श्रीविष्णुपुराणम् Amsa 01 Ady 12

श्रीविष्णुपुराणम्

अथ द्वादशोऽध्यायः 

     श्रीपराशरः –

निशम्यैतदशेषेण मैत्रेय नृपतेस्सुतः । निर्जगाम वनात्तस्मात्प्रणिपत्य स तानृषीन् ॥ १ ॥

कृतकृत्यमिवात्मानं मन्यमानस्ततो द्विज । मधुसंज्ञं महापुण्यं जगाम यमुनातटम् ॥ २ ॥

पुनश्च मधुसंज्ञेन दैत्येनाधिष्ठितंयतः । ततो मधुवनंनाम्ना ख्यातमत्र महीतले ॥ ३ ॥

हत्वा च लवणं रक्षो मधुपुत्रं महाबलम् । शत्रुघ्नो मधुरांनाम पुरीं यत्र चकार वै ॥ ४ ॥

यत्र वै देवदेवस्यसान्निध्य हरिमेधसः । सर्वपापहरे तस्मिंस्तपस्तीर्थे चकार सः ॥ ५ ॥

       यत्रेति ॥हरिमेधसः-हरिः-पापहारिणी स्वर्णवत् शुद्धा मेधा यस्य स हरिमेधाः, तस्य हरिमेधसः॥ छान्दसत्वादसिच्प्रत्ययः ॥ १-५ ॥

मरीचिमुख्यैर्मुनिभिर्यथोद्दिष्टमभूत्तथा । आत्मन्यशेषदेवेशं स्थितं विष्णुममन्यत ॥ ६ ॥

      मरीचिमिश्रैरिति ॥ अमन्यत-दध्यौ ॥ ६॥

अनन्यचेतसस्तस्य ध्यायतोभगवान्हरिः । सर्वभुतगतो विष्णुःसर्वभावगतोऽभवत् ॥७॥

      अनन्यचेतस इति ।। सर्वभावगत:-चित्तवृत्तेः साकल्येन विषयतयाऽऽविर्भूतः ॥ ७ ॥

मनस्यवस्थिते तस्मिन्विष्णौ मैत्रैय योगिनः । न शशाक धरा भारमुद्वोढुं भूतधारिणी ॥ ८॥

वामपादस्थिते तस्मिन्ननामार्द्धेन मेदिनी । द्वितीयं च ननामर्द्धं क्षितेदक्षिणतस्स्थिते ॥ ९ ॥

पादाङ्गुष्ठेन संपीड्य यदा स वसुधां स्थितः । तदा समस्ता वसुधा चचाल सह पर्वतैः ॥१० ॥

नद्यो नदाः समुद्राश्च संक्षोभं परमं ययुः ।  तत्क्षोभादमराः क्षोभं परं जग्मुर्महामुने ॥ ११ ॥

     मनसीति ॥ न शशाकेति । गरिमाख्यसिद्धिरासीदित्यर्थः ॥ ८-११ ॥

यामा नाम तदा देवा मैत्रेय परमाकुलाः । इन्द्रेण सह संमन्त्र्य ध्यानभङ्गं प्रचक्रमुः ॥ १२ ॥

     यामा इति ।। यामाः–स्वायंभुवमन्वन्तरे देवाः ॥ १२ ॥

कूष्माण्डा विविधै रूपैस्सहेन्द्रेण महामुने। समाधिभङ्गमत्यन्तमारब्धाः कर्तुमातुराः ॥ १३ ॥

सुनीतिर्नाम तन्माता सास्रा तत्पुरतः स्थिता । पुत्रेति करुणां वाचमाह मायामयी तदा ॥ १४ ॥

पुत्रकास्मान्निवर्तस्व शरीरात्ययदारुणात् । निर्बन्धतो मया लब्धो बहुभिस्त्वं मनोरथैः ॥ १५ ॥

दीनामेकां परित्यक्तमनाथां न त्वमर्हसि ! सपत्नीवचनाद्वत्स अगतेस्त्वं गतिर्मम ॥ १६ ॥

     कूष्माण्डा इति ॥ कूष्माण्डाः–उपदेवभेदाः ॥ १३-१६ ॥

क्व च त्वं पञ्चवर्षीयः क्वचैतद्दारुणंतपः । निवर्ततां मनः कष्टान्निर्बन्धात् फलवर्जितात् ॥ १७ ॥

कालः क्रीडनकानां ते तदन्तेऽध्ययनस्य ते । ततः समस्तभोगानांतदन्ते चेष्यते तपः ॥ १८ ॥

