापकं धार्तराष्ट्रैः ||६||

येषां युद्धं भीमसेनार्जुनाभ्यां; तथाश्विभ्यां वासुदेवेन चैव |

शैनेयेन ध्रुवमात्तायुधेन; धृष्टद्युम्नेनाथ शिखण्डिना च ||७||

युधिष्ठिरेणेन्द्रकल्पेन चैव; योऽपध्यानान्निर्दहेद्गां दिवं च ||७||

तैश्चेद्युद्धं मन्यते धार्तराष्ट्रो; निर्वृत्तोऽर्थः सकलः पाण्डवानाम् |

मा तत्कार्षीः पाण्डवार्थाय हेतो; रुपैहि युद्धं यदि मन्यसे त्वम् ||८||

यां तां वने दुःखशय्यामुवास; प्रव्राजितः पाण्डवो धर्मचारी |

आशिष्यते दुःखतरामनर्था; मन्त्यां शय्यां धार्तराष्ट्रः परासुः ||९||

ह्रिया ज्ञानेन तपसा दमेन; क्रोधेनाथो धर्मगुप्त्या धनेन |

अन्यायवृत्तः कुरुपाण्डवेया; नध्यातिष्ठद्धार्तराष्ट्रो दुरात्मा ||१०||

मायोपधः प्रणिधानार्जवाभ्यां; तपोदमाभ्यां धर्मगुप्त्या बलेन |

सत्यं ब्रुवन्प्रीतियुक्त्यानृतेन; तितिक्षमाणः क्लिश्यमानोऽतिवेलम् ||११||

यदा ज्येष्ठः पाण्डवः संशितात्मा; क्रोधं यत्तं वर्षपूगान्सुघोरम् |

अवस्रष्टा कुरुषूद्वृत्तचेता; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||१२||

कृष्णवर्त्मेव ज्वलितः समिद्धो; यथा दहेत्कक्षमग्निर्निदाघे |

एवं दग्धा धार्तराष्ट्रस्य सेनां; युधिष्ठिरः क्रोधदीप्तोऽनुवीक्ष्य ||१३||

यदा द्रष्टा भीमसेनं रणस्थं; गदाहस्तं क्रोधविषं वमन्तम् |

दुर्मर्षणं पाण्डवं भीमवेगं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||१४||

महासिंहो गाव इव प्रविश्य; गदापाणिर्धार्तराष्ट्रानुपेत्य |

यदा भीमो भीमरूपो निहन्ता; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||१५||

महाभये वीतभयः कृतास्त्रः; समागमे शत्रुबलावमर्दी |

सकृद्रथेन प्रतियाद्रथौघा; न्पदातिसङ्घान्गदयाभिनिघ्नन् ||१६||

सैन्याननेकांस्तरसा विमृद्न; न्यदा क्षेप्ता धार्तराष्ट्रस्य सैन्यम् |

छिन्दन्वनं परशुनेव शूर; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||१७||

तृणप्रायं ज्वलनेनेव दग्धं; ग्रामं यथा धार्तराष्ट्रः समीक्ष्य |

पक्वं सस्यं वैद्युतेनेव दग्धं; परासिक्तं विपुलं स्वं बलौघम् ||१८||

हतप्रवीरं विमुखं भयार्तं; पराङ्मुखं प्रायशोऽधृष्टयोधम् |

शस्त्रार्चिषा भीमसेनेन दग्धं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||१९||

उपासङ्गादुद्धरन्दक्षिणेन; परःशतान्नकुलश्चित्रयोधी |

यदा रथाग्र्यो रथिनः प्रचेता; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||२०||

सुखोचितो दुःखशय्यां वनेषु; दीर्घं कालं नकुलो यामशेत |

आशीविषः क्रुद्ध इव श्वसन्भृशं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||२१||

त्यक्तात्मानः पार्थिवायोधनाय; समादिष्टा धर्मराजेन वीराः |

रथैः शुभ्रैः सैन्यमभिद्रवन्तो; दृष्ट्वा पश्चात्तप्स्यते धार्तराष्ट्रः ||२२||

शिशून्कृतास्त्रानशिशुप्रकाशा; न्यदा द्रष्टा कौरवः पञ्च शूरान् |

त्यक्त्वा प्राणान्केकयानाद्रवन्त; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||२३||

यदा गतोद्वाहमकूजनाक्षं; सुवर्णतारं रथमाततायी |

दान्तैर्युक्तं सहदेवोऽधिरूढः; शिरांसि राज्ञां क्षेप्स्यते मार्गणौघैः ||२४||

महाभये सम्प्रवृत्ते रथस्थं; विवर्तमानं समरे कृतास्त्रम् |

सर्वां दिशं सम्पतन्तं समीक्ष्य; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||२५||

ह्रीनिषेधो निपुणः सत्यवादी; महाबलः सर्वधर्मोपपन्नः |

गान्धारिमार्च्छंस्तुमुले क्षिप्रकारी; क्षेप्ता जनान्सहदेवस्तरस्वी ||२६||

यदा द्रष्टा द्रौपदेयान्महेषू; ञ्शूरान्कृतास्त्रान्रथयुद्धकोविदान् |

आशीविषान्घोरविषानिवायत; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||२७||

यदाभिमन्युः परवीरघाती; शरैः परान्मेघ इवाभिवर्षन् |

विगाहिता कृष्णसमः कृतास्त्र; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||२८||

यदा द्रष्टा बालमबालवीर्यं; द्विषच्चमूं मृत्युमिवापतन्तम् |

सौभद्रमिन्द्रप्रतिमं कृतास्त्रं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||२९||

प्रभद्रकाः शीघ्रतरा युवानो; विशारदाः सिंहसमानवीर्याः |

यदा क्षेप्तारो धार्तराष्ट्रान्ससैन्यां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||३०||

वृद्धौ विराटद्रुपदौ महारथौ; पृथक्चमूभ्यामभिवर्तमानौ |

यदा द्रष्टारौ धार्तराष्ट्रान्ससैन्यां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||३१||

यदा कृतास्त्रो द्रुपदः प्रचिन्व; ञ्शिरांसि यूनां समरे रथस्थः |

क्रुद्धः शरैश्छेत्स्यति चापमुक्तै; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||३२||

यदा विराटः परवीरघाती; मर्मान्तरे शत्रुचमूं प्रवेष्टा |

मत्स्यैः सार्धमनृशंसरूपै; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||३३||

ज्येष्ठं मात्स्यानामनृशंसरूपं; विराटपुत्रं रथिनं पुरस्तात् |

यदा द्रष्टा दंशितं पाण्डवार्थे; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||३४||

