श्रीविष्णुपुराणम् Amsa 01 Ady 15

 

श्रीविष्णुपुराणम्

अथ पञ्चदशाध्यायः

     श्रीपराशरः –

तपश्चरत्सु पृथिवीं प्रचेतस्सु महीरुहाः । अरक्ष्यमाणामावत्रुर्बभूवाथ प्रजाक्षयः ॥ १ ॥

नाशकन्मरुतो वातुं वृतं खमभवद्रुमैः । दशवर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ॥ २ ॥

तान्दृष्ट्वा जलनिष्क्रान्ताः सर्वे क्रुद्धाः प्रचेतसः । मुखेभ्यो वायुमग्निं च तेऽसृजन् जातमन्यवः ॥ ३ ॥

उन्मूलानथ तान्वृक्षान्कृत्वा वायुरशोषयत् । तानग्निरदहद्घोरस्तत्राभूद्द्रुमसंक्षयः ॥ ४ ॥

द्रुमक्षयमथो दृष्ट्वा किञ्चिच्छिष्टेषु शाखिषु । उपगम्याब्रवीदेतान्राजा सोमः प्रजापतीन् ॥ ५ ॥

        द्रुमक्षयमिति ॥ राजा-वृक्षादीनाम् ॥ १-५ ॥

कोपं यच्छत राजानः शृणुध्वं च वचो मम । सन्धानं वः करिष्यामि सह क्षितिरुहैरहम् ॥ ६ ॥

        कोपमिति । यच्छत– नियमयत ॥ ६ ॥

रत्नभूता च कन्येयं वार्क्षेयी वरवर्णिनी । भविष्यज्जानता पूर्वं मया गोभिर्विवर्द्धिता ॥७

        रत्नभूतेति ॥ वार्क्षेयी-वृक्षजा। भविष्यत्-इयं दशप्रचेतसां पत्नी दक्षस्य माता च भविष्यतीत्यादिकं ज़ानता मया । गोभिः–रश्मिभिः ॥ ७ ॥

मारिषा नाम नाम्नैषा वृक्षाणामिति निर्मिता । भार्या वोऽस्तु महाभागा ध्रुव वंशविवर्द्धिनी ॥ ८ ॥

युष्माकं तेजसोऽर्द्धेन मम चार्द्धेन तेजसः । अस्यामुत्पत्स्यते विद्वान्दक्षो नाम प्रजापतिः ॥ ९ ॥

      मारिषेति ॥ नाम–प्रसिद्धा, मारिषेति नाम्ना प्रसिद्धा । वृक्षाणामिति । वृक्षाण संबन्धिनी वार्क्षेयीति निर्मिता ॥ ८, ९ ॥

मम चांशेन संयुक्तो युष्मत्तेजोमयेन वै । तेजसाऽग्निसमो भूयः प्रजाः संवर्धयिष्यति ॥ १० ॥

     मम चेति ॥ मम दौहित्रत्वान्ममांशेन-सौम्येन, शान्त्यादिबहुलेन मातृगुणेन, युष्मत्तेजस्संभवेनाग्नेयांशेन क्रौर्यशौर्यादिपितृगुणेन च युक्तः प्रजाः संवर्द्धयिष्यति; सर्गस्याग्नीषोमात्मकत्वात् ॥ १० ॥

कण्डुर्नाम मुनिः पूर्वमासीद्वेदविदां वरः । सुरम्ये गोमतीतीरे स तेपे परमं तपः ॥ ११ ॥

तत्क्षोभाय सुरेन्द्रेण अम्लोचाख्या वराप्सराः। प्रयुक्त क्षोभयामास तमृर्षि सा शुचिस्मिता ॥ १२॥

क्षोभितस्स तया सार्द्धं वर्षाणामधिकं शतम् । अतिष्ठन्मन्दरद्रोण्यां विषयासक्तमानसः ॥ १३ ॥

तं सा प्राह महाभाग गन्तुमिच्छाम्यहं दिवम् । प्रसादसुमुखो ब्रह्मन्ननुज्ञां दातुमर्हसि ॥ १४ ॥

तयैवमुक्तः स मुनिस्तस्यामासक्तमानसः । दिनानि कतिचिद्भद्रे स्थीयतामित्यभाषत ॥ १५ ॥

एवमुक्ता ततस्तेन साग्रं वर्षशतं पुनः । बुभुजे विषयांस्तन्वी तेन साकं महात्मना ॥ १६ ॥

अनुज्ञां देहि भगवन् व्रजामि त्रिदशालयम् । उक्तस्तथेति स पुनः स्थीयतामित्यभाषत ॥ १७ ॥

पुनर्गते वर्षशते साधिके सा शुभानना । यामीत्याह दिवं ब्रह्मन्प्रणयस्मितशोभनम् ॥ १८ ॥

उक्तस्तयैवं स मुनिरुपगुह्यायतेक्षणाम् । प्राहास्यतां क्षणं सुभ्रु चिरकालं गमिष्यसि ॥ १९ ॥

सा क्रीडमाना सुश्रोणी सह तेनर्षिणा पुनः । शतद्वयं किंचिदूनं वर्षाणामन्वतिष्ठत ॥ २० ॥

गमनाय महाभाग देवराजनिकेतनम् । प्रोक्तः प्रोक्तस्तया तन्व्या स्थीयतामित्यभाषत ॥ २१ ॥

                 कन्याया आभिजात्यज्ञानाय तज्जन्माह कण्डुरित्यादिना || ११-२१ ॥

तस्य शापभयाद्भीता दाक्षिण्येन च दक्षिणा । प्रोक्ता प्रणयभङ्गार्तिवेदिनी न जहौ मुनिम् ॥ २२ ॥

तया च रमतस्तस्य परमर्षेरहर्निशम् । नवंनवमभूत्प्रेम मन्मथाविष्टचेतसः ॥ २३ ॥

     तस्येति ॥ *या गौरवं भयं प्रेम सद्भावं पूर्वनायके। न मुञ्चत्यन्यचित्ताऽपि सा ज्ञेया दक्षिणा बुधैः ॥ दक्षिणाया भावो दाक्षिण्यम् । प्रणयो-याञ्चा ॥ २२, २३ ॥