कालः क्रीडनकानां यस्तव बालस्य पुत्रक । तस्मिंस्त्वमिच्छसितपःकिं नाशायात्मनो रतः ॥ १९ ॥

     केति ।निर्बन्धः-अभिनिवेशः ॥ १७–१९ ॥

मत्प्रीतिःपरमो धर्मो वयोवस्थाक्रियाक्रमम् । अनुवर्तस्व मा मोहान्निवर्त्यास्मादधर्मतः ॥ २० ॥

परित्यजति वत्साद्य यद्येतन्न भवांस्तपः । त्यक्ष्याम्यहमिह प्राणांस्ततो वै पश्यतस्तव ॥ २१ ॥

     मत्प्रीतिरिति ।। वयोवस्थाक्रियाक्रमम्-वयोवस्थासुचोदितंक्रियाक्रमम्। निवर्त्यास्मादधर्मत इति।* वृथा तीर्थं वृथा दानं वृथा जप्यं वृथा हुतम् ॥ स जीवति वृथा ब्रह्मन्यस्य माता सुदुःखिता ” इति पुराण वचनान्मद्विरुद्धाद- –कालतपश्चरणरूपादधर्मान्निवर्तस्वेति भावः । मप्रीत्या परमंधर्ममिति पाठे वयोवस्थाक्रियाक्रमरूयंपरमंधर्मंमत्प्रीत्याऽनुवर्तस्व । खधर्मो हि मातापितृगुरुधर्मानोत्कृष्यते;  अपि तु तत्संमत्येवोत्कृष्यते, * यदेते ह्यनुजानीयुः कर्म लोकविगर्हितम् । स धर्म इति मन्तव्यो नात्र कार्या विचारणा ॥ इति भारतोक्तेः ॥ २०,२१ ॥

    श्रीपराशरः –

तांप्रलापवतीमेवं बाष्पाविलविलोचनाम् । समाहितमना विष्णौ पश्यन्नपि न दृष्टवान् ॥ २२ ॥

वत्स वत्स सुघोराणि रक्षांस्येतानि भीषणे । वनेऽभ्युद्यतशस्त्राणि समायान्त्यपगम्यताम् ॥ २३ ॥

इत्युक्त्वा प्रययौ साsथरक्षांस्याविर्बभुस्ततः । अभ्युद्यतोग्रशस्त्राणि ज्वालामालाकुलैर्मुखैः॥ २४ ॥

ततो नादानतीवोग्रान्राजपुत्रस्य ते पुरः । मुमुचुर्दीप्तशस्त्राणि भ्रामयन्तो निशाचराः ॥ २५ ॥

शिवाश्च शतशो नेदुः सज्वालाकबलैर्मुखैः । त्रायास तस्य बालस्य योगयुक्तस्य सर्वतः ॥ २६॥

हन्यतां हन्यतामेष छिद्यतां छिद्यतामयम् । भक्ष्यतांभक्ष्यतां चायमित्यूचुस्ते निशाचराः॥ २७ ॥

ततो नानाविधान्नादान् सिंहोष्ट्रमकराननाः । त्रासाय राजपुत्रस्य नेदुस्ते रजनीचराः ॥ २८ ॥

रक्षांसि तानि ते नादाः शिवास्तान्यायुधानि च । गोविन्दासक्तचित्तस्य ययुर्नेन्द्रियगोचरम् ॥ २९ ॥

एकाग्रचेतास्सततं विष्णुमेवात्मसंश्रयम् । दृष्टवान्पृथिवीनाथपुत्रो नान्यं कथञ्चन ॥ ३० ॥

ततस्सर्वासु मायासुविलीनासु पुनस्सुराः । संक्षोभं परमं जग्मुस्तत्पराभवशङ्किताः ॥ ३१ ॥

ते समेत्य जगद्योनिमंनादिनिधनं हरिम् । शरण्यं शरणं यातास्तपसातस्य तापिताः ॥ ३२ ॥

    देवा ऊचुः–

देवदेव जगन्नाथ परेश पुरुषोत्तम । ध्रुवस्य तपसा तप्तास्त्वां वयं शरणं गताः ॥ ३३ ॥

दिने दिने कलालेशैः शशाङ्कः पूर्यते यथा । तथाऽयं तपसा देव प्रयात्यृद्धिमहर्निशम् ॥ ३४ ॥

औत्तानपादितपसा वयमित्थं जनार्दन । भीतास्त्वां शरणं  यातास्तपसस्तं निवर्तय ॥ ३५ ॥

न विद्मः किं स शक्रत्वं सूर्यत्वं किमभीप्सति । वित्तपाम्बुपसोमानां साभिलाषः पदेषु किम् ॥ ३६ ॥