रणे हते कौरवाणां प्रवीरे; शिखण्डिना सत्तमे शन्तनूजे |

न जातु नः शत्रवो धारयेयु; रसंशयं सत्यमेतद्ब्रवीमि ||३५||

यदा शिखण्डी रथिनः प्रचिन्व; न्भीष्मं रथेनाभियाता वरूथी |

दिव्यैर्हयैरवमृद्नन्रथौघां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||३६||

यदा द्रष्टा सृञ्जयानामनीके; धृष्टद्युम्नं प्रमुखे रोचमानम् |

अस्त्रं यस्मै गुह्यमुवाच धीमा; न्द्रोणस्तदा तप्स्यति धार्तराष्ट्रः ||३७||

यदा स सेनापतिरप्रमेयः; पराभवन्निषुभिर्धार्तराष्ट्रान् |

द्रोणं रणे शत्रुसहोऽभियाता; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||३८||

ह्रीमान्मनीषी बलवान्मनस्वी; स लक्ष्मीवान्सोमकानां प्रबर्हः |

न जातु तं शत्रवोऽन्ये सहेर; न्येषां स स्यादग्रणीर्वृष्णिसिंहः ||३९||

ब्रूयाच्च मा प्रवृणीष्वेति लोके; युद्धेऽद्वितीयं सचिवं रथस्थम् |

शिनेर्नप्तारं प्रवृणीम सात्यकिं; महाबलं वीतभयं कृतास्त्रम् ||४०||

यदा शिनीनामधिपो मयोक्तः; शरैः परान्मेघ इव प्रवर्षन् |

प्रच्छादयिष्यञ्शरजालेन योधां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||४१||

यदा धृतिं कुरुते योत्स्यमानः; स दीर्घबाहुर्दृढधन्वा महात्मा |

सिंहस्येव गन्धमाघ्राय गावः; संवेष्टन्ते शत्रवोऽस्माद्यथाग्नेः ||४२||

स दीर्घबाहुर्दृढधन्वा महात्मा; भिन्द्याद्गिरीन्संहरेत्सर्वलोकान् |

अस्त्रे कृती निपुणः क्षिप्रहस्तो; दिवि स्थितः सूर्य इवाभिभाति ||४३||

चित्रः सूक्ष्मः सुकृतो यादवस्य; अस्त्रे योगो वृष्णिसिंहस्य भूयान् |

यथाविधं योगमाहुः प्रशस्तं; सर्वैर्गुणैः सात्यकिस्तैरुपेतः ||४४||

हिरण्मयं श्वेतहयैश्चतुर्भि; र्यदा युक्तं स्यन्दनं माधवस्य |

द्रष्टा युद्धे सात्यकेर्वै सुयोधन; स्तदा तप्स्यत्यकृतात्मा स मन्दः ||४५||

यदा रथं हेममणिप्रकाशं; श्वेताश्वयुक्तं वानरकेतुमुग्रम् |

द्रष्टा रणे संयतं केशवेन; तदा तप्स्यत्यकृतात्मा स मन्दः ||४६||

यदा मौर्व्यास्तलनिष्पेषमुग्रं; महाशब्दं वज्रनिष्पेषतुल्यम् |

विधूयमानस्य महारणे मया; गाण्डीवस्य श्रोष्यति मन्दबुद्धिः ||४७||

तदा मूढो धृतराष्ट्रस्य पुत्र; स्तप्ता युद्धे दुर्मतिर्दुःसहायः |

दृष्ट्वा सैन्यं बाणवर्षान्धकारं; प्रभज्यन्तं गोकुलवद्रणाग्रे ||४८||

बलाहकादुच्चरन्तीव विद्यु; त्सहस्रघ्नी द्विषतां सङ्गमेषु |

अस्थिच्छिदो मर्मभिदो वमेच्छरां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||४९||

यदा द्रष्टा ज्यामुखाद्बाणसङ्घा; न्गाण्डीवमुक्तान्पततः शिताग्रान् |

नागान्हयान्वर्मिणश्चाददानां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||५०||

यदा मन्दः परबाणान्विमुक्ता; न्ममेषुभिर्ह्रियमाणान्प्रतीपम् |

तिर्यग्विद्वांश्छिद्यमानान्क्षुरप्रै; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||५१||

यदा विपाठा मद्भुजविप्रमुक्ता; द्विजाः फलानीव महीरुहाग्रात् |

प्रच्छेत्तार उत्तमाङ्गानि यूनां; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||५२||

यदा द्रष्टा पततः स्यन्दनेभ्यो; महागजेभ्योऽश्वगतांश्च योधान् |

शरैर्हतान्पातितांश्चैव रङ्गे; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ||५३||

