श्रीविष्णुपुराणम् Amsa 01 Ady 17

श्रीविष्णुपुराणम्

अथ सप्तदशोऽध्यायः

     श्रीपराशर: –

मैत्रेय श्रूयतां सम्यक् चरितं तस्य धीमतः । प्रह्लादस्य सदोदारचरितस्य महात्मनः ॥१॥

दितेः पुत्रो महावीर्यो हिरण्यकशिपुः पुरा । त्रैलोक्यं वशमानिन्ये ब्रह्मणो वरदर्पितः ॥ २॥

इन्द्रत्वमकरोद्दैत्यः स चासीत्सविता स्वयम् । वायुरग्निरपां नाथः सोमश्चाभून्महामुरः ॥३॥

धनानामधिपस्सोऽभूत्स एवासीत्स्वयं यमः। यज्ञभागानशेषांस्तु स स्वयं बुभुजेऽसुरः॥४॥

देवाः स्वर्गं परित्यज्य तत्त्रासान्मुनिसत्तम । विचेरुरवनौ सर्वे विभ्राणा मानुषीं तनुम् ॥ ५॥

जित्वा त्रिभुवनं सर्वं त्रैलोक्यैश्वर्यदर्पितः । उद्गीयमानो गन्धर्वैर्बुभुजे विषयान्प्रियान् ॥६॥

पानासक्तं महात्मानं हिरण्यकशिपुं तदा । उपासांचक्रिरे सर्वे सिद्धगन्धर्वपन्नगाः ॥७॥

अवादयन् जगुश्चान्ये जयशब्दं तथाऽपरे । दैत्यराजस्य पुरतश्चक्रुः सिद्धा मुदाऽन्विताः ॥८॥

     अवादयन्निति । अवादयन् वाद्यानि ॥ १-८॥

तत्र प्रनृत्ताप्सरसि स्फाटिकाभ्रमयेऽसुरः । पपौ पानं मुदा युक्तः प्रासादे सुमनोहरे ॥९॥

तस्य पुत्रो महाभागः प्रह्लादो नाम नामतः । पपाठ बालपाठ्यानि गुरुगेहंगतोऽर्भकः ॥१०॥

एकदा तु स धर्मात्मा जगाम गुरुणा सह । पानासक्तस्य पुरतः पितुर्दैत्यपतेस्तदा ॥ ११ ॥

पादप्रणामावनतं तमुत्थाप्य पिता सुतम् । हिरण्यकशिपुः प्राह प्रह्लादममितौजसम् ॥ १२ ॥

पठ्यतां भवता वत्स सारभूतं सुभाषितम् । कालेनैतावता यत्ते सदोद्युक्तेन शिक्षितम् ॥ १३ ॥

    प्रह्लाद:-

श्रूयतां तात वक्ष्यामि सारभूतं तवाज्ञया । समाहितमना भूत्वा यन्मे चेतस्यवस्थितम् ॥ १४ ॥

        तन्नेति ॥ अभ्रम्– अभ्रकाख्यः शिलाविशेषः । यद्वा, आकाशगत्वादभ्रमयत्वम् । स्फटिकाश्ममय इति वा पाठः ॥ ९-१४ ॥

अनादिमध्यान्तमजमवृद्धिक्षयमच्युतम् । प्रणतोऽस्म्यन्तसन्तानं सर्वकारणकारणम् ॥ १५ ॥

    श्रीपराशर:-

एतन्निशम्य दैत्येन्द्रः सकोपो रक्तलोचनः । विलोक्य तद्गुरुं प्राह स्फुरिताधरपल्लवः ॥ १६ ॥

    हिरण्यकशिपु:-

ब्रह्मबन्धो किमत चिपक्षस्तुतिसंहितम् । असारं ग्राहितो बालो मामवज्ञाय दुर्मते  ॥ १७ ॥

    गुरुः–

देत्येश्वर न कोपस्य वशमागन्तुमर्हसि । ममोपदेशजनितं नायं वदति ते सुतः ॥ १८ ॥

    हिरयकशिपु:-

अनुशिष्टोऽसि केनेदृग्वत्स प्रह्लाद कथ्यताम् । मयोपदिष्टं नेत्येष प्रब्रवीति गुरुस्तव ॥ १९॥

