श्रीविष्णुपुराणम् Amsa 01 Ady 05

श्रीविष्णुपुराणम्

अथपञ्चमोऽध्यायः

 

मैत्रेयः

यथाससर्जदेवोऽसौदेवर्षिपितृदानवान्।मनुष्यतिर्यग्वृक्षादीन्भूव्योमसलिलौकसः॥१॥

अथवैकृतसर्गंविस्तरेणपृच्छतियथेति॥१॥

 

यद्गुणंयत्स्वभावंचयद्रूपंचजगद्द्विज।सर्गादौसृष्टवान्ब्रह्मातन्ममाचक्ष्वकृत्स्नशः॥२॥

श्रीपराशरः

मैत्रेयकथयाम्येतच्छृणुष्वसुसमाहितः।यथाससर्जदेवोऽसौदेवादीनखिलान्विभुः॥३॥

यदुगुणमिति।।गुणाः-सत्त्वाद्याः, स्वभाव:-शीलं, रूपम्-आकारः॥२, ३॥

सृष्टिंचिन्तयतस्तस्यकल्पादिषुयथापुरा।अबुद्धिपूर्वकःसर्गःप्रादुर्भूतस्तमोमयः॥४॥

सृष्टिमिति॥यथापुरा–यथापूर्वम्,कल्पादिषुतथाचिन्तयतःअबुद्धिपूर्वक:-विशेषध्यानरहितः, | तमोमयः–तमोगुणप्रचुरः, सर्गः-~-नगसर्गः॥४॥

तमोमोहोमहामोहम्ताम्रिस्रोह्यन्धसंज्ञितः।अविद्यापञ्चपर्वैषाप्रादुर्भूतामहात्मनः॥५॥

तमोमोहइति॥अविद्यापर्याया: तम:प्रभृतयोमहात्मनःप्रादुर्भूताः।।५।।

पञ्चधाऽवस्थितःसर्गोंध्यायतोऽप्रतिबोधवान्।बहिरन्तोऽप्रकाशश्चसंवृतात्मानगात्मकः॥६॥

एतत्स्वभावकतयावृक्षादिरूपेणचपञ्चधानगसर्गइत्याह-पञ्चधेति॥ज्ञानाल्पत्वप्राचुर्येणवृक्षगुल्मलतावीरुत्तृणेषुतमसादिस्वभावव्यवस्था।अपतिबोधनादितिनगसर्गस्यतामसत्त्वेहेतुः।अप्रतिबोधनादितिवापाठः।बहिः-शब्दादिषु, अन्त:—सुखादिषुच,अप्रकाशः-प्रकृष्टज्ञानरहितः।जलाद्यादानक्षतभग्नसंरोहणदोहनादिभिर्वृक्षादीनांकिञ्चिज्ज्ञातृत्व– -सिद्धे: ; * अन्तस्संज्ञाभवन्त्येतेसुखदुःखसमन्विताः * इत्यादेश्च।संवृतात्मा-तमसासंवृतचैतन्यः॥६॥

मुख्यानगायतःप्रोक्तामुख्यसर्गस्ततस्त्वयम्॥७॥

मुख्याइति।मुख्याः–तिर्यगादिसर्गस्यादौजाताः॥७॥

तंदृष्ट्वाऽसाधकंसर्गममन्यतपरंपुनः॥८॥

तमिति॥असाधकं-कर्मानधिकारात्संसाराद्यप्रवर्तकम्॥८॥

तस्याभिध्यायतःसर्गस्तिर्यक्स्त्रोतोऽभ्यवर्तत।यस्मात्तिर्यक्प्रवृत्तिस्सतिर्यक्स्रोतास्ततःस्मृतः॥९॥

तस्येति॥तिर्यक्स्रोता:-वायुवत्तिर्यक्प्रवृत्तः।पार्श्वाभ्यामुत्पन्नइतिवा।।९।।

 

पश्वादयस्तेविख्यातास्तमःप्रायाह्यवेदिनः।उत्पथग्राहिणश्चैवतेऽज्ञानेज्ञानमानिनः।।१०।।