तदस्माकं प्रसीदेश हृदयाच्छल्यमुद्धर । उत्तानपादतनयंतपसस्सन्निवर्तय ॥ ३७ ॥

    तामिति॥ पश्यन्नपि व्यापारितचक्षुरिन्द्रियोऽपि, प्रयुक्तबाह्येन्द्रियोऽपि वा ॥ २२–३७ ॥

    श्रीभगवानुवाच–

नेन्द्रत्वं न च सूर्यत्वं नैवाम्बुपधनेशताम् । प्रार्थयत्येषयंकामं तंकरोम्यखिलंसुराः ॥३८॥

यात देवा यथाकामं स्वस्थानी विगतज्वराः । निवर्तयाम्यहं बालं तपस्यासक्तमानसम्।। ३९ ।।

     नेति॥ काम-काम्यम् ॥ ३८, ३९ ॥

   श्रीपराशरः-

इत्युक्ता देवदेवेन प्रणम्य त्रिदशास्ततः । प्रययुस्स्वानि धिष्ण्यानि शतक्रतुपुरोगमाः॥४० ॥

   इतीति। धिष्ण्यानि-स्थानानि॥ ४०॥

भगवानपि सर्वात्मा तन्मयत्वेन तोषितः।गत्वा ध्रुवमुवाचेदं चतुर्भुजवपुर्हरिः ॥ ४१ ॥

    श्रीभगवानुवाच—

औतानपादेभद्रं ते तपसा परितोषितः।वरदोऽहमनुप्राप्तो वरं वरय सुव्रत ॥ ४२ ॥

बाह्यार्थनिरपेक्षं ते मयि चित्तं  यदाहितम् । तुष्टोऽहंभवतस्तेनतद्वृणीष्व वरं परम् ॥ ४३॥

    भगवानिति–तन्मयत्वेन-ध्रुवस्य तदेकविषयचित्तत्वेन ॥ ४१-४३ ॥

     श्रीपराशरः–

श्रुत्वेत्थं गदितं तस्य देवदेवस्य बालकः । उन्मीलिताक्षो ददृशे ध्यानदृष्टं हरिं पुरः ॥ ४४ ॥

शङ्खचक्रगदाशार्ङ्गवरासिधरमच्युतम् । किरीटिनं समालोक्य जगाम शिरसा महीम् ॥ ४५ ॥

रोमाञ्चिताङ्गस्सहसा साध्वसं परमं गतः । स्तवाय देवदेवस्य स चक्रे मानसं ध्रुवः॥ ४६ ॥

       श्रुत्वेति–ध्यानदृष्टं हरिं पुरः-यthaaध्यान^ बहिrदृष्टवान् ॥ ४४–४६ ॥

किं वदामि स्तुतावस्य केनोक्तेनास्य संस्तुतिः । इत्याकुलमतिर्देवंतमेव शरणं ययौ ॥ ४७ ॥

     ध्रुव उवाच –

भगवान्यदि मे तोषं तपसापरमं गतः । स्तोतुं त्वामहमिच्छामि तत्र प्रज्ञां प्रयच्छ मे ॥ ४८ ॥

ब्रह्माद्यैर्वेदतत्त्वज्ञैर्ज्ञायते यस्य नो गतिः तं त्वां कथमहं देव स्तोतुं शक्नोमि बालकः । 

त्वद्भक्तिप्रवणं ह्येतत्परमेश्वर मे मनः स्तोतुं कामयते विष्णो तत्र प्रज्ञांप्रयच्छ मे। ]

   किं वदामीति ॥किं वदामि किं वाक्यं वदामि । केनोक्तेन-अर्थेन ॥ ४७, ४८ ॥

    श्रीपराशरः—

शंखप्रान्तेन गोविन्दस्तै पस्पर्श कृताञ्जलिम् । उत्तानपादतनयं द्विजवयंजगत्पतिः ॥ ४९ ॥

अथ प्रसन्नवदनः स क्षणान्नृपनन्दनः । तुष्टाव प्रणतो भूत्वाभूतधातारमच्युतम् ॥ ५०॥

     शंखप्रान्तेनेति । विद्याकोशश्शंख इति भगवच्छास्त्रे अस्त्रभूषणाध्याये च दर्शनात् ॥ ४९, ५० ॥

     ध्रुव उवाच-

भूमिरापोनलो वायुः खं मनो बुद्धिरेव च । भूतादिरादिप्रकृतिर्यस्य रूपं नतोऽस्मि तम् ॥ ५१ ॥