       अनादीति ॥ अनादीत्यादिविशेषणैरन्तवतो व्यावृत्तिः ; अजमिति कर्माधीनजन्मनः पुरुषात् । अन्तं संहारं सन्तनोतीत्यन्तसन्तानः ॥ १५-१९॥

    प्रह्लादः-

शास्ता विष्णुरशेषस्य जगतो यो हृदि स्थितः । तमृते परमात्मानं तात कः केन शास्यते ॥ २० ॥

    हिरण्यकशिपु:-

कोऽयं विष्णुस्सुदुर्बुद्धे यं ब्रवीषि पुनः पुनः। जगतामीश्वरस्येह पुरतः प्रसभं मम ॥२१॥

       शास्तेति ॥ शास्ता-शासिता । शास्यते-शिक्ष्यते ॥ २०, २१ ॥

   प्रह्लादः-

न शब्दगोचरं यस्य योगिध्येयं परं पदम् । यतो विश्वं स्वयं विश्वं स विष्णुः परमेश्वरः ॥ २२ ॥

   हिरण्यकशिपु:-

परमेश्वरसंज्ञोज्ञ किमन्यो मय्यवस्थिते । तथाद्य मर्तुकामस्त्वं प्रब्रवीषि पुनःपुनः ॥ २३ ॥

       नेति  ॥  पदं–स्वरूपं न शब्दगोचरं, जात्याद्यभावात्  * यतो वाचो निवर्तन्ते * इति श्रुतेः । वक्तुमशक्यमिति वा ॥ २२, २३॥

    प्रह्लादः-           न केवलं तात मम प्रजानां स ब्रह्मभूतो भवतश्च विष्णुः ।

                      धाता विधाता परमेश्वरश्च प्रसीद कोपं कुरुषे किमर्थम् ॥ २४॥

    हिरण्यकशिपु: –

प्रविष्टः कोऽस्य हृदये दुर्बुद्धेरतिपापकृत् । येनेदृशान्यसाधूनि वदत्याविष्टमानसः ॥ २५ ॥

    प्रह्लादः-          न केवलं मद्धृदयं स विष्णुराक्रम्य लोकानखिलानवस्थितः ।

               स मां त्वदांदीश्च पितस्समस्तान्समस्तचेष्टासु युनक्ति सर्व (तः) गः ॥ २६ ॥

           नेति ॥ धाता-धारकः । विधाता–निर्माता ॥ २४-२६ ॥

     हिरण्यकशिपु:-

निष्काम्यत्तामयं पापः शास्यतां च गुरोर्गृहे । योजितो दुर्मतिः केन विपक्षविषयस्तुतौ ॥ २७ ॥

श्रीपराशरः-

इत्युक्तोऽसौ तदा दैत्यैर्नीतो गुरुगृहं पुनः । जग्राह विद्यामनिशं गुरुशुश्रूषणोद्यतः ॥ २८ ॥

   निष्क्राम्यतामिति ॥ विपक्षपतितस्तुताविति च पाठः । विपक्षपतितस्य स्तुती केन पेजित इति निदः ॥ २७,२८॥

कालेऽतीतेऽतिमहति प्रह्लादमसुरेश्वरः । समाहूयाब्रवीद्गाथा काचित्पुत्रक गीयताम् ।। २९ ॥

    काल इति ॥ गाथा-लोकः ॥ २९॥

    प्रह्लाद:-

यतः प्रधानपुरुषौ यतश्चैतच्चराचरम् । कारणं सकलस्यास्य स नो विष्णुः प्रसीदतु ॥ ३० ॥

   हिरण्यकशिपु:-

दुरात्मा वध्यतामेष नानेनार्थोऽस्ति जीवता । स्वपक्षहानिकर्तृत्वाद्यः कुलाङ्गारतां गतः ॥ ३१ ॥