पश्वादयइति॥अवेदिनः-अविवेकिनः, उत्पथग्राहिण:–मातृगमनादिदुर्मार्गगताः, अज्ञाने–सम्यग्ज्ञानाभावेऽपिसम्यग्ज्ञानमानिनः॥१०॥

अहंकृताअहंमानाअष्टाविंशद्वधात्मकाः।अन्तःप्रकाशास्तेसर्वेह्यावृताश्चपरस्पम्॥११॥

अहंकृताइति।अहंकृताः–अवलिप्ताः, अहंमानाः-तद्धेतुशरीरात्माभिमानिनः।अष्टाविंशद्वधात्मका:– अष्टविंशतिशक्तिवधावायूक्ता: *एकादशेन्द्रियवधानवधांभादयस्तथा।अष्टौचतारकाद्याश्चतेषांशक्तिवधामताः*इति।इन्द्रियवैकल्यमेकादशविधम्, बाधिर्यंत्वग्दोष: अन्ध्यंवैरस्यंनासाध्वंसोमूकत्वंकुणित्वंपङ्गुत्वंवैक्लव्यम्उदावर्तोजडत्वंचेति, अम्भादिनवतुष्टीनांतारकाद्यष्टसिद्धीनांचवैकल्यं, सप्तदशविधंबुद्धिवधाख्यंवैकल्यंतिरश्चांप्रायिकमित्यर्थः।तत्राष्टविधायांप्रकृत्यांचित्तलयान्मुक्तोऽस्मीतितुष्टिरम्भाख्या, संन्यासवेषोपादानमात्रा– त्कृतार्थोऽस्मीतितुष्टिःसलिलाख्या,कालान्तरेसेत्स्यतीतितुष्टिरापाख्या, भाग्यादेवसेत्स्यतीतितुष्टिर्वृष्ट्याख्या, एताःप्रकृत्युपादानकालभाग्यलक्षणाआध्यात्मिकाश्चतस्रस्तुष्टयः।अर्थस्यार्जनेरक्षणेक्षयेभोगेभोगावैतृष्ण्येचक्लैशादिदोषदर्शनादर्थाजनादिविरक्तोमुक्तोऽस्मीतितुष्टयः, सुतारसुपारसुनेत्रमारीचकोत्तमाम्भाख्याःपञ्चबाह्याः।आर्जनरक्षणक्षयेषुक्लेशः, भोगेत्वतृप्तिर्दोषःभोगावैतृष्ण्येपापादिर्दोषः, अनुपदिष्टेऽर्थेबुध्यादिनाऊहस्ताराख्यासिद्धिः, प्रासङ्गिकाच्छब्दश्रवणात्लोकयात्रादर्शनाद्वाअर्थज्ञानंसुताराख्या, गुरूपदेशेनैवततोऽधिकार्थज्ञानंतारायन्त्याख्या, तापत्रयजयलाभास्तिस्रोमोदप्रमुदितमोदमानाख्याः।तत्राध्यात्मिकस्यायुर्वेदेनजयः।आधिभौतिकस्यलौकिकैरुपायैर्जयः।आधिदैविकस्यप्रतिश्रयाच्छादनप्रतिष्ठादानशय्याकौतुमङ्गलाचरणादिनाजयः।मित्रयोगवशादर्थ- -सिद्धिरधिगम्याख्या।विद्वत्तपस्विशुश्रूषालभ्यार्थसिद्धिःसदाप्रमुदिताख्या-इत्यष्टौसिद्धयः, नवतुष्टयः, इन्द्रियाशक्तयश्चमोक्षान्तरायः।उकंचसांख्ये * एकादशेन्द्रियवधाःसहबुद्धिवधैरश- –क्तिरुद्दिष्टाः।सप्तदशधातुबुद्धेर्विपर्ययात्तुष्टिसिद्धीनाम्।आध्यात्मिकाश्चतस्रःप्रकृत्युपादानकाल- -भाग्याख्याः।बाह्यविषयोपरमात्पञ्चनवतुष्टयोऽभिहिताः।ऊहःशब्दोऽध्ययनंदुःखविघातास्त्रयःसुहृत्प्राप्तिः।दानंचसिद्धयोऽष्टौसिद्धेःपूर्वोऽङ्कुशस्त्रिविधः॥इति।त्रिविधःविपर्ययःशक्तिस्तुष्टिरितिसिद्धेः-मोक्षस्य, अङ्कुशः–अन्तरायः।आवृताः–परस्परंपितृपुत्रत्वादिसंबन्धानभिज्ञाः॥११॥

