श्रीविष्णुपुराणम्
अथ विंशोऽध्यायः
श्रीपराशर: –
एवं संचिन्तयन्विष्णुमभेदेनात्मनो द्विज । तन्मयत्वमवापाग्र्यं मेने चात्मानमच्युतम् ॥ १ ॥
विशदविशदतरविशदतमक्रमेण योगकाष्ठां प्राप्त इत्याह एवमिति ॥ आत्मनोऽमेदेन-स्वशरीरकत्वेन । विष्णुशब्दः कारणवाची, आत्मशब्दः कार्यभूतस्वप्रकारकविष्णुवाची, तेनाप्यभेदः। तन्मयत्वं-तत्प्राचुर्यम् । अग्र्यम् -उत्कृष्टं, स्वस्य तदात्मकत्ववैशद्यमवाप । अत एवात्मानमच्युतं मेने | तन्मयत्वमवाप्याग्रे इति च पाठः॥१॥
विसस्मार तदाssत्मानं नान्यत्किञ्चिदजानत । अहमेवाव्ययोsनन्तः परमात्मेत्यचिन्तयत् ॥ २ ॥
तस्य तद्भावनायोगात्क्षीणपापस्य वै क्रमात् । शुद्धेऽन्तःकरणे विष्णुस्तस्थौ ज्ञानमयोऽच्युतः ॥३॥
विसरमारेति ॥ अयोगदशायामात्मानमतदात्मकत्वेन भ्रान्त्या वासितं विसरमार । स्वप्रकाशस्य योगदशायामाविर्भूतस्य च स्वरूपस्य विस्मरणायोगात् ; स्वरूपविस्मृतौ तु वामदेवादेः * अहं मनुरभवमित्यादि वचनवन्मत्तः सर्वमित्यादिवचनं न स्यात् । तर्हि कथमचिन्तयत्तत्राह-अहमेवाव्यय इति ॥ २,३ ॥
योगप्रभावात्प्रह्लादे जाते विष्णुमयेऽसुरे। चलत्पयुरगबन्धं तन्मैत्रेय त्रुटितं क्षणात् ॥ ४ ॥
भ्रान्तग्राहगणः सोर्मिर्ययौ क्षोभं महार्णवः । चचाल च मही सर्वा सशैलवनकानना ॥ ५ ॥
स च तं शैलसंघातं दैतयैर्न्यस्तमथोपरि । उत्क्षिप्य तस्मात्सलिलान्निश्चक्राम महामतिः ॥ ६॥
योगप्रभावादिति ॥ विष्णुमये-विष्णुप्रचुरे, योगाच्चलति सति । उरगबन्धमिति नपुंसकत्वमार्षत्वात् । भावे निष्ठा । उगबन्धनैरिति वा पाठः । चलत्युरगबन्धमिति च पाठः ॥ ४-६॥
दृष्ट्वा च स जगद्भूयो गगनाद्यपलक्षणम् । प्रह्लादोऽस्मीति सस्मार पुनरात्मानमात्मना ॥ ७ ॥
तुष्टाव च पुनर्धीमाननादिं पुरुषोत्तमम् । एकाग्रमतिरव्यग्रो यतवाक्कायमानसः ॥ ८॥
दृष्ट्वेति ॥ प्रह्लादोऽस्मीति-लोकदृष्ट्या केवलमौपाधिकरूपावच्छिन्नमात्मानं सस्मार, न तु परमात्मरूपतया ॥ ७, ८॥
प्रह्लाद:-
ॐनमः परमार्थाय स्थूलसूक्ष्म क्षराक्षर | व्यक्ताव्यक्तकलातीत सकलेश निरञ्जन ॥९॥
ॐ नम इति ॥ परमार्थाय-अविनाशी परमार्थः । परमार्थार्थेति पाठे अर्थशब्दः प्रयोजनवाची । स्थूलेत्यादि । सूक्ष्ममक्षरमव्यक्तं कारणरूपम् ; स्थूलं क्षरं व्यक्तं कार्यरूपम् । पञ्चेन्द्रियाणि पञ्च विषयाः पञ्च भूतानि च कलाः : कलातीतं-मुक्तरूपम् ; निरञ्जन-ददं च मुक्तरूपम् | * निरञ्जनः परमं साम्यमुपैति * इति श्रुतेः ||९||
गुणाञ्जन गुणाधार निर्गुणात्मन् गुणस्थित । मूर्त्तामूर्त महामूर्ते सूक्ष्ममूर्ते स्फुटास्फुट ॥ १० ॥