   श्रीपराशर:-

इत्याज्ञप्तास्ततस्तेन प्रगृहीतमहायुधाः । उद्यतास्तस्य नाशाय दैत्याश्शतसहस्रशः ॥ ३२ ॥

         यत इति ॥ चराचरं-कार्यभूतं जगत् ॥ ३०-३२ ॥

    प्रह्लादः-

विष्णुः शस्त्रेषु युष्मासु मयि चासौ यथास्थितः । दैतेयास्तेन सत्येन माक्रमन्त्वायुधानि वः ॥३३॥

   श्रीपराशरः-

ततस्तैश्शतशो दैत्यैः शस्त्रोघैराहतोऽपि सन् । नावाप वेदनामल्पामभूच्चैव पुनर्नवः ॥ ३४॥

    हिरण्यकशिपु:-

दुर्बुद्धे विनिवर्तस्व वैरिपक्षस्तवादतः । अभयं ते प्रयच्छामि मातिमूढमतिर्भव ॥ ३५ ॥

    प्रह्लादः-

भयं भयानामपहारिणि स्थिते मनस्यनन्ते मम कुत्र तिष्ठति ।

यस्मिन्स्मृते जन्मजरान्तकादिभयानि सर्वाण्यपयान्ति तात ॥ ३६॥

हिरण्यकशिपु:-

भोभोः सर्पाः दुराचारमेनमत्यन्तदुर्मतिम् । विषज्वालाकुलैर्वक्त्रैः सद्यो नयत संक्षयम् ॥ ३७ ॥

       विष्णुरिति ॥ माकामा–यत्र मामित्यध्याहारः ॥ ३३-३७ ॥

   श्रीपराशरः –

इत्युक्तास्ते ततः सर्पाः कुहकास्तक्षकादयः । अदशन्त समस्तेषु गात्रेष्वतिविषोल्बणाः ॥ ३८ ॥

स त्वासक्तमतिः कृष्णे दृश्यमानो महोरगैः । न विवेदात्मनो गात्रं तत्स्मृत्याह्लादसंस्थितः ॥ ३९ ॥

         इतीति। कुहका:-क्रूराः ॥ ३८,३९॥

   सर्पा ऊचुः-

दंष्ट्रा विशीर्णा मणयः स्फुटन्ति फणेषु तापो हृदयेषु कंपः ।

नास्य त्वचः स्वल्पमपीह भिन्नं प्रशाधि दैत्येश्वर कार्यमन्यत् ॥ ४०॥

        दंष्ट्रा इति ॥ दंष्ट्रा विशीर्णा इति विषस्य प्रातिलोम्यात् ॥ ४० ॥

    हिरण्यकशिपु:-

हे दिग्गजाः संकटदन्तमिश्रा घ्नतैनमस्मद्रिपुपक्षभिन्नम् ।

तक्षा विनाशाय भवन्ति तस्य पवारणेः प्रज्वलितो हुताशः ॥ ४१ ॥

    श्रीपराशर:-

ततः स दिग्गजैर्बालो भूभृच्छिखरसन्निभैः । पातितो धरणीपष्ठे विषाणैरप्यपीड्यत ॥ ४२ ॥

स्मरतस्तस्य गोविन्दमभिदन्ताः सहस्रशः । शोर्णा वक्षःस्थलं प्राप्य स प्राह पितरं ततः ॥ ४३ ॥

       हे दिग्गजा इति ॥ संकटेति । चतुर्दन्ततया परस्परनिबिडदन्तयुक्ताः । रिपुपक्षेण भिन्नम्-अस्मत्तो  भेदिनम् । तस्य-जनकस्य ॥ ४१-४३॥

दन्ता गजानां कुलिशाग्रनिष्ठुराः शीर्णा यदेतेन बलं ममैतत् ।

महाविप (त्पाप) त्तापविनाशनोऽयं जनार्दनानुस्मरणानुभावः ॥ ४४ ॥

    हिरण्यकशिपु:-

ज्वाल्यतामसुरा वह्निरपसर्पत दिग्गजाः । वायो समेधयाग्निं त्वं दह्यतामेष पापकृत् ॥ ४५ ॥