तुमप्यसाधकंमत्वाध्यायतोऽन्यस्ततोऽभवत्॥ऊर्ध्वस्रोतास्तृतीयस्तुसात्विकोर्ध्वमवर्त्तत॥१२॥

तमिति॥ऊर्ध्वस्रोता:-अस्पृष्टभूमिकः।सात्त्विकोर्ध्वमित्यार्षःसन्धिः।ऊर्ध्वमवर्त्तत-द्युलोकेऽवर्त्तत॥१२॥

 

तेसुखप्रीतिबहुलाबहिरन्तश्चनावृताः।प्रकाशाबहिरन्तश्चऊर्ध्वस्रोतोद्भवाःस्मृताः॥१३॥

तुष्टात्मानस्तृतीयस्तुदेवसर्गस्तुसस्मृतः।तस्मिन्सर्गेऽभवत्प्रीतिर्निष्पन्नेब्रह्मणस्तदा॥१४॥

तेइति॥सुखप्रीतिबदुला:-विषयानुभवदशासुखं, तज्जनितानिर्वृति:प्रीतिः।प्रकाशा:-प्रकृष्टज्ञानाःज्ञाननिरोधरहिताः॥१३, १४॥

ततोऽन्यंसतदादध्यौसाधकंसर्गमुत्तमम्।असाधकांस्तुतान्ज्ञात्वामुख्यसर्गादिसंभवान्।।१५॥

ततइति।।मुख्यसर्गःआदिर्येषांसंभवानां-सर्गाणांतेतथोक्ताः॥१५॥

 

तथाऽभिध्यायतस्तस्यसत्याभिध्यायिनस्ततः।प्रादुर्बभूवचाव्यक्तादर्वाक्स्रोतास्तुसाधकः॥१६॥

तथेति॥सत्याभिध्यायिनः-सदासत्यसङ्कल्पस्य, अव्यक्तादित्येतच्छरीरोपादानपृथिव्याद्याप्यायनद्वारा; इदंचसर्वसर्गेष्वपिसमम्।अव्यक्ताज्जायतेचास्यमनसायद्यदिच्छति।वशीकृतत्वात्वैगुण्यात्साकांक्षत्वात्।स्वभावतः॥इतिवायूक्तेः।साधकः– *अग्नौप्रास्ताऽऽहुतिःसम्यगादित्यम्* इत्यादिप्रकारेणयज्ञादिनालोकसाधकः॥१६॥

यस्मादर्वाग्व्यवर्त्तन्तततोऽर्वक्स्रोतसस्तुते।तेचप्रकाशबहुलास्तमोद्रिक्तारजोधिकाः॥१७॥

तस्मात्तेदुःखबहुलाभूयोभूयश्चकारिणः।प्रकाशाबहिरन्तश्चमनुष्याःसाधकास्तुते॥१८॥

यस्मादिति॥अर्वाक्-भूमौ;व्यवर्तन्त; व्यवर्धन्तेतिपाठान्तरम्॥१७, १८॥

 

इत्येतेकथिताःसर्गाःपडत्रमुनिसत्तम।प्रथमोमहतस्सर्गोविज्ञेयोब्रह्मणस्तुसः॥१९॥

तन्मात्राणांद्वितीयश्चभूतसर्गोहिसस्मृतः।वैकारिकस्तृतीयस्तुसर्गऐन्द्रियकःस्मृतः॥२०॥