एकदा त्वरयायुक्तो निश्चक्रामोटजान्मुनिः । निष्क्रामन्तं च कुत्रेति गम्यते प्राह सा शुभा ॥ २४ ॥

इत्युक्तस्स तया प्राह परिवृत्तमहश्शुभे । सन्ध्योपास्तिं करिष्यामि क्रियालोपोऽन्यथा भवेत् ॥ २५ ॥

       एकदेति ॥ उटज: पर्णशाला ॥ २४, २५ ॥

ततः प्रहस्य सुदती तं सा प्राह महामुनिम् । किमद्य सर्वधर्मज्ञ परिवृत्तमहस्तव ॥ २६ ॥

      तत इति ॥ परिवृत्तं—परिणतम् । सर्वधर्मज्ञेति गतबह्वब्दकृत्यविस्मरणोपालंभः ॥ २६ ॥

बहूनां विप्र बर्षाणां परिवृत्तमहस्तव । गतमेतन्न कुरुते विस्मयं कस्य कथ्यताम् ॥ २७॥

     मुनिरुवाच –

प्रातस्त्वमागता भद्रे नदीतीरमिदं शुभम् । मया दृष्टाऽसि तन्वङ्गि प्रविष्टाऽसि ममाश्रमम् ॥ २८॥

          बहूनामिति ॥ तव बहूनां वर्षाणां गतानां सताम् अहः परिणामं गतमित्येतत्कस्य विस्मयं न कुरुते ?  इदं  कथ्यताम् ॥ २७, २८॥

इयं च वर्तते सन्ध्या परिणाममहर्गतम् । उपहासः किमर्थोऽयं सद्भावः कथ्यतां मम  ॥ २९ ॥

 प्रम्लोचोवाच –

प्रत्यूषस्यागता ब्रह्मन् सत्यमेतन्न तन्मृषा । तद्वद्गतस्य कालस्य गतान्यब्दशतानि ते ॥ ३० ॥

इयमिति ॥ सद्भावः-सत्यम् ॥ २९, ३० ।।

    सोम उवाच –

ततस्ससाध्वसो विप्रस्तां पप्रच्छायतेक्षणाम् । कथ्यतां भीरु कः कालस्त्वया मे रमत्तः सह ॥ ३१ ॥

    प्रम्लोचोवाच-

सप्तोत्तराण्यतीतानि नववर्षशतानि ते। मासाश्च षट् तथैवान्यत्समतीतं दिनत्रयम् ॥ ३२ ॥

    ऋषिरुवाच-

सत्यं भीरु वदस्येतत्परिहासोऽथ वा शुभे । दिनमेकमहं मन्ये त्वया सार्द्धमिहास्थितम् ॥ ३३ ॥

       तत इति ॥ क:-कियान् ॥ ३१-३३ ॥

     प्रम्लोचोवाच-

वदिष्याम्यनृतं ब्रह्मन्कथमत्र तवान्तिके । विशेषेणाद्य भवता पृष्टा मार्गानुवर्तिना ॥ ३४ ।।

     सोम उवाच-

निशम्य तद्वचस्सत्यं स मुनिर्नृपनन्दनाः । धिक् धिक् मामित्यतीवेत्थं निनिन्दात्मानमात्मना ॥ ३५ ॥

      वदिष्यामीति ॥ मार्गानुवर्तिना-रागकृतमुत्पथं व्यक्त्वा विवेकात्स्वधर्मानुसन्धित्सया परिहासानर्हेण ॥ ३४,३५ ॥

     मुनिरुवाच-

तपांसि नष्टानि हतं ब्रह्म ब्रह्मविदां धनम् । हृतो विवेकः केनापि योषिन्मोहाय निर्मिता ॥ ३६ ॥

      तपांसीति । हतं ब्रह्मा-विस्मृतो वेदः ॥ ३६ ॥

ऊर्मिषट्कातिगं ब्रह्म ज्ञेयमात्मजयेन मे। मतिरेषा हृता येन धिक् तं कामं महाग्रहम् ॥ ३७ ॥

       ऊर्मीति ॥ * अशनायापिपासे च शोकमोहौ जरामृती ॥ युगशः प्राणघीदेहधर्मास्ते हि षडूर्मयः ॥  इति । आत्मजयः-मनोनियमः । अत्रेतिकरणं द्रष्टव्यम् । एषा-ब्रह्मविषया मतिः ॥ ३७ ॥

व्रतानि वेदवेद्याप्तिकारणान्यखिलानि च । नरकग्राममार्गेण सङ्गेनापहृतानि मे ॥ ३८ ॥

       व्रतानीति ॥ वेदवेद्यं ब्रह्म, तदाप्तिकारणानि ॥ ३८ ॥

विनिन्द्येत्थं स धर्मज्ञः स्वयमात्मानमात्मना । तामप्सरसमासीनामिदं वचनमब्रवीत् ॥ ३९ ॥

       विनिन्द्येति ॥ आत्मना–मनसा ॥ ३९ ॥

गच्छ पापे यथाकामं यत्कार्यं तत्कृतं त्वया । देवराजस्य मत्क्षोभं कुर्वन्त्या भावचेष्टितैः ॥ ४० ॥

       गच्छेति । भावचेष्टितै:-भावाख्यैश्चेष्टितैः, विलासाद्यैः ॥ ४०॥

न त्वां करोम्यहं भस्म क्रोध तीव्रेण वह्निना । सतां सप्तपदं मैत्रमुषितोऽहं त्वया सह ॥ ४१ ॥

अथवा तब को दोषः किं वा कृप्याम्यहं तव । ममेव दोषोऽतितरां येनाहमजितेन्द्रियः ॥ ४२ ॥

     नेति ॥ सप्त पदानि सह गच्छतां सतां मैत्रम् , किं पुनश्चिरकालं त्वया सहोषितस्य मे ॥ ४१, ४२ ॥

यया शक्रप्रियार्थिन्या कृतो मे तपसो व्ययः । त्वया घिक्तां महामोहमंजूषां सुजुगुप्सिताम्  ॥ ४३ ॥