    श्रीपराशर:-

महाकाष्ठचयच्छन्नमसुरेन्द्रसुतं ततः । प्रज्वाल्य दानवा वह्निं ददहुः स्वामिनोदिताः ॥ ४६॥

    प्रह्लादः–   तातैष बह्निः पवनेरितोऽपि न मां दहत्यत्र समन्ततोऽहम् ।

          पश्यामि पद्मास्तरणास्तृतानि शीतानि सर्वाणि दिशां मुखानि ॥४७॥

        अपृष्टोऽपि भगवन्माहात्म्यज्ञापनायाह–दन्ता इति ॥ ४४-४७ ॥

   श्रीपराशर:-

अथ दैत्येश्वरं प्रोचुर्भार्गवस्यात्मजा द्विजाः । पुरोहिता महात्मानः साम्ना संस्तूय वाग्मिनः ॥ ४८॥

   पुरोहिता ऊचु:-

राजन्नियम्यतां कोपो बालेऽपि तनये निजे । कोपो देवनिकायेषु तेषु ते सफलो यतः ॥ ४९ ॥

तथातथैनं बालं ते शासितारो वयं नृप । यथा विपक्षनाशाय विनीतस्ते भविष्यति ॥ ५०॥

बालत्वं सर्वदोषाणां दैत्यराजास्पदं यतः । ततोsत्र कोपमत्यर्थं योक्तुमर्हसि नार्भके ॥ ५१ ॥

       अथेति ॥ द्विजा:-शण्डामर्कादयः ॥ ४८-५१ ॥

न त्यक्ष्यति हरेः पक्षमस्माकं बचनाद्यदि । ततः कृत्यां वधायास्य करिष्यामोsनिवर्तिनीम् ।। ५२ ।।

    श्रीपराशरः –

एवमभ्यर्थितस्तैस्तु दैत्यराजः पुरोहितैः । दैत्यैर्निष्कासयामास पुत्र पावकसञ्चयात् ।। ५३ ॥

        नेति ॥ कृत्या-अभिचारजन्यो भूतविशेषः ॥ ५२, ५३ ॥

ततो गुरुगृहे बालः स वसन्बालदानवान् । अध्यापयामास मुहुरुपदेशान्तरे गुरोः ॥ ५४॥

        तत इति ॥ उपदेशान्तरे-अध्यापनस्प विच्छेदावसरे ।। ५४ ॥

    प्रह्लादः-

श्रूयतां परमार्थो मे दैतेया दितिजात्मजाः । न चान्यथैतन्मन्तव्यं नात्र लोभादि कारणम् ॥ ५५ ॥

       श्रूयतामिति ॥ परमार्थ:-परमपुरुषार्थः। लोभादीत्यादिशब्देनानाप्तत्वहेतुभ्रमविप्रलम्भादिग्रहणम् ॥५५॥

जन्म बाल्यं ततः सर्वो जन्तुः प्राप्नोति यौवनम् । अव्याहतैव भवति ततोऽनुदिवसं जरा ॥ ५६ ॥

       जन्मेति त्रिश्लोक्या देहात्मनोरनित्यत्वनित्यत्वे वदति ॥ ५६॥

ततश्च मृत्युमभ्येति जन्तुर्दैत्येश्वरात्मजाः । प्रत्यक्षं दृश्यते चैतदस्माकं भवतां तथा  ॥ ५७ ॥

       तत इति ॥ दृश्यते चैतत् जन्मादिपञ्चकम् ॥ ५७ ॥

मृतस्य च पुनर्जन्म भवत्येतच्च नान्यथा । आगमोऽयं तथा तच्च नोपादानं विनोद्भवः ॥ ५८ ॥