पदातिसङ्घान्रथसङ्घान्समन्ता; द्व्यात्ताननः काल इवाततेषुः |

प्रणोत्स्यामि ज्वलितैर्बाणवर्षैः; शत्रूंस्तदा तप्स्यति मन्दबुद्धिः ||५४||

सर्वा दिशः सम्पतता रथेन; रजोध्वस्तं गाण्डिवेनापकृत्तम् |

यदा द्रष्टा स्वबलं सम्प्रमूढं; तदा पश्चात्तप्स्यति मन्दबुद्धिः ||५५||

कांदिग्भूतं छिन्नगात्रं विसञ्ज्ञं; दुर्योधनो द्रक्ष्यति सर्वसैन्यम् |

हताश्ववीराग्र्यनरेन्द्रनागं; पिपासितं श्रान्तपत्रं भयार्तम् ||५६||

आर्तस्वरं हन्यमानं हतं च; विकीर्णकेशास्थिकपालसङ्घम् |

प्रजापतेः कर्म यथार्धनिष्ठितं; तदा दृष्ट्वा तप्स्यते मन्दबुद्धिः ||५७||

यदा रथे गाण्डिवं वासुदेवं; दिव्यं शङ्खं पाञ्चजन्यं हयांश्च |

तूणावक्षय्यौ देवदत्तं च मां च; द्रष्टा युद्धे धार्तराष्ट्रः समेतान् ||५८||

उद्वर्तयन्दस्युसङ्घान्समेता; न्प्रवर्तयन्युगमन्यद्युगान्ते |

यदा धक्ष्याम्यग्निवत्कौरवेयां; स्तदा तप्ता धृतराष्ट्रः सपुत्रः ||५९||

सहभ्राता सहपुत्रः ससैन्यो; भ्रष्टैश्वर्यः क्रोधवशोऽल्पचेताः |

दर्पस्यान्ते विहिते वेपमानः; पश्चान्मन्दस्तप्स्यति धार्तराष्ट्रः ||६०||

पूर्वाह्णे मां कृतजप्यं कदा चि; द्विप्रः प्रोवाचोदकान्ते मनोज्ञम् |

कर्तव्यं ते दुष्करं कर्म पार्थ; योद्धव्यं ते शत्रुभिः सव्यसाचिन् ||६१||

इन्द्रो वा ते हरिवान्वज्रहस्तः; पुरस्ताद्यातु समरेऽरीन्विनिघ्नन् |

सुग्रीवयुक्तेन रथेन वा ते; पश्चात्कृष्णो रक्षतु वासुदेवः ||६२||

वव्रे चाहं वज्रहस्तान्महेन्द्रा; दस्मिन्युद्धे वासुदेवं सहायम् |

स मे लब्धो दस्युवधाय कृष्णो; मन्ये चैतद्विहितं दैवतैर्मे ||६३||

अयुध्यमानो मनसापि यस्य; जयं कृष्णः पुरुषस्याभिनन्देत् |

ध्रुवं सर्वान्सोऽभ्यतीयादमित्रा; न्सेन्द्रान्देवान्मानुषे नास्ति चिन्ता ||६४||

स बाहुभ्यां सागरमुत्तितीर्षे; न्महोदधिं सलिलस्याप्रमेयम् |

तेजस्विनं कृष्णमत्यन्तशूरं; युद्धेन यो वासुदेवं जिगीषेत् ||६५||

गिरिं य इच्छेत तलेन भेत्तुं; शिलोच्चयं श्वेतमतिप्रमाणम् |

तस्यैव पाणिः सनखो विशीर्ये; न्न चापि किञ्चित्स गिरेस्तु कुर्यात् ||६६||

अग्निं समिद्धं शमयेद्भुजाभ्यां; चन्द्रं च सूर्यं च निवारयेत |

हरेद्देवानाममृतं प्रसह्य; युद्धेन यो वासुदेवं जिगीषेत् ||६७||

यो रुक्मिणीमेकरथेन भोज्या; मुत्साद्य राज्ञां विषयं प्रसह्य |

उवाह भार्यां यशसा ज्वलन्तीं; यस्यां जज्ञे रौक्मिणेयो महात्मा ||६८||

अयं गान्धारांस्तरसा सम्प्रमथ्य; जित्वा पुत्रान्नग्नजितः समग्रान् |

बद्धं मुमोच विनदन्तं प्रसह्य; सुदर्शनीयं देवतानां ललामम् ||६९||

अयं कवाटे निजघान पाण्ड्यं; तथा कलिङ्गान्दन्तकूरे ममर्द |

अनेन दग्धा वर्षपूगान्विनाथा; वाराणसी नगरी सम्बभूव ||७०||

यं स्म युद्धे मन्यतेऽन्यैरजेय; मेकलव्यं नाम निषादराजम् |

वेगेनेव शैलमभिहत्य जम्भः; शेते स कृष्णेन हतः परासुः ||७१||

तथोग्रसेनस्य सुतं प्रदुष्टं; वृष्ण्यन्धकानां मध्यगां तपन्तम् |

अपातयद्बलदेवद्वितीयो; हत्वा ददौ चोग्रसेनाय राज्यम् ||७२||

अयं सौभं योधयामास खस्थं; विभीषणं मायया शाल्वराजम् |

सौभद्वारि प्रत्यगृह्णाच्छतघ्नीं; दोर्भ्यां क एनं विषहेत मर्त्यः ||७३||

प्राग्ज्योतिषं नाम बभूव दुर्गं; पुरं घोरमसुराणामसह्यम् |

महाबलो नरकस्तत्र भौमो; जहारादित्या मणिकुण्डले शुभे ||७४||

न तं देवाः सह शक्रेण सेहिरे; समागता आहरणाय भीताः |

दृष्ट्वा च ते विक्रमं केशवस्य; बलं तथैवास्त्रमवारणीयम् ||७५||

जानन्तोऽस्य प्रकृतिं केशवस्य; न्ययोजयन्दस्युवधाय कृष्णम् |

स तत्कर्म प्रतिशुश्राव दुष्कर; मैश्वर्यवान्सिद्धिषु वासुदेवः ||७६||

निर्मोचने षट्सहस्राणि हत्वा; सञ्छिद्य पाशान्सहसा क्षुरान्तान् |

मुरं हत्वा विनिहत्यौघराक्षसं; निर्मोचनं चापि जगाम वीरः ||७७||

तत्रैव तेनास्य बभूव युद्धं; महाबलेनातिबलस्य विष्णोः |

शेते स कृष्णेन हतः परासु; र्वातेनेव मथितः कर्णिकारः ||७८||

आहृत्य कृष्णो मणिकुण्डले ते; हत्वा च भौमं नरकं मुरं च |