     सोम उवाच-

यावदित्थं स विप्रर्षिस्तां ब्रवीति सुमध्यमाम् । तावद्गलत्स्वेदजला सा बभूवातिवेपथुः ॥ ४४ ॥

प्रवेपमानां स तदा खिन्नगात्रलतां सतीम् । गच्छ गच्छेति सक्रोधमुवाच मुनिसत्तमः ॥ ४५ ॥

सा तु निर्भर्त्सिता तेन विनिष्क्रम्य तदाश्रमात् । आकाशगामिनी स्वेदं ममार्ज तरुपल्लवैः ॥ ४६ ॥

वृक्षाद्वृक्षं ययौ बाला तदग्रारुणपल्लवैः । निर्मार्जमाना गात्राणि गलत्स्वेदजलानि वै ॥ ४७ ॥

ऋषिणा यस्तदा गर्भस्तस्या देहे समाहितः । निर्जगाम स रोमाञ्चस्वेदरूपी तदङ्गतः ॥ ४८ ॥

तं वृक्षा जगृहुर्गर्भमेकं चक्रे तु मारुतः । मया चाप्यायितो गोमिः स तदा ववृधे शनैः ॥ ४९ ॥

     ययेति ॥ महमंजूषां-मोहनपञ्चरम् । मोहभाजनभूतां जुगुप्सितां त्वां धिगित्यन्वयः ॥ ४३-४९ ॥

वृक्षाग्रगर्भसंभूता मारिषाख्या वरानना । तां प्रदास्यन्ति वो वृक्षा कोप एष प्रशाम्पत्ताम् ॥ ५०॥

कण्डोरपत्यमेव सा वृक्षेभ्यश्च समुद्गता । ममापत्यं तथा वायोः प्रम्लोचातनया च सा ॥ ५१ ॥

     वृक्षेति ॥ वृक्षाणामग्रं  पल्लवानि, स एव गर्भः ॥ ५०, ५१ ॥

स चापि भगवान् कण्हा क्षीणे तपसि सत्तमः । पुरुषोत्तममाख्यातं विष्णोरायतनं ययौ  ॥ ५२ ॥

      अथ मारिषाजन्मानुपयुक्तमपि प्रसङ्गात्स्वदुष्कृतप्रायश्चित्तादिरूपं भगवत्स्तोत्रादिकं कण्डुचरितशेष—–

–माख्याति -स चापीति ॥ ५२ ॥

तत्रैकाग्रमतिर्भूत्वा चकाराराधनं हरेः। ब्रह्मापारमयं कुर्वञ्जपमेकाग्रमानसः ।

                    ऊर्ध्वबाहुर्महायोगी स्थित्वासौ भूपनन्दनाः ॥ ५३॥

     प्रचेतस ऊचुः —

ब्रह्मपारं मुनेश्श्रोतुमिच्छामः परमं स्तवम् । जपता कण्डुना देवो येनाराध्यत केशवः ॥ ५४ ॥

तत्रेति || ब्रह्मपारमयं– ब्रह्मपारस्वरूपम् ॥ ५३, ५४ ॥

     सोम उवाच —

                 पारं परं विष्णुरपारपारः परः परेभ्यः परमार्थरूपी।

             स ब्रह्मपारः परपारभूतः परः पराणामपि पारपारः ॥ ५५ ॥

      पारम्परमिति ॥ पारम्परं-संसाराध्वनः परं पारम्-अन्तः, * सोऽध्वनः पारमामोति में यमध्वनः पारमुशन्ति योगिनः * इति श्रुतिपुराणाभ्याम् । यद्वा परम्परया गुरुसंपदायाविच्छेदेनोपदेश्यं रहस्यं वस्तु यथा छान्दोग्ये      * तद्धैतब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यः* इति ; * एवं परम्पराप्राप्तमिमं राजर्षयो विदुः * इति च । अपारपार:-पारतीरकर्मसमाप्ताविति धातोः * यद्वक्तुं नैव पार्यत इत्यादौ शक्यार्थे प्रयोगदर्शनाल्लक्षणया पार:-शक्तिः, अपारपार:-अनन्तशक्तिरित्यर्थः * पराऽस्य शक्तिर्विविधैव श्रूयते * इत्यादि श्रुतेः । यद्वा पारं यस्य नास्ति सोपारपारः; अपरिमितपरिमाण इतिवन्निर्देशः। न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप * इति श्रुतेः । अथवा अपारस्य-असमाप्तस्यापूर्णस्य यज्ञादिकर्मणः पार:-स्वकीर्तनस्मरणादिना पारयिता-समापकः पूरको वा। * विष्णुर्वै यज्ञस्य दुरिष्टं पाति इत्यादि * विदुः कृष्णं ब्राह्मणास्तत्वतो ये तेषां राजन् सर्वयज्ञाः समाप्ता: * सर्वं करोति निश्छिद्रं नामसंकीर्तनं तव इत्यादि च । परः परेभ्य: कारणस्वनिरतिशयानन्दत्यादिना परेभ्यः ब्रह्मादिभ्यः परः। परमार्थरूपी- ब्रह्मादिवन्न विनाशिविग्रहः, अपितु सर्वशक्त्याश्रयपरमार्थदिव्यविग्रहः ; परप्रयोजनानन्दस्वरूपो वा। ब्रह्मपार:-ब्रह्मण:-प्रधानस्य, पार:-अवसानभूमिः। आर्षो लिङ्गव्यत्ययः । यद्वा सब्रह्मपार:-सब्रह्मणः-सवेदान् वैदिकान् पालयतीति सब्रह्मपारः। रलयोरभेदः । परपारभूत:-प्रधानापेक्षया परः समष्टिपुरुषः, तस्य पारभूतः, * प्रधानपुंसोरजयो: कारणम् , * उभावेतौ लीयेते परमात्मनि * इति च दर्शनात् । यद्वा परेषां-परस्परभिन्नानां वस्तूनां पारभूतः-असंकरकृन्मर्यादाभूतः, * एष सेतुर्विधरण इति श्रुतेः । परः पराणां–परेभ्यो नित्यमुक्तेभ्यः जगद्योनित्व– -शेषित्वादिभ्यः परः। पारपार: सर्वपारभूतः कालः तस्यापि पार: अवसानभूमिः, * कालं स पचत इति ।. यद्वा पाराणां–पूरकाणां व्योमादिविभुद्रव्याणां, पार:-पूरयिता। पृपालनपूरणयोरिति धातोर्णिजन्तात्पचाद्यच् । * तेनेदं पूर्णं पुरुषेण सर्वमिति । अथवा पालानां पालः, रलायोरभेद: * एष हीदं सर्वं गोपायतीति, * न हि पालनसामर्थ्यमृते सर्वेश्वरं हरिम् * इति च ॥ ५५॥

