श्रीविष्णुपुराणम् Amsa 02 Ady 02

श्रीविष्णुपुराणम्

द्वितीयांशे द्वितीयोऽध्यायः

     मैत्रेयः –

कथितो भवता ब्रह्मन्सर्गः स्वायंभुवश्च मे । श्रोतुमिछाम्यहं त्वत्तः सकलं मण्डलं भुवः ॥ १॥

यावन्तः सागरा द्वीपास्तथा वर्षाणि पर्वताः । वनानि सरितः पुर्यो देवादीनां तथा मुने ॥२॥ यत्प्रमाणमिदं सर्व यदाधारं यदात्मकम् । संस्थानमस्य च मुने यथावद्वक्तुमर्हसि ॥३॥

     श्रीपराशरः—

मैत्रेय श्रूयतामेतत्संक्षेपाद्गदतो सम । नास्य वर्षशतेनापि वक्तुं शक्यो हि विस्तरः ॥ ४॥

  यावत इति॥ द्विरापत्वाद्द्वीपाः। वर्षाणि कुलाद्र्यवच्छिन्नः द्वीपांशाः। वर्षशब्दनिर्वचनं मात्स्योक्तम् वसन्त्यृषन्त्यो वर्षेषु प्रजा येषु चतुर्विधाः । ऋषिरित्येष रमणे वर्षत्वं तेन तेषु तत् ॥ इति ॥१-४॥

जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलिश्चापरो द्विज । कुशः क्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः ॥५॥

       भूमण्डलं वक्तुमादौ तदवयवद्वीपाद्युत्पत्तिमाह जंबूप्लक्षाह्वयाविति ॥ ५ ॥

एते द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः । लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समम् ॥ ६॥

जम्बूद्वीपः समस्तानामेतेषां, मध्यसंस्थितः । तस्यापि मेरुर्मैत्रेय मध्ये कनकपर्वतः ॥७॥

          एत इति ॥ समं–स्वस्वावरणीयद्वीपतुल्यविस्तारं यथा तथा एते आवृताः ॥ ६, ७ ॥

चतुराशीतिसाहस्रो योजनैरस्य चोच्छ्रयः ॥ ८॥

        चतुरिति ॥ सहस्रमेव साहस्रम् ; अशीतिरेवाशीतिः। योजनैश्चतुरधिकाशीतिः साहस्राणि यस्य सः; उच्छ्यश्चतुराशीतिसाहस्रः । अस्योच्छ्रायश्चतुरधिकाशीतिसहस्रयोजन इत्यर्थः ॥ ८ ॥

प्रविष्टः षोडशाधस्ताद्द्वात्रिंशन्मूर्ध्नि विस्तृतः । मूले पोडशसाहस्रो विस्तारस्तस्य सर्वशः ॥९॥

         प्रविष्ट इति ॥ योजनानां षोडशसहस्राणि भुवि खातः। हस्तोऽङ्गुलिविंशत्या चतुरन्वितया चतुष्करो दण्डः। तद्द्विसहस्रं क्रोशो योजनमेकं भवेच्चतुष्क्रोशम् ॥ इति गणिते, * अष्टभिर्यवमध्यैः स्यादङ्गुलमिति च, द्वात्रिंशत्सहस्राणि मूर्ध्नि व्यासः* सर्वत्र हि समवृत्ते व्यासस्त्रिगुणस्स्मृतो भवेत्परिधिः, इति गणितज्ञाः॥ मूल इति । मूले-भूमेरुपरि चतुर्दशयोजनसहस्रावधिके ॥ ९ ॥

भूपद्मस्यास्य शैलोऽसौ कर्णिकाकारसंस्थितः ॥१०॥

          भूपद्मस्येति ॥ यत्तद्धि कर्णिकामूलमिति सत्संप्रकीर्तितम् । तद्योजनसहस्राणां सप्ततीनामधः स्मृतम् ॥ इति वायूक्तेः । मात्स्ये च मेरुसन्निवेश उक्त: वृत्ताकृतिप्रमाणश्च चतुरस्रः समुत्थितः । विस्तारस्त्रिगुणश्चास्य परिणाहे सुमण्डलः ॥ इति ॥ १० ॥

हिमवान्हेमकूटश्च निपधश्चास्य दक्षिणे । नीलः श्वेतश्च श्रृंगी च उत्तरे वर्षपर्वताः ॥११॥

हिमवानिति ॥ वर्षपर्वता:-वर्षाणां विभेदकाः पर्वताः ॥ ११ ॥

लक्षप्रमाणौ द्वौ मध्यौ दशहीनास्तथाऽपरे । सहस्रद्धितयोच्छ्रायास्तावद्विस्तारिणश्च ते ॥ १२ ॥

