श्रीविष्णुपुराणम् Amsa 02 Ady 15

श्रीविष्णुपुराणम्

पञ्चदशोऽध्यायः

      श्रीपराशरः –

इत्युक्ते मौनिनं भूयश्चिन्तयानं महीपतिम् । प्रत्युवाचाथ विप्रोऽसावद्वैतान्तर्गतां कथाम् ॥१॥

      ब्राह्मणः-

श्रूयतां नृपशार्दूल यद्गीतमृभुणा पुरा । अवबोध जनयता निदाघस्य महात्मनः ॥२॥

ऋभुर्नामाऽभवत्पुत्रो ब्रह्मणः परमेष्ठिनः । विज्ञाततत्त्वसद्भावो निसर्गादेव भूपते ॥३॥

तस्य शिष्यो निदाघोऽभूत्पुलस्त्यतनयः पुरा । प्रादादशेषविज्ञानं स तस्मै परया मुदा ॥४॥

             इत्युक्त इति ॥ इत्युक्ते—एवमात्मनो वैषम्याभाव उक्ते । क्षुत्पिपासादिधर्मकत्वभ्रान्त्या आत्मनो द्वैतं चिन्तयानं मौनिनं वाचाऽचोदयन्तं महीपतिमभिप्रायज्ञो  विप्रश्चिद्वस्तुवैषम्याभावविषयां कथामुवाच ॥१-४॥

अवाप्तज्ञानतन्त्रस्य न तस्याद्वैतवासानाम् । स ऋभुस्तर्कयामास निदाघस्य नरेश्वर ॥५॥  देविकायास्तटे वीरनगरं नाम वै पुरम् । समृद्धमतिरम्यं च पुलस्त्येन निवेशितम् ॥६॥

रम्योपवनपर्यन्ते स तस्मिन्पार्थिवोत्तम । निदाघो नाम योगज्ञः ऋभुशिष्योऽवसत्पुरा ॥ ७॥

             अवाप्तेति ॥ ज्ञानतन्त्रम्—अध्यात्मशास्त्रम् । अद्वैतवासना  नेति  तर्कयामास । न तस्याद्वैतवासनामिति च पाठः ॥ ५-७॥

दिव्ये वर्षसहस्रे तु समतीतेऽस्य तत्पुरम् । जगाम स ऋभुश्शिष्यं निदाघमवलोककः ॥ ८॥

स तस्य वैश्वदेवान्ते द्वारालोकनगोचरे । स्थितस्तेन गृहीतार्घ्यो निजश्वेम प्रवेशितः ॥९॥

प्रक्षालितांघ्रिपाणिं च कृतासनपरिग्रहम् । उवाच स द्विजश्रेष्ठो भुज्यतामिति सादरम् ॥१०॥

ऋभुः—

भो विप्रवर्य भोक्तव्यं यदन्नं भवतो गृहे । तत्कथ्यतां कदन्नेषु न प्रीतिस्सततं मम ॥ ११ ॥

            दिव्यवर्षेति ॥ अवलोकक:–अवलोकयितुम् ॥ ८-११ ॥

निदाघः-

सक्तुयावकवाट्यानामपूपानां च मे गृहे । यद्रोचते द्विजश्रेष्ठ तत्त्वं भुङ्क्क्ष्व यथेच्छया ॥१२॥

             सत्तिवति ॥ यावको यवविकारः ॥ १२ ॥

ऋभुः-

कदन्नानि द्विजैतानि मृष्टमन्नं प्रयच्छ मे। संयावपायसादीनि द्रप्सफाणितवन्ति च ॥१३॥

           कदन्नानीति ॥ मृष्टं—रुच्यं मधुरं वा । संयावः:–यवगोधूमविकारो  रज्जुरूपो  भक्ष्यः । द्रप्स-दधिवनेतरत् । फाणितं—विकृतगौडानि ॥ १३ ॥

निदाघ:-

हेहे शालिनि मद्देहे यत्किचिदतिशोभनम् । भक्ष्योपसाधनं मृष्टं तेनास्यान्नं प्रसाधय ॥१४॥

ब्राह्मण:-

इत्युक्ता तेन सा पत्नी मृष्टमन्नं द्विजस्य यत् । प्रसाधितवती तद्वै भर्तुर्वचनगौरवात् ॥१५॥