स कारणं कारणतस्ततोऽपि तस्यापि हेतुः परहेतहेतुः ।

कार्येषु चैवं स ह कर्मकर्तृरुपैरशेषैरवतीह सर्वम्  ॥ ५६ ॥

     स कारणमिति ॥ कारणतस्तत इति षष्ठ्यर्थे तसिः । चरमकार्यस्य देहादेः कारणं विराट्, तस्य भूतानित्यादिका प्रकृत्यन्ता कारणमाला, स विष्णुः कारणतस्ततोऽपि कारणमित्यनुषङ्गः, भूतानि, तस्यापि हेतुस्तन्मात्राणि । परहेतुहेतु:-परोऽहंकारः तद्धेतुर्महान् । तद्धेतुः प्रकृतिरिति । एवं महदादिदेहान्तकार्येषु च महदादिकार्यमालाऽपि स एवेत्यर्थः । अनेनोपादानत्वमुक्तम् । रक्षकत्वमाह-सहेति ॥ स इति पदच्छेदः। स एव तत्तत्क्रियारूपै स्तत्तत्कर्तृरूपैरात्मीयैरित्थंभूतः सर्वमवति । हेति प्रसिदौ । अथवा सहकर्मभि:-कर्मसहितैः तत्तत्कर्तृरूपैः ॥ ५६ ॥

ब्रह्मप्रभुर्ब्रह्म स सर्वभूतो ब्रह्म प्रजानां पतिरच्युतोऽसौ ।

ब्रह्माव्ययं नित्यमजं स विष्णुरपक्षयाद्यैरखिलैरसङ्गि ॥ ५७ ॥

    ब्रह्मेति ॥ ब्रह्मप्रभुः– वेदनिर्वाहकः । स ब्रह्मभूरिति पाठे ब्रह्मणि वेदे प्रतिपाद्यत्वेनाविर्भवतीत्यर्थः । ब्रह्म सः–वेदश्च सः । सर्वभूतः अन्यदपि वेदाङ्गादिरूपं शब्दजातं स एव । प्रकृतसजातीयविशेषपरामर्शी हि सर्वशब्दः। शब्दमूर्तिधरस्यैतदिति हि वक्ष्यति । ब्रह्म–द्वे ब्रह्मणीति वक्ष्यमाणं ज्ञानद्वयम् ; तदप्यसौ । यद्वा ब्रह्मण: वेदद्रष्टुर्विरिञ्चेस्तत्प्रजानां वेदार्थस्मर्तृणां मन्वादीनां च पतिः । परस्वरूपमाह–ब्रह्माव्ययमिति । ब्रह्माक्षरमिति च पाठः । अव्ययत्वादिना प्रधानाद्व्यावृत्तिः। अजत्वेन बद्धात् , तस्य कर्माधीनशरीरग्रहणलक्षणजन्मवत्वात् । नित्यमजमिति मुक्ताद्व्यावृत्तिः। तस्य कदाचिज्जन्मवत्वात् ॥ ५७ ॥

ब्रह्माक्षरमजं नित्यं यथाऽसौ पुरुषोत्तमः । तथा रागादयो दोषाः प्रयान्तु प्रशमं मम ।। ५८॥

सोम उवाच –

एतद्ब्रह्मपराख्यं वै संस्तवं परमं जपन् । अवाप परमां सिद्धिं स समाराध्य केशवम् ॥ ५९ ॥

एवमुक्तस्य ब्रह्मगुणजातस्यानुक्तस्य च सौलभ्यादेरर्चावतारे पौष्कल्प सूचयञ्छपथं करोति ब्रह्माक्षरमिति ॥ असाविति पुरुषोत्तमाख्याद्रौ पुरः स्थितं पुरुषोत्तमसंज्ञं भगवन्तमङ्गुल्या निर्दिश्याह ॥ ५८, ५९ ॥

(इमं स्तवं यः पठति शृणुयाद्वाऽपि नित्यशः। स कामदोषैरखिलैर्मुक्तः प्राप्नोति वाञ्छितम् ।)

इयं च मारिषा पूर्वमासीद्या तां ब्रवीमि वः । कार्यगौरवमेतस्याः कथने फलदायि वः ॥ ६० ॥

अपुत्रा प्रागियं विष्णुं मृते भर्तरि सत्तमाः । भूपपत्नी महाभागा तोषयामास भक्तितः ॥ ६१ ॥

आराधितस्तया विष्णुः प्राह प्रत्यक्षतां गतः । वरं वृणीष्वेति शुभे सा च प्राहात्मवाञ्छितम् ॥ ६२ ॥

      इयं चेति । एतस्याः कथने मम कार्यगौरवं यत्नगौरवम् , व: सुपुत्रत्वादिफलदम् । कार्य गौरवमिति पाठे युष्माभिर्गौरवं कर्त्तव्यमिति ॥ ६०-६२ ॥

भगवन्बालवैधव्याद्वृथाजन्माऽहमीदृशी। मन्दभाग्या समुद्भूता विफला च जगत्पते ॥ ६३ ॥

भवन्तु पतयः श्लाघ्या मम जन्मनि जन्मनि । त्वत्प्रसादात्तथा पुत्रः प्रजापतिसमोऽस्तु मे ॥ ६४ ॥

[कुलं शीलं वयस्सत्यं दाक्षिण्यं क्षिप्रकारिता । अविसंवादिता सत्त्वं वृद्धसेवा कृतज्ञता ॥]

रूपसंपत्समायुक्ता सर्वस्य प्रियदर्शना । अयोनिजा च जायेयं त्वत्प्रसादादधोक्षज ॥ ६५ ॥