        देहिनो देहादूर्ध्वं च सत्वान्नियतेत्याह-मृतस्येति ॥ पुनर्जन्म-भाविदेहग्रहणं स्यादेव । अन्यथा-मृतस्य जन्माभावे, एतच्च-वर्तमान जन्म च न स्यात् । अत्र प्रमाणम् , अयम्-अध्येतृमिः प्रत्यक्षं पठ्यमानः, * स इत: प्रयन्नेव पुनर्जायते – अथैतमेवाध्वानं पुनर्निवर्तन्ते * मृत्त्वा पुनर्मृत्युमापद्यन्ते * इत्यादिरागमः। यदागमेनोक्तं तच्च तथैवेत्यनुग्रहाकं तर्कं चार्वाकादीन्प्रत्याह–नोपादानमिति । प्रतिप्राणि प्रतीयमानः सुखदुःखादिकार्योद्भवः प्राग्जन्मकृतसुकृतादिविशिष्टं स्थायिनमात्मानमुपादानकारणं विना न स्यादित्यर्थः । प्रत्यक्षमेव प्रमाणं नानुमानागमाविति वदतो वादिनो युक्तिपूर्वो विवादः स्वशास्त्रप्रणयनं च व्याहतमिति भावः ॥ ५८ ॥

गर्भवासादि यावत्तु पुनर्जन्मोपपादनम् । समस्तावस्थकं तावद्दुःखमेवावगम्यताम् ॥ ५९॥

          नित्यस्याप्यात्मनोऽनित्यदेहादिकं गर्भादिपुनर्जन्माप्तिपर्यन्तसप्तावस्थायुक्तं दुःखहेतुरिति वैराग्यायाह गर्भवासादीति ॥ ५९॥

क्षुत्तृष्णोपशमं तद्वच्छीताद्युपशमं सुखम् । मन्यते बालबुद्धित्वादुःखमेव हि तत्पुनः ॥ ६० ॥

          नन्वन्नपानादीनां सुखहेतुत्वस्य दर्शनात्कथं दुःखमेवेत्युक्तमित्याशङ्क्य दुःखहेतावेच सुखहेतुत्वभ्रम इत्याह-क्षुत्तृष्णेति ॥ क्षुच्छीतादिदुःखशामकमन्नाग्न्यादि दुःखमेव सुखसाधनं मन्यते बालः। हिर्हेतौ। तदन्नादिकं क्षुधाद्यभावे पुनरुद्गाराजीर्णसन्तापादिदुःखहेतुरेव ॥ ६० ॥

अत्यन्तस्तिमिताङ्गानां व्यायामेन सुखैषिणाम् ।

भ्रान्तिज्ञानावृताक्षाणां (प्रहारोsपि) दुःखमेव सुखायते ॥ ६१ ॥

      दुःखहेतुत्वेन प्रसिद्धेऽपि दुःखान्तरोपशामकत्वमात्रेण सुखहेतुत्वधीर्दृश्यत इति निदर्शनेनाह-अत्यन्तेति ॥ व्यायामः-आयासः ॥ ६१॥

क्व शरीरमशेषाणां श्लेष्मादीनां महाचयः । क्व कान्तिशोभासौन्दर्यकमनीयादयो गुणाः ॥ ६२॥

           तथा स्वपरदेहे श्लेष्मादिचये दुःखदेऽपि कान्त्याद्यारोपासुखहेतुत्वधियं दर्शयति क्व शरीरमिति ॥ कमनीयं–कमनीयत्वम् ॥ ६२ ॥

मांसासृक्विण्मूत्र-सायुमज्जास्थिसंहतौ । देहे चेप्रीतिमान् मूढो भविता नरकेs (पि सः)प्यसौ ॥ ६३ ॥

        किं च नरके मलमांसादिकमात्मनोऽन्यवेन भुज्यते । अत्र तु तत्समूहदेहमात्मत्वेन भोग्यत्वेन च मन्यमानो नरके प्रीयेततरामित्यभिप्रायेणाह-मांसेति ॥ ६३ ॥

अग्नेशीतेन तोयस्य तृषा भक्तस्य च क्षुधा । क्रियते मुखकर्तृत्वं तद्विलोमस्य चेतरैः ॥ ६४ ॥