इत्येषप्राकृतस्सर्गःसंभूतोवबुद्धिपूर्वकः।मुख्यसर्गश्चतुर्थस्तुमुख्यावैस्थावराःस्मृताः।।२१॥

पञ्चमश्चहियःप्रोक्तस्तैर्यग्योन्यःसउच्यते।तदूर्ध्वस्रोतसांषष्ठोदेवसर्गस्तुसंस्मृतः॥२२॥

ततोऽर्वाक्स्रोतसांसर्गःसप्तमस्सतुमानुषः॥२३॥

इतीति॥षडत्रेति।नगादयश्चत्वारःअविद्यावधतुष्टिसिद्धिरूपोऽवान्तरीयकोऽनुग्रहसर्गएकः।अत्रवायुः *अष्टमोनुग्रहःसर्गःसचतुर्धाव्यवस्थितः।विपर्ययेणचाशक्तयसिद्ध्यातुष्ट्यातथैवच॥स्थावरेषुविपर्यासत्तिर्यग्योनिष्वशक्तितः।सिद्ध्यात्मनामनुष्येषुतुष्ट्यादेवेषुकृत्स्नशः * इति।तस्यतस्यतत्त्वंविपर्ययादितरेषामनुग्राहकत्वम्,देवसर्गान्तर्भूतःकुमारसर्गइत्येके।सप्तात्रेतिपाठेनगादयश्वत्वारःमहदादयस्त्रयःइति।अथानुग्रहकौमारकौविवरीतुमुक्तान्सर्गाननुवदतिप्रथमइति।ब्रह्मस्वरूपेणावस्थितस्यपरब्रह्मणः; तुशब्देनैतत्सूचितम्।अहंकारस्यमहत्यन्तर्भावः।भौतिकस्याण्डस्यभूतसर्गेऽन्तर्भावः॥१९-२३॥

अष्टमोऽनुग्रहस्सर्गःसात्विकस्तामसश्चसः।पञ्चैतेवैकृतास्सर्गाःप्राकृतास्तुत्रयःस्मृताः॥२४॥

अष्टमइति॥सात्विकस्तामसश्चसइति।तत्रविपर्ययाशक्तीतामस्यौ।सिद्धितुष्टीसात्त्विक्यौ।एते–मुख्यादयःपञ्चवैकृताः—-विकृतिकृतत्वात्।महदाद्यास्त्रयःप्राकृताः-प्रकृतिकृतत्वात्॥२४॥

प्राकृतोवैकृतश्चैवकौमारोनवमःस्मृतः।इत्येतेवैसमाख्यातानवसर्गाःप्रजापतेः।।२५।।

प्राकृतावैकृताश्चैवजगतोमूलहेतवः।सृजतोजगदीशस्यकिमन्यच्छ्रोतुमिच्छसि।।२६।।

मैत्रेय:—

संक्षेपात्कथितस्सर्गोदेवादीनांमुनेत्वया।विस्तराच्छ्रोतुमिच्छामित्वत्तोमुनिवरोत्तम॥२७॥

प्राकृतइति॥प्राकृतोवैकृतश्चेति।कौमारोद्विविधः, सनत्कुमारादिरूपःनीललोहितकुमाररूपश्चतत्रप्रथमःप्राकृतप्रलयावसरसृष्टत्वात्प्राकृतः।द्वितीय: कल्पादौब्रह्मणासृष्टत्वाद्वैकृतः।अतःकौमारःप्राकृतोवैकृतश्च।एषुमहदाद्यास्त्रयःप्रजापते:-विष्णोःस्वरूपेणावस्थितस्य, अन्येचतुर्मुखरूपेणावस्थितस्येतिविभागः॥२५-२७॥

श्रीपराशरः

कर्मभिर्भाविताःपूर्वैःकुशलाःकुशलैस्तुताः।ख्यात्यातयाह्यनिर्मुक्ताःसंहारेह्युपसंहृताः॥२८॥

कर्मभिरिति।।भाविता:-वासिताः, ख्यात्या-पूर्वज्ञानवासनया॥२८॥

स्थावरान्तास्सुराद्यास्तुप्रजाब्रह्मंश्चतुर्विधाः।ब्रह्मणःकुर्वतःसृष्टिंजज्ञिरेमानसास्सुताः॥२९॥

