श्रीमन्निगमान्तमहादेशिकविरचितः
तत्त्वमुक्ताकलापः
॥ अथ बुद्धिसरः चतुर्थः ॥ ४ ॥
धीत्वाद्वेद्मीति सिद्धा स्वयमितरमतिर्बुद्धिलक्ष्मादिधीवद्यद्वा सर्वज्ञधीवन्न स मतियुगवान्नापि चैकोनवेदी । नो चेद्धारामतौ सा प्रथममपि सती नावबुद्धेति धीः स्यात् स्वस्यां वृत्तेर्विरोधोऽप्युपशमनमियादुक्तदृष्टान्तनीत्या ॥ १ ॥
स्मृत्या शब्दानुमानप्रभृतिभिरपि धीर्वेद्यते स्वप्रकाशा धीत्वादेस्तामवेद्यामनुपधि वदतः स्वोक्तिबाधादयः स्युः । वेद्यत्वे सा जडा स्यादिति च विहतिमद्व्याप्तिभङ्गश्च नो चेच्छिष्याचार्यादिसर्वव्यवहृतिविरहाज्जातमौनं जगत्स्यात् ॥ २ ॥
बुद्धेरर्थप्रकाशादनुमितिरिति चेत्तन्न साध्याविशेषात् साध्याद्भेदेऽपि बुद्धिर्यत उदयति ते स्यात्ततोऽर्थप्रकाशः । मध्ये बुद्धिः किमर्था ननु सममुभयोरप्यसाधारणत्वं तत्सा नित्यानुमेया यदि फलति तदा बुद्धितत्त्वापलापः ॥ ३ ॥
ज्ञातुर्ज्ञप्तेरलोपं कथयति निगमः स्मर्यते चैवमेषा तस्मादेकत्वसिद्धौ प्रसरणभिदया तद्भिदैकत्र पुंसि । योग्यादृष्टेरभावान्न च भवति सुषुप्त्याद्यवस्थासु बाधस्तत्तद्वस्तुप्रकाशक्षणविरहवती न प्रकाशेत बुद्धिः ॥ ४ ॥
उत्पत्त्यादेरभावान्न यदि दृशि भिदा नो दशाभेददृष्टेः दृष्टादृष्टव्यवस्था क्वचिदिह पुरुषे बुद्ध्यवस्थाभिरेव । अज्ञानाद्यैरनैकान्तिकमपि न च धीरात्मभेदेऽप्यभिन्ना ज्ञत्वाज्ञत्वादिभेदः कथमिव घटते सर्वथैका मतिश्चेत् ॥ ५ ॥
भेदादिर्दृश्यभावान्न दृशि दृशितया दृश्यधर्मा न दृक् चेत् पूर्वस्मिन्नित्यताद्यैरनियतिविहती वाग्विरोधादि शेषे । बाधश्चात्र द्वयोस्स्यात् स्वमत इह च यैस्साध्यते ये च साध्या नैते मिथ्या विरोधान्न दृशिरविमतेः स्यादभावोऽपि धर्मः ॥ ६ ॥
बुद्धिर्द्रव्यं विकारान्वयत इतरवद्बोद्धृवच्चाजडत्वात् संकोचादिप्रयोगा बहव इह तथा न ह्यमुख्या भवेयुः । एवं नास्या गुणत्वं गलति न खलु तत्तन्त्रसङ्केतसिद्धं लोके धर्मस्वभावो गुण इति विदितं साऽपि सिद्धा प्रभावत् ॥ ७ ॥
नित्या धीर्हेतुतोऽस्या भवति विषयितेत्येवमिच्छन्त एव द्रव्यत्वं नास्ति बुद्धेरिति गुणगणने तामपि स्थापयन्ति । अद्रव्यत्वं कथं स्याद्विकृतिमति विकृत्युज्झने पूर्ववत् स्यादित्थंभूताद्विकारान्न भवति यदि नातिप्रसङ्गप्रसङ्गात् ॥ ८ ॥
सर्वं ज्ञानं न मानं परमतविजयान्नाप्रमाणं स्वबाधान्मानामानव्यवस्था तदियमनुमता लौकिकैर्योक्तिकैश्च । तत्रामाने त्ववर्ज्यं स्वरसमिति वदन्त्यन्यथाभानमेके तत्सामग्र्यैव तादृग्व्यवहृतिमपरे लाघवादाश्रयन्ति ॥ ९ ॥
नाथैरुक्ता यथार्था विमतमतिरपि न्यायतत्त्वे तदेतद्भाष्येऽनूक्तं तदत्र व्यवहृतिरुभयी बाधिताबाधिताख्या । शुक्तौ रूप्यं प्रभाम्भः श्रुतिनयवशतः स्वाप्नमप्यस्तु सत्यं योग्यायोग्यादिभेदाग्रह इह चरमां गाहते संप्रतिष्ठाम् ॥ १० ॥
भेदाज्ञानात् प्रवृत्तौ न कथमुपरतिः स्यादभेदाप्रतीत्या रूप्यारूप्यभ्रमादाविव यदि न यतोऽनिष्टभेदाग्रहात् सा । आधारे भेदवर्जं स्फुरति सदृशवस्त्वन्तरे चोपपन्ना तत्तद्वस्तूचितैव व्यवहृतिनियतिस्त्वन्मते बुद्धिवन्नः ॥ ११ ॥
अन्यस्मिन्नन्यबुद्धिर्न यदि न घटते तत्प्रवृत्तिस्तदिच्छोरिष्टं तत्साधनं वा यदभिमतमतोऽन्यत्र सा नेति चेन्न । रत्नांशौ रत्नबुद्ध्या विदुरनवगते रत्न एव प्रवृत्तिं ज्ञातस्स्वेष्टानुषङ्गादविदितमपि खल्वाददीतात्र चैवम् ॥ १२ ॥
शुक्तित्वारूप्यतादेर्न तु रजततया भाति शुक्तिर्विगीता यद्वा धीत्वाद्यथार्था विमतमतिरतो बुद्धिबाधोक्त्ययोगः । वैशिष्ट्यासिद्धिमात्रप्रथनमिह परं बाधकस्यापि कृत्यं किंचासत्ख्यातिरंशे प्रसजति भवतामन्यथाख्यातिवेद्ये ॥ १३ ॥
योऽसौ बोधोऽन्यथाधीजनक इति जगे भ्रान्तिरित्युच्यतेऽसौ नेत्थं बोधापलापः क्वचिदपि वदतां बोधमध्यक्षसिद्धम् । यत्र प्रत्यक्षसिद्धादधिकमपि परे निष्फलं कल्पयेयुः सिद्धैरेवात्र तत्तद्व्यवहृतिरिति हि स्थापितं भाष्यकारैः ॥ १४ ॥
एकाधारे विरुद्धाकृतियुगयुगपत्ख्यातिरन्योन्यबाध्या डोलाविक्षेपकल्पा तदनियतिरियं धीक्रमे साक्षिणी नः । तस्मात्तत्तद्विशेषस्मृतिसमसमयं छन्नतत्तद्वरोधः ख्यातस्साधारणोऽर्थः परमिह विशये येन बुद्ध्यन्तरं वः ॥ १५ ॥
दुस्सधा बाधधीभ्यां सदसदितरता कुत्रचिद् व्याहतत्वात् सत्त्वासत्त्वं च ताभ्यां कथमिव न भवेद्व्याहतेश्चेत् समं तत् । दृष्टत्वाद्वा विशेषः क्वचिदपि न हि नस्सर्वरूपेण सत्त्वं नासत्ता चानुपाधिर्न च विमतिरिह ब्रह्मतुच्छातिरेके ॥ १६ ॥
रूप्यं जातं तदा चेन्न रजतमिति धीरप्रमा स्यादमुष्मिन् कार्यासामर्थ्यमात्रान्न तदिति कथनं कल्पतेऽतिप्रसक्त्यै । शुक्तौ चैतत्तदात्वे कथमिव जनयेद् दुर्घटाऽनाद्यविद्या नाक्षादिस्त्वर्थहेतुर्न च रजतमतिस्सा हि तेनैव जन्या ॥ १७ ॥