श्रिया वृतो यशसा चैव धीमा; न्प्रत्याजगामाप्रतिमप्रभावः ||७९||

तस्मै वरानददंस्तत्र देवा; दृष्ट्वा भीमं कर्म रणे कृतं तत् |

श्रमश्च ते युध्यमानस्य न स्या; दाकाशे वा अप्सु चैव क्रमः स्यात् ||८०||

शस्त्राणि गात्रे च न ते क्रमेर; न्नित्येव कृष्णश्च ततः कृतार्थः |

एवंरूपे वासुदेवेऽप्रमेये; महाबले गुणसम्पत्सदैव ||८१||

तमसह्यं विष्णुमनन्तवीर्य; माशंसते धार्तराष्ट्रो बलेन |

यदा ह्येनं तर्कयते दुरात्मा; तच्चाप्ययं सहतेऽस्मान्समीक्ष्य ||८२||

पर्यागतं मम कृष्णस्य चैव; यो मन्यते कलहं सम्प्रयुज्य |

शक्यं हर्तुं पाण्डवानां ममत्वं; तद्वेदिता संयुगं तत्र गत्वा ||८३||

नमस्कृत्वा शान्तनवाय राज्ञे; द्रोणायाथो सहपुत्राय चैव |

शारद्वतायाप्रतिद्वन्द्विने च; योत्स्याम्यहं राज्यमभीप्समानः ||८४||

धर्मेणास्त्रं नियतं तस्य मन्ये; यो योत्स्यते पाण्डवैर्धर्मचारी |

मिथ्याग्लहे निर्जिता वै नृशंसैः; संवत्सरान्द्वादश पाण्डुपुत्राः ||८५||

अवाप्य कृच्छ्रं विहितं ह्यरण्ये; दीर्घं कालं चैकमज्ञातचर्याम् |

ते ह्यकस्माज्जीवितं पाण्डवानां; न मृष्यन्ते धार्तराष्ट्राः पदस्थाः ||८६||

ते चेदस्मान्युध्यमानाञ्जयेयु; र्देवैरपीन्द्रप्रमुखैः सहायैः |

धर्मादधर्मश्चरितो गरीया; निति ध्रुवं नास्ति कृतं न साधु ||८७||

न चेदिमं पुरुषं कर्मबद्धं; न चेदस्मान्मन्यतेऽसौ विशिष्टान् |

आशंसेऽहं वासुदेवद्वितीयो; दुर्योधनं सानुबन्धं निहन्तुम् ||८८||

न चेदिदं कर्म नरेषु बद्धं; न विद्यते पुरुषस्य स्वकर्म |

इदं च तच्चापि समीक्ष्य नूनं; पराजयो धार्तराष्ट्रस्य साधुः ||८९||

प्रत्यक्षं वः कुरवो यद्ब्रवीमि; युध्यमाना धार्तराष्ट्रा न सन्ति |

अन्यत्र युद्धात्कुरवः परीप्स; न्न युध्यतां शेष इहास्ति कश्चित् ||९०||

हत्वा त्वहं धार्तराष्ट्रान्सकर्णा; न्राज्यं कुरूणामवजेता समग्रम् |

यद्वः कार्यं तत्कुरुध्वं यथास्व; मिष्टान्दारानात्मजांश्चोपभुङ्क्त ||९१||

अप्येवं नो ब्राह्मणाः सन्ति वृद्धा; बहुश्रुताः शीलवन्तः कुलीनाः |

सांवत्सरा ज्योतिषि चापि युक्ता; नक्षत्रयोगेषु च निश्चयज्ञाः ||९२||

उच्चावचं दैवयुक्तं रहस्यं; दिव्याः प्रश्ना मृगचक्रा मुहूर्ताः |

क्षयं महान्तं कुरुसृञ्जयानां; निवेदयन्ते पाण्डवानां जयं च ||९३||

तथा हि नो मन्यतेऽजातशत्रुः; संसिद्धार्थो द्विषतां निग्रहाय |

जनार्दनश्चाप्यपरोक्षविद्यो; न संशयं पश्यति वृष्णिसिंहः ||९४||

अहं च जानामि भविष्यरूपं; पश्यामि बुद्ध्या स्वयमप्रमत्तः |

दृष्टिश्च मे न व्यथते पुराणी; युध्यमाना धार्तराष्ट्रा न सन्ति ||९५||

अनालब्धं जृम्भति गाण्डिवं धनु; रनालब्धा कम्पति मे धनुर्ज्या |

बाणाश्च मे तूणमुखाद्विसृज्य; मुहुर्मुहुर्गन्तुमुशन्ति चैव ||९६||

सैक्यः कोशान्निःसरति प्रसन्नो; हित्वेव जीर्णामुरगस्त्वचं स्वाम् |

ध्वजे वाचो रौद्ररूपा वदन्ति; कदा रथो योक्ष्यते ते किरीटिन् ||९७||

गोमायुसङ्घाश्च वदन्ति रात्रौ; रक्षांस्यथो निष्पतन्त्यन्तरिक्षात् |

मृगाः शृगालाः शितिकण्ठाश्च काका; गृध्रा बडाश्चैव तरक्षवश्च ||९८||

सुपर्णपाताश्च पतन्ति पश्चा; द्दृष्ट्वा रथं श्वेतहयप्रयुक्तम् |

अहं ह्येकः पार्थिवान्सर्वयोधा; ञ्शरान्वर्षन्मृत्युलोकं नयेयम् ||९९||

समाददानः पृथगस्त्रमार्गा; न्यथाग्निरिद्धो गहनं निदाघे |

स्थूणाकर्णं पाशुपतं च घोरं; तथा ब्रह्मास्त्रं यच्च शक्रो विवेद ||१००||

वधे धृतो वेगवतः प्रमुञ्च; न्नाहं प्रजाः किञ्चिदिवावशिष्ये |

शान्तिं लप्स्ये परमो ह्येष भावः; स्थिरो मम ब्रूहि गावल्गणे तान् ||१०१||

नित्यं पुनः सचिवैर्यैरवोच; द्देवानपीन्द्रप्रमुखान्सहायान् |

तैर्मन्यते कलहं सम्प्रयुज्य; स धार्तराष्ट्रः पश्यत मोहमस्य ||१०२||

वृद्धो भीष्मः शान्तनवः कृपश्च; द्रोणः सपुत्रो विदुरश्च धीमान् |

एते सर्वे यद्वदन्ते तदस्तु; आयुष्मन्तः कुरवः सन्तु सर्वे ||१०३||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