           भूमिरिति ॥ भूम्यादिग्रहणं  तन्मात्राणामप्युपलक्षणम्; मनोग्रहणं  दशेन्द्रियाणाम् । बुद्धिः-महान् ।भूतादिः-अहङ्कारः । आदिप्रकृतिः-प्रधानम् ॥ ५१ ॥

शुद्धस्सूक्ष्मोऽखिलव्यापी प्रधानात्परतः पुमान् । यस्य रूपं नमस्तस्मै पुरुषाय गुणात्मने ॥५२॥

     शुद्ध इति ॥ शुद्धः-स्वतः । अखिलव्यापी-प्रतिक्षेत्रं व्यापी। ज्ञानेन वा व्यापी । गुणाशिन इति पाठान्तरम्। गुणाशी-गुणभोक्ता ॥ ५२ ॥

भूतादीनां समस्तानां गंधादीनां च शाश्वतः । बुद्ध्यादीनां प्रधानस्य पुरुषस्य च यः परः ॥ ५३ ॥

      मुक्तरूपमाह–भूतादीनामिति ॥ पुरुष:-बद्धः॥ ५३ ॥

तंब्रह्मभूतमात्मानमशेषजगतःपतिम्।प्रपद्येशरणंशुद्धं त्वद्रपं परमेश्वर  ॥ ५४॥

       तमिति॥ब्रह्मभूतम्-अपहतपाप्मत्वादिब्रह्मधर्मयुक्तम्।अशेषजगतःपरमितिपाठान्तरम्।अशेषजगतःपरम्.* ससर्वान्पाप्मनोऽपहृत्यसर्वेषांचभूतानांश्रेष्ठ्यंस्वाराज्यमाधिपत्यंचपर्येति, यएवंवेद * सस्वाराड्भवति *आप्नोतिस्वाराज्यम् * इतिश्रुतेः॥  ५४॥

बृहत्वाद्बृंहणत्वाच्च यद्रूपं  ब्रह्मसंज्ञितम् । तस्मै नमस्ते सर्वात्मन्योगिचिन्त्याविकारिणे ॥५५॥

     दिव्यरूपमाह-बृहत्वादिति ॥ *समस्ताश्शक्तयश्चैता नृप यत्र प्रतिष्ठिताः* इत्यादिना बृहत्त्वंबृहणत्वंचोक्तम् ।  *मूर्तं ब्रह्म महाभाग* इति ब्रह्मसंज्ञत्वम् । * सदैकरूपरूपायेत्यविकारित्वमुक्तम् । कलामुहूर्तेत्यादिनाविभूतेर्नित्यत्वे सति का चिन्ता विग्रहादिनित्यत्वे ॥ ५५ ॥

सहस्रशीर्षा पुरुषः सहस्राक्षसहस्रपात् । सर्वव्यापी भुवस्पर्शादत्यतिष्ठद्दशाङ्गुलम् ॥ ५६ ॥