सत्त्वासत्त्वद्वयाख्यद्वयविरहचतुष्कोटिमुक्तं च तत्त्वं व्याघाताद्यैर्विधूतं न यदि तव कथं सप्तभङ्गीनिषेधः । तुच्छालीकादिशब्दाः क्वचन सति परं क्वाप्यसत्त्वे प्रवृत्ता वन्ध्यापुत्रादिशब्दैर्भजति च समतां विध्यलीकादिवादः ॥ १८ ॥
व्याघातादिप्रसङ्गौ प्रमितिपरिभवे मानतोऽमानतो वा मानान्मानस्य सिद्धौ स्वतदितरपरित्राणमेकप्रवृत्त्या । साधीयानेष पन्थास्समयिभिरखिलैरर्थ्यतां सार्थनीत्या नोचेदुच्छिन्नलोकव्यवहृतिनियमाः कामचाराः कथास्स्युः ॥ १९ ॥
ज्ञानाकाराधिकं हि प्रथितमिदमिति श्वेतपीतादि बाह्यं तादात्म्ये तस्य साध्ये सहमतिनियमाद्यन्यथैवात्र सिद्धम् । ग्राह्यात्मत्वान्मृषा स्यान्मतिरपि यदि वा ग्राह्यमप्यस्तु तथ्यं किंचान्योन्यं विरुद्धैर्युगपदवगतैर्धीरभिन्ना कथं स्यात् ॥ २० ॥
हन्त त्रय्यन्तपक्षे कणभुगभिमतो नावयव्यस्ति कश्चित् संघातो नांशतोऽन्यस्तदणुषु न भवेद् दृश्यतेत्यन्धचोद्यम् । संसर्गैर्विश्वमेतद् घटत इह यथादृष्टि दृश्याणुपक्षे नादृष्टं कल्पयामः परिणतिभिरसौ दृश्यतादिः श्रुते स्यात् ॥ २१ ॥
आत्मख्यातौ मतीनां मिथ इतरतया संविदन्या न सिध्येदन्योन्यार्थानभिज्ञाः कथमिव च धियो वादजल्पादि कुर्युः । मानाभासादिसीमा न कथमपि भवेद् ग्राह्यमिथ्यात्वसाम्यात् सर्वं तत्संवृतेश्चेन्न खलु सदितरा साऽपि तत्तन्नियन्त्री ॥ २२ ॥
एकाकारप्रतीतिर्निजमतिविहता नैव दृष्टे गुरुत्वं व्यर्थाऽस्मिन् संमतिस्ते बहिरपि नियतं वक्ष्यते ग्राह्यलक्ष्म । व्याघातो लिङ्गसंख्यापरिमितिवचसा नास्त्युपाधिप्रभेदादेकं नानाकृति स्यान्निजगुणभिदया बाधिते धीः स्वहेतोः ॥ २३ ॥
धीत्वात्स्वान्यार्थशून्या विमतमतिरिति स्वोक्तिबुद्ध्यादि भग्नं ज्ञानज्ञानेऽतिचारः क्षणिकविविधधीसन्ततेः संमतत्वात् । दृष्टान्तस्साध्यशून्यो न च निरुपधिकासत्प्रतीतं क्वचिन्नस्तावन्मिथ्यात्वकॢप्तौ न तु फलति तवाशेषबाह्यार्थभङ्गः ॥ २४ ॥
प्रत्यक्षं संप्रयुक्ते स्मृतिरपि विदिते व्याप्तिसिद्धेऽनुमा स्यात् शाब्दी धीरन्वितादौ भवति तदनुगा भ्रान्तिधीः क्वाप्यसिद्धेः । व्योमाम्भोजादिशब्दोऽप्यनियतमतिकृत् स्यात् पदार्थं त्यजेच्चेत् नो चेत्स्यादन्यथाधीर्ध्रुवमिह यदि वाऽनन्वितत्वाप्रतीतिः ॥ २५ ॥
नेष्टः स्वान्यग्रहश्चेत् क्वचिदपि न हि धीर्धर्मिणी वः कृतान्ते बुद्ध्यात्मा वासनाऽतो न च किमपि तयाऽपेक्षणीयं बहिष्ठम् । धीसन्ताने त्वनादौ भवति च निखिला वासनैकः क्षणस्तन्निश्शेषध्वंसिनी सा युगपदखिलमप्युद्वमेत् कल्पनौघम् ॥ २६ ॥
स्वाकारोऽर्थैः स्वबुद्धौ निहित इति च नाऽऽधारहानाद्ययोगात् स्वच्छे च्छाया परस्मिन्न च भवति न च स्यादसौ रूपशून्ये । साम्यासत्त्याद्ययोगाद्विषयविषयिणोर्नापि भेदाग्रहः स्यान्नैकाका(रेण रक्तं)रोपरक्तं द्वयमपि स च ते ग्राह्यतो नातिरिक्तः ॥ २७ ॥
संसर्गाद्बोध्यबुद्ध्योरभिदधति सिताद्याकृतेस्सिद्धिमन्ये सादेश्यात् तन्मतेऽसौ न तु भवति तथा कालजोऽतिप्रसक्तः । व्यंशे नैवाभिमुख्यं विषयविषयिताऽत्राकृतेः प्रागसिद्धा क्वास्यास्संसृष्टनाशे जनिरिति कुसृतिः पूगताम्बूलनीतिः ॥ २८ ॥
भ्रान्तौ रूप्यादिरर्थो विलसति निरधिष्ठान इत्याहुरेके तन्नाधिष्ठानदृष्टेरनियतिविरहादन्यथाऽतिप्रसङ्गात् । निष्ठ्यूतस्वाक्षिदोषप्रभृतिषु च भवेत् केश(गुच्छा)पुञ्जादिबुद्धिः किं चैषाऽप्यन्यथाधीर्यदनिदमिदमित्यत्र भातं ब्रवीषि ॥ २९ ॥
ख्यातिं भ्रान्तिस्वरूपां जगदुरविषयां केऽपि तद्धीविरुद्धं ख्यातिः कस्यापि पुंसः क्वचिदपि विषये सिद्धिरूपा हि सिद्धा । अत्रार्थासत्त्वतः स्यादियमविषयता सर्वथा सत्त्वतो वा तादृक्त्वेऽप्यन्यथाख्यात्यसदधिगमयोरेव पर्याय एषः ॥ ३० ॥
प्रत्यक्षादित्रयं च स्मृतिरिति च मतिः श्रुत्यभीष्टा चतुर्धा प्रत्यक्षं त्वत्र साक्षात् प्रतिपदनुमितिर्व्याप्यतो व्यापके धीः । शाब्दी वाचाऽर्थबुद्धिः स्मृतिरपि कथिता संस्क्रियामात्रजा सा येषामिष्टाऽन्यथाधीः पृथगभिदधिरे तैरिहान्येऽपि भेदाः ॥ ३१ ॥
ईदृक्त्वात्यन्तशून्ये न हि मिषति मतिर्नापि युक्तिस्तथात्वे सामग्रीभेदवेद्ये पृथगवगतिरस्त्वत्र नैषाऽन्यथात्वात् । धीत्वादेर्वा विशिष्टं प्रथयति जनिता बुद्धिराद्याक्षयोगैः तस्मात् संस्कारशून्येन्द्रियजनितमतिर्निर्विकल्पेति वाच्या ॥ ३२ ॥
लिङ्गाद्यव्यापृताक्षान्वयवति विषयेऽक्षार्थजन्यो विकल्पस्संस्कारस्त्विन्द्रियाणामिह सहकुरुतां तावता न स्मृतित्वम् । न स्यात्तस्यान्यथात्वं बहुविहतिहतैः कल्पनात्वादिलिङ्गैः स्याद्वाऽनैकान्त्यमेषामनियतिमविसंवादिबाधश्च सूते ॥ ३३ ॥