048-अध्यायः

वैशम्पायन उवाच||

समवेतेषु सर्वेषु तेषु राजसु भारत |

दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ||१||

बृहस्पतिश्चोशना च ब्रह्माणं पर्युपस्थितौ |

मरुतश्च सहेन्द्रेण वसवश्च सहाश्विनौ ||२||

आदित्याश्चैव साध्याश्च ये च सप्तर्षयो दिवि |

विश्वावसुश्च गन्धर्वः शुभाश्चाप्सरसां गणाः ||३||

नमस्कृत्वोपजग्मुस्ते लोकवृद्धं पितामहम् |

परिवार्य च विश्वेशं पर्यासत दिवौकसः ||४||

तेषां मनश्च तेजश्चाप्याददानौ दिवौकसाम् |

पूर्वदेवौ व्यतिक्रान्तौ नरनारायणावृषी ||५||

बृहस्पतिश्च पप्रच्छ ब्राह्मणं काविमाविति |

भवन्तं नोपतिष्ठेते तौ नः शंस पितामह ||६||

ब्रह्मोवाच||

यावेतौ पृथिवीं द्यां च भासयन्तौ तपस्विनौ |

ज्वलन्तौ रोचमानौ च व्याप्यातीतौ महाबलौ ||७||

नरनारायणावेतौ लोकाल्लोकं समास्थितौ |

ऊर्जितौ स्वेन तपसा महासत्त्वपराक्रमौ ||८||

एतौ हि कर्मणा लोकान्नन्दयामासतुर्ध्रुवौ |

असुराणामभावाय देवगन्धर्वपूजितौ ||९||

वैशम्पायन उवाच||

जगाम शक्रस्तच्छ्रुत्वा यत्र तौ तेपतुस्तपः |

सार्धं देवगणैः सर्वैर्बृहस्पतिपुरोगमैः ||१०||

तदा देवासुरे घोरे भये जाते दिवौकसाम् |

अयाचत महात्मानौ नरनारायणौ वरम् ||११||

तावब्रूतां वृणीष्वेति तदा भरतसत्तम |

अथैतावब्रवीच्छक्रः साह्यं नः क्रियतामिति ||१२||

ततस्तौ शक्रमब्रूतां करिष्यावो यदिच्छसि |

ताभ्यां च सहितः शक्रो विजिग्ये दैत्यदानवान् ||१३||

नर इन्द्रस्य सङ्ग्रामे हत्वा शत्रून्परन्तपः |

पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च ||१४||

एष भ्रान्ते रथे तिष्ठन्भल्लेनापहरच्छिरः |

जम्भस्य ग्रसमानस्य यज्ञमर्जुन आहवे ||१५||

एष पारे समुद्रस्य हिरण्यपुरमारुजत् |

हत्वा षष्टिसहस्राणि निवातकवचान्रणे ||१६||

एष देवान्सहेन्द्रेण जित्वा परपुरञ्जयः |

अतर्पयन्महाबाहुरर्जुनो जातवेदसम् ||१७||

नारायणस्तथैवात्र भूयसोऽन्याञ्जघान ह ||१७||

एवमेतौ महावीर्यौ तौ पश्यत समागतौ |

वासुदेवार्जुनौ वीरौ समवेतौ महारथौ ||१८||

नरनारायणौ देवौ पूर्वदेवाविति श्रुतिः |

अजेयौ मानुषे लोके सेन्द्रैरपि सुरासुरैः ||१९||

एष नारायणः कृष्णः फल्गुनस्तु नरः स्मृतः |

नारायणो नरश्चैव सत्त्वमेकं द्विधाकृतम् ||२०||

एतौ हि कर्मणा लोकानश्नुवातेऽक्षयान्ध्रुवान् |

तत्र तत्रैव जायेते युद्धकाले पुनः पुनः ||२१||

तस्मात्कर्मैव कर्तव्यमिति होवाच नारदः |

एतद्धि सर्वमाचष्ट वृष्णिचक्रस्य वेदवित् ||२२||

शङ्खचक्रगदाहस्तं यदा द्रक्ष्यसि केशवम् |

पर्याददानं चास्त्राणि भीमधन्वानमर्जुनम् ||२३||

सनातनौ महात्मानौ कृष्णावेकरथे स्थितौ |

दुर्योधन तदा तात स्मर्तासि वचनं मम ||२४||

नो चेदयमभावः स्यात्कुरूणां प्रत्युपस्थितः |

अर्थाच्च तात धर्माच्च तव बुद्धिरुपप्लुता ||२५||

न चेद्ग्रहीष्यसे वाक्यं श्रोतासि सुबहून्हतान् |

तवैव हि मतं सर्वे कुरवः पर्युपासते ||२६||

त्रयाणामेव च मतं तत्त्वमेकोऽनुमन्यसे |

रामेण चैव शप्तस्य कर्णस्य भरतर्षभ ||२७||

दुर्जातेः सूतपुत्रस्य शकुनेः सौबलस्य च |

तथा क्षुद्रस्य पापस्य भ्रातुर्दुःशासनस्य च ||२८||

कर्ण उवाच||

नैवमायुष्मता वाच्यं यन्मामात्थ पितामह |

क्षत्रधर्मे स्थितो ह्यस्मि स्वधर्मादनपेयिवान् ||२९||

किं चान्यन्मयि दुर्वृत्तं येन मां परिगर्हसे |

न हि मे वृजिनं किञ्चिद्धार्तराष्ट्रा विदुः क्वचित् ||३०||

राज्ञो हि धृतराष्ट्रस्य सर्वं कार्यं प्रियं मया |

तथा दुर्योधनस्यापि स हि राज्ये समाहितः ||३१||

वैशम्पायन उवाच||

कर्णस्य तु वचः श्रुत्वा भीष्मः शान्तनवः पुनः |

धृतराष्ट्रं महाराजमाभाष्येदं वचोऽब्रवीत् ||३२||

यदयं कत्थते नित्यं हन्ताहं पाण्डवानिति |

नायं कलापि सम्पूर्णा पाण्डवानां महात्मनाम् ||३३||

अनयो योऽयमागन्ता पुत्राणां ते दुरात्मनाम् |

तदस्य कर्म जानीहि सूतपुत्रस्य दुर्मतेः ||३४||

एनमाश्रित्य पुत्रस्ते मन्दबुद्धिः सुयोधनः |

अवमन्यत तान्वीरान्देवपुत्रानरिंदमान् ||३५||

किं चाप्यनेन तत्कर्म कृतं पूर्वं सुदुष्करम् |

तैर्यथा पाण्डवैः सर्वैरेकैकेन कृतं पुरा ||३६||

दृष्ट्वा विराटनगरे भ्रातरं निहतं प्रियम् |

धनञ्जयेन विक्रम्य किमनेन तदा कृतम् ||३७||

सहितान्हि कुरून्सर्वानभियातो धनञ्जयः |

प्रमथ्य चाच्छिनद्गावः किमयं प्रोषितस्तदा ||३८||

गन्धर्वैर्घोषयात्रायां ह्रियते यत्सुतस्तव |

क्व तदा सूतपुत्रोऽभूद्य इदानीं वृषायते ||३९||

ननु तत्रापि पार्थेन भीमेन च महात्मना |

यमाभ्यामेव चागम्य गन्धर्वास्ते पराजिताः ||४०||

एतान्यस्य मृषोक्तानि बहूनि भरतर्षभ |

विकत्थनस्य भद्रं ते सदा धर्मार्थलोपिनः ||४१||

भीष्मस्य तु वचः श्रुत्वा भारद्वाजो महामनाः |

धृतराष्ट्रमुवाचेदं राजमध्येऽभिपूजयन् ||४२||

यदाह भरतश्रेष्ठो भीष्मस्तत्क्रियतां नृप |

न काममर्थलिप्सूनां वचनं कर्तुमर्हसि ||४३||

पुरा युद्धात्साधु मन्ये पाण्डवैः सह सङ्गमम् |

यद्वाक्यमर्जुनेनोक्तं सञ्जयेन निवेदितम् ||४४||

सर्वं तदभिजानामि करिष्यति च पाण्डवः |

न ह्यस्य त्रिषु लोकेषु सदृशोऽस्ति धनुर्धरः ||४५||

अनादृत्य तु तद्वाक्यमर्थवद्द्रोणभीष्मयोः |

ततः स सञ्जयं राजा पर्यपृच्छत पाण्डवम् ||४६||

तदैव कुरवः सर्वे निराशा जीवितेऽभवन् |

भीष्मद्रोणौ यदा राजा न सम्यगनुभाषते ||४७||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