         क्षुत्तृष्णेत्यादिश्लोकोक्तं विवृणोति अग्नेरिति ॥ अग्नेः प्रतियेगिना शीतेन सुखकर्तृत्वं क्रियते, न तु स्वतः । एवं तोयभक्तयोस्तृट्क्षुद्भ्यां तद्विलोमस्य-तेषामग्न्यादीनां प्रतियोगिनः शीतादेः, इतरैः:-अग्न्यादिभिः सुखकर्तृत्वं क्रियते। यद्वा तद्विलोमस्य-सुखविलोमस्य दु:खस्य कर्तृत्वमग्न्यादीनां-शीतादीनामभावैः क्रियत इति । एवमनियतत्वादुभयमपि भ्रान्तम् ; यथा वक्ष्यति-* तस्माद्दुःखात्मकं नास्ति न च किंचित्सुखात्मकम् * इति ॥६४॥

करोति हे दैत्यसुता यावन्मात्रं परिग्रहम् । तावन्मात्रं स एवास्य दुःखं चेतसि यच्छति ॥ ६५ ॥

          एवं भृत्यधनाद्यपि दुःखदमित्याह-करोतीति ॥ परिगृह्यते इति परिग्रहः ॥ ६५॥

यावतः कुरुते जन्तुः संबन्धान्मनसः प्रियान् । तावन्तोऽस्य निखन्यन्ते हृदये शोकशङ्कवः ॥ ६६ ॥

           तथा कलत्रादिसंबन्ध्यपीत्याह-यावत इति॥संबन्धः। संबन्धिनो न स्थिराः,  तन्नाशे शोकस्तु स्थिर इत्यर्थः ॥ ६६॥

यद्यद्गृहे तन्मनसि यत्रकुत्रावतिष्ठतः । नाशदाहोपकरणं कुतस्तत्रैव तिष्ठति  ॥ ६७ ॥

        किञ्चाज्ञानां परिग्रहादे: सन्निधावसन्निधौ च शोकः सम इत्याह-यद्यदिति ॥ यद्यद्गृहे वस्तु तस्य नाशदाहादिकरणं कुतस्यादिति यत्रकुत्रावतिष्ठतः स्वामिनो मनसि तत्तिष्ठतीत्यन्वयः । करणमेवोपकरणं गृहे

क्षेमेण स्थितमपि प्रेम्णाऽन्यथाशंकिनो दुःखायैव सर्वं वस्त्वित्यर्थः । नाशदाहोपहरणमिति च पाठः । यत्र तत्राव–    -तिष्ठत इति च पाठः ॥ ६७ ॥

जन्मन्यत्र महद्दुःखं म्रियमाणस्य चापि तत् । यातनासु यमस्योग्रं गर्भसंक्रमणेषु च ॥ ६८ ॥

         एवं बाल्यादिषु प्रत्यक्षं दुःखमुक्त्वा जन्मादिष्वपि तदेवानुमेयमित्याह-जन्मनीति ॥ जन्मादिषु दुःखमनुमीयत इत्यन्वयः ॥ ६८॥

गर्भेच सुखलेशोऽपि भवद्भिरनुमीयते । यदि तत्कथ्यतामेवं सर्वं दुःखमयं जगत् ॥ ६९ ॥

        गर्भे चेति ॥ सुखलेशो ऽपि यदि तत्कथ्यताम्-तत्सुखं नास्तीत्यर्थः । तस्मादेवं दुःखमयं जगत् ॥६९॥

तदेवमतिदुःखानामास्पदेsत्र भवार्णवे । भवतां कथ्यते सत्यं विष्णुरेकः परायणम् ॥ ७० ॥

        तस्माद्भगवत्प्राप्तिलक्षणो मोक्षः प्रार्थ्य इत्याह–तदेवमिति ॥ ७० ॥

मा जानीत वयं बाला देही देहेषु शाश्वतः । जरायौवनजन्माद्या धर्मा देहस्य नात्मनः ॥ ७१॥

बालोऽहं तावदिच्छातो यतिष्ये श्रेयसे युवा। युवाहं वार्द्धके प्राप्ते करिष्याम्यात्मनो हितम् ॥ ७२ ॥

वृद्धोऽहं मम कार्याणि समस्तानि न गोचरे। किं करिष्यामि मन्दात्मा समर्थेन न यत्कृतम् ॥ ७३ ॥