शब्दात् प्रागर्थसिद्धेः परमपि च तयोरक्षभेदादिबोधात् शब्दैक्ये वाच्यभेदादपि बहुषु पदेष्वेकवाच्यप्रसिद्धेः । साम्यासत्त्याद्ययोगाद्युगपदवगतेर्व्यक्तिजात्यादिशब्दैः शब्दाध्यासो न युक्तः प्रथयति विषयं किन्तु संज्ञा तटस्था ॥ ३४ ॥
धीत्वाच्छब्दानुविद्धां विमतमतिमुशन्त्यत्र शाब्दा न सत्तत्तस्यार्थः स्मार्यभावात् स्फुरतु च स कथं बालमूकादिबोधे । सूक्ष्मा वाङ्मात्रकल्प्या न हि समधिगता तादृशी क्वापि संज्ञा वाचस्सूक्ष्माद्यवस्थाकथनमपि विदुर्भावनाद्यर्थमाप्ताः ॥ ३५ ॥
सत्त्वाद्यैरक्षगम्यं विमतमिति वदन् वक्तु बाधं विपक्षे श्रुत्यालम्बे तु सैव प्रसजति शरणं तादृशादृष्टसिद्धौ । अध्यक्षं लौकिकं चेदधिगतिविहतं भावनोत्थं न युक्तं नित्यं त्वक्षानपेक्षं निरुपधिरिह ते दुर्वचोऽक्षप्रकर्षः ॥ ३६ ॥
प्रत्येकं ह्यक्षवेद्यं प्रतिनियततया सर्वलोकप्रसिद्धं काकोलूकादिकानामपि निजविषये ह्यैक्षि चक्षुःप्रकर्षः । मान्थालव्यालपूर्वेष्वपि खलु रसनास्पर्शनादिक्रमात् स्यादक्षस्थानैक्यमात्रं स्थितविषयमतस्त्वक्पिपासादिवाक्यम् ॥ ३७ ॥
संयुक्तव्यापकत्वप्रभृतिसहकृतैर्व्याप्तिधीसव्यपेक्षैरक्षैरेवानुमाधीर्भवतु किमितरत्कल्पयित्वेति चेन्न । निर्व्यापारेन्द्रियस्याप्युदयति खलु सा भूतभाव्यादिलिङ्गैः स्मृत्यारूढैः श्रुतैर्वा मन इह सकलज्ञानसामान्यमिष्टम् ॥ ३८ ॥
पक्षस्थं व्याप्यमादौ विदितमिह तु न व्यापकस्य प्रसक्तिर्व्याप्तिस्तेन स्मृता स्यान्न च तत उभयोर्निश्चयः पक्षयोगे । तादृग्व्याप्यान्वितोऽसाविति मतिरपि न व्यापकं तत्र यच्छेत् तस्मात्तद्व्यापिपक्षान्वयनियतमतिर्नाक्षतस्संस्कृतेर्वा ॥ ३९ ॥
नायोग्यस्याक्षबाधः स्वविषयविहतिं न क्षमेतानुमानं स्वस्यैवापेक्षितत्वादनुमितिमखिलां बाधते नागमोऽपि । निस्सन्देहप्रवृत्तेरिह निपुणधियां नाप्यसौ संशयात्मा वैशिष्ट्यान्न स्मृतिश्चेत्यनुमितिरुदिताऽध्यक्षवन्मानमन्यत् ॥ ४० ॥
सामान्यं प्राक्प्रसिद्धं न पुनरनुगमस्सिद्धपूर्वो विशेषे व्याप्तिस्सर्वाऽपि भग्ना क्वचिदपि सकलव्याप्यसङ्गत्यदृष्टेः । भूयोदृष्टेर्व्यवस्था न हि भवति तथोपाधयः स्युर्दुरूहा इत्याद्याः स्वेष्टतर्कस्थिरनियमजुषां दर्शनेनैव बाध्याः ॥ ४१ ॥
दृष्टेऽतीचारशङ्का न भवति यदि सा क्वापि देशान्तरादौ सिद्धा तत्रानुमानस्थितिरथ न तदा क्वातिशङ्कावकाशः । व्याघातान्ता तु शङ्का न पुनरुदयति स्वप्रवृत्त्यादिभङ्गाद्यावच्छङ्कं च तर्कप्रसृतिरिह ततो नानवस्थादिदोषः ॥ ४२ ॥
व्याप्यत्वं यस्य यत्र स्फुरति सहचरे सोऽस्य हेतोरुपाधिस्साध्यव्यापी समोऽयं समगणि निपुणैस्साधनाव्यापकश्च । योग्यादृष्ट्या च तर्कैरपि तमपनुदेच्छङ्कितं निश्चितं वा साम्यं नात्राहुरेके तदभिमतमिह व्यापकादर्शनादि ॥ ४३ ॥
नित्यो व्यापी च न स्यादुपधिरिह सदा सर्वतस्तत्प्रसङ्गान्नाप्येष व्याप्यमात्राकृतिरवियुतितो नैकलिङ्गोपपत्तेः । नासौ पक्षेतरत्वप्रभृतिरपि भवेद्व्यापकोऽतिप्रसङ्गात्तुल्यस्साध्येन पक्षे सह यदि घटते साधनं व्याप्नुयात् सः ॥ ४४ ॥
दृष्टं साध्यस्य यत्स्यात् सममधिकमपि क्वापि पक्षान्यता वा तस्याभावेऽपि साध्ये सति यदि न भवेद्बाधकं व्यापि नैतत् । दुर्वारे बाधके तद्द्वयमपि दहनानुष्णतादावुपाधिः साध्यं तद्व्याप्यतां वा हरतु स विरहात् पक्षतो हेतुतश्च ॥ ४५ ॥
व्याप्तिः पक्षान्वयश्चेत्युभयमविकलं यस्य हेतुस्स सम्यङ्ङाभासौ तद्विहीनौ तदुभयविततिस्स्यादनैकान्तिकादिः । तत्तद्वक्रानुमोत्प्रेक्षणमपि घटते न क्वचित् साध्यसिद्ध्यै स्वव्याघातादिदोषादविषयनियतेर्वाञ्छितालाभतश्च ॥ ४६ ॥
साध्येन व्याप्तिमेके जगदुरिह सकृद्दर्शनेनैव गम्यां शङ्कानिर्धूतिमात्रं फलमिति च परं भूयसां दर्शनानाम् । धूतोपाधिस्तु योगः स्फुरति बहुविधैर्दर्शनैरेव पश्चात् तज्जात्याधारभावाद्युगपदखिलमप्यक्षसंबन्धि तत्र ॥ ४७ ॥
अस्मिन् सत्येतदस्तीत्यवितथनियतेरन्वयव्याप्त्यभिख्या तस्याभावे तु तन्नेत्ययमपि नियमस्तौ पृथक् चापृथक् च । तस्मात् त्रेधाऽनुमानं कतिचिदकथयन्नेकहानाद्द्विधैके कश्चिच्चेद्व्याप्तियुग्मप्रिय इह भविता वर्णयत्वैकविध्यम् ॥ ४८ ॥
सर्वस्थः केवलान्वय्यघटितसरणिः स्यात् स्ववृत्तेर्विकल्पे साध्ये स्वस्मान्निवृत्ते भवति च स तदा साध्यहानेर्विपक्षः । हेतोस्तद्वृत्त्यवृत्त्योरभिमतविहतिस्तत्र चैवं विकल्पादित्युत्प्रेक्षाविभागं विघटयतु न वा सर्वथा व्याप्तिसिद्धिः ॥ ४९ ॥
तत्तद्धीव्यक्तिभेदात्प्रमितिविषयता मानसिद्धा घटादौ प्रत्यक्षत्वं च तद्वत्तदिदमुभयमध्यक्षसिद्धं तथैव । इत्थं तद्वृत्त्यवृत्तिव्यतिकरकलहैः केवलान्वय्यपोहे दुर्वारः शून्यवादो न तमभिमनुषे स्थापयन् किञ्चिदिष्टम् ॥ ५० ॥