     सोम उवाच –

तयैवमुक्तो देवेशो हृषीकेश उवाच ताम् । प्रणामनम्रामुत्थाप्य वरदः परमेश्वरः ॥ ६६ ॥

     देव उवाच –

भविष्यन्ति महावीर्या अन्यस्मिन्नेव जन्मनि । प्रख्यातोदारकर्माणो भवत्याः पतयो दश ॥ ६७ ॥

पुत्रं च सुमहात्मानमतिवीर्यपराक्रमम् । प्रजापतिगुणैर्युक्तं त्वमवाप्स्यसि शोभने ॥ ६८ ॥

     भगवन्निति ॥ विफला-वैफल्यमपुत्र बादि ॥ ६३-६८ ॥

वंशानां तस्य कर्तृत्वं जगत्यस्मिन्भविष्यति । त्रैलोक्यमखिला सूतिस्तस्य चापूरयिष्यति ॥ ६९॥

त्वं चाप्ययोनिजा साध्वी रूपौदार्यगुणान्विता । मनःप्रीतिकरी नृणां मत्प्रसादाद्भविष्यसि ॥ ७० ॥

इत्युक्त्वाऽन्तर्दधे देवस्तां विशालविलोचनाम् । सा चेयं मारिषा जाता युष्मत्पत्नी नृपात्मजाः ॥ ७१॥

     श्रीपराशर:-

ततस्सोमस्य वचनाज्जगृहुस्ते प्रचेतसः । संहृत्य कोपं वृक्षेम्पः पत्नीधर्मेण मारिषाम् ॥ ७२ ॥

दशम्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः । जज्ञे दक्षो महाभागो यः पूर्वं ब्रह्मणोऽभवत् ॥ ७३ ॥

      वंशानामिति ॥ सूति:-सन्तानः ॥ ६९-७३ ॥

स तु दक्षो महाभागस्सृष्ट्यर्थं सुमहामते । पुत्रानुत्पादयामास प्रजासृष्ट्यर्थमात्मनः ॥ ७४ ॥

अवरांश्च वरांश्चैव द्विपदोऽथ चतुष्पदान् । आदेशं ब्रह्मणः कुर्वन् सृष्ट्यर्थं समुपस्थितः ॥ ७५ ॥

     स इति ॥ सृष्ट्यर्थमित्यस्य यः पूर्वं ब्रह्मणोऽभवदिति पूर्वश्लोकेनान्वयः ॥ ७४, ७५ ॥

स सृष्ट्वा मनसा दक्षः पश्चादसृजत स्त्रियः ॥ ७६ ॥

     स सृष्ट्वेति  ॥ चराचरादिरूपान् पुत्रान्मनसा सृष्ट्वा ; पश्चात्-वक्ष्यमाणहर्यश्वादिपुत्रनाशादूर्ध्वम् ॥ ७६ ॥

ददौ स दश धर्माय कश्यपाय त्रयोदश । कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ॥ ७७ ॥

तासु देवास्तथा दैत्या नागा गावस्तथा खगाः । गन्धर्वाप्सरसश्चैव दानवाद्याश्च जज्ञिरे ॥ ७८ ॥

     कालस्य नयने-ग्रहचारादिविषयत्वेन स्वभ्रमणेन च ज्ञापने नियुक्ताः अश्विन्यादिताराः ॥ ७७, ७८ ॥

ततः प्रभृति मैत्रेय प्रजा मैथुनसंभवाः । संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषामभवन् प्रजाः । तपोविशेषैः सिद्धानां तदाऽत्यन्ततपस्विनाम् ॥ ७९ ॥

    मैत्रेय:-

अङ्गुष्ठाद्दक्षिणाद्दक्षः पूर्व जातो मया श्रुतः । कथं प्राचेतसो भूयः समुत्पन्नो महामुने ॥ ८० ॥

एष मे संशयो ब्रह्मन्सुमहान्हृदि वर्तते । यद्दौहित्रश्च सोमस्य पुनः श्वशुरतां गतः ॥ ८१ ॥

     तत इति ॥ पूर्वेषाम्–दक्षात् पूर्वेषाम् ॥ ७९-८१॥

    श्रीपराशरः –

उत्पचिश्च निरोधश्च नित्यो भूतेषु सर्वदा । ऋषयोsत्र न मुह्यन्ति ये चान्ये दिव्यचक्षुषः ॥ ८२ ॥

     उत्पत्तिरिति ॥ नित्यः प्रवाहरूपेण ॥ ८२ ॥

युगेयुगे भवन्त्येते दक्षाद्या मुनिसत्तम । पुनश्चैव निरुद्ध्यन्ते विद्वांस्तत्र न मुह्यति ॥ ८३ ॥

कानिष्ठ्यं ज्यैष्ठ्यमप्येषां पूर्वं नाभूद्द्विजोत्तम । तप एव गरीयोऽभूत्प्रभावश्चैव कारणम् ॥  ८४ ॥

     मैत्रेयः-

देवानां दानवानां च गन्धर्वोरगरक्षसाम् । उत्पत्तिं विस्तरेणेह मम ब्रह्मन्प्रकीर्त्तय ॥ ८५ ॥

     श्रीपराशर:-

प्रजास्सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा । यथा ससर्ज भूतानि तथा शृणु महामुने ॥ ८६ ॥

मानसान्येव भूतानि पूर्व दक्षोऽसृजत्तदा । देवानृषीन्सगन्धर्वानसुरान्पन्नगांस्तथा ॥ ८७ ॥

यदाऽस्य सृजमानस्य न ब्यवर्धन्त ताः प्रजाः। ततः सञ्चिन्त्य स पुनः सृष्टिहेतोः प्रजापतिः ॥  ८८ ॥

मैथुनेनैव धर्मेण सिसृक्षुर्विविधाः प्रजाः । असिक्नीमुपयेमेऽथ वीरणस्य प्रजापतेः ।  सुतां सुतपसा युक्तां महतीं लोकधारिणीम् ॥ ८९ ॥

अथ पुत्रसहस्राणि वैरुण्यां पञ्च वीर्यवान् । असिक्न्यां जनयामास सर्गहेतोः प्रजापतिः ॥ ९० ॥