049-अध्यायः

धृतराष्ट्र उवाच||

किमसौ पाण्डवो राजा धर्मपुत्रोऽभ्यभाषत |

श्रुत्वेमा बहुलाः सेनाः प्रत्यर्थेन समागताः ||१||

किमिच्छत्यभिसंरम्भाद्योत्स्यमानो युधिष्ठिरः |

कस्य स्विद्भ्रातृपुत्राणां चिन्तासु मुखमीक्षते ||२||

के स्विदेनं वारयन्ति शाम्य युध्येति वा पुनः |

निकृत्या कोपितं मन्दैर्धर्मज्ञं धर्मचारिणम् ||३||

सञ्जय उवाच||

राज्ञो मुखमुदीक्षन्ते पाञ्चालाः पाण्डवैः सह |

युधिष्ठिरस्य भद्रं ते स सर्वाननुशास्ति च ||४||

पृथग्भूताः पाण्डवानां पाञ्चालानां रथव्रजाः |

आयान्तमभिनन्दन्ति कुन्तीपुत्रं युधिष्ठिरम् ||५||

तमः सूर्यमिवोद्यन्तं कौन्तेयं दीप्ततेजसम् |

पाञ्चालाः प्रतिनन्दन्ति तेजोराशिमिवोद्यतम् ||६||

आ गोपालाविपालेभ्यो नन्दमानं युधिष्ठिरम् |

पाञ्चालाः केकया मत्स्याः प्रतिनन्दन्ति पाण्डवम् ||७||

ब्राह्मण्यो राजपुत्र्यश्च विशां दुहितरश्च याः |

क्रीडन्त्योऽभिसमायान्ति पार्थं संनद्धमीक्षितुम् ||८||

धृतराष्ट्र उवाच||

सञ्जयाचक्ष्व केनास्मान्पाण्डवा अभ्ययुञ्जत |

धृष्टद्युम्नेन सेनान्या सोमकाः किम्बला इव ||९||

वैशम्पायन उवाच||

गावल्गणिस्तु तत्पृष्टः सभायां कुरुसंसदि |

निःश्वस्य सुभृशं दीर्घं मुहुः सञ्चिन्तयन्निव ||१०||

तत्रानिमित्ततो दैवात्सूतं कश्मलमाविशत् ||१०||

तदाचचक्षे पुरुषः सभायां राजसंसदि |

सञ्जयोऽयं महाराज मूर्च्छितः पतितो भुवि ||११||

वाचं न सृजते काञ्चिद्धीनप्रज्ञोऽल्पचेतनः ||११||

धृतराष्ट्र उवाच||

अपश्यत्सञ्जयो नूनं कुन्तीपुत्रान्महारथान् |

तैरस्य पुरुषव्याघ्रैर्भृशमुद्वेजितं मनः ||१२||

वैशम्पायन उवाच||

सञ्जयश्चेतनां लब्ध्वा प्रत्याश्वस्येदमब्रवीत् |

धृतराष्ट्रं महाराज सभायां कुरुसंसदि ||१३||

दृष्टवानस्मि राजेन्द्र कुन्तीपुत्रान्महारथान् |

मत्स्यराजगृहावासादवरोधेन कर्शितान् ||१४||

शृणु यैर्हि महाराज पाण्डवा अभ्ययुञ्जत ||१४||

यो नैव रोषान्न भयान्न कामान्नार्थकारणात् |

न हेतुवादाद्धर्मात्मा सत्यं जह्यात्कथञ्चन ||१५||

यः प्रमाणं महाराज धर्मे धर्मभृतां वरः |

अजातशत्रुणा तेन पाण्डवा अभ्ययुञ्जत ||१६||

यस्य बाहुबले तुल्यः पृथिव्यां नास्ति कश्चन |

यो वै सर्वान्महीपालान्वशे चक्रे धनुर्धरः ||१७||

तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत ||१७||

निःसृतानां जतुगृहाद्धिडिम्बात्पुरुषादकात् |

य एषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः ||१८||

याज्ञसेनीमथो यत्र सिन्धुराजोऽपकृष्टवान् |

तत्रैषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः ||१९||

यश्च तान्सङ्गतान्सर्वान्पाण्डवान्वारणावते |

दह्यतो मोचयामास तेन वस्तेऽभ्ययुञ्जत ||२०||

कृष्णायाश्चरता प्रीतिं येन क्रोधवशा हताः |

प्रविश्य विषमं घोरं पर्वतं गन्धमादनम् ||२१||

यस्य नागायुतं वीर्यं भुजयोः सारमर्पितम् |

तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत ||२२||

कृष्णद्वितीयो विक्रम्य तुष्ट्यर्थं जातवेदसः |

अजयद्यः पुरा वीरो युध्यमानं पुरंदरम् ||२३||

यः स साक्षान्महादेवं गिरिशं शूलपाणिनम् |

तोषयामास युद्धेन देवदेवमुमापतिम् ||२४||

यश्च सर्वान्वशे चक्रे लोकपालान्धनुर्धरः |

तेन वो विजयेनाजौ पाण्डवा अभ्ययुञ्जत ||२५||

यः प्रतीचीं दिशं चक्रे वशे म्लेच्छगणायुताम् |

स तत्र नकुलो योद्धा चित्रयोधी व्यवस्थितः ||२६||

तेन वो दर्शनीयेन वीरेणातिधनुर्भृता |

माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत ||२७||

यः काशीनङ्गमगधान्कलिङ्गांश्च युधाजयत् |

तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत ||२८||

यस्य वीर्येण सदृशाश्चत्वारो भुवि मानवाः |

अश्वत्थामा धृष्टकेतुः प्रद्युम्नो रुक्मिरेव च ||२९||

तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत |

यवीयसा नृवीरेण माद्रीनन्दिकरेण च ||३०||

तपश्चचार या घोरं काशिकन्या पुरा सती |

भीष्मस्य वधमिच्छन्ती प्रेत्यापि भरतर्षभ ||३१||

पाञ्चालस्य सुता जज्ञे दैवाच्च स पुनः पुमान् |

स्त्रीपुंसोः पुरुषव्याघ्र यः स वेद गुणागुणान् ||३२||

यः कलिङ्गान्समापेदे पाञ्चालो युद्धदुर्मदः |

शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत ||३३||

यां यक्षः पुरुषं चक्रे भीष्मस्य निधने किल |

महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत ||३४||

महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः |

सुमृष्टकवचाः शूरास्तैश्च वस्तेऽभ्ययुञ्जत ||३५||

यो दीर्घबाहुः क्षिप्रास्त्रो धृतिमान्सत्यविक्रमः |

तेन वो वृष्णिवीरेण युयुधानेन सङ्गरः ||३६||

य आसीच्छरणं काले पाण्डवानां महात्मनाम् |

रणे तेन विराटेन पाण्डवा अभ्ययुञ्जत ||३७||

यः स काशिपती राजा वाराणस्यां महारथः |

स तेषामभवद्योद्धा तेन वस्तेऽभ्ययुञ्जत ||३८||

शिशुभिर्दुर्जयैः सङ्ख्ये द्रौपदेयैर्महात्मभिः |

आशीविषसमस्पर्शैः पाण्डवा अभ्ययुञ्जत ||३९||

यः कृष्णसदृशो वीर्ये युधिष्ठिरसमो दमे |

तेनाभिमन्युना सङ्ख्ये पाण्डवा अभ्ययुञ्जत ||४०||

यश्चैवाप्रतिमो वीर्ये धृष्टकेतुर्महायशाः |

दुःसहः समरे क्रुद्धः शैशुपालिर्महारथः ||४१||

तेन वश्चेदिराजेन पाण्डवा अभ्ययुञ्जत ||४१||

यः संश्रयः पाण्डवानां देवानामिव वासवः |

तेन वो वासुदेवेन पाण्डवा अभ्ययुञ्जत ||४२||

तथा चेदिपतेर्भ्राता शरभो भरतर्षभ |

करकर्षेण सहितस्ताभ्यां वस्तेऽभ्ययुञ्जत ||४३||

जारासन्धिः सहदेवो जयत्सेनश्च तावुभौ |

द्रुपदश्च महातेजा बलेन महता वृतः ||४४||

त्यक्तात्मा पाण्डवार्थाय योत्स्यमानो व्यवस्थितः ||४४||

एते चान्ये च बहवः प्राच्योदीच्या महीक्षितः |

शतशो यानपाश्रित्य धर्मराजो व्यवस्थितः ||४५||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