        दिव्यस्वरूपमाह-सहस्रशीर्षेति ।। अनेन पुरुषस्य ज्ञानशत्क्योरानन्त्यं तत्फलीभूता (विभूतौ) व्याप्तिश्च प्रतिपाद्यते। अत्र सहस्रशब्दोऽनन्तवचनः। शीर्षग्रहणं सर्वाङ्गप्रत्यङ्गोपलक्षणम् । अतोऽत्र शीर्षशब्दः शिरसोज्ञानकर्मेन्द्रियाणामाधारतया तत्कार्याणां ज्ञानशक्तीनामुपलक्षकः।* शीर्षञ्छन्दसीति शिरश्शब्दस्य शीर्षन्भावः।* तथाचोक्तं ब्राह्मणे शिरश्शब्दनिर्वचने * बोधनमननश्रवणस्पर्शनदर्शनरसनघ्राणज्ञानानिशृतानि भवन्तीत्यतःशिरः* इति । अतोऽनेन पुरुषस्य ज्ञानशक्त्योरानन्त्यमुक्तम् । उक्तमर्थं प्रपच्चयति-सहस्राक्षःसहस्रपादिति ।सहस्राक्ष इति ज्ञानस्यानन्यमुक्तम, सहस्रपादिति शक्तेरानन्त्यम् । अत्राक्षिशब्दःसर्वज्ञानेन्द्रियाणामुपलक्षकैः।पादशब्दः सर्व– -कर्मेन्द्रियाणामुपलक्षकः। अत्र हि अङ्गप्रत्यङ्गादीनामभावात्तत्कार्यभूतज्ञानशक्त्योरानन्त्यमेवोच्यते ।कुतः । * न तस्य कार्य कारणं च विद्यते *  इति श्रुतेः । अयं हि भगवान्सर्वैरेवेन्द्रियैरेकैकेन वा विनिमयेनवा देहेन वाऽवयवेन वा स्वरूपेण वा सर्वं सदासर्वथासाक्षात्करोति। तथा च श्रुतिः * अपाणिपादो जवनो ग्रहीता * इत्यादिः ।यथाहुः श्रीवत्सांकमिश्राः *नचायंशललीवशललैः सर्वतः शिरश्चक्षुरादिभिर्वैरूप्यावहैराचित इत्युच्यते; किन्तुयथाऽपर्यन्तचक्षुषोःपर्यान्तावयवाश्च सर्वं द्रष्टुं कर्तुं च शक्नुवन्ति तथाऽयमपि* इति। पुरुषशब्दस्य *पूर्ववाहमिहासमिति,  *तंत् पुरुषस्य पुरुषत्वम् * पूरणात्सदनाच्चापि ततोऽसि * पुरुषः स्मृतः * इत्यादिषु श्रुतिस्मृतिषु बहुप्रकारं निर्वचनं द्रष्टव्यम्। भुवः भवतीतिभूः । अनेनासद्व्यावृत्तानिचिदचिदात्मकानि सर्वाणिभूतानिलक्ष्यन्ते । स्पर्शादिति । दशाङ्गुलं-दशगुणं महाप्रमाणमिति भावः । अत्यतिष्ठत्, सर्वव्यापित्वात् ।भुवः-चिदचिदात्मकस्य जगतः, स्पर्शात्-स्पर्शं कृत्वा, दशाङ्गुलमत्यतिष्ठद्भगवानित्यन्वयः।स्पर्शादिति ल्यब्लोपेपञ्चमी । * येनावृतंखं च दिवंमहीं च * यञ्च किञ्चिज्जगत् ॥ इत्यादिश्रुतिषु व्याप्याज्जगतो व्यापकस्य पुरुषस्य महत्त्वं प्रतिपादितम् ॥ ५६ ॥

यद्भूतं यच्च वै भव्यं पुरुषोत्तम तद्भवान् । त्वत्तो विराट् स्वराट् सम्राट् त्वत्तश्चाप्यधिपूरुषः :५७॥

  न केवलं व्योमवद्व्यापकत्वम्, सर्वशरीरित्वं चेत्याह-यद्भूतमिति॥ त्वत्त इत्यादि। विराट्–अव्यक्तशरीरोऽनिरुद्धः।  तथा च मोक्षधर्मे* ईश्वरोहि जगत्स्रष्टा विभुर्नारायणो विराट् । ततो यज्ञश्च यष्टा च ।पुराणः पुरुषो विराट् । अनिरुद्ध इतिप्रोक्तो लोकानां प्रभवाप्ययः ॥ इति च।सम्राट्-परमपदप्राप्तः, * सोऽक्षरःपरमस्स्वराट् *इति विशेषणात्। स्वराट्-केवलात्मप्राप्तः । यद्वा *अयंलोकस्तु वै सम्राडन्तरिक्षं विराट्, स्मृतम् ।स्वराडसौ स्मृतो लोकः * इति वायूक्तेःलोकाविराडादयः । अधिपूरुष:-अधिकारिपुरुषो ब्रह्मा अथ वा त्वामधिकरणीकृत्यपुरुषः आत्मसमष्टिरूपो हिरण्यगर्भोऽजायत ॥ ५७ ॥

अत्यरिच्यत सोऽधश्च तिर्यगूर्ध्वं च वै भुवः । त्वत्तो विश्वमिदं जातं त्वत्तो भूतं भविष्यति ॥ ५८ ॥

    अत्यरिच्यतेति । सः-पुरुषः, भुवोऽधः-पाताले, तिर्यक्-सर्घद्वीपेषु, ऊर्ध्वं-स्वर्गादौ, अत्यरिच्यत-सन्तानात्मना वृद्धः, व्यष्टिरूपेण वा ॥ ५८ ॥

त्वद्रूपधारिणश्चान्तः सर्वभूतमिदं जगत् । त्वत्तो यज्ञस्सर्वहुतः पृषदाज्यं पशुर्द्विधा ॥ ५९ ॥

        त्वद्रूपधारिण इति ॥ त्वदूपधारिणोऽधिपुरुषस्यान्तः सर्वभूतं-सर्वमित्यर्थः ॥ त्वत्सृष्टस्याप्यन्तर्जगत्,  किं पुनस्तवेतिभावः ।आत्मीयं सर्वमस्मिन्यज्ञे पशुपुरोडाशादिरूपेण हुतमिति सर्वहुतः । पृषदाज्यं-दधिमिश्रमाज्यम् । पशुर्द्विधा–ग्राम्यारण्यभेदेन ॥ ५९॥