गुणाञ्जनेति ॥ गुणाञ्जन गुणाधारेति समष्टिरूपं ययेदं धार्यते जगदिति । निर्गुणात्मन् * सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः * इति । गुणस्थित-समस्तकल्याणगुणात्मकोऽसाविति । मूर्तामूर्त-स्थूलसूक्ष्म- प्रपञ्चरूपं । महामूर्ते-विश्वरूपाध्यायोक्तमहामूर्तेः वैश्वानरमूर्तिर्वा । सूक्ष्ममूर्ति:-व्यूहः । स्फुटो विभवः । अस्फुटं- पररूपम् ॥१०॥
करालसौम्परूपात्मन्विद्याविद्यामयाच्युत । सदसदपसद्भाव सदसद्भावभावन ॥११॥
करालेति ॥ करालत्वं संहारादिषु । सौम्यात्मवं स्वतः । अविद्या-कर्म, भ्रान्तिज्ञानं वा। सदसद्रूपभावाभावरूप । सद्भाव-सत्पदार्थ। *ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः * सद्भावे साधुभावे च सत् इति । वस्तूनां सदसद्भावौ करोति जानातीति वा सदसद्भावभावन ॥ ११ ॥
नित्यानित्यप्रपञ्चात्मन्निष्प्रपञ्चामलाश्रित । एकानेक नमस्तुभ्यं वासुदेवादिकारण ॥ १२ ॥
नित्यानित्येति ॥ अनित्यं घटादि, तदपेक्षया नित्यं गगनादि । निष्प्रपञ्च-प्रपञ्चान्निर्गत, प्रपञ्चोत्तीर्णेत्यर्थः । एकानेक-कारणरूपेणैक, कार्यरूपैरनेक ॥ १२ ॥
यः स्थूलसूक्ष्मः प्रकटोऽप्रकाशो यः सर्वभूतो न च सर्वभूतः ।
विश्वं यतश्चैतदविश्वहेतो नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ १३ ॥
श्रीपराशर: –
तस्य तच्चेतसो देवः स्तुतिमित्थं प्रकुर्वतः । आविर्बभूव भगवान् पीताम्बरधरो हरिः ॥ १४ ॥
ससंभ्रमस्तमालोक्य समुत्थायाकुलाक्षरम् । नमोऽस्तु विष्णवेत्येतव्याजहारासकृद्द्विज ॥ १५ ॥
प्रह्लाद:-
देव प्रपन्नार्त्तिहर प्रसादं कुरु केशव । अवलोकनदानेन भूयो मां पालयाच्युत ॥१६॥
श्रीभगवानुवाच –
कुर्वतस्ते प्रसन्नोऽहं भक्तिमव्यभिचारिणीम् । यथाभिलषितो मत्तः प्रह्लाद व्रियतां वरः ॥१७॥
प्रह्लाद:-
नाथ योनिसहस्रेषु येषु येषु व्रजाम्यहम् । तेषु तेष्वच्युता भक्तिरच्युतास्तु सदा त्वयि ॥१८॥
या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु ॥ १९ ॥
श्रीभगवानुवाच –
मयि भक्तिस्तवास्त्वयेव भूयोऽप्येवं भविष्यति । वरस्तु मत्तः प्रह्लाद व्रियतां यस्तवेप्सितः ॥ २०॥
उपसंहरति य इति ॥ स्थूलत्वात्प्रकट: सूक्ष्मत्वादप्रकाशः । य: स्थूलसूक्ष्मप्रकटाप्रकाश इति च पाठः । सर्वभूतः-स्वेतरसर्ववस्तुशरीरः । न च सर्वभूतः-स्वेतरसमस्तवस्तुविलक्षणः। अविश्वहेतुः सृज्यकर्मसापेक्षत्वात् स्वतो विषमसृष्टेरहेतुः ॥ १३-२०॥
प्रह्लाद:-
मयि द्वेषानुबन्धोऽभूत्संस्तुतावुद्यते तव । मत्पितुस्तत्कृतं पापं देव तस्य प्रणश्यतु ॥ २१ ॥