ख्यातत्वाच्छब्दवाच्यो विमतिविषय इत्यादिरूपे तु साध्ये व्यर्थोऽसौ हेतुरित्थं विमतिसमुदयासंभवादित्ययुक्तम् । व्याघातव्यक्त्यभावाच्छ्रुतिशकलबलात् कूटयुक्त्यादिभिर्वा पाकः कश्चित् प्रमुह्यन् प्रमितिगतिकथापक्तिमैर्हि प्रबोध्यः ॥ ५१ ॥
पक्षेऽन्यत्रापि साध्यं न मितमविदिते नापि संबन्धधीः स्यात् क्वापीत्यप्यस्य सिद्धावृजुरविहतिमान्नास्ति सामान्यहेतुः । सत्यप्यस्मिन्न शक्याधिकरणनियतिः स्वेच्छया सर्वसाम्याद्वैषम्यं दुर्वचं तत्प्रमितिकरणता क्वापि नावीतहेतोः ॥ ५२ ॥
साध्याभावो विपक्षे कथमिव विदितस्तस्य साध्याप्रसिद्धेः भावात्मन्यप्यमुष्मिन् प्रतिभटवपुषा ह्यत्र ते व्याप्तिसिद्धिः । इत्यज्ञातान्वयेऽस्मिन् कथमिव सुशकः स्यादभावो नियन्तुं हेतौ सारोऽन्वयोऽतः क्यचिदनुपधिकः केवलान्वय्यपीष्टः ॥ ५३ ॥
संत्यक्तावीतहेतोरभिदुरमखिलं लक्षणाभावतः स्यात् मैवं लक्ष्मैव भेदस्तदवगमकमित्याप्तवाक्ये तदुक्तिः । यद्वा गन्धादिरप्त्वप्रभृतिविरहितेष्वेव दृष्टो घटादिष्वाज्यादावन्वयी स्यादयमिव विमतेष्वेकलक्ष्मण्यपोहः ॥ ५४ ॥
भेदोऽबादेर्घटादौ विदित इतरथा त्वप्रसिद्धिः पुरोक्ता कृत्स्नक्षोण्यन्वितोऽसौ न विदित इति चेत् पक्षसिद्धिः कथं स्यात् । व्याहारेऽप्येवमूह्यं न खलु न विदितं तन्निमित्तं घटादौ नो चेत्तत्तन्निमित्तव्यवहृतिनियमस्थापनं दुश्शकं ते ॥ ५५ ॥
विद्यास्थानेषु धर्म्येष्विह यदगणयन् विस्तरं न्यायपूर्वं तत्रापि ह्यक्षपादस्स इति न नियतिर्न्यायतत्त्वेऽनुगम्ये । नार्षत्वादिप्रधानं क्वचिदपि यदि वा वार्तिकं क्वापि युक्तं यद्वा नेयं कथंचिन्निखिलमपि न किं निर्वहन्त्येवमन्ये ॥ ५६ ॥
अन्यस्मै स्वप्रतीतं प्रकटयति यया वाक्यवृत्त्याऽनुमानं तत्रोदाहृत्युपेताऽप्यविकलमिह तद्बोधयेन्नोपनीतिः । युक्ता तूदाहृतिस्स्वोपनयनिगमना सप्रतिज्ञादिका वा वक्तव्या वावदूकैस्तदधिकमपि वा संमतेः स्याद्यथेष्टम् ॥ ५७ ॥
कार्यैर्वा कारणैर्वा स्वगुणत उत वा किञ्चिदस्तीति सिद्धं पक्षीकारादियोग्यं समयनियमितव्यक्तिभेदो न दोषः । सिद्धान्तास्पृष्टचित्तैरिति खलु पशुभिः पामरैर्वाऽनुमेयं नो चेद्रोचेत कस्मै विषमितमनसे वादसंग्रामकेलिः ॥ ५८ ॥
आभासोद्धारवाक्ये स्वयमिह पठितेऽप्यक्षतान्यस्य शङ्का स्याच्चेद्व्यर्थोपनीतिर्निगमनमपि ते तत्तदर्थे यदात्थ । तस्मादुद्घाटितानां परिहृतिरुचिता जेतुमिच्छोर्विशेषादुक्ते माने विमर्शो यदि भवति परं तत्र तर्कोऽपि वाच्यः ॥ ५९ ॥
तर्को व्याप्याभ्युपेतावनभिमतिपदव्यापकस्य प्रसक्तिर्मानप्रत्यूहघातिद्विविषय उदितः पञ्चधाऽऽत्माश्रयादिः । विश्रान्तिर्वैपरीत्ये प्रतिहतिविरहोऽनिष्टतोऽनानुकूल्यं व्याप्तिश्चास्याङ्गमेनं कतिचिदनुमितेस्तादृशं भेदमाहुः ॥ ६० ॥
यस्सर्वं नाभ्युपेयात् स्वपरमतविदा केन किं तस्य साध्यं प्रश्नोऽसावुत्तरं नः कथमनधिकृते कल्पनीयाः कथाः स्युः । मध्यस्थोऽप्येतदेवं यदि न न मनुते योजयेन्नात्र वादं नो चेन्माध्यस्थ्यहानिः परमनधिकृतिस्त(त्र)स्य शिष्याय वाच्या ॥ ६१ ॥
निर्दिष्टा व्युत्थितोक्तेर्विततिरिह कथा सा त्रिधा तत्र वादः कर्तव्यो मानतर्कैरभिमतिनियतैस्तत्त्वसिद्ध्यै विरागैः । जल्पाख्याऽन्या जयार्था भवति कथकयोस्साधनाक्षेपवत्त्वे सैव प्रोक्ता वितण्डा त्यजति परमते साधनं तां द्विधैके ॥ ६२ ॥
कर्तव्यत्वेन यत्तु प्रमितिपरवशैः कल्पितं स्वेच्छया वा यच्चाकर्तव्यमेवं परिभवनपदं तत्प्रहाणग्रहौ स्तः । स्वाचारद्यूतसंयत्प्रभृतिषु च तथा स्वीकृतेयं व्यवस्था नैनामीषद्वितण्डाऽप्यलमतिपतितुं साधनांशोज्झिताऽपि ॥ ६३ ॥
सद्दोषोक्त्या कथायां परपरिभवनं स्वोक्तहान्यादिनाम्ना तत्त्वाबोधस्य लिङ्गं विविधमकथयन्निग्रहस्थानमाप्ताः । तत्राचोद्यानुयोगं द्विविधमशकनासिद्धिभेदादवोचन् पूर्वो जातिः परस्तु च्छलमनृतवचः स्यादकालग्रहश्च ॥ ६४ ॥
जातिः स्वव्याहता वागुपधिनियतिभिर्भिद्यतेऽनेकधा सा युक्तत्यागस्त्वयुक्तग्रहणमविषये वृत्तिरप्यत्र दोषाः । स्वव्याघातोऽनुवृत्तश्छलमपि वचसां कल्पितार्थे निषेधस्तत्तद्वृत्तिप्रभेदादिदमपि विविधं विस्तरेणालमत्र ॥ ६५ ॥
यस्मिन्मानप्रवृत्तिस्तदिदमशरणैरभ्युपेत्यं हि सर्वैर्व्याघातो यत्र दृष्टस्तदपि न शरणं साधने दूषणे वा । इत्थं सिद्धे कथानां रहसि कथकयोस्सावधानत्वभूम्ने षट्पक्ष्यन्ता सदुक्तिः परिषदनुमता रुद्धरोधावकाशा ॥ ६६ ॥
वाक्यार्थो यस्त्वपूर्वो न खलु किमपि तद्व्याप्यमस्मिन् पदादौ साङ्गत्यं बोधकत्वादधिकमनुमितौ ग्राह्यमत्रैतदेव । वक्तृज्ञानानुमानादिकमपि न भवेदन्ततो व्याप्त्यभावात्तत्तल्लिङ्गाप्रतीतावपि मतिजननाद्वक्त्रभावाच्च वेदे ॥ ६७ ॥