त्वत्तो ऋचोऽथ सामानि त्वत्तश्छन्दांसि जज्ञिरे । त्वत्तो यजुंष्यजायन्त त्वत्तोऽश्वाश्चैकतोदतः ॥ ६० ॥

     त्वत्त इति । एकतोदत:-महिषादयः ॥ ६०॥

गावस्त्वत्तः समुद्भूतास्त्वत्तोऽजा अवयो मृगाः । त्वन्मुखाद्ब्राह्मणा बाह्वोस्तव क्षत्रमजायत ॥६१॥

वैश्यास्तवोरुजाः शुद्रास्तव पद्भ्यां समुद्गताः । अक्ष्णोः सूर्योऽनिलःप्राणाच्चन्द्रमा मनसस्तव ॥६२॥

     गाव इति ।। तेषु महिषादिषु गवादेःपृथगुक्ति: प्राशस्त्यात् ॥ ६१, ६२ ॥

प्रा(णान्तः)णोन्तः सुषिराज्जातो मुखादग्निरजायत । नाभितो गगनं द्यौश्च शिरसस्समवर्तत ॥ ६३ ॥

दिशश्श्रोत्रात्क्षितिः पद्भ्यां त्वत्तस्सर्वमभूदिदम् । न्यग्रोधस्सुमहानल्पे यथाबीजे व्यवस्थितः ॥ ६४ ॥

     प्राण इति ।। प्राणात्-मुख्यप्राणात् ।प्राणो नः सुषिराज्जात इति च पाठः । प्राणः नः सुषिरात् नासारन्ध्रात् । प्राणोऽन्तस्सुषिरादितिवा पाठः । तदा तत्रवर्तमानाद्वायोरित्यर्थः। प्राणः-प्राणाख्योवृत्तिविशेषः ॥ ६३, ६४ ॥

                 संयमे विश्वमखिलं बीजभूते तथा त्वयि ॥ ६५ ॥

बीजादङ्कुरसंभूतोन्यग्रोधस्तु समुत्थितः । विस्तारं च यथायाति त्वया सृष्टं तथा जगत् ॥ ६६ ॥

      न्यग्रोध इति ॥ संयमे–संंहारे ॥ ६५, ६६ ॥

यथा हि कदली नान्या त्वक्पत्रादथ दृश्यते । एवं विश्वस्य नान्यस्त्वं त्वत्स्थायीश्वर दृश्यते ॥ ६७॥

      यथेति । यथा च कारणभूता बालत्वकूपत्रावस्थाकदली स्वकार्यभूतस्थूलत्वपत्रान्नान्या, सैवेयमितिप्रत्यभिज्ञानात्; एवं कारणभूतस्त्वं कार्यभूताद्विश्वस्मान्नान्यः, * बहु स्याम् । तदात्मानं स्वयमकुरुत * ज्योतींसनि विष्णुः* इत्यादेः।अपिच विश्वस्मात्पृथग्भूतस्त्रिपाद्रूपेण त्वं दृश्यसे । * व्यतिरिक्तं न यस्यास्तिव्यतिरिक्तोऽखिलस्य यः * त्रिपादस्यास्मृतं दिवि* इत्यादि ॥ ६७ ॥

ह्लादिनी संधिनी संवित्त्वय्येका सर्वसंस्थितौ । ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते || ६८ ॥

       ह्लादिनीति ॥ सर्वसंस्थितौ-सर्वाधारे त्वयि। संवित्ह्लादिनी-निरवधिकानन्दरूपा, सन्धिनी-अविच्छेदवती।एका-एकरूपा।ह्लादतापोभयमिश्रा-विच्छिन्नपरिमिताह्लादकरी केवलतापकरीच संवित्त्वयि नास्ति।। अत्र  हेतुः गुणवर्जित इति । इयं च संवित् तत्कर्तृका वा तरकर्मिकावा * विज्ञानमानन्दं ब्रह्म * तमेवं विद्वानभूत इह भवति* रसो वै सः रसंह्येवायं लब्ध्वाऽऽनन्दी भवति * इत्यादि श्रुतेः ॥ ६८ ॥

पृथग्भूतैकभूताय भूतभूताय ते नमः । प्रभूतभूत (रूपाय) भूताय तुभ्यं भूतात्मने नमः॥ ६९ ॥