स्थावरान्ताइति॥अतःकर्मभेदाच्चतुर्विध्यंप्रजानांपुण्यतारतम्येनब्रह्मणोमनस्तनुस्त्रीलिङ्गेभ्यस्त्रिधीजन्मवक्ष्यन्प्रथमंमनसोजन्माह—ब्रह्मणइति।मानसास्तुताइतिपाठान्तरम्।ताःप्रजाः।काश्चिदितिशेषः॥२९॥

ततोदेवासुरपितृन्मनुष्यांश्चचतुष्टयम्।सिसृक्षुरम्भांस्येतानिस्वमात्मानमयूयुजत्।।३०॥

अथशारीरंप्रजासर्गमाह–ततइति॥अम्भांसि-अम्भस्संज्ञंदेवादिचतुष्टयंसिसृक्षुःस्वयमात्मानम्अयूयुजत्-योजितवान्; शरीरान्तरेणेतिशेषः॥३०॥

युक्तात्मनस्तमोमात्राद्युद्रिक्ताऽभूत्प्रजापतेः।सिसृक्षोर्जघनात्पूर्वमसुराजज्ञिरेततः॥३१॥

उत्ससर्जततस्तांतुतमोमात्रात्मिकांतनुम्।सातुत्यक्तातनुस्तेनमैत्रेयाभूद्विभावरी॥३२॥

युक्तात्मनइति।तमोमात्रा-तमोगुणांशः॥३१, ३२॥

सिसृक्षुरन्यदेहस्थःप्रीतिमापततःसुराः।सत्त्वोद्रिक्ताःसमुद्भूतामुखतोब्रह्मणोद्विज॥३३॥

त्यक्तासाऽपितनुस्तेनसत्त्वप्रायमभूद्दिनम्।ततोहिबलिनोरात्रावसुरादेवतादिवा॥३४॥

सिसृक्षुरिति।अन्यदेहस्थ:-सात्विकदेहस्थः॥३३, ३४॥

सत्त्वमात्रात्मिकामेवततोऽन्यांजगृहेतनुम्।पितृवन्मन्यमानस्यपितरस्तस्यजज्ञिरे॥३५॥

उत्ससर्जपितृन्सृष्ट्वाततस्तामपिसप्रभुः।साचोत्सृष्टाऽभवत्संध्यादिननक्तान्तरस्थिता॥३६॥

रजोमात्रात्मिकामन्यांजगृहेसतनुंततः।रजोमात्रोत्कटाजातामनुष्याद्विजसत्तम॥३७।।

तामप्याशुसतत्याजतर्नुसद्यःप्रजापतिः।ज्योत्स्नासमभवत्साऽपिप्राक्सन्ध्यायाऽभिधीयते॥३८॥

सत्त्वमात्रात्मिकामिति॥पितृवन्मन्यमानस्य।आत्मानमितिशेषः।पार्श्वाभ्यांपितृजन्म, प्रजननान्मष्यजन्म, * मुखादजनयद्देवान्सपितृनुपपक्षतः।।जघनादसुरान्सर्वान्प्रजनादपिमानुषान्॥इतिमात्स्योक्तेः॥३५-३८॥

ज्योत्स्नागमेतुबलिनोमनुष्याःपितरस्तथा।मैत्रेयसन्ध्यासमयेतस्मादेतेभवन्तिवै॥३९॥

ज्योत्स्नारात्र्यहनीसन्ध्याचत्वार्येतानिवैप्रभोः।ब्रह्मणस्तुशरीराणित्रिगुणापाश्रयाणितु॥४०॥

रजोमात्रात्मिकामेवततोऽन्यांजगृहेतनुम्।ततःक्षुद्ब्रह्मणजाताजज्ञेकोपस्तयाततः॥४१॥

ज्योत्स्नेति।ज्योत्स्नागमे-प्राक्सन्ध्योपलक्षितेपूर्वाह्णे।सन्ध्यासमये-चरमसन्ध्योपलक्षितेऽपराह्णे।अतस्तेतदापूज्याः; * अपराह्णःपितृणामितिश्रुतेः॥३९—४१॥