प्रत्येकं स्वानुभूतात्तदुभयमधिकं संस्कृतिद्वन्द्वयोगात् स्मृत्यारूढं विजानन्त्यनुमितिवचसोर्वेद्यमप्येवमस्तु । पारोक्ष्यं तत्स्मृतित्वादनधिकमिति न प्रागनिर्धारितांशज्ञानस्य स्पष्टदृष्टेः परिहितहरितस्त्वेतदस्पष्टमाहुः ॥ ६८ ॥
प्रत्यक्षादीव मानं विमतिपदवचो हेतुदोषाद्यभावाद्वाक्यत्वादप्रमाणं विमतमिति यदि स्वोक्तिबाधादयः स्युः । अव्युत्पन्नस्य बोधं न जनयति वचस्संगतिज्ञानहानेर्लिङ्गं व्याप्तिप्रतीतेः पुरत इव न चावद्यमेतावताऽस्य ॥ ६९ ॥
वक्त्री व्युत्पत्तितः प्राग्यदि निजविषयं वाग्विभक्त्यन्वयाद्यैः किं व्युत्पत्त्या तिरश्चामपि न कथमितो बालकानां च बोधः । स्वा(र्थे)र्थश्शब्दस्तथा चेत्तदपि न विषयैस्तस्य साम्यात्तदन्यैरव्युत्पन्नत्वतो वा स्वमपि न गमयेदेष तद्वत्स्ववाच्यम् ॥ ७० ॥
शब्दस्संकेतितोऽर्थं गमयति विमतोऽपीति शास्त्रप्रतीपं तत्कर्ताऽद्य ह्यसिद्धस्स च दुरधिगमस्सृष्टिकालेऽनुमानैः । श्रुत्या चेत्प्रत्युतैतद्विभुरपि तनुते वेदतो नामरूपे व्याकृत्यादेर्विरुद्धौ क्रमजनिविलयौ क्षुद्रभाषासु नैवम् ॥ ७१ ॥
व्युत्पत्तिः कार्य एव प्रथमसमुदिता वृद्धवाक्यात्प्रवृत्तौ तत्सर्वास्तत्पराः स्युर्गिर इति यदि न क्वापि सिद्धेऽपि सिद्धेः । स्याद्वा कार्यैकलक्ष्या प्रथममिह कुतश्शब्दशक्तिं नियच्छेत्तात्पर्यं चान्यथाऽपि ह्यनितरशरणैर्लोकवेदप्रयोगैः ॥ ७२ ॥
कोऽसौ पाञ्चाल इत्याद्यनुभवतु वचस्सिद्धतात्पर्ययोगं शास्त्रं कार्यैकशेषं गमयति निखिलं सिद्धमित्यर्धरम्यम् । यत्र ज्ञानं पुमर्थस्तदवधिवचनं तत्र बाधोऽपि नास्मिन्नातो नाट्यादिनीतिर्निधिवचननयादन्यथा स्याद्विरोधः ॥ ७३ ॥
कस्मैचिज्ज्ञापयैतत्त्वमिति परकृतां वीक्ष्य चेष्टां तदन्यस्तस्मै ब्रूते ततस्तद्गमकमिह वचो वेत्ति चेष्टाविदन्यः । तत्तद्वाच्येषु शब्दैर्हितविदभिहितैरङ्गुलीयोगपूर्वं जानन्नन्यत्र तत्तत्स्वहितजनकृतिं शिक्षणार्थामवैति ॥ ७४ ॥
कश्चित् कस्यापि पुंसस्सुतजनिमिह तत्प्रीतिकृत्त्वं च जानन् तज्जन्मोक्तिप्रहृष्टे पितरि सुतजनेर्वेत्ति तद्वाच्यभावम् । शक्यं तद्धर्षहेतुस्स इति नियमनं सन्निधानादियुक्तेरासीदत्सु प्रसूत्याद्यनियतिकथनं कार्यवाक्येऽपि शक्यम् ॥ ७५ ॥
शब्दस्यैतस्य वाच्यस्त्वयमिति च तथा वाचकोऽसावमुष्येत्येवं शिक्ष्येत पश्चात् कतिपयवचसां पूर्वनिर्ज्ञातशक्तिः । इत्थं व्युत्पन्नतत्तत्सहपठितिवशाद्वाचकान् वेत्ति कांश्चिद्ये लोके ते हि वेदे समधिकमिह यत्तत्तु तत्रैव वेद्यम् ॥ ७६ ॥
व्युत्पाद्यं नाप्रतीतं प्रसजति विदिते नैरपेक्ष्यं श्रुतीनामिन्द्राद्यर्थे पदानामिति दुरधिगमा नामतेत्यप्ययुक्तम् । अप्रत्यक्षेषु सिंहप्रभृतिषु वचनैः कैश्चिदारण्यकोक्तैः व्युत्पद्यन्ते हि पौराः स्वयमपि च वदन्त्येवमत्रापि वार्ता ॥ ७७ ॥
व्यक्तिः शब्दैर्न बोध्या यदि न खलु भवेदन्वितज्ञप्तिसिद्धिस्तच्छक्तिर्व्यक्तिमात्रे न च भवति यतः स्वोपलम्भादिबाधः । धर्मो धर्मी च नैकं किमपि न च तयोर्भिन्नयोरप्यभेदस्तस्मात्तां तद्विशिष्टामभिदधति पदान्यन्यथा गत्यभावात् ॥ ७८ ॥
जातिं व्यक्त्या विहीनां स्पृशति न धिषणा तेन जातौ प्रवृत्ता शक्तिर्व्यक्तिं स्पृशेच्चेत् स्थित इह वचसां तद्विशिष्टावगाहः । जातेर्बोधः स्वहेतोः स्थितिरपि हि भवेत्क्वापि गोत्वोक्तिनीत्या शब्दात्तत्पारतन्त्र्यं स्फुरति यदि पराबोधने तन्न शक्यम् ॥ ७९ ॥
जातौ शक्तिर्लघुत्वात् भवति च वचसां भाषणं जातिमात्रे भेदो निष्कर्षकेभ्यस्त्विह परमजहल्लक्षणाया निरूढिः । इत्युक्तं कैश्चिदेवं यदि भवति तदोपाधिशब्देऽपि नीतिर्मन्दं वैषम्यमात्रं भवतु च नियतिः प्रत्ययैर्लक्षणायाः ॥ ८० ॥
मत्वर्थीयानुशिष्टिर्गुणवचनगणे वैभवात्स्यादसौत्री शक्तिस्तत्रापि तत्तद्गुणवति नियता जातिशब्दाविशेषात् । निष्कृष्यैषां प्रयोगे क्वचिदगतितया द्रव्य(शक्ति)वृत्तिर्निरुद्धा शक्तिस्साम्ये विभक्तेस्तदवधिररुणाधिक्रियायामभाषि ॥ ८१ ॥
जीवं देवादिशब्दो वदति तदपृथक्सिद्धभावाभिधानान्निष्कर्षाभावयुक्ताद् बहुरिह च दृढो लोकवेदप्रयोगः । आत्मासंबन्धकाले स्थितिरनवगता देवमर्त्यादिमूर्तेर्जीवात्मानुप्रवेशाज्जगति विभुरपि व्याकरोन्नामरूपे ॥ ८२ ॥
संस्थानैक्याद्यभावे बहुषु निरुपधिर्देहशब्दस्य रूढिर्लोकाम्नायप्रयोगानुगतमिह ततो लक्ष्म निष्कर्षणीयम् । अव्याप्तत्वादिदुःस्थं परमतपठितं लक्षणं तत्र तस्माद्यद्धीतुल्याश्रयं यद्वपुरिदमपृथक्सिद्धिमद्द्रव्यमस्य ॥ ८३ ॥
शब्दैस्तन्वंशरूपप्रभृतिभिरखिलः स्थाप्यते विश्वमूर्तेरित्थंभावः प्रपञ्चस्तदनवगमतस्तत्पृथक्सिद्धमोहः । श्रोत्राद्यैराश्रयेभ्यः स्फुरति खलु पृथक्च्छब्दगन्धादिधर्मो जीवात्मन्यप्यदृश्ये वपुरपि हि दृशा गृह्यतेऽनन्यनिष्ठम् ॥ ८४ ॥