     पृथग्भूतेति ।। पृथग्भूतैकभूताय-कार्यकारणावस्थयोः, भूतभूताय-पञ्चभूतशरीराय । प्रभूतभूतभूतायेति च पाठः। प्रभूतभूतभूताय-प्रभूतानि भूतानि ब्रह्मादयः प्राणिनः, तद्भूताय । भूतात्मने-एवंव्याप्तात्मने । अथ वाभूतभूताय — भूतसूक्ष्मत्वेनाविर्भूताय । प्रभूतभूतभूताय-महाभूतत्वं प्राप्ताय। भूतात्मने। सर्वप्राणिरूपाय नम इति ॥ ६९ ॥

व्यक्तं प्रधानपुरुषौ विराट् सम्राट् स्वराट् तथा । विभाव्यतेऽन्तःकरणे पुरुषेष्वक्षयो भवान् ॥ ७० ॥

       व्यक्तमिति ॥ ब्यक्तादयः प्रसिद्धाः । विराडादयः पूर्वमेवोक्ताः ।व्यक्तादीनांभवानित्यनेनान्वयः ।किं च पुरषेष्वन्त:करणे विभाव्यते भवान् ॥ ७० ॥

सर्वस्मिन्सर्वभूतस्त्वं सर्वस्सर्वस्वरूपधृत् । सर्वं त्वत्तस्ततश्च त्वं नमस्सर्वात्मनेऽस्तु ते ॥ ७१ ॥

सर्वात्मकोऽसि सर्वेशसर्वभूतस्थितो यतः । कथयामि ततः किं ते सर्वं वेत्सि हृदि स्थितम् ॥ ७२ ॥

सर्वात्मन्सर्वभूतेश सर्वसत्त्वसमुद्भव । सर्वभूतो भवान्वेत्ति सर्वसत्त्वमनोरथम् ॥ ७३ ॥

यो मे मनोरथो नाथ सफलस्स त्वया कृतः । तपश्च तप्तंसफलं यदृष्टोऽसि जगत्पते ॥७४ ॥

     श्रीभगवानुवाच-

तपसस्तु फलं प्राप्त. यद्दृष्टोऽहं त्वया ध्रुव । मद्दर्शनं हि विफलं राजपुत्र न जायते ॥ ७५ ॥

वरं वरय तस्मात्त्वं यथाभिमतमात्मनः । सर्वं संपद्यते पुंसां मयि दृष्टिपथ गते ॥ ७६॥

     ध्रुव उवाच –

भगवन्भूतभव्येशसर्वस्यास्ते भवान् हृदि ।किमज्ञातं तव स्वामिन्मनसा यन्मयेप्सितम् ॥ ७७॥

तथापि तुभ्यं देवेश कथयिष्यामि यन्मया । प्रार्थ्यते दुर्विनीतेन हृदयेनातिदुर्लभम् ॥ ७८ ॥

कि या सर्वजगत्स्रष्टः प्रसन्ने त्वयि दुर्लभम् । त्वत्प्रसादफलं भुङ्क्ते त्रैलोक्यं मघवानपि ॥ ७९ ॥

नैतद्राजासनं योग्यमजातस्य ममोदरात् । इति गर्वादवोचन्मां सपत्नी मातुरुच्चकैः ॥ ८० ॥

अधारभूतं जगतः सर्वेषामुत्तमोत्तमम् । प्रार्थयामि प्रभो स्थानं त्वत्प्रसादादतोऽव्ययम् ॥ ८१ ॥

    श्रीभगवानुवाच-

यत्त्वया प्रार्थ्यते स्थानमेतत्प्राप्स्यतिवै भवान् । त्वयाऽहं तोषितः पूर्वमन्यजन्मनि बालक॥ ८२ ॥

त्वमासीर्ब्राह्मणः पूर्वं मय्येकाग्रमतिः सदा । मातापित्रोश्च शुश्रूषुर्निजधर्मानुपालकः ॥ ८३ ॥

कालेन गच्छता मित्रं राजपुत्रस्तवाभवत् । यौवनेऽखिलभोगाढ्यो दर्शनीयोज्ज्वलाकृतिः ॥ ८४ ॥

तत्सङ्गात्तस्य तामृद्धिमवलोक्यातिदुर्लभाम् । भवेयं राजपुत्रोऽहमिति वाञ्छा त्वया कृता ॥ ८५ ॥

ततो यथाभिलषिता प्राप्ता ते राजपुत्रता । उत्तानपादस्य गृहे जातोऽसि ध्रुव दुर्लभे ॥ ८६ ॥