तान्दृष्ट्वा नारदो विप्र संविवर्द्धयिषून्प्रजाः । संगम्य प्रियसंवादो देवर्षिरिदमब्रवीत्  ॥ ९१ ॥

हे हर्यश्वा महावीर्याः प्रजा यूयं करिष्यथ । ईदृशो दृश्यते यत्नो भवतां श्रूयतामिदम् ॥ ९२ ॥

बालिशा बत यूयं ये नास्या जानीथ वै भुवः । अन्तरूर्ध्वमधश्चैव कथं स्रक्ष्यथ वै प्रजाः ॥ ९३ ॥

      युगेयुग इति ॥ युज्यन्तेऽस्मिन्सर्वे ग्रहाः, एकस्थानं यान्तीति व्युत्पत्त्या, ग्रहयुगं कल्प इति ज्योतिषप्रसिद्धेश्च कल्पमन्वन्तरादिकालोऽत्र युगम्। पुराणान्तरे दक्षस्य स्वायंभुवे मन्वन्तरे जातत्य पुनश्चाक्षुषे जन्मप्रसिद्धेः कल्पवासिमृग्वादिप्रजेश्वरान्तर्गतत्वाच्च ॥ ८३-९३ ॥

ऊर्ध्वं तिर्यगधश्चैव यदाsप्रतिहता गतिः । तदा कस्माद्भुवो नान्तं सर्वे द्रक्ष्यथ बालिशाः ॥ ९४ ॥

ते तु तद्वचनं श्रुत्वा प्रयातास्सर्वतोदिशम् । अद्यापि नो निवर्तन्ते समुद्रेभ्य इवापगाः ॥ ९५ ॥

हर्यश्वेष्वथ नष्टेषु दक्षः प्राचेतसः पुनः । वेरुण्यामथ पुत्राणां सहस्रमसृजत्प्रभुः ॥ ९६ ॥

विवर्धयिषवस्ते तु शबलाश्वाः प्रजाः पुनः। पूर्वोक्तं वचनं ब्रह्मन्नारदेनैव नोदिताः॥९७ ॥

अन्योन्यमूचुस्ते सर्वे सम्यगाह महामुनिः । भ्रातृणां पदवी चैव गन्तव्या नात्र संशयः ॥ ९८॥

ज्ञात्वा प्रमाणं पृथ्व्याश्च प्रजास्रक्ष्यामहे ततः । तेऽपि तेनैव मार्गेण प्रयातास्सर्वतोमुखम् । अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ॥ ९९ ॥

ततः प्रभृति वै भ्राता भ्रातुरन्वेषणे द्विज । प्रयातो नश्यति तथा तन्न कार्यं विजानता ॥ १०० ॥

ऊर्ध्वमिति ॥ य(दा)थाप्रतिहतागतिरित्यत्र अप्रतिहतेति पदच्छेदः ॥ ९४-१०० ॥

तांश्चापि नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः । क्रोधं चक्रे महाभागो नारदं तं शशाप च ॥ १०१ ॥

सर्गकामस्ततो विद्वान्स मैत्रेय प्रजापत्तिः । षष्टिं दक्षोऽसृजत्कन्या वैरुण्यामिति नः श्रुतम् ॥ १०२ ॥

     तानिति ॥  नारदशापे वायुः * शबलाश्वेषु नष्टेषु दक्षः क्रुद्धोऽशपद्द्विजम् । नारदं नाशमेहीति गर्भवासं वसेति च । तदा दक्षस्सुतां प्रादात्प्रियां वै परमेष्ठिने । तस्मात्स नारदो जज्ञे भूयश्शापभयादृशिः इति ॥ १०१,१०२ ॥

ददौ स दश धर्माय काश्यपाय त्रयोदश । सप्तविंशति सोमाय चतस्रोऽरिष्टनेमिने ॥ १०३ ॥

द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा । द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु ॥१०४॥

    ददाविति ॥ दाक्षायणीनां संज्ञावंशौ विस्तरेण वक्तुं ददावित्यनुवादः । सतविंशतीति सुपो लुक् ॥ १०३, १०४ ॥

अरुन्धती वसुर्जामिलङ्घा भानुर्मरुद्धती । संकल्पा च मुहूर्ता च साध्या विश्वा च तादृशी।

       धर्मपत्न्यो दश त्वेतास्तास्वपत्यानि मे शृणु ॥ १०५ ॥

विश्वेदेवास्तु विश्वायाः साध्या साध्यानजायत । मरुत्वत्यां मरुत्वन्तो वसोश्च वसवः स्मृताः ।

       मुहूर्तास्तु मुहूर्तायां जाता भानोस्तु भानवः ॥ १०६ ॥

      अरुन्धतीति । एता अरुन्धत्याद्याः प्राचेतसस्य दक्षस्य सुताः दश धर्मपत्न्यः, पूर्वोक्ताः श्रद्धाद्या?योदश तु स्वायम्भुवस्य दक्षस्येत्यविरोधः ॥ १०५, १०६॥

लङ्घायास्तु सुतो घोषो नागवीथी तु जामिजा ॥ १०७ ॥

पृथिवीविषयं सर्वमरुन्धत्यामजायत । संकल्पायास्तु सर्वात्मा जज्ञे संकल्प एव हि ॥ १०८ ॥

      लङ्घाया इति ॥ नागवीथि:-देवयानोत्तरवीथिः ॥ १०७, १०८ ॥

ये त्वनेकवसुप्राणा देवा ज्योतिः पुरोगमाः । वसवोऽष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम् ॥१०९॥

आपो ध्रुवश्च सोमश्च धर्मश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः ॥११०॥

आपस्य पुत्रो वै स्तब्धः श्रमः शान्तोध्वनिस्तथा। ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥ १११ ॥

    एतेषां धर्मपुत्राणां मध्ये वसुपुत्राः आपादयोऽष्टौ त्रयश्त्रिंशद्देवान्तःपातित्वेन प्रसिद्धा इत्याह–येत्विति। अनेकवसुप्राणा: अनेक वसु धनं रश्मिर्वा प्राणो बलं येषां ते । ज्योति.पुरोगमा:-अग्निमुख्याः  * वसूनामस्मि पावकः,*  इति स्मृतेः ॥ १०९-१११ ॥