निष्कर्षाकूतहानौ विमतिपदपदान्यन्तरात्मानमेकं तन्मूर्तेर्वाचकत्वादभिदधति यथा रामकृष्णादिशब्दाः । सर्वेषामाप्तमुख्यैरगणि च वचसां शाश्वतेऽस्मिन् प्रतिष्ठा पाकैस्तस्याप्रतीतेर्जगति तदितरैः स्याच्च भङ्क्त्वा प्रयोगः ॥ ८५ ॥
व्युत्पत्तिर्वाचकानां स्थिरचरविषये लोकतो नेश्वरादावव्युत्पन्नार्थवृत्तिस्त्वधिपतिनयतः स्यादमुख्येति चेन्न । व्युत्पत्तेः पूरणं हि श्रुतिशिरसि कृतं नोपरोधः कथंचिद्देहित्वं चाधिपत्यात् समधिकमिह खल्वक्षपादप्रणीतात् ॥ ८६ ॥
न ह्यक्षैः केऽपि वर्णाभ्यधिकमिह विदुर्वाचकं सावधानाः शब्दादर्थं प्रतीमस्त्विति च जनवचो नैकमन्यद्व्यनक्ति । सामग्र्यैक्यादिनीत्या भवति मतिरियं तादृशे वर्णसंघे संभेदे वा पदानामिति न तदधिकः कोऽपि शब्दोऽपरोक्षः ॥ ८७ ॥
यादृग्भिः स्फोटधीस्ते भवति भवतु तैरर्थधीरेव वर्णैः वर्णेषूक्तो विकल्पस्समगतिरुभयोर्यौगपद्यक्रमादिः । वाक्यस्फोटेऽपि तुल्यं तदिदमिह पदैरक्षरैर्वाऽवगम्ये स्फोटे तद्बुद्धिबोध्ये सति च न घटते तत्तदध्यासकॢप्तिः ॥ ८८ ॥
शब्दो ब्रह्मेति यत्तन्मुनिभिरभिदधे स ह्यचिद्भेद इष्टः सूक्ष्माकारस्तु सोऽर्थं न गमयति यतस्सत्तया नैष हेतुः । स्फोटस्त्वं वर्णजुष्टस्त्विति यदभिहितं भारते साऽपि शक्तिः वर्णानां स्यात्तयाऽर्थः स्फुट इति घटते स्फोटशब्दोऽपि तस्याम् ॥ ८९ ॥
यत्प्रत्येकादिकल्पे गमकविषययोरप्रतीत्यादिदोषात् बौद्धाश्शब्दाश्च बुद्धिं कतिचिदभिदधुर्वाक्यवाक्यार्थरूपाम् । नैतद्बाह्येन बाह्यो विदित इति मतेर्बाधकोक्तेश्च साम्याद्वाक्यादावैक्यबुद्धेस्त्वनुकथितनयादन्यथासिद्धितश्च ॥ ९० ॥
आचष्टे प्रत्ययश्च प्रकृतिरपि मिथः श्लिष्टमित्यभ्युपेतं स्पष्टं दण्ड्यादिशब्देष्वपि तदितरथा धीविरोधप्रसङ्गात् । अन्योन्यस्मारितार्थान्वितमभिदधति स्वार्थमेवं पदानि स्यान्नातश्चक्रकादिर्न च पुनरभिधा नापि वाक्यस्य भेदः ॥ ९१ ॥
स्वार्थे शब्दस्स चासावपि मिलितमतौ व्यापृतावित्यनेकाः कल्प्यास्ते शक्तयः स्युः कथमपि न भवेत्तादृशी शक्तिरेका । अर्थेषु स्मारितेषु प्रथममथ च तद्योग्यतादौ विमृष्टे शब्दैरेवान्विते धीर्मम भवति तव स्वार्थबोधव्यपेतैः ॥ ९२ ॥
संसर्गं वाक्यवेद्यं स्फुटमभिदधते कानिचिद्भाष्यवाक्यान्याद्यव्युत्पत्तिरुक्ता प्रतिपदमिह च क्वापि नान्यस्य हानिः । इत्थं मत्वा सयूथ्याः कतिचिदभिहितान्योन्यसंसर्गमीषुस्तत्तत्स्वारस्यलोकप्रतिपदनुगमात्तच्च नाधिक्षिपामः ॥ ९३ ॥
द्वारे भिन्ने समानाधिकरणवचसामैक्यतात्पर्यसिद्धेः भेदाभेदस्थितानामिदमनुगुणमित्यार्हतादेर्दुराशा । वस्तुस्थित्यैकरूप्ये वचनमितरथा बोधयत्स्यान्न मानं तन्मानत्वाद्द्विधैकं स्थितमिति च न सद्भेद एवोपपत्तेः ॥ ९४ ॥
ऐकाधार्याद्विगीतं तदिदमिति नयाल्लक्षयेन्निर्विशेषं मैवं बाधातिचारस्ववचनहतिभिः स्वोक्तदृष्टान्तदौस्थ्यात् । तत्तेदन्ताविरोधो वचसि न हि भवेत्तादृशाध्यक्षनीत्या नो चेत् स्याद्वस्समस्तं क्षणिकमिह पुनर्देशभेदः क्रमात् स्यात् ॥ ९५ ॥
सत्याद्युक्तिः प्रकृष्टद्युतिरुडुपतिरित्यादिवद्वस्तुमात्रं ब्रूते लक्ष्मोक्तिभावादिति यदि न तथा स्वोक्तिबाधादिदोषात् । रोधस्सद्वाक्यभावाद्भवति च कथितोदाहृतिस्साध्यहीना प्रश्नोक्तेश्चाविशिष्टं न विषय इति नापृष्टजल्पोपहासः ॥ ९६ ॥
एकत्रार्थे समानाधिकरणवचसां वृत्तिरुक्ता ततोऽत्र स्थाप्ये तत्तन्निमित्ते प्रसजति हि भिदा धर्मिणोऽपीति चेन्न । नेतव्यं लक्ष्मवाक्यं प्रतिपदनुगुणं साऽत्र सिद्धा विशिष्टे व्युत्पत्तेस्तादृशत्वाद्भवति तु विहतेः क्वापि भिन्नं विशेष्यम् ॥ ९७ ॥
नानाधर्मप्रणाड्या बहुभिरपि पदैर्धर्मिणोऽत्रैक्यसिद्धौ नान्योन्याधारतैक्ये प्रसजत उचितज्ञापनैकप्रवृत्तेः । बोध्ये सर्वैर्विशिष्टे न च वचनभिदा तच्च सूत्रादिसिद्धं तात्पर्यं च स्वरूपे क्वचिदपि न भवेन्निर्निमित्तेऽनुपाख्ये ॥ ९८ ॥
बोध्यं चेन्निर्विशेषं बहुभिरपि पदैरेकतोऽन्यद्वृथा स्यादन्यव्यावृत्तिभेदात् फलमभिदधतः स्यादखण्डत्वहानिः । व्यावृत्तिश्चेत्स्वरूपं भ्रम इह न भवेद्भासमाने तु तस्मिंस्तस्मात् स्वार्थेषु मुक्तेष्वखिलपदगता लक्षणैवात्र लाभः ॥ ९९ ॥
बाधार्थं यत्समानाधिकरणवचनं नाविशिष्टं वदेत्तत्तत्रैकोऽध्यासयोग्याकृति वदति परो भेदयुक्तं तु शब्दः । निर्दिष्टे वस्तुमात्रे भवतु कथमिहारोपितं बाधनीयं भ्रान्तिर्भेदाप्रतीतौ विरमतु च कथं हेतुपौष्कल्ययुक्ता ॥ १०० ॥
मानं बाधाद्यभावान्निगम इतरवद्वक्तृदोषस्तु नास्मिन् बाधोऽप्यस्यानुमाद्यैरपि न हि सुवचस्तद्बलेनैव बाध्यैः । संदिग्धा नात्र बुद्धिर्न च न समुदिता तेन विज्ञानसिद्धावुत्सर्गाम्नानमेतन्मतिकलुषजयः स्याच्च मीमांसयैव ॥ १०१ ॥