        यदहरेव विरजेदिति श्रुत्या झटिति भगवद्ज्ञाने यतितव्यं न विलम्बितव्यमित्याह-मा जानीतेति ॥ ७१-७३ ॥

एवं दुराशया क्षिप्तमानसः पुरुषः सदा । श्रेयसोऽभिमुखं याति न कदाचित्पिपासितः ॥ ७४॥

बाल्ये क्रीडनकासक्ता यौवने विषयोन्मुखाः । अज्ञा नयन्त्यशक्त्या च वार्द्धकं समुपस्थितम् ।।७५॥

         एवमिति ॥ दुराशा-विषयेच्छा । पिपासित:–श्रेयस्तृष्णावानपि । पिपासित इति अन्तर्जलतस्थरजक–    -(जा)लिकदृष्टान्तस्मारणम् । तौ हि पिपासितावेव पश्चात्पास्यामीति वस्त्रशोधनमत्स्यग्रहणोत्क्षीणौ ॥ ७४, ७५ ॥

तस्माद्बाल्ये विवेकात्मा यतेत श्रेयसे सदा । बाल्ययौवनवृद्धाद्यैर्देहभावैरसंयुतः ॥ ७६॥

        तस्मादिति ॥ वृद्धाद्यैरिति । वृद्धं वार्द्धकं ; भावे निष्ठा ॥ ७६ ॥

तदेतद्वो मयाऽऽख्यातं यदि जानीत नानृतम् । तदस्मत्प्रीतये विष्णुः स्मर्यतां बन्धमुक्तिदः ॥ ७७ ॥

        तदिति ॥ अस्मत्प्रीतये-युष्माकमनिच्छायामपि ॥ ७७ ॥

आयासः स्मरणे कोऽस्य स्मृतो यच्छति शोभनम् । पापक्षयश्च भवति स्मरतां तमहर्निशम् ॥ ७८ ॥

        आयास इति । अहर्निशमिति स्मरणस्य सदा काल इत्याह। यथा * अपवित्रः पवित्रो वा इति ॥ ७८ ॥

सर्वभूतस्थिते तस्मिन्मतिर्मैत्री दिवानिशम् । भवतां जायतामेवं सर्वक्लेशान्प्रहास्यथ ॥ ७९ ॥

       अथ शमदमादिफला: मैत्रीकरुणामुदितोपेक्षाश्चतुश्लोक्याऽऽह–सर्वभूतस्थित इति ॥ सर्वात्मस्वरूपेण विष्णौ स्थिते सति सर्वत्र मित्रधीः कार्या ॥ ७९ ॥

तापत्रयेणाभिहतं यदेतदखिलं जगत् । तदा शोच्येषु भूतेषु द्वेषं प्राज्ञः करोति कः॥ ७८ ॥

         सर्वात्मकत्वमेकस्य मानुसन्धायि ; तथापि तापत्रयदग्धेषु भूतेषु द्वेषो न कार्य: , किन्तु  करुणैव  कार्येत्याह–तापत्रयेणेते ॥ ७८ ॥

अथ भद्राणि भूतानि हीनशक्तिरहं परम् । मुदं त(था)दाsपि कुर्वीत हानिर्द्वेषफलं यतः ॥ ८१ ॥

यदि पुण्याधिकानि भूतानि, अहंतु क्षीण इति मतिः, तदा तेषु मुदिता कार्या, न तु द्वेषः, द्वेष स्थामपुण्यदानिफलस्वादिल्याह-अथेति ॥ ८१॥

बद्धवैराणि भूतानि द्वेषं कुर्वन्ति चेत्ततः । सुशोच्यान्यतिमोहेन व्याप्तानीति मनीषिणाम् ॥ ८२ ॥

         बद्धवैराणीति ॥ यद्यात्मानं प्रति बद्धवैराणि भूतानि-द्विषन्ति, तथाऽप्यहो मोहेन व्याप्तानीति तानि शोच्यानि-तेषूपेक्षा कार्या ॥ ८२ ॥