सोमस्य भगवान्वर्चो वर्चस्वी येन जायते ॥ ११२॥

    सोमस्येति ॥ येन वर्चसा जनो वर्चस्वी जायते स वर्चोधिदैवतम् ॥ ११२ ॥

धर्मस्य पुत्रो द्रविणो हुतहव्यवहस्तथा । मनोहरायां शिशिरः प्राणोऽथ रमणस्तथा ॥ ११३ ॥

अनिलस्य शिवा भार्या तस्याः पुत्रो पुरोजवः । अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ॥ ११४ ॥

    धर्मस्येति ॥ मनोहरायां, धर्मादिति शेषः ॥ ११३, ११४ ॥

अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत । तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजाः ॥ ११५ ॥

             अपत्यं कृत्तिकानां तु कार्तिकेय इति स्मृतः ॥ ११६ ॥

प्रत्यूषस्य विदुः पुत्रं ऋषिं नाम्नाऽथ देवलम् । द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ॥ ११७ ॥

     अग्निपुत्र इति ॥ अग्निपुत्रः-पूर्वमग्नेः पुत्रः। यद्वा अग्निपुत्रः कुमारः, तस्य कुमारस्येन्द्राहतपृष्ठदेशाज्जातो नैगमेयः ; शाखविशाखौ स्कन्दसृष्टौ ॥ ११५-११७ ॥

बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी । योगसिद्धा जगत्कृत्स्नमसक्ता विचरत्युत । प्रभासस्य तु सा भार्या वसूनामष्टमस्य ह ॥ ११८ ॥

बृहस्पतेरिति ॥ असक्ता–विरक्ता ॥ ११८॥

विश्वकर्मा महाभागस्तस्यां जज्ञे प्रजापतिः । कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः ॥ ११९ ॥

भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः । यस्सर्वेषां विमानानि देवादीनां चकार ह । मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः ॥ १२० ॥

           विश्वकर्मेति ॥ तस्यां विश्वकर्मा ॥ ११९, १२० ॥

अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्यवान् । त्वष्टुश्चाप्यात्मजः पुत्रो विश्वरूपो महातपाः ॥ १२१ ॥

          अजैकपादिति ॥  अजैकपादादिरुद्रचतुष्कं च तस्यां प्रभासभार्यायामेव जज्ञे ।  विश्वरूपान्तोऽत्र वसुसन्तानः ॥ १२१ ॥

हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः । वृषाकपिश्च शम्भुश्च कपर्दी रैवतस्तथा ॥ १२२ ॥

मृगव्याधश्च शर्वश्च कपाली च महामुने । एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥ १२३ ॥

      एवं रुद्रप्रसंगात्प्रागुक्तान् ब्रह्मपुत्रान्नीललोहितांशान् रुद्रान् हरादिनामभिर्निर्दिशति-हरश्चेति ॥ अथवा प्रभासभार्यासूनवस्त्रयो रुद्राः, त्वष्टसूनवोऽष्टौ तदन्वये परिशिष्टा रुद्रा इति ॥ १२२, १२३ ॥

शतं त्वेकं समाख्यातं रुद्राणाममितौजसाम् । काश्यपस्य तु भार्या यास्तासां नामानि मे शृणु।

            अदितिर्दितिर्दनुश्चैवारिष्टा च सुरसा कपा ॥ १२४ ॥

    शतं त्वेकमिति ॥ शतं त्वेवमिति च पाठः । एवं रुदाणां शतकं समाख्यातम् । इदं शतकमीश्वरसृष्टमिति केचित् । अत्र शतशब्दोऽनन्तवचनः ॥ १२४ ॥

सुरभिर्विनता चैव ताम्रा क्रोधवशा इला । कद्रुर्मुनिश्च धर्मज्ञ तदपत्यानि मे शृणु ॥ १२५ ॥

     अदितिरिति । अदित्यादयः काश्यपस्त्रियः । सुरसा खषेति च पाठः ॥ १२५ ॥

पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन्सुरोत्तमाः । तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेऽन्तरे ॥ १२६ ॥

       पूर्वेति । पूर्वमन्वन्तरे-द्वितीये स्वारोचिषमन्वन्तरे ये तुषितानाम देवा आसन् , ते वैवस्वते सप्तमे मन्वन्तरे ॥ १२६॥

उपस्थितेऽतियशसश्चाक्षुषस्यान्तरे मनोः । समवायीकृताः सर्वे समागम्य परस्परम् ॥ १२७ ॥

      उपस्थित इति ॥ उपस्थिते-आसन्ने चाक्षुषस्य षष्ठस्य मन्वन्तरे, परस्परं समागम्य-समवायीकृता अन्योन्यमूचुरिति पूर्वेणान्वयः ॥ १२७॥

आगच्छत द्रुतं देवा अदितिं संप्रविश्य वै । मन्वन्तरे प्रसूयामस्तन्नः श्रेयो भवेदिति ॥ १२८ ॥

     कथमूचुरित्यत्राह आगच्छतेति । मन्वन्तरे सप्तमेऽदितिं संप्रविश्य प्रसूयामः, तन्नः श्रेय इति ॥१२८॥

एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः । मारीचात्काश्यपाज्जाता अदित्या दक्षकन्यया ॥ १२९ ॥

तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि । अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥ १३० ॥

विवस्वान्सविता चैव मित्रो वरुण एव च । अंशुर्भगश्चातितेजा आदित्या द्वादश स्मृताः ॥ १३१ ॥

चाक्षुषस्यान्तरे पूर्वमासन्ये तुषितास्सुराः । वैवस्वतेऽन्तरे ते वै आदित्या द्वादश स्मृताः ॥ १३२ ॥

       एतन्निगमयति एवमुक्तवति ॥ १२९ -१३२ ॥

यास्सप्तविंशति प्रोक्ताः सोमपत्न्योऽथ सुव्रताः । [सर्वा नक्षत्रयोगिन्यस्तन्नाम्नश्चैव ताः स्मृताः ।।