मानं वेदोऽपि वक्तुर्गुणत इति परं न्यायवित्साधयिष्यन् सामान्याद् बुद्धिहेतोः प्रमितिमधिकतस्साधयत्यन्यनीत्या । कार्यत्वं भेदकं स त्विह वदतु कथं धीविशेषत्वहेतौ सिद्धेऽसिद्धेऽपि नित्यप्रमितिमति विभौ निष्फलत्वादमुष्य ॥ १०२ ॥
संवित्तीनां यथावस्थितनिजविषयोल्लेख औत्सर्गिकः स्याद्वह्न्यादेर्दाहकत्वप्रभृतिवदुपधेरन्यथात्वं भ्रमांशे । नित्यज्ञानप्रमात्वं वदसि च निरुपाध्येव निर्हेतुकत्वाद्दोषाभावात् प्रमा चेच्छ्रुतिरपि जयिनी दोषदूरोज्झिता नः ॥ १०३ ॥
सर्वं साक्षात्करोति स्वत उपधिगणैरुज्झितस्संप्रसादः प्रामाण्यं तत्र नोपाध्युपनतमिति तत्तुल्यताऽन्यत्र युक्ता । आत्मस्वात्मांशयोश्च क्वचिदपि न भवेद् भ्रान्तिरंशान्तरेऽपि स्यादेषा न स्वरूपे क्वचन परमसौ द्विप्रकारे प्रकारे ॥ १०४ ॥
भ्रान्तिज्ञानेऽपि सत्यं किमपि तव मतेऽप्यस्त्यधिष्ठानपूर्वं सत्यैकालम्बि चैकं समयिभिरखिलैर्दुस्त्यजं स्वार्थसिद्ध्यै । बुद्धेस्तत्पक्षपातः स्वयमपि कथितस्सौगतैरेव कैश्चित् स्वात्मांशे सत्यता च स्वत इति तदसौ वैदिकोक्ते वृथेर्ष्या ॥ १०५ ॥
अप्रामाण्यं स्वभावो गुणत इतरदित्यत्र न ह्यस्ति हेतुर्नाभावो हेत्वपेक्षस्त्विति च न नियमादन्यथाऽतिप्रसङ्गात् । किंचाभावोऽपि भावान्तरमिति मथने स्वेष्टभङ्गश्च भावी मुक्तौ शुद्धां हि बुद्धिं वदसि न यदि सा विभ्रमः स्यान्न वा स्यात् ॥ १०६ ॥
मानत्वामानते द्वे स्वत इति वदतस्सांख्यसिद्धान्तिनस्ते व्यक्तिद्वैतं तयोश्चेत् प्रतिनियततयोपाधिभेदोऽभ्युपेत्यः । व्यक्त्यैक्ये व्याहतिः स्यादथ निजविषयेष्वंशतस्ते तथाऽपि स्याद्धीस्सर्वा तथेति स्वपरसमययोर्द्वेषरागौ जुषस्व ॥ १०७ ॥
ज्ञानं मानं स्वतश्चेत्कथमिव विशयः कस्यचित्क्वापि भावी मीमांसा चानपेक्ष्येत्यसदुपधिकृताकारशङ्कोपपत्तेः । नेत्रालोकादिनीतेर्भवति च निगमोऽप्यत्र मीसांसयाऽर्थी हेतूनां साध्यसिद्धौ सहकृदनुविधिर्हेतुभावं न हन्ति ॥ १०८ ॥
सर्वज्ञस्य प्रमाया न खलु न विषयः स्यात्स्वकीयं प्रमात्वं निर्बाधा धीः प्रमेति प्रमितिरपि निजं गाहते मानभावम् । मानेऽर्थः स्वात्मनैव स्फुरति न च परं भाति शङ्कानिरासे भ्रान्त्या स्वार्थान्यथात्वं स्वयमनवगतं बाधकैर्वेद्यतेऽतः ॥ १०९ ॥
दृष्टं मान्थालभोगिप्रभृतिषु करणस्थानभेदादिचित्रं तादृग्द्वीपान्तरादौ श्रुतमपि न मृषा वेदसिद्धे तथा नः । यत्रानाप्तोक्तताधीर्न भवति विहतिर्नापि संभावनायाः किं व्याप्त्याऽत्रोपचारो विहतिमति भवेन्नैव तद्व्याप्तिदौःस्थ्ये ॥ ११० ॥
वाक्यत्वात् कर्तृमत्यः श्रुतय इति यदि ब्रूहि बाधं विपक्षे श्रुत्या स्मृत्या च बाध्या त्वदनुमितिरियं कर्तुरत्रास्मृतेश्च । त्वं तावत्तिष्ठ लोकैर्नहि पुरुषगुणप्रत्ययात्तद्गृहीतिस्सन्तश्चापह्नुवीरंस्तमिह न मुनयस्सत्यनिष्ठाः कृतज्ञाः ॥ १११ ॥
आदौ वेदैक्यवादस्त्वविभजनवशात्तावता नान्यसृष्टिस्सर्वेषामेकवेदान्वयमपि जगदुः कालभेदप्रतिष्ठम् । तत्तच्छाखाविभागः प्रवचननियता काठकाद्या समाख्या द्रष्टा मन्त्रादिकर्ता परिहृत इह चानित्ययोगः प्रवाहैः ॥ ११२ ॥
भेदो मन्वन्तरादौ भवति च नियतोऽनादिसिद्धे तदंशे पुंसूक्तादौ श्रुतीनां जनिवचनमपि प्राग्वदाविष्कृतौ स्यात् । आज्ञारूपत्वमासां न च गलति विभो(रेकरूपा)रैक्यरूप्याभिसन्धेर्योऽसौ देवः प्रमाणं स च न शिथिलयेच्छक्तिमन्तं क्रमं तम् ॥ ११३ ॥
प्रेक्षावन्तो महान्तः परिजगृहुरिमं सार्थमङ्गैरनन्तं नेत्थं बाह्यागमानां प्रसृतिरनुपधेस्तद्गृहीतेरभावात् । दृश्यन्ते गत्यभावो नियतिषु लघिमा वञ्चनं तर्कमोहो वृत्तिस्वास्थ्यादि चैषामुपधिरधिगमे वैपरीत्यं तु वेदे ॥ ११४ ॥
नित्यैरस्पृष्टदोषैर्भवति च निगमैः पौरुषेयेषु बाधः पाषण्डत्वप्रथैषां जगति न च मृषा पक्षपातप्रहाणे । अन्योन्यं चैषु बाधः प्रसजति कृतकेष्वाप्तिमोहादिसाम्यात् संवादोंऽशेषु तुल्यः परमिह कुहनासिद्धयेऽन्यप्रवेशः ॥ ११५ ॥
संवादे मानवादेः श्रुतिभिरविरले संग्रहे तत्समाने ताभिश्चाप्तत्वसिद्धौ स्वकथित उचितस्तस्य तन्मूलभावः । नाक्षं लिङ्गं नरोक्तिर्भ्रम इह घटते विप्रलिप्साऽपि मूलं नाज्ञाते भावनाऽपि श्रुतिविषयतया भाति योगे तु धर्मः ॥ ११६ ॥
या मूलं त्वष्टकादेरियमपि मनुजैः क्वाप्यधीता श्रुतित्वात् सा चेन्नित्यानुमेया प्रसजति न कथं तादृशाध्यक्षकॢप्तिः । सर्वस्मिन् पूर्वपूर्वस्मृतिरपि निगमोपज्ञमित्याचरिष्णौ नित्यादृश्ये च मूले नियतमिह भवेदन्धसन्ताननीतिः ॥ ११७ ॥
शाखोच्छेदस्त्विदानीमिह यदि स मतस्सर्वतश्चेदसिद्धिर्व्यासागस्त्यप्रधानैर्भवति च मुनिभिर्भूषिताऽद्यापि भूमिः । उच्छिन्ना सा यथैवाचरितुरविदिता तत्तदाचारमूलं तद्वत्सा विप्रकीर्णा क्रमसमधिगमः कालवद्देशतोऽपि ॥ ११८ ॥