भारतं प्रथमं वर्षं ततः किंपुरुषं स्मृतम् । हरिवर्षं तथैवान्यन्मेरोर्दक्षिणतो द्विजः ॥ १३ ॥

        लक्षप्रमाणाविति ॥ उक्तानां वर्षाणां मध्ये मेरुमभितः स्थितौ नीलनिषधौ लक्षप्रमाणदैर्ध्यौ ।    मध्य इति पाठे जम्बूद्वीपस्येति शेषः । परे चत्वारो लक्षाद्दशांशेन दशसहस्रेण हीनाः। यथा वाराहे    * जम्बूद्वीपप्रमाणेन  निषधः परिकीर्तितः । तस्माच्च  दशभागेन हेमकूट:  प्रहीयते । विंशद्भागेन   हिमवान्  तद्वदेव प्रहीयते । द्वीपस्य  मण्डलीभावाद्ध्रासवृद्धी  प्रकीर्तिते ॥  इति । अन्यत्र च * वृत्तभावात्समुद्रस्य  महीमण्डलभावतः ।  आयामात्परिहीयन्ते . चतुरश्च समा मताः ॥ इति । एवं नीलादिष्वपि द्रष्टव्यम् ॥ १२, १३ ॥

रम्यकं चोत्तरं वर्षं तस्यैवानु हिरण्मयम् । उत्तराः कुरवश्चैव यथा वै भारतं तथा ॥ १४ ॥

          रम्यकमिति !| यथा वै भारतं तथा—धनुराकारमित्यर्थः। * धनुःसंस्थे स्थिते ज्ञेये द्वे वर्षे दक्षिणोत्तरे । दीर्घाणि तत्र चत्वारि चतुरश्रमिलावृतम् ॥ इति वायूक्तेः ॥ १४ ॥

नवसाहस्रमेकैकमेतेषां द्विजसत्तम । इलावृत्तं च तन्मध्ये (तन्मध्ये) सौवर्णो मेरुरुच्छ्रितः ॥ १५ ॥ मेरोश्चतुर्दिशं तत्तु नवसाहस्रविस्तृतम् । इलावृतं महाभाग चत्वारश्चात्र पर्वताः ॥ १६ ॥

             नवसाहस्रमिति ॥  इलावृतं  चतुस्त्रिंशत्सहस्रयोजनविस्तारं  भद्राश्वकेतुमालौ प्राक्प्रत्यग्द्वात्रिंशद्योजनावित्यर्थसिद्धम् । * सहस्रमाल्यवद्गन्धमादनाविति वायूक्तेः ॥ १५, १६ ॥

विष्कंभा रचिता मेरोर्योजनायुतमुच्छ्रिताः। नवैः सरोभिश्च समं दिक्ष्वेते केसराचलाः ॥ १७॥

पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः । विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः ॥१८॥ . कदम्बस्तेषु जम्बूश्च पिप्पलो वट एव च । एकादशशतायामाः पादपा गिरिकेतवः ॥१९॥

           विष्कंभा इति ॥ मेरोर्द्धारकाः कीला विष्कंभाः ॥ १७-१९ ॥

महागजप्रमाणानि जम्ब्वास्तस्याः फलानि वै । पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः ॥ २०॥

      जंबूद्वीपेति ॥ महागजेति * पञ्चोन्नतिः सप्त गजस्य दैर्ध्यमष्टौ च हस्ताः परिणाहमानम् । एकद्विवृद्धावथ मन्दभद्रौ संकीर्णनागौ नियतप्रमाणौ॥ इति वचनाल्लौकिकगजस्य दशहस्तावरप्रमाण-  -प्रसिद्धेः, वायुना च जम्बूफलस्य ततोऽधिकमानोक्तेर्महागजशब्दोऽत्र दिव्यगजवाची । यथाऽऽह वायु:     ” अरत्नीनां शतान्यष्टावेकषष्ट्यधिकानि तु । फलप्रमाणं संख्यातं मुनिभिस्तत्त्वदर्शिभिः’’॥ इति ॥२०॥

रसेन तेषां प्रख्याता तत्र जाम्बूनदीति वै । सरित्प्रवर्तते चापि पीयते तन्निवासिभिः ॥ २१ ॥

न स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः। तत्पानात्स्वच्छमनसां जनानां तत्र जायते ॥ २२ ॥

तीरमृत्तद्सं प्राप्य सुखवायुविशोषिता । जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ॥ २३ ॥

भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे । वर्षे द्वे तु मुनिश्रेष्ठ तयोर्मध्यमिलावृतम् ॥ २४ ॥

             रसेनेति ॥ सरिप्रवर्तते ; प्रदक्षिणमिति शेषः । तदुक्तं-* मेरुं प्रदक्षणीकृत्य जम्बूमूलं विशत्यधः, इति ॥ २१-२४॥

वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनम् । वैभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम् ॥ २५ ॥

अरुणोदं महाभद्रमसितोदं समानसम् । सरांस्येतानि चत्वारि देवभोग्यानि सर्वदा ॥ २६ ॥

शीताम्भश्च कुमुन्दश्च कुररी माल्यवांस्तथा । वैकङ्कप्रमुखा मेरोः पूर्वतः केसराचलाः ॥२७॥

त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा । निषदाद्या दक्षिणतस्तस्य केसरपर्वताः ॥ २८ ॥

शिखिवासाः सवैडूर्यः कपिलो गन्धमादनः । जारुधिप्रमुखास्तद्वत्पश्चिमे केसराचलाः ॥ २९ ॥

        वनमिति ॥ विष्कम्भाद्रिप्रस्थेषु चैत्ररथादिवनानि तद्बहिः सरांसि तद्बहि: केसराचला इति क्रमो वायूक्तः ॥ २५-२९॥

मेरोरनन्तराङ्गेषु जठरादिष्ववस्थिताः । शङ्खकूटोऽथ ऋषभो हंसो नागस्तथा परः ।

          कालञ्जनाद्याश्च तथा उत्तरे केसराचलाः ॥ ३० ॥

चतुर्दशसहस्राणि योजनानां महापुरी । मेरोरुपरि मैत्रेय ब्रह्मणः प्रथिता दिवि ॥ ३१ ॥ तस्यास्समन्ततश्चाष्टौ दिशासु विदिशासु च। इंद्रादिलोकपालानां प्रख्याताः प्रवराः पुरः ॥ ३२॥

              मेरोरिति ॥ मेरोरनन्तराङ्गेषु–मेरोरनन्तरं वर्षम् इलावृतं तस्यांगेषु-अवयवेषु माल्यव-  –न्निषधगन्धमादन नीलाख्यवर्षाद्रिषु, तथा इलावृतस्यैव वक्ष्यमाणयोः प्राक्सीमाभूतयोर्जठरदेवकूटयोः पश्चात्सीमाभूतयोर्निषधपारियात्रयोश्चावस्थिताः केसरपर्वताः, एषामन्तस्था अन्ये शैलाः ; एते च केसराचलत्वेन गण्यन्ते। तेषां माल्यवन्निषधगन्धमादनानां स्वशब्देन नीलस्य तु कालाञ्जनशब्देन च केसरेषु उक्तत्वात् * पत्राणि लोकपद्मस्य मर्यादाशैलबाह्यतः, इति वक्ष्यमाणत्वाच्च जठरादीनामपि केसरत्वं युक्तम्। एते. स्ववर्षापेक्षया वर्षाद्रयः, पत्रापेक्षया मर्यादाद्रयः, मेर्वपेक्षया केसराद्रयश्चेति अयमर्थो गङ्गाचतुर्भेदप्रस्तावपठिष्यमाणवायूक्तया  व्यक्तीभविष्यति । एतेषां  केसराणां  * केसरास्तु शतोच्छ्रायास्तेऽशीतिपृथुलायताः, इति वायूक्तं मानं ज्ञेयम् ॥ ३०-३२ ॥

विष्णुपादविनिष्क्रान्ता प्लावयित्वेन्दुमण्डलम् । समन्ताद्ब्रह्मणः पुर्यां गङ्गा पतति वै दिवः ॥ ३३ ॥ सा तत्र पतिता दिक्षु चतुर्द्धा प्रतिपद्यते । सीता चालकनन्दा च चक्षुर्भद्रा च वै क्रमात् ॥ ३४॥

        विष्णुपादविनिष्क्रान्तेति ॥ दिव: —-आकाशात् || ज्योतिश्वकभ्रामकप्रवहानिलेन चतुर्धा विभक्ता ब्रह्मपुर्या बहिश्चतुर्दिक्षु मेरुशृङ्गेषु पतति । तथाह वायु: * विभज्यमानसलिला  तैजसेनानिलेन सा । मेरोरन्तर कूटेषु निपपात चतुर्ष्वपि ॥ इति ॥ ३३, ३४ ॥

पूर्वेण शैलाच्छैलं तु सीता यात्यन्तरिक्षगा । ततश्च पूर्ववर्षेण भद्राश्वेनैति साऽर्णवम् ॥ ३५ ॥