धुत्क्षामानन्धकारेऽथसोऽसृजद्भगवांस्ततः।विरूपाःश्मश्रुलाजातास्तेऽभ्यधावंस्ततःप्रभुम्॥४२॥

क्षुदिति॥अन्धकारेस्थित्वेतिशेषः।।४२।।

मैवंभोरक्ष्यतामेषयैरुक्तंराक्षसास्तुते।ऊचुर्जक्षामइत्यन्येयेतेयक्षास्तुजक्षणात्||४३||

मैवमिति॥रक्ष्यतामेषइत्यत्रेतिशब्दस्यानुषङ्गः।जक्षणात्-जक्षणार्थोक्तेः।यक्षणंजक्षणमपिभक्षणम्।अतोयक्षाः॥३||

 

अप्रियेणतुतान्दृष्ट्वाकेशाःशीर्यन्तवेधसः।हीनाश्चशिरसोभूयःसमारोहन्ततच्छिरः॥४४

अप्रियेणेति।।अस्यवेधसःशिरस: केशःअप्रियेणहीनाभूत्वाशीर्यन्तसमारोहन्त-व्यसर्पन्॥४४॥

सर्पणात्तेऽभवन्सर्पाहीनत्वादहयःस्मृताः।ततःक्रुद्धोजगत्स्रष्टाक्रोधात्मानोविनिर्ममे।

वर्णेनकपिशेनोग्राभूतास्तेपिशिताशनाः॥४५॥

सर्पणादिति।।क्रोधात्मानः-क्रोधात्मकान्।कपशेनवर्णेनोपलक्षिताःभूताः, अभवन्नितिशेषः॥४५॥

ध्यायतोऽङ्गासमुत्पनागन्धर्वास्तस्यतत्क्षणात्।विन्तोजज्ञिरे(पानी)गांवैगन्धर्वास्तेनतेद्विजा॥४६॥

ध्यायतइति।।ध्यायतोऽङ्गादिति।पिबन्तोजज्ञिरेवाचमितिपाठान्तरम्।ध्यायतेर्धकारेणअङ्गादितिगकारेणवाचमितिवकारेणगन्धर्वपदनिर्वचनम्॥४६।।।

एतानिसृष्ट्वाभगवान्ब्रह्मातच्छक्तिचोदितः।ततःस्वच्छन्दतोऽन्यानिवयांसिवयसोऽसृजत्॥४७॥

एतानिति॥तच्छक्तिचोदित:-तेषांसृज्यानांकर्मचोदितः।वयांसि-पक्षिणः।।४७।।

अवयोवक्षसश्चक्रेमुखतोऽजास्ससृष्टवान्।सृष्टवानुदराद्गाश्चपार्श्वाभ्यांचप्रजापतिः॥४८॥

अवयइति॥अवयः — -अवीन्॥४८॥

 

पद्भ्यांचाश्वान्समातङ्गातन्रासभान्गवयान्मृगान्।उष्ट्रानश्वतरांश्चैवन्यङ्कूनन्याश्चजातयः॥४९॥

पद्भ्यामिति॥मृगान्–हरिणान्।अश्वगर्दभसङ्करोह्यश्वतरः। *न्यंकुस्तुशम्बराकारस्त्रिकोणविपुलोन्नतः* इतिवैजयन्ती।जातयः- मृगादिजाती: ॥४९॥

ओषध्यःफलमूलिन्योरोमभ्यस्तस्यजज्ञिरे।त्रेतायुगमुखेब्रह्माकल्पस्यादौद्विजोत्तम।

सृष्ट्वाऽऽपश्चौषधीःसम्यग्युयोजसतदाऽध्वरे॥५०॥

गौरजःपुरुषोमेषश्चाश्वाश्वतरगर्दभाः।एतान्ग्राम्यान्पशूनाहुरारण्यांश्चनिबोधमे।।५१।।