050-अध्यायः

धृतराष्ट्र उवाच||

सर्व एते महोत्साहा ये त्वया परिकीर्तिताः |

एकतस्त्वेव ते सर्वे समेता भीम एकतः ||१||

भीमसेनाद्धि मे भूयो भयं सञ्जायते महत् |

क्रुद्धादमर्षणात्तात व्याघ्रादिव महारुरोः ||२||

जागर्मि रात्रयः सर्वा दीर्घमुष्णं च निःश्वसन् |

भीतो वृकोदरात्तात सिंहात्पशुरिवाबलः ||३||

न हि तस्य महाबाहोः शक्रप्रतिमतेजसः |

सैन्येऽस्मिन्प्रतिपश्यामि य एनं विषहेद्युधि ||४||

अमर्षणश्च कौन्तेयो दृढवैरश्च पाण्डवः |

अनर्महासी सोन्मादस्तिर्यक्प्रेक्षी महास्वनः ||५||

महावेगो महोत्साहो महाबाहुर्महाबलः |

मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ||६||

ऊरुग्राहगृहीतानां गदां बिभ्रद्वृकोदरः |

कुरूणामृषभो युद्धे दण्डपाणिरिवान्तकः ||७||

शैक्यायसमयीं घोरां गदां काञ्चनभूषिताम् |

मनसाहं प्रपश्यामि ब्रह्मदण्डमिवोद्यतम् ||८||

यथा रुरूणां यूथेषु सिंहो जातबलश्चरेत् |

मामकेषु तथा भीमो बलेषु विचरिष्यति ||९||

सर्वेषां मम पुत्राणां स एकः क्रूरविक्रमः |

बह्वाशी विप्रतीपश्च बाल्येऽपि रभसः सदा ||१०||

उद्वेपते मे हृदयं यदा दुर्योधनादयः |

बाल्येऽपि तेन युध्यन्तो वारणेनेव मर्दिताः ||११||

तस्य वीर्येण सङ्क्लिष्टा नित्यमेव सुता मम |

स एव हेतुर्भेदस्य भीमो भीमपराक्रमः ||१२||

ग्रसमानमनीकानि नरवारणवाजिनाम् |

पश्यामीवाग्रतो भीमं क्रोधमूर्छितमाहवे ||१३||

अस्त्रे द्रोणार्जुनसमं वायुवेगसमं जवे |

सञ्जयाचक्ष्व मे शूरं भीमसेनममर्षणम् ||१४||

अतिलाभं तु मन्येऽहं यत्तेन रिपुघातिना |

तदैव न हताः सर्वे मम पुत्रा मनस्विना ||१५||

येन भीमबला यक्षा राक्षसाश्च समाहताः |

कथं तस्य रणे वेगं मानुषः प्रसहिष्यति ||१६||

न स जातु वशे तस्थौ मम बालोऽपि सञ्जय |

किं पुनर्मम दुष्पुत्रैः क्लिष्टः सम्प्रति पाण्डवः ||१७||

निष्ठुरः स च नैष्ठुर्याद्भज्येदपि न संनमेत् |

तिर्यक्प्रेक्षी संहतभ्रूः कथं शाम्येद्वृकोदरः ||१८||

बृहदंसोऽप्रतिबलो गौरस्ताल इवोद्गतः |

प्रमाणतो भीमसेनः प्रादेशेनाधिकोऽर्जुनात् ||१९||

जवेन वाजिनोऽत्येति बलेनात्येति कुञ्जरान् |

अव्यक्तजल्पी मध्वक्षो मध्यमः पाण्डवो बली ||२०||

इति बाल्ये श्रुतः पूर्वं मया व्यासमुखात्पुरा |

रूपतो वीर्यतश्चैव याथातथ्येन पाण्डवः ||२१||

आयसेन स दण्डेन रथान्नागान्हयान्नरान् |

हनिष्यति रणे क्रुद्धो भीमः प्रहरतां वरः ||२२||

अमर्षी नित्यसंरब्धो रौद्रः क्रूरपराक्रमः |

मम तात प्रतीपानि कुर्वन्पूर्वं विमानितः ||२३||

निष्कीर्णामायसीं स्थूलां सुपर्वां काञ्चनीं गदाम् |

शतघ्नीं शतनिर्ह्रादां कथं शक्ष्यन्ति मे सुताः ||२४||

अपारमप्लवागाधं समुद्रं शरवेगिनम् |

भीमसेनमयं दुर्गं तात मन्दास्तितीर्षवः ||२५||

क्रोशतो मे न शृण्वन्ति बालाः पण्डितमानिनः |

विषमं नावबुध्यन्ते प्रपातं मधुदर्शिनः ||२६||

संयुगं ये करिष्यन्ति नररूपेण वायुना |

नियतं चोदिता धात्रा सिंहेनेव महामृगाः ||२७||

शैक्यां तात चतुष्किष्कुं षडस्रिममितौजसम् |

प्रहितां दुःखसंस्पर्शां कथं शक्ष्यन्ति मे सुताः ||२८||

गदां भ्रामयतस्तस्य भिन्दतो हस्तिमस्तकान् |

सृक्किणी लेलिहानस्य बाष्पमुत्सृजतो मुहुः ||२९||

उद्दिश्य पातान्पततः कुर्वतो भैरवान्रवान् |

प्रतीपान्पततो मत्तान्कुञ्जरान्प्रतिगर्जतः ||३०||

विगाह्य रथमार्गेषु वरानुद्दिश्य निघ्नतः |

अग्नेः प्रज्वलितस्येव अपि मुच्येत मे प्रजा ||३१||