          पूर्वेणेति ॥ शैलाच्छैलमित्यत्र  क्रमोक्तौ वायुः * शीताम्बुशिखरभ्रष्टा कुमुञ्जे वरपर्वते । निपपात महाभागा तस्मादपि कुरर्यगम् ॥ तस्मान्माल्यवर्त शैलम्, इत्युपक्रम्य * एवं शैलसहस्राणि दारयन्ती महानदी । निपपात तदा सीता जठरे सिद्धसेविते ॥ तस्मादुपगता शैलं देवकूटं तरङ्गिणी ॥ इत्यादि ॥ ३५ ॥

तथैवालकनन्दापि दक्षिणेनैत्य भारतम् । प्रयाति सागरं भूत्वा सप्तभेदा महामुने ॥ ३६ ॥

      तथैवेति ॥ अलकनन्दां चाधिकृत्य * हेमकूटात्तु कैलासं देवावासं ततोऽपि च । हिमवत्युत्तमनदी निपपात शिलोच्चये ॥ इत्यादि। * कैलासो हिमवांश्चैव मर्यादापर्वतावुभौ * इति वायूक्तेः । गन्धमादनस्य  हिमवत्पादाद्रित्वाद्धिमवच्छब्देनोक्तिः ॥ ३६ ॥

चक्षुश्च पश्चिमगिरीनतीत्य सकलांस्ततः । पश्चिमं केतुमालाख्यं वर्षं गत्वैति सागरम् ॥ ३७ ॥

          चक्षुरिति ॥ चक्षुःप्रकरणे * वैडूर्यात्कपिलं शैलं कपिलाद्गन्धमादनम् । एवं शैलसहस्राणि पारयन्ती महानदी ॥ इत्यन्तेन निषधमप्यत्र संसूच्य  * पारियात्रे  महाशैले निपपाताशुगामिनी * इत्याद्युक्तम् ॥ ३७ ॥

भद्रा तथोत्तरगिरीनुत्तरांश्च तथा कुरून् । अतीत्योत्तरमम्भोधिं समभ्येति महामुने ॥ ३८॥

         भद्रेति ॥ भद्रां प्रकृत्य * त्रिशृङ्गं शृङ्गकलिलं मर्यादापर्वतं गता। त्रिशृङ्गतः परिभ्रष्टा जारुधिं पर्वतं गता ॥ इत्यादि । भारतवर्षे अलकनन्दाभेदाः सप्त मात्स्योक्ता: * नलिनी ह्रादिनी चैव पावनी प्राच्यगास्त्रयः । सीता चक्षुश्च सिन्धुश्च तिस्रस्ता वै प्रतीच्यगाः ॥ सप्तमी त्वन्वगाद्गङ्गा दक्षिणेन भगीरथम् ॥ इति ॥ ३८ ॥

आनीलनिषधायामौ माल्यवद्गन्धमादनौ । तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः ॥ ३९ ॥

           आनीलेति॥ पूर्वं केसरेषूक्तौ माल्यवद्गन्धमादनौ भद्राश्वकेतुमालवर्षपर्वतौ दक्षिणोत्तरौ चतुस्त्रिंशत्सहस्रायामौ ।  अत्र वायुः * चतुस्त्रिंशत्सहस्राणि गन्धमादनपर्वतः । उदग्दक्षिणतश्चैव आनीलनिषधा यतः॥ चत्वारिंशत्सहस्राणि परिवृद्धो महीतलम्। सहस्रमवगाढश्च तावदेव च विस्तृतः॥ पूर्वेण माल्यवाञ्छैलस्तत्प्रमाणः प्रकीर्त्तितः ॥ इति ॥ ३९ ॥

भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा । पत्राणि लोकपद्मस्य मर्यादाशैलबाह्यतः ॥ ४०॥

जठरो हेमकूटश्च मर्यादापर्वतावुभौ । तौ दक्षिणोत्तरायामावानीलनिषधायतौ ॥ ४१ ॥

गन्धमादनकैलासौ पूर्ववच्चायतावुभौ । अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ ॥ ४२ ॥

निषधः परियात्रश्च मर्यादापर्वतावुभौ । मेरोः पश्चिमदिग्भागे यथा पूर्वे तथा स्थितौ ॥ ४३ ॥

त्रिशृङ्गो जारुधिश्चैव उत्तरे वर्षपर्वतौ । पूर्ववच्चायतावेतावर्णवान्तर्व्यवस्थितौ ॥ ४४ ॥