एते मिन्नदृशां दैत्या विकल्पाः कथिता मया । कृत्वाऽभ्युपगमं तत्र संक्षेपः श्रूयतां मम ॥ ८३ ॥

         एते-मैत्र्यादिचित्तप्रसाधनविकल्पाः : भिन्नदृशां–मध्यमाधिकारिणां मतमभ्युमगम्योक्ताः। मिन्नदृशां- सांख्यानाम् । ते हि भिन्नं जगत्पश्यन्ति, न भगवदात्मकत्वेनाभिन्नम्। प्रसन्नचित्तानामुत्तमाधिकारिणां मतं तु मत्त; संक्षिप्तं श्रूयतामित्याह–एत इति ॥ ८३ ॥

विस्तारः सर्वभूतस्य विष्णोः सर्वमिदं जगत् । द्रष्टव्यमात्मवत्तस्मादभेदेन विचक्षणैः ॥ ८४ ॥

         तदेवाह विस्तार इति ॥ ८४ ॥

समुत्सृज्यासुरं भावं तस्माद्यूयं यथा वयम् । तथा यत्नं करिष्यामो यथा प्राप्स्याम निर्वृतिम् ॥ ८५ ॥

         समुत्सृज्येति ॥ आसुरं भावं-देहात्माभिमानम् ॥ ८५ ॥

नैवाग्निना न चार्केण नेन्दुना न च वायुना । पर्जन्यवरुणाभ्यां वा न सिद्धैर्न च राक्षसैः ॥ ८६॥

         निर्वृतिं विशिनष्टि नैवाग्निनेत्यादिभिः ॥ नैवाग्निनेति ॥ अग्न्यादिजं दुःखमाधिदैविकम् ॥८६॥

न यक्षैर्न च दैत्यैन्द्रैर्नोरगैर्न च किन्नरैः । न मनुष्यैर्न पशुभिर्दोषैर्नैवात्मसंभवैः ॥ ८७ ॥

         नेति । मनुष्यादिजं दुःखमादिभौतिकम् । आत्मदोषजं दुःखमाध्यात्मिकम् ॥ ८७॥

ज्वराक्षिरोगातिसारप्लीहगुल्मादिकैस्तथा । द्वेषेर्ष्यामत्सराद्यैर्वा रागलोभादिभिः क्षयम् ॥ ८८॥

         तदाध्यात्मिकं दु:खं द्विधेत्याह-ज्वरेति ॥ ज्वरादि शारीरं, द्वेषादि मानसम् ॥ ८८ ॥

न चान्यैर्नीयते कैश्चिन्नित्या याऽत्यन्तनिर्मला । तामाप्नोत्यमले न्यस्य केशवे हृदयं नरः ॥ ८९॥

          नेति ॥ अन्यै:-अविद्यादिभिः ॥ ८९॥

                असारसंसारविवर्तनेषु मा यात तोषं प्रसभं ब्रवीमि ।

              सर्वत्र दैत्यास्समतामुपैत समत्वमाराधनमच्युतस्य ॥ ९० ॥

         उपसंहरति असारेति ॥ अपारसंसारेति च पाठः । बहुदेहपरिवर्तनप्रदेषु स्वर्गादिपदेषु सर्वत्र विष्णुबुद्धिं कुरुत ॥ ९० ॥

तस्मिन्प्रसन्ने किमिहास्त्यलभ्यं धर्मार्थकामैरलमल्पकास्ते । समाश्रिताद्ब्रह्मतरोरनन्तान्निःसंश(यो मुक्तिफलप्रपातः) यं प्राप्स्यथ वै महत्फलम् ॥ ९१ ॥

        तस्मिन्निति ॥ सर्वत्र सन्निहिताब्रह्मकल्पतरोर्मोक्षफललाभे निस्संशयः ॥ ९१ ॥

इति श्रीविष्णुपुराणे प्रथमेंशे प्रह्लादानुचरितं नाम सप्तदशोऽध्यायः ॥ १७ ॥

इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने श्रीविष्णुचित्तीये प्रथमें ऽशे सप्तदशोऽध्यायः ॥१७॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.