            तासामपत्यान्यभवन्दीप्तान्यमिततेजसाम् ॥ १३३ ॥

            अरिष्टनेमिपत्नीनामपत्यानीह षोडश ॥ १३४ ॥

  भगवतः प्रतिमन्वन्तरं प्रतियुगं चावतारं तृतीयेंऽशे वक्ष्यति । अदितिवंशादनन्तरप्राप्तमपि दित्यादिवंशं प्रह्लाद-  चरितादिविस्तरविवक्षयाऽन्ते वक्ष्यन् मध्ये स्वल्पत्वाच्छिष्टदक्षकन्यावंशमाह-यास्सप्तविंशतिरिति ॥१३३, १३४॥

बहुपुत्रस्य विदुषश्चतस्रो विद्युतः स्मृताः ॥ १३५ ॥

      बह पुत्रस्येति ॥ चतस्रो विद्युत:-कपिलातिरक्तपीतसितवर्णाः ॥ १३५ ॥

प्रत्यङ्गिरसजाः श्रेष्ठा ऋचो ब्रह्मर्षिसत्कृताः ॥ १३६ ॥

     प्रत्यङ्गिरसजा इति । प्रत्यङ्गिरसः-प्रत्यङ्गिराख्याः ऋचः * या कल्पयन्तीत्याद्यास्त्रिंशन्मन्त्राः ॥ १३६॥

(भृ ) कृशाश्वस्य तु देवर्षेर्देवप्रहरणाः स्मृताः ॥ १३७ ॥

     (भृ) कृशाश्वस्येति ॥ प्रहरणाः-शस्त्रदेवताः ॥ १३७ ॥

एते युगसहस्रान्ते जायन्ते पुनरेव हि । सर्वे देवगणास्तात त्रयस्त्रिंशत्तु छन्दजाः ।

            तेषामपीह सततं निरोधोत्पत्तिरुच्यते ॥ १३८॥

      एत इति ।। स्वच्छन्दजा:-स्वेच्छया जाताः । निरोधश्चोत्पत्तिश्च निरोधोत्पत्तिः ॥ १३८ ॥

यथा सूर्यस्य मैत्रेय उदयास्तमयाविह। एवं देवनिकायास्ते संभवन्ति युगेयुगे ॥ १३९ ॥

दित्याः पुत्रद्वयं जज्ञे काश्यपादिति नः श्रुतम् । हिरण्यकशिपूश्चैव हिरण्याक्षश्च दुर्जयः ॥ १४० ॥

                       सिंहिका चाभवत्कन्या विप्रचित्तेः परिग्रहः ॥ १४१ ॥

हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः । अनुह्लादश्च ह्लादश्च प्रह्लादश्चैव धर्मवान् ।

              संह्लादश्च महावीर्या दैत्यवंशविर्द्धनाः ॥ १४२ ॥

तेषां मध्ये महाभागस्सर्वत्र समदृग्वशी । प्रह्लादः परमां भक्तिं य उवाह जनार्दने ॥ १४३ ॥

दैत्येन्द्रदीपितो वह्निः सर्वाङ्गोपचितो द्विज । न ददाह च यं पूर्वं वासुदेवे हृदि स्थिते ॥ १४४ ॥

महार्णवान्तस्सलिले स्थितस्य चलतो मही। चचाल सकला यस्य पाशबद्धस्य धीमतः ॥१४५॥

न भिन्नं विविधैः शस्त्रैर्यस्य दैत्येन्द्रपातितैः । शरीरमद्रिकठिनं सर्वत्राच्युतचेतसः ॥ १४६ ॥

विषानलोज्ज्वलमुखा यस्य दैत्यप्रचोदिताः । नान्ताय सर्पपतयो बभूवुरुरुतेजसः ॥ १४७ ॥

शैलैराक्रान्तदेहोऽपि य स्मरन्पुरुषोत्तमम् । तत्याज नात्मनः प्राणान् विष्णुस्मरणदंशितः ॥ १४८ ॥

पतन्तमुच्चादवनिर्यमुपेत्य महामतिम् । दधार दैत्यपतिना क्षिप्तं स्वर्गनिवासिना ॥ १४९ ॥

यस्य संशोषको वायुर्देहे दैत्येन्द्रयोजितः । अवाप संक्षयं सद्यश्चित्तस्थे मधुसूदने ॥ १५० ॥

      यथेति ॥ युगेयुगे-प्रतियुगं कल्पमन्वन्तरादि ॥ १३९ -१५० ॥

विषाणभङ्गमुन्मत्ता मदहानिं च दिग्गजाः । यस्य वक्षःस्थले प्राप्ता दैत्येन्द्रपरिणामिताः ॥ १५१ ॥

यस्य चोत्पादिता कृत्या दैत्यराजपुरोहितैः । बभूव नान्ताय पुरा गोविन्दासक्तचेतसः ॥ १५२ ॥

 शम्बरस्य च मायानां सहस्रमतिमायिनः । यस्मिन्प्रयुक्तं चक्रेण कृष्णस्य वितथीकृतम् ॥ १५३ ॥

     विषाणेति ॥ परिणामिता:-दन्तैहन्तुं प्रेरिताः ॥ १५१-१५३ ॥

दैत्येन्द्रसूदोपहृतं यस्य हालाहलं विषम् । जरयामास मतिमानविकारममत्सरी ॥ १५४॥

समचेतां जगत्यस्मिन्यः सर्वेष्वेव जन्तुषु । यथाऽऽत्मनि तथाऽन्येषां परं मैत्रगुणान्वितः ॥ ५५ ॥

धर्मात्मा सत्यशौचादिगुणानामाकरः परः। उपमानमशेषाणां साधूनां यस्सदाऽभवत् ॥ १५६॥

     दैत्येन्द्रेति ॥ हालाहलं-विषम् ।* नदी हलहला नाम तज्जं हालाहलं विषम् * इत्यायुर्वेदे ॥ १५४-१५६ ॥

इति श्रीविष्णुपुराणे प्रथमेंशे पञ्चदशोऽध्यायः ॥ १५ ॥

इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने श्रीविष्णुचितीये प्रथमें ऽशे पञ्चदशोऽध्यायः ॥१५॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.