          भारत इति ॥ मर्यादाशैलबाह्यत इति । मर्यादाद्रयोऽष्टौ जठराद्याः, तेभ्यो बहिर्भद्राश्वादीनि चतुः पत्राणि । तेषु च मर्यादाद्रिषु माल्यवतः प्राच्यां जठरः, तत्प्राच्यां देवकूट: ; एवं हिमवतो दक्षिणतः कैलासस्ततो  गन्धमादनः, तौ च हिमवत्समायामौ ; तथा गन्धमादनवर्षाद्रेः पश्चिमो  निषधः, तद्बहिः पारियात्रः; एवं शृङ्गिण  उत्तरतस्त्रिशृङ्गस्ततो  जारुधिः । अत्रार्थे प्राग्दर्शितो  वायूक्तगङ्गाप्रवाहक्रमः प्रमाणम् ॥ ४०-४४ ॥

इत्येते मुनिवर्योक्ता मर्यादापर्वतास्तव । जठराद्याः स्थिता मेरोस्तेषां द्वौद्वौ चतुर्दिशम् ॥ ४५ ॥

इत्येत इति ॥ एते जठराद्या मर्यादापर्वता उक्ताः। मेरोश्चतुर्दिशं पत्रमूलेषु येषां द्वौद्वौ स्थितौ

तावुक्तौ ॥ ४५ ॥

मेरोश्चतुर्दिशं ये तु प्रोक्ताः केसरपर्वताः । शीताद्याश्च मुने तेषामतीव हि मनोरमाः ।

       शैलानामन्तरे द्रोण्यः सिद्धचारणसेविताः ॥ ४६ ॥

              मेरोरिति ॥ दोण्य:–पुष्करिण्यः– * श्रीसरस्ताम्रपर्णञ्च केसरं रमणी तथेत्याद्याः। अवाप्ताष्टगुणैश्वर्याः सिद्धा: ; चारणा:-देवगायकाः ॥ ४६ ॥

सुरम्याणि तथा तासु काननानि पुराणि च । लक्ष्मीविष्ण्वग्निसूर्यादिदेवानां मुनिसत्तम ।

            तास्वायतनवर्याणि जुष्टानि वरकिन्नरैः ॥ ४७ ॥

गन्धर्वयक्षरक्षांसि तथा दैतेयदानवाः । क्रीडन्ति तासु रम्यासु शैलद्रोणीष्वहर्निशम् ॥ ४८ ॥

भौमा ह्येते स्मृताः स्वर्गा धर्मिणामालया मुने । नैतेषु पापकर्माणो यान्ति जन्मशतैरपि ॥४॥

भद्राश्वे भगवान्विष्णुरास्ते हयशिरा द्विज । वराहः केतुमाले तु भारते कूर्मरूपधृक् ॥ ५० ॥

मत्स्यरूपश्च गोविन्दः कुरुष्वास्ते सनातनः । विश्वरूपेण सर्वत्र सर्वस्सर्वेश्वरो हरिः ॥५१॥

            सर्वस्याधारभूतोऽसौ मैत्रेयास्तेऽखिलात्मकः ॥ ५२ ॥

यानि किंपुरुषादीनि वर्षाण्यष्टौ महामुने । न तेषु शोको नायासो नोद्वेगः क्षुद्भयादिकम् ॥५३॥

          सुरम्याणीति ॥ काननानि * श्रीवनं किंशुकवनं नलं च पनसं तथेत्यादीनि पुराणि * हेमचित्रं भूतवनं ब्रहपार्श्वं सुनाभकमित्यादीनि ॥ ४७–५३ ॥

स्वस्थाः प्रजा निरातङ्कास्सर्वदुःखविवर्जिताः । दश द्वादशवर्षाणां सहस्राणि स्थिरायुषः ॥ ५४ ॥

न तेषु वर्षते देवो भौमान्यम्भांसि तेषु वै । कृतत्रेतादिकं नैव तेषु स्थानेषु कल्पना ॥ ५५ ॥

सर्वेष्वेतेषु वर्षेषु सप्तसत कुलाचलाः । नद्यश्च शतशस्तेभ्यः प्रसूता या द्विजोत्तम ॥ ५६ ॥

     स्वस्था इति ॥ दश द्वादशेत्यनियमोक्ति: लैंगाद्युक्तं स्थानविशेषाच्चतुर्दशसहस्रपर्यन्तमायुस्स्थितिं लक्षयति ॥ ५४.-५६ ॥

इति श्रीविष्णुपुराणव्याख्याने विष्णुचित्तीये द्वितीयेंऽशे द्वितीयोऽध्यायः ॥२॥

इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने श्रीविष्णुचित्तीये द्वितीयेंऽशे द्वितीयोऽध्यायः ॥ २ ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.