तं भुक्तवन्तमिच्छातो मृष्टमन्नं महामुनिम् । निदाघः प्राह भूपाल प्रश्रयावनतस्स्थितः ॥१६॥

            हे हे शालिनीति ॥ शाला—गृहं, तद्वति, गृहिणीत्यर्थः ॥ १४-१६ ॥

निदाघ:-

अपि ते परमा तृप्तिरुत्पन्ना तुष्टिरेव च । अपि ते मानसं स्वस्थमाहारेण कृतं द्विज ॥१७॥

         अपीति ॥ तृप्ति:–क्षुत्पिपासादिनिवृत्तिः, तुष्टि:–अलंबुद्धिः, मनसः क्षोभाभावः खास्थ्यम् । अपि ते मनस: स्वास्थ्यमिति च पाठः॥ १७॥

क्वनिवासो. भवान्विप्र क्व च गन्तुं समुद्यतः । आगम्यते च भवता यतस्तच्च द्विजोच्यताम् ॥१८॥

ऋभुः –

क्षुद्यस्य तस्य भुक्तेऽन्ने तृप्तिर्ब्राह्मण जायते । न मे क्षुदभवत्तृप्तिं कस्मान्मां द्विज पृच्छसि ॥१९॥

वह्निना पार्थिवे धातौ क्षपिते क्षुत्समुद्भवः । भवत्यम्भसि च क्षीणे नृणां तृडपि जायते ॥२०॥

         क्वेति । क्वनिवास इति बहुव्रीहिः। यत्रसायंगृह इतिवत् ॥१८-२०॥

क्षुत्तृष्णे देहधर्माख्ये न ममैते यतो द्विज । (ततः क्षुत्संभवाभावातृप्तिरस्त्येव मे सदा॥) ततः क्षुत्संभवात्तृप्तिरपि नास्त्येव मे सदा ॥ २१ ॥

           क्षुत्तृष्णे इति ॥ बुभुक्षापिपासयोरिच्छात्वेन अन्त:करणधर्मत्वेऽपि देहधर्मत्वाख्या देहस्थधातु- –क्षयत्वादौपचारिकी । * अशनायापिपासे  प्राणस्य  शोकमोहौ  मनसः * इति श्रुतौ  प्राणधर्मत्वोक्तिश्च प्राणस्यान्त:करण क्रियाशक्तित्वेन तदभेदात् । तृप्तिग्रहणं तु तुष्ट्यादेरुपलक्षणम् ॥ २१ ॥

मनसः स्वस्थता तुष्टिश्चित्तधर्माविमौ द्विज । चेतसो यस्य तत्पृच्छ पुमानेभिर्न युज्यते ॥ २२ ॥

क्व निवासस्तवेत्युक्तं क्व गन्तासि च यत्त्वया । कुतश्चागम्यते तत्र त्रितयेऽपि निबोध मे ॥ २३ ॥

मनस इति ॥ एतद्धर्मत्रयं मे सदाऽस्तीत्युपचारः । वस्तुतस्तु मनस एव स्वस्थतादयो धर्माः।

            तस्माद्यस्य चेतस इमे धर्मास्तच्चेत इमांश्चेतोधर्मान् पृच्छ ॥ २२,२३ ॥

पुमान्सर्वगतो व्यापी आकाशवदयं यतः । कुतः कुत्र क गन्तासीत्येतदप्यर्थवत्कथम् ॥ २४ ॥