दृष्टे वेदैर्विरोधे स्मृतिपरिहरणं सूत्रभाष्यादिसिद्धं तद्वन्नीतिः पुराणप्रभृतिषु भविनां संभवाद्विभ्रमादेः । स्यादन्योन्यं विरोधे त्विह बलनियतिस्सात्त्विकत्वादिभेदान्मात्स्यादौ दर्शितं तच्छ्रुतिहतिरहितैस्तत्परैरेव वाक्यैः ॥ ११९ ॥
भागे वेदाविरुद्धे पशुपतिकपिलाद्यागमास्स्युः प्रमाणं मोहाद्यर्थं तु शेषं मुनिभिरभिहितं यत्र मज्जन्ति डिम्भाः । भूयस्यर्थे प्रधाने विहतिमति सतां संशयश्च क्वचित्स्यात् श्रुत्वा बाधं न रुन्धे श्रुतिसहपठितिर्हेत्वहन्तव्यता च ॥ १२० ॥
निर्दोषाम्नायमौलिश्रुतनिखिलजगन्मूलसर्वज्ञमूले हेतुर्व्यूढे चतुर्धा क्वचिदपि न भवेद्विभ्रमः पञ्चरात्रे । युक्ता भक्तानुकम्पागरिमसमुदिते विप्रलिप्साऽपि नास्मिन् वेदाच्छ्रैष्ठ्योक्तिरर्थस्थितिविशदतया भूमविद्यादिवच्च ॥ १२१ ॥
जीवोत्पत्त्यादिवादो निगमवदिह तन्नित्यतोक्तेश्च साम्याज्जीवाद्याख्यानिरूढिस्त्वभिमतिभिदया स्याच्च संकर्षणादौ । मन्वादेश्चोपजीव्यं हिततममिदमित्यादिकं भारतोक्तं तत्क्वाप्यैक्यं विकल्पः क्वचिदभिमतवत्तादृशाम्नायभेदात् ॥ १२२ ॥
सर्वे सर्वज्ञबुद्धेर्ननु विषयतया नित्यसिद्धाः कृतान्तास्तस्मात्तेन प्रवर्त्ये सति समयगणे कस्यचित्को विशेषः । मैवं तत्त्वे विकल्पत्यजि विहतिमतामेकशेषत्वमानात्तन्निष्ठा स्यात् कनिष्ठा नमति न विदुषोऽनामिकादिः परस्मै ॥ १२३ ॥
अर्थे पूर्वानुभूते सहमितसदृशख्यात्यदृष्टप्रभेदैस्संस्कारानुग्रहे या परिणमति मतिस्सा स्मृतिस्त्रिप्रकारा । याथार्थ्येऽपि स्वपूर्वानुभवमनुसरेद्बाह्यशून्या न चैषा हेतुश्चार्थक्रियादेः स्मृतिवदनुभवोऽप्यस्ति नष्टादिकेषु ॥ १२४ ॥
पूर्वं श्यामत्वमात्राद्भवति न हि मितिः पाकरक्तेऽपि तद्धीस्तत्ताभानं तथा चेत् प्रसजति तदिदं प्रत्यभिज्ञादिकेऽपि । याथार्थ्यं पारतन्त्र्यान्न च गलति न चेदभ्युपेतातिवृत्तिर्वेदे मानैस्सहोक्ता स्मृतिरपि विफला त्वक्षपादाद्यनुक्तिः ॥ १२५ ॥
जातः पूर्वानुभूत्या स्मृतिमुपजनयेत्क्वापि संस्कार एव प्राग्दृष्टव्यक्तिमात्रप्रतिनियतिमती कीदृशादन्वयात्स्यात् । मैवं कार्ये त्वबाध्ये ननु तदनुगुणः कल्प्यते हेतुयोगस्तज्ज्ञानोत्पाद्यभावस्स इति च विदितः किं तदन्येन नाम्ना ॥ १२६ ॥
तुल्यात्तुल्यान्तरे धीः स्मृतिरियमिव गौस्सेति बोधोऽनुमानं यत्तुल्यो यस्य चैतत्सम इति निजयोर्हस्तयोर्व्याप्तिसिद्धेः । चिह्नोन्नीते निमित्ते पदमपि विदितं शक्तमाप्तातिदेशे व्युत्पत्तिर्लक्षणैः स्वैः क्वचिदपि न भवेदन्यथाऽतीन्द्रियेषु ॥ १२७ ॥
अर्थापत्तिः परोक्ता न पृथगनुमितेर्व्याप्तिबोधादिसाम्यादव्याप्यानामयुक्तिर्न हि भवति न चाव्यापकाः स्थापकाः स्युः । जीवन् क्वापीति बोधो न गृह इति मतिं निश्चितां नोपरुन्धे नातस्तच्छान्तये सा न यदि सममिदं सम्मते चानुमाने ॥ १२८ ॥
तत्तद्भावैरभावव्यवहृतिनियतौ मानमन्यत् किमर्थं स्मर्तव्यस्मृत्यभावात् परमनुमिमते प्रातरश्वाद्यभावम् । स्यादक्षाद्भावधीवद्विमतिविषयधीरन्वयादेस्समत्वात् भावग्राहिण्यभावं तदुचितसहकार्यागमे बोधयन्ति ॥ १२९ ॥
ऐतिह्यं वृद्धवाक्यं बहुदिवसगतेर्यत्त्वनिर्द्धार्यमूलं मानं चेदागमस्तत्तदितरदपि च स्यात्तदाभास एव । लक्षादिभ्यश्शतादिप्रमितिरनुमितिर्व्याप्यतादेरबाधाच्चेष्टालिप्यादि लिङ्गं शितमतिभिरतश्शिष्टमप्येवमूह्यम् ॥ १३० ॥
मानत्रित्वे तु मन्वाद्यनुमतिविषये तत्र यत्कैश्चिदाप्तैराधिक्यं क्वाप्यधीतं तदपि सुघटितं गोबलीवर्दनीत्या । उक्तार्थोदाहृतिर्वा भवतु बहुमुखी शिष्यमेधामहिम्ने सर्वे च स्वेष्टतन्त्रेष्वनुकथनशतं निर्वहन्त्येवमूहैः ॥ १३१ ॥
प्रत्यक्षादित्रिकं यत्पृथगभिदधता भाष्यकारेण शेषं नैव क्षिप्तं न चोपस्कृतमिह न ततः स्यात्तदाधिक्यसिद्धिः । रीतिः सर्वोदितानामियमिति हि तथोदासि सङ्ख्याविवादे तेनान्वारुह्य तत्तत्समधिकगणना स्वीकृता नस्सयूथ्यैः ॥ १३२ ॥
मानं सर्वोपजीव्या प्रथममिह भवेदक्षजन्या मनीषा तन्मूला चानुमा स्यात्तदुभयजनितस्त्वागमो द्विप्रकारः । मूलं न क्वापि बाध्यं क्वचिदधिकबलैर्मूलजातीयबाधः स्यादेतैः कर्ममालाघटितभवघटीयन्त्रजभ्रान्तिशान्तिः ॥ १३३ ॥
सर्वं संदिग्धसत्त्वं क्षणिकमगुणकं नित्यमाकस्मिकं वा बुद्धिः कृत्स्ना न मानं निखिलमपि ततः स्यान्मृषा धीतरद्वा । प्रख्योपाख्यादवीयः किमपि नियतिमन्नामरूपं च नेत्याद्युद्वेलापार्थजल्पानपहसितुमसौ वर्णितो मानभेदः ॥ १३४ ॥
प्रज्ञाव्युत्पत्तिपाकव्यवहरणफलश्रेणिनिश्रेणिकायामारूढा निष्प्रकम्पा प्रमितिगुणकरालम्बनात्सत्परीक्षा । मिथ्यालीकादिशापैरपि न न भवति प्राप्तविस्रम्भसौधा तत्साह्याद्बाह्यपाटच्चरमुषितमिदं सद्धनं प्रत्यनैष्म ॥ १३५ ॥
॥ इति तत्त्वमुक्ताकलापे बुद्धिसरः चतुर्थः ॥ ४ ॥