मयीति ॥ मयि द्वेषानुबन्ध इत्यसह्यापचारः, मपितुरिति क्षमाहेतुः ॥ २१ ॥
शस्त्राणि पातितान्यङ्गे क्षिप्तो यच्चाग्निसंहतौ । दंशितश्चोरगैर्दत्तं मम भोजने२२ ॥
बद्ध्वा समुद्रे यत्क्षिप्तो यचित्तोऽस्मि शिलोच्चयैः । अन्यानि चाप्यसाधूनि यानि पित्रा कृतानि मे ॥ २३ ॥
त्वयि भक्तिमतो द्वेषादघं तत्संभवं च यत् । त्वत्प्रसादात्प्रभो सद्यस्तेन मुच्यतु मे पिता ॥ २४ ॥
श्रीभगवानुवाच –
प्रह्लाद सर्वमेतत्ते मत्प्रसादाद्भविष्यति । अन्यं च ते वरं दद्मि व्रियतामसुरात्मज ॥ २५ ॥
प्रह्लाद:-
कृतकृत्योऽस्मि भगवन्वरेणानेन यत्त्वयि । भवित्री त्वत्प्रसादेन भक्तिरव्यभिचारिणी ॥ २६ ॥
धर्मार्थकामैः किं तस्य मुक्तिस्तस्य करे स्थिता । समस्तजगतां मूले यस्य भक्तिः स्थिरा त्वयि ॥२७॥
श्रीभगवानुवाच –
यथा ते निश्चलं चेतो मयि भक्तिसमन्वितम् । तथा त्वं मत्प्रसादेन निर्वाणं परमाप्स्यसि ॥ २८ ॥
श्रीपराशर:-
इत्युक्त्वाऽन्तर्दधे विष्णुस्तस्य मैत्रेय पश्यतः । स चापि पुनरागम्य ववन्दे चरणौ पितुः ॥ २९ ॥
तं पिता मूर्ध्न्युपाघ्राय परिष्वज्य च पीडितम् । जीबसीत्याह वत्सेति बाश्पार्द्रनयनो द्विज ॥ ३० ॥ प्रीतिमांश्चाभवत्तस्मिन्ननुतापी महासुरः । गुरुपित्रोश्चकारैवं शुश्रूषां सोऽपि धर्मवित् ॥ ३१ ॥
पितर्युपरतिं नीते नरसिंहस्वरूपिणा । विष्णुना सोऽपि देत्यानां मैत्रेयाभूत्पतिस्ततः ॥ ३२ ॥
ततो राज्यद्युतिं प्राप्य कर्मशुद्धिकरीं द्विज । पुत्रपौत्रांश्च सुबहूनवाप्यैश्वर्यमेव च ॥ ३३ ॥
क्षीणाधिकारः स यदा पुण्यपापविवर्जितः। तदा स भगवद्ध्यानात्परं निर्वाणमाप्तवान् ॥३४॥
एवंप्रभावो दैत्योऽसौ मैत्रेयासीन्महामतिः । प्रह्लादो भगवद्भक्तो यं त्वं मामनुपृच्छसि ॥ ३५ ॥
यस्त्वेतच्चरितं तस्य प्रह्लादस्य महात्मनः । श्रृणोति तस्य पापानि सद्यो गच्छन्ति संक्षयम् ॥३६॥
अहोरात्रकृतं पापं प्रहादचरितं नरः । शृण्वन् पठंश्च मैत्रेय ब्यपोहति न संशयः ॥ ३७ ॥ पौर्णमास्याममावस्यामष्टम्यामथवा पठन् । द्वादश्यां वा तदाप्नोति गोप्रदानफलं (नरः) द्विज ॥३८॥
प्रह्लादं सकलापत्सु यथा रक्षितवान्हरिः। तथा रक्षति यस्तस्य भृणोति चरितं सदा ॥ ३९ ॥
इति श्रीविष्णुपुराणे प्रथमेशे विंशोऽध्यायः ॥ २० ॥
शस्त्राणीति ॥ त्वयि भक्तिमतो द्वेषादित्यस्य शस्त्राणि पातितानीत्यादिना संबन्धः । तत्संभव- शस्त्रपातादिना संभवम् । अयं भागवतापचारः ॥ २२-३९ ॥
इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने श्रीविष्णुचित्तीये प्रथमांशे विंशोऽध्यायः ॥२०॥