              पुमानिति ॥ नात्र  पुंसो  गगनवत्परममहत्त्वेन  गमनादि  निषिध्यते,  तथा  सति सर्वगतव्यापिपदयोः, पौनरुक्त्त्यात् । पूर्वत्र गमनानुमत्या परिमितत्वाभ्युपगमात् , सूत्र विरोधाच्च न परमहत्वमात्मनः । अयमर्थः सर्पगतः–सर्वत्र देवादिदेहेऽवस्थितः अयमात्मा, व्यापी–निरवयवत्वेनाति–     –सूक्ष्मत्वात्सर्वाचेतनव्यापनशीलः। अतोऽस्य  निरवयवस्यामूर्तस्य  चाकाशादिवदतिसौक्ष्म्यात्  स्वतो गमनागमने न भवतः । यथा इह  सर्वगतानाममूर्तानां  जातिगुणादीनां  स्वतः क्रिया नास्ति, किन्तु आश्रयद्वारा देशान्तरप्राप्तिः । एवममूर्तस्यात्मनोऽपि देहद्वारा देशान्तरप्राप्तिः, यथा सवाहनस्य पङ्गोः । यथोक्तं पूर्वत्र * अहं त्वं च तथाऽन्ये च भूतैरुह्याम पार्थिव । * उपभेगनिमित्तं च सर्वत्र गमनक्रिया। * उपभोगनिमित्तं च देशाद्देशान्तरागमः * इत्यादि । एवं पूर्वापरविरोधादयमेवार्थः । अस्य तवैतद्वचः कथमर्थवदित्यन्वयः ॥ २४ ॥

सोऽहं गन्ता न चागन्ता नैकदेशनिकेतनः । त्वं चान्ये च न च त्वं च नान्ये नैवाहमप्यहम् ॥२५॥

         अतः स्वतो मे गमनादि न संभवति, देह एव गमनादिकर्तेत्यभिप्रायेणाह-सोऽहमिति ॥ यथाऽहं न गमनादिकर्ता  एवं त्वं चान्ये चात्मानः । नन्वस्ति ह्यहं गच्छामीति  प्रत्ययः, तत्राह–न च त्वगिति । यस्त्वया गमनादिकर्तृत्वेनाभिमतो देहो न स त्वम् । एवमुत्तरयोः ॥ २५ ॥

मृष्टं न मृष्टमित्येषा जिज्ञासा मे कृता तव । किं वक्ष्यसीति तत्रापि श्रूयतां द्विजसत्तम ॥ २६ ॥

            मृष्टमिति ॥ मृष्टं  नामृष्टमिति च पाठः । मृष्टं मे  देयं  नामृष्टमिति  मयाऽभिहिते मृष्टामुष्टादिमेदः  स्वाभाविक इति वा, अथौपाधिक इति वा किमुत्तरमयं वक्ष्यतीति तव जिज्ञासा कृता, न तु तयोः खाभाविकत्वघियेत्यर्थः । तत्रापि-मूष्टामृष्टविषये, श्रयताम्-अस्वाभाविकत्वमिति भावः ॥२६॥

किमस्वाद्वथ. वा मृष्टं भुंजतोऽस्ति द्विजोत्तम । मृष्टमेव यथाऽमृष्टं तदेवोद्वेगकारकम् ॥ २७॥

अमृष्टं जायते मृष्टं मृष्टादुद्विजते जनः । आदिमध्यावसानेषु किमन्नं रुचिकारकम् ॥ २८॥

           तदेवाह-किमस्वाद्विति द्वयेन ॥ किमस्वाद्विति ॥ मुञ्जानस्य किमन्नं नियमेनास्वादु ? अथवा किमन्नं मृष्टम् ? न किमपीति भावः। तदेवोपपादयति मृष्टमेवेति। अमृष्टमेव यदा यतो मृष्टं, तन्मृष्टमेव चोद्वेगकारकम् । अमृष्टमित्येकस्योभयरूपत्वमस्वाभाविकत्वे हेतुः । तथाहि क्षुधि सत्याम् अमृष्टं-कुल्माषादिकं, मृष्टं-रुच्यं जायते। क्षुदभावे मुष्टात्संयावपायसादेरप्युद्विजते। अतो भोक्तुरवस्था- –वशादन्नादेः रुच्यत्वारुच्यत्वे नियते, मतो मृष्टामृष्टभेदो ..न स्वाभाविक इति भावः ॥२७,२८॥

मृण्मयं हि गृहं यद्वन्मृदा लिप्तं स्थिरं भवेत् । पार्थिवोऽयं तथा देहः पार्थिवैः परमाणुभिः ॥ २९ ॥