वीथीं कुर्वन्महाबाहुर्द्रावयन्मम वाहिनीम् |

नृत्यन्निव गदापाणिर्युगान्तं दर्शयिष्यति ||३२||

प्रभिन्न इव मातङ्गः प्रभञ्जन्पुष्पितान्द्रुमान् |

प्रवेक्ष्यति रणे सेनां पुत्राणां मे वृकोदरः ||३३||

कुर्वन्रथान्विपुरुषान्विध्वजान्भग्नपुष्करान् |

आरुजन्पुरुषव्याघ्रो रथिनः सादिनस्तथा ||३४||

गङ्गावेग इवानूपांस्तीरजान्विविधान्द्रुमान् |

प्रवेक्ष्यति महासेनां पुत्राणां मम सञ्जय ||३५||

वशं नूनं गमिष्यन्ति भीमसेनबलार्दिताः |

मम पुत्राश्च भृत्याश्च राजानश्चैव सञ्जय ||३६||

येन राजा महावीर्यः प्रविश्यान्तःपुरं पुरा |

वासुदेवसहायेन जरासन्धो निपातितः ||३७||

कृत्स्नेयं पृथिवी देवी जरासन्धेन धीमता |

मागधेन्द्रेण बलिना वशे कृत्वा प्रतापिता ||३८||

भीष्मप्रतापात्कुरवो नयेनान्धकवृष्णयः |

ते न तस्य वशं जग्मुः केवलं दैवमेव वा ||३९||

स गत्वा पाण्डुपुत्रेण तरसा बाहुशालिना |

अनायुधेन वीरेण निहतः किं ततोऽधिकम् ||४०||

दीर्घकालेन संसिक्तं विषमाशीविषो यथा |

स मोक्ष्यति रणे तेजः पुत्रेषु मम सञ्जय ||४१||

महेन्द्र इव वज्रेण दानवान्देवसत्तमः |

भीमसेनो गदापाणिः सूदयिष्यति मे सुतान् ||४२||

अविषह्यमनावार्यं तीव्रवेगपराक्रमम् |

पश्यामीवातिताम्राक्षमापतन्तं वृकोदरम् ||४३||

अगदस्याप्यधनुषो विरथस्य विवर्मणः |

बाहुभ्यां युध्यमानस्य कस्तिष्ठेदग्रतः पुमान् ||४४||

भीष्मो द्रोणश्च विप्रोऽयं कृपः शारद्वतस्तथा |

जानन्त्येते यथैवाहं वीर्यज्ञस्तस्य धीमतः ||४५||

आर्यव्रतं तु जानन्तः सङ्गरान्न बिभित्सवः |

सेनामुखेषु स्थास्यन्ति मामकानां नरर्षभाः ||४६||

बलीयः सर्वतो दिष्टं पुरुषस्य विशेषतः |

पश्यन्नपि जयं तेषां न नियच्छामि यत्सुतान् ||४७||

ते पुराणं महेष्वासा मार्गमैन्द्रं समास्थिताः |

त्यक्ष्यन्ति तुमुले प्राणान्रक्षन्तः पार्थिवं यशः ||४८||

यथैषां मामकास्तात तथैषां पाण्डवा अपि |

पौत्रा भीष्मस्य शिष्याश्च द्रोणस्य च कृपस्य च ||४९||

यत्त्वस्मदाश्रयं किञ्चिद्दत्तमिष्टं च सञ्जय |

तस्यापचितिमार्यत्वात्कर्तारः स्थविरास्त्रयः ||५०||

आददानस्य शस्त्रं हि क्षत्रधर्मं परीप्सतः |

निधनं ब्राह्मणस्याजौ वरमेवाहुरुत्तमम् ||५१||

स वै शोचामि सर्वान्वै ये युयुत्सन्ति पाण्डवान् |

विक्रुष्टं विदुरेणादौ तदेतद्भयमागतम् ||५२||

न तु मन्ये विघाताय ज्ञानं दुःखस्य सञ्जय |

भवत्यतिबले ह्येतज्ज्ञानमप्युपघातकम् ||५३||

ऋषयो ह्यपि निर्मुक्ताः पश्यन्तो लोकसङ्ग्रहान् |

सुखे भवन्ति सुखिनस्तथा दुःखेन दुःखिताः ||५४||

किं पुनर्योऽहमासक्तस्तत्र तत्र सहस्रधा |

पुत्रेषु राज्यदारेषु पौत्रेष्वपि च बन्धुषु ||५५||

संशये तु महत्यस्मिन्किं नु मे क्षममुत्तमम् |

विनाशं ह्येव पश्यामि कुरूणामनुचिन्तयन् ||५६||

द्यूतप्रमुखमाभाति कुरूणां व्यसनं महत् |

मन्देनैश्वर्यकामेन लोभात्पापमिदं कृतम् ||५७||

मन्ये पर्यायधर्मोऽयं कालस्यात्यन्तगामिनः |

चक्रे प्रधिरिवासक्तो नास्य शक्यं पलायितुम् ||५८||

किं नु कार्यं कथं कुर्यां क्व नु गच्छामि सञ्जय |

एते नश्यन्ति कुरवो मन्दाः कालवशं गताः ||५९||

अवशोऽहं पुरा तात पुत्राणां निहते शते |

श्रोष्यामि निनदं स्त्रीणां कथं मां मरणं स्पृशेत् ||६०||

यथा निदाघे ज्वलनः समिद्धो; दहेत्कक्षं वायुना चोद्यमानः |

गदाहस्तः पाण्डवस्तद्वदेव; हन्ता मदीयान्सहितोऽर्जुनेन ||६१||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.