ओषध्यइति॥ओषध्य:-फलपाकावसानाःव्रीह्यादयः; फलमूलिन्यः-निष्पावरणाद्याः।त्रेतायुगमुखे *यजन्यज्ञैस्त्रेतायामितिवक्ष्यमाणत्वात्कल्यादौत्रेतायुगमुखेयज्ञाङ्गपश्वादिसृष्टिः। *तानिधर्माणिप्रथमान्यासन्। * ध्यायन्कृतेइत्यादिध्यानयोगएवंकृतयुगे॥५०,५१॥

श्वापदाद्विखुराहस्तीवानराःपक्षिपञ्चमाः।औदकाःपशवःषष्ठाःसप्तमास्तुसरीसृपाः।।५२।।

श्वापदाइति॥श्वापदा:-व्याघ्राद्याः, द्विखुरा:-गवयाद्याः, औदका:–तक्राद्याः, सरीसृपाः-सर्पगोधाद्याः॥५२॥

गायत्रंचऋचश्चैवत्रिवृत्स्तोमंरथन्तरम्।अग्निष्टोमंचयज्ञानांनिर्ममेप्रथमान्मुखात्॥५३॥

यजूंषित्रैष्टुभंछन्दःस्तोमंपंचदशंतथा।बृहत्सामतथोक्थ्यंचदक्षिणादसृजन्मुखात्।।५४॥

सामानिजगतीछन्दःस्तोमंसप्तदशंतथा।वैरूपमतिरात्रंचपश्चिमादसृजन्मुखात्।।५५॥

एकविंशमथर्वाणमाप्तोर्यामाणमेवच;अनुष्टुभंचवैराजमुत्तरादसृजन्मुखात्।।५६।।

गायत्रमिति॥त्रिवृत्पञ्चदशसप्तदशैकविंशस्तोमाख्याःसामवृत्तिविशेषाः; रथन्तरबृहद्वैरूपवैराजाःसामविशेषाः।अग्निष्टोमादयःसोमसंस्थाविशेषाः॥५३–५६।।

उच्चावचानिभूतानिगात्रेभ्यस्तस्यजज्ञिरे।देवासुरपितृन्सृष्ट्वामनुष्यांश्चप्रजापतिः॥५७॥

ततःपुनःससर्जादौसंकल्पस्य-पितामहः।यक्षान्पिशाचान्गन्धर्वान्तथैवाप्सरसांगणान्॥५८॥

उच्चावचानीति॥उच्चवचानि-उत्कृष्टनिकृष्टान्यनेकविधानि।जीवानांविषमसृष्टेःकर्मापेक्षितांवक्तुं।तत्सर्गमनुवदतिदेवासुरेति||५७, ५८॥

नरकिन्नररक्षांसिवयःपशुमृगोरगान्।अव्ययंचव्ययंचैवयदिदंस्थाणुजङ्गमम्॥५९॥

नरकिन्नररक्षांसीति।विशेषेणअयतेगच्छतीतिव्ययंजङ्गमम्;इतरत्स्थाणु॥५९॥

तत्ससर्जतदाब्रह्माभगवानादिकृत्प्रभुः।तेषांयेयानिकर्माणिप्राक्सृष्ट्प्रतिपेदिरे।

तान्येवतेप्रपद्यन्तेसृज्यमानाःपुनःपुनः॥६०॥

तदिति॥एवंसृज्यमानानांप्राणिनांगुणाकारस्वभावास्तत्कर्मानुगुण्येनब्रह्मणासृज्यन्ते, नतु।स्वातन्त्र्येणेत्याह–तेषामिति।।६०॥

हिंस्राहिंस्रेमृदुक्रूरेधर्माधर्मावृतानृते।तद्भाविताःप्रपद्यन्तेतस्मात्तत्तस्यरोचते॥६१॥