यवगोधूममुद्गादि घृतं तैलं पयो दधि । गुडं फलादीनि तथा पार्थिवाः परमाणवः ॥ ३० ॥

     तर्हि तादृगन्नं किं त्वया भुक्तमित्याशङ्क्य कर्मानीतेन तादृगन्नेन तादृग्देह एव स्थैर्याथं लिप्यते नात्मेत्याह—मृण्मयमिति ॥ यवेति ॥ भुक्तस्य  यवाद्यन्नस्य  स्थूलोंsशो  मलमूत्रभूतो  निर्गच्छति ; सूक्ष्मांशो  मांसादिधातुः स्यात् ; सूक्ष्मतरो  मन:पोषक  इति द्योतयितुं परमाणुशब्दः । यथा छान्दोग्ये *अन्नमशितं त्रेधा विधीयते इत्यादि ॥ २९, ३० ॥

तदेतद्भवता ज्ञात्वा मृष्टामृष्टविचारि यत् । तन्मनस्समतालम्बि कार्यं साम्यं हि मुक्तये ॥३१॥

ब्राह्मणः –

हत्याकर्ण्य वचस्तस्य परमार्थाश्रितं नृप । प्रणिपत्य महाभागो निदाघो वाक्यमब्रवीद ॥ ३२॥

प्रसीद मद्धितार्थाय कथ्यतां कस्त्वमागतः । नष्टो मोहस्तवाकर्ण्य वचांस्येतानि मे द्विज ॥ ३३ ॥

ऋभुः –

ऋभुरस्मि तवाचार्यः प्रज्ञादानाय ते द्विज । इहागतोऽहं यास्यामि परमार्थस्तवोदितः ॥३४॥

           उपसंहरति  तदेतदिति ॥ एतत्–आत्मनो  देहव्यतिरिक्तत्वादिकमुक्तमर्थजातं, ज्ञात्वा । मृष्टामष्टविचारीत्युपलक्षणम् । मृष्टमिदममृष्टमिदम् , देवोऽहं मनुष्योऽहमित्यादिकर्मकृतभेदावलम्बि यन्मनस्तदात्मनां ज्ञानैकाकारत्वेन समत्वालम्बि कार्यम्। अनुसंहितं हि साम्यं मुक्तये भवति॥३१-३४॥

एवमेकमिदं विद्धि न भेदि सकलं जगत् । वासुदेवाभिधेयस्य स्वरूपं पर  मात्मनः ॥ ३५ ॥

ब्राह्मण: –

तथेत्युक्ता निदाघेन प्रणिपातपुरस्सरम् । पूजितः परया भक्त्या इच्छातः प्रययावृभुः ॥ ३६॥

          उक्तमर्थ स्पष्टयति-एवमिति ॥ एवम्-उक्तप्रकारेण इदम्-आत्मस्वरूपं ज्ञानैकाकारत्वेन एकं समं विद्धि। न भेदि-देवादिभेदरहितम्। क्षुत्पिपासादिरहितं च विद्धि । अन्यच्च वेदितव्यमस्ति। चेतना –चेतनात्मकं सकलं जगत् वासुदेवस्य-*सर्वत्र *वासनाद्वासुदेवस्य वासितं ते जगत्त्रयम् । सर्वभूतनिवा –सोऽसि वासुदेव नमोऽस्तु ते ॥ इत्येवं वसनाद्वासुदेवपदाभिधेयस्य परमात्मनः स्वरूपं-शरीरं विद्धि । * परस्य ब्रह्मणो रूपं पुरुषः प्रथमं द्विज * तानि सर्वाणि तद्वपुः * तत्सर्वं वै हरेस्तनु: * यस्यात्मा शरीरम् * इत्यादि। अत्रात्मस्वरूपनिरूपणप्रकरणनिगमने * तन्मनः समतालम्बि कार्यं साम्यं हि मुक्तये * इति वचनात् * एवमेकमिदं  विद्धीत्यादिष्वात्मगतमुक्तमेकत्वं  ज्ञानैकाकारतया  समत्वमेव, न  तु स्वरूपैक्यमित्यवगन्तव्यम् । चिदचिदात्मकस्य  जगतो  वासुदेवशरीरत्ववचनादात्मपरमात्मनोश्चाभेदो महर्षेर्नाभिप्रेत इत्यनुसन्धेयम् ॥ ३५, ३६ ॥

इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे  द्वितीयेऽशे पंचदशोऽध्यायः ॥ १५ ॥

इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने श्रीविष्णुचित्तीचये  द्वितीयेंऽशे पंचदशोऽध्यायः ॥ १५ ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.