    सर्वस्मिन्निति ॥ सर्वस्मिन्-गगनादौ, सर्वभूतः – शब्दादिस्त्वम् * शब्दः खे पौरुषं नृषु * तेजश्चास्मि विभावसौ.* इत्यादि सर्वस्वरूपधरत्वात्सर्वः। सर्वभूतः–* बहु स्यामिति सर्वरूपेण परिणतः।सर्वं त्वत्त:-निमित्तत्वादुपादानत्वाच्च सर्वं त्वमित्यर्थः ॥ ७१-८६ ॥

अन्येषां तत्परं स्थानं कुले स्वायंभुवस्य यत् ॥ ८७ ॥

            अन्येषामिति ॥ स्वायंभुवस्य कुले यत्स्थानं तन्मद्भक्तादन्येषां परं स्थानम्  ॥ ८७ ॥

तस्यैतदपरं बाल येनाहं परितोषितः । मामाराध्य नरो मुक्तिमवाप्नोत्यविलम्बितम् ॥ ८८ ॥

             मय्यर्पितमना बाल किमु स्वर्गादिकं पदम् ॥ ८९ ॥

त्रैलोक्यादधिके स्थाने सर्वताराग्रहाश्रयः । भविष्यति न सन्देहो मत्प्रसादाद्भवान्ध्रुव ॥ ९० ॥

सूर्यात्सोमात्तथा भौमात्सोमपुत्राबृहस्पतेः । सितार्कतनयादीनां सर्वर्क्षाणां तथा ध्रुव ॥ ९१ ॥

सप्तर्षीणामशेषाणां ये च वैमानिकास्सुराः । सर्वेषामुपरि स्थानं तव दत्तं मया ध्रुव ॥ ९२ ॥

केचिच्चतुर्युगं यावत्केचिन्मन्वन्तरं सुराः । तिष्ठन्ति ध्रुव ते दत्ता मया वैकल्पसंस्थितिः ॥ ९३ ॥

सुनीतिरपि ते माता त्वदासन्नाऽतिनिर्मला । विमाने तारका भूत्वा तावत्कालं निवत्स्यति ॥ ९४ ॥

ये च त्वां मानवाः प्रातः सायं च सुसमाहिताः । कीर्तयिष्यन्ति तेषां च महत्पुण्यं भविष्यति।।९५॥

      श्रीपराशरः –

एवं पूर्वं जगन्नाथाद्देवदेवाज्जनार्दनात् । वरं प्राप्य ध्रुवः स्थानमध्यास्ते स महामते ॥९६ ।।

स्वयं शुश्रूषणाद्धर्म्यान्मातापित्रोश्च वै तथा । द्वादशाक्षरमाहत्म्यात्तपसश्च प्रभावतः ॥ ९७ ॥

तस्याभिमानमृद्धिं च महिमानं निरीक्ष्य हि । देवासुराणामाचार्यः श्लोकमत्रोशना जगौ ॥ ९८ ॥

अहोऽस्य तपसो वीर्यमहोऽस्य तपसः फलम् । यदेनं पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ॥ ९९ ॥

      तस्येति ॥ तस्य-मद्भक्तस्य ते, एतत्-स्वायंभुवकुले स्थानम्, अपरं-तुच्छम् ॥ ८८–९९ ॥

धुवस्य जननीचेयं सुनीतिर्नाम सूनृता । अस्याश्च महिमानं कश्शक्तो वर्णयितुं भुवि ॥ १०० ॥

     ध्रुवस्येति ॥सूनृता-सुशीलोभवेत्याद्यमिहितसत्यवाक्या ॥ १०० ॥

त्रैलोक्याश्रयतां प्राप्तं परं यत्तत् स्थिरायति । स्थानं प्राप्ता परं धृत्वा या कुक्षिविवरे ध्रुवम् ॥ १०१ ॥

यश्चैतत्कीर्तयेन्नित्यं ध्रुवस्यारोहणं दिवि । सर्वपापविनिर्मुक्तःस्वर्गलोके महीयते ॥ १०२ ॥

स्थानभ्रंशं न चाप्नोति दिवि वा यदि वा भुवि । सर्वकल्याणसंयुक्तो दीर्घकालं स जीवति ॥१०३ ॥

    त्रैलोक्येति ॥ स्थिरायति-स्थिरोत्तरकालं, स्थिरैश्वर्यम्, या परं-केवलं, कुक्षिविवरेस्थितं ध्रुवं धृत्वाध्रुवधारणद्वारा, त्रैलोक्याश्रयतां प्राप्तं-विष्णुपदाख्यं परं स्थानं  प्राप ॥ १०१-१०३ ॥

इति श्रीविष्णुपुराणे प्रथमेशे द्वादशोऽध्यायः ॥ १२॥

इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने विष्णुवित्तीये प्रथमेंशे द्वादशोऽध्यायः ॥१२ ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.