हिंस्रेति॥तद्भाविताः—तैर्हिंस्रादिभिःकर्मभिर्वासिताः, हिंस्रकठिनानृतानिअहिंस्रमृदुसत्यानिचमनोवाक्कायकर्माणिप्रतिपद्यन्ते।तज्जन्यधर्माधर्मौचयेनवासितौयःयत्करोतितत्तस्मैरोचते॥६१॥

इन्द्रियार्थेषुभूतेषुशरीरेषुचसप्रभुः।नानात्वंविनियोगंचधातैवंव्यसृजत्स्वयम्॥६२॥

इन्द्रियार्थेष्विति॥इन्द्रियेषुतदर्थेषुचनानात्वं-श्रोत्रादित्वशब्दादित्वविभागं, भूतेषुनानात्वं-भूसमुद्रद्युलोकादि- -भोगदेशविभागं, शरीरेषुनानात्वं-द्विपाच्चतुष्पादादिभोगायतनविभागं, तेषांविनियोगम्-अस्यजीवस्यायंंदेहःअयंलोकःअनेनेन्द्रियेणेदंभोग्यमित्येवलक्षणं, धातैवस्वातन्त्र्येणव्यसृजत्-तेभ्यआदिष्टवान्। * नानात्वंविनियोगंचधातैवव्यदधात्स्वयम् * इतिपाठान्तरम्॥६२॥

नामरूपंचभूतानांकृत्यानांचप्रपञ्चनम्।वेदशब्देभ्यएवादौदेवादीनांचकारसः॥६३॥

नामेति।देवादिस्थावरान्तानांभूतानांनाम—सुरनरमृगखगवृक्षादिजात्यभिधानं, रूपम्–अनिमेषद्विपद– -चतुष्पदशाखित्वादि,कृत्य–हविर्भोगयज्ञाद्यनुष्ठानस्त्रुक्वमसाद्युपादानत्वादिकम्,* ऐन्द्रंदघि* ब्राह्मणोऽग्नीनादधीत *खादिरंयूपंध्रुवंकुर्वीत * इत्यादिवेदशब्देभ्यएवज्ञात्वानिर्ममे॥६३॥

ऋषीणांनामधेयानियथावेदश्रुतानिवै।तथानियोगयोग्यानिह्यन्येषामपिसोऽकरोत्॥६४॥

किञ्च, ऋषीणामिति॥ऋषीणां-वसिष्ठादीनाम्,अन्येषाम्-इन्द्रहरिश्चन्द्रादीनांचतत्तल्लोकयात्रानियुक्तानांतत्तत्कियोपाधिकंनामअध्वर्युयजमानसम्राडादिकंच,वेदकृतं–वेदश्रुतमेवतत्रतत्रसंकेतितवान्।वसिष्ठेन्द्रादिव्य- -क्तीनामनित्यत्वेऽपितत्तत्प्रवाहस्यनित्यत्वात्तत्तन्नाम्नांव्रीह्यादिपदानामिवश्रौतत्वनित्यत्वोपपत्तिः॥६४॥

यथर्तुष्वृतुलिङ्गानिनानारूपाणिपर्यये।दृश्यन्तेतानितान्येवतथाभावायुगादिषु॥६५॥

प्रवाहनित्यत्वंदृष्टान्तेनद्रढयति-यथेति।।ऋतुलिंगानि-पुष्पफलादीनि, पर्यये-पुनरावृत्तौ, तानितानितत्तज्जातीयान्येव, युगादिषु-युगकल्पाद्यावृत्तिषु॥६५॥

करोत्येवंविधांसृष्टिंकल्पादौसपुनःपुनः।सिसृक्षाशक्तियुक्तोऽसौसृज्यशक्तिप्रचोदितः॥६६॥

करोतीति।।सिसृक्षाशक्तियुक्तः-सृष्टिशक्तिभ्यांयुक्तः।सृज्यशक्तिः-कर्म।।६६।।

इतिश्रीविष्णुपुराणेप्रथमेशेपञ्चमोध्यायः।।५।।

इतिश्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचितेश्रीविष्णुपुराणव्याख्यानेश्रीविष्णुचित्तीयेप्रथमेशेपंचमोऽध्यायः॥५॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.