श्रीविष्णुपुराणम् Amsa 02 Ady 10

श्रीविष्णुपुराणम्

अथ दशमोऽध्यायः

श्रीपराशरै:-

त्र्यशीतिमण्डलशतं काष्ठयोरन्तरं द्वयोः । आगेहणावरोहाभ्यां भानोरब्देन या गतिः॥१॥

अथ भानुरथस्य दिनभ्रमणवृत्तसंख्यामाह-त्र्यशीतीति ॥ काष्ठयोरन्तरम्-उदग्दक्षिणसीमयोर्मध्यस्थ. वियत्प्रदेशः त्र्यशीतिशतधा भिन्नः, आरोहणावरोहणाभ्यां भानोरब्देन या गतिः स्यात् । गम्यत इति गतिः ॥.. महाक्षे हि तत्तद्वृत्तरेखान्तरालमुदगयनेऽनुदिनं मेर्वभिमुखो रथो यावत्काष्ठान्तमारोहति, याम्यायने तु तान्येव मण्डलान्तरालानि प्रत्यहं मानसोत्तराभिमुखोऽवरोहति यावत्काष्ठम् । एवं च भानोरेकाब्दसाध्या द्वादशराशिभोगा रिमका षट्पष्टयुत्तरत्रिशतवारभ्रमेण गति: स्यात् । सर्वोत्तरमेरुपतितगंगाप्रवाहणां तत्तद्दक्षिणाब्धिप्रवेशोत्या मेरोरुन्नतिनिश्चयान्महाक्षस्य च भूमेरुपरि लक्षोच्छ्रितत्वाद्रथस्य उदगारोहो दक्षिणावरोहश्च युक्तः । तथा यदिन्द्र प्रागुदक्तिर्यग्गतिः अधरादुदक्तादिति च याम्यदिशोरधरोत्तरत्वं श्रयते ॥ १ ॥

स रथोऽधिष्ठितो देवैरादित्यै ऋपिभिस्तथा । गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥२॥

स रथ इत्यादि ॥ प्रामण्यो यक्षाः ॥ २॥

धाता ऋतुस्थला चैव पुलस्त्यो वासुकिस्तथा । रथभृग्रामीहेतिस्तुम्बुरुश्चैव सप्तमः ॥३॥

एते वसन्ति वै चैत्रे मधुमासे सदैव हि । मैत्रेय स्पन्दने भानोः सप्त मासाधिकारिणः ॥४॥

धातेति ॥ रथमृद्ग्रामणी:-रथभृन्नाम यक्षः । हेति:–राक्षसः ॥ रथकृदिति च पाठः ।। ३, ४ ॥

अर्यमा पुलहश्चैव रथौजाः पुञ्जिकस्थला । प्रहेतिः कच्छवीरश्च नारदश्च रथे रवेः ॥ ५॥

माधवे निवसन्त्येते शुचिसंज्ञे निबोध मे ॥६॥

अर्यमेति ॥ रथौजाः यक्षः, प्रहेतिः राक्षसः, कच्छवीरः सर्पः, नारदो गन्धर्वः ॥ कच्छनीरश्चेति …… पाठः॥ ५, ६॥

मित्रोऽत्रिस्तक्षको रक्षः पौरुषेयोऽथ मेनका । हाहा रथस्वनश्चैव मैत्रेयते वसन्ति वै ॥ ७॥

मित्र इति ॥ रथस्वनों यक्षः ॥ ७ ॥

वरुणो वसिष्ठो नागश्च सहजन्या हुहू(रथ)थः । रथचित्रस्तथा शुक्रे वसन्त्याषाढसंज्ञके ॥ ८॥

वरुण इति ॥ वरुणो वसिष्ठो नागश्चेति पाठः, * ग्रीष्मौ तक्षको नाग एव चेति लैङ्गोक्तः । रथो राक्षसः, रथचित्रों यक्षः ॥ ८ ॥

इन्द्रो विश्वावसुः स्रोता एलापुत्रस्तथागिराः । प्रम्लोचा च नभस्येते सप्तिवार्के वसन्ति वै ॥९॥

इन्द्र इति ॥ स्रोता: यक्षः । सर्पा:-सकारान्तोऽयं शब्द: राक्षसनाम । विश्वावसुः स्रोतः सर्पाचार्क, इति च पाठः ॥ ९॥

विवखानुग्रसेनश्च भृगुरापूरणस्तथा । अनुम्लोचा शंखपालो व्याघ्रो भाद्रपदे तथा ॥ १० ॥

विवस्वानिति ।। उग्रसेनो गन्धर्वः, आपूरणों यक्षः, व्याघ्रो राक्षसः ॥ १० ॥

पूषा च सुरुचिर्वातो गौतमोऽथ धनञ्जयः । सुषेणोऽन्यो घृताची च वसन्त्याश्वयुजे रखौ ॥ ११ ॥

पूषेति ॥ वसुरुचिर्गन्धर्वः, वातो राक्षसः, धनञ्जयः सर्पः, सुषेणो यक्षः ॥ ११ ॥

विश्वावसुभरद्वाजः पर्जन्यैरावतौ तथा । विश्वाची सेनजिच्चापः कार्तिके च वसन्ति वै ॥ १२ ॥

विश्वावसुरिति || विश्वावसुर्गन्धर्वः, ऐरावत: सर्पः, सेनजिवक्षः, आपः राक्षसः ॥ १२॥

अंशकाश्यपताास्तु महापद्मस्तथोर्वशी। चित्रसेनस्तथा विद्युन्मार्गशीर्षेऽधिकारिणः ॥ १३॥

अंशेति ॥ ताक्ष्यों यक्षः, महापद्मः सर्पः, विशुद्रासमः ॥ १३ ॥

ऋतुर्भगस्तथोर्णायुः स्फूर्जः कार्कोटकस्तथा । अरिष्टनेमिश्चैवान्या पूर्वचित्तिर्वराप्सराः ॥१४॥

पौषमासे वसन्त्येते सप्त भास्करमण्डले । लोकप्रकाशनार्थाय विप्रवर्याधिकारिणः ॥१५॥

क्रतुरिति॥ ऊर्णायुगन्धर्वः। सूर्यः कार्कोटक इति पाठः । सूर्यो राक्षसः, अरिष्टनेमिर्यक्षः ॥ १४, १५ ॥

त्वष्टाऽथ जमदग्निश्च कम्बलोऽथ तिलोत्तमा । ब्रह्मोपेतोऽथ ऋतजिद्धृतराष्ट्रश्च सप्तमः ॥१६॥

माघमासे वसन्त्येते सप्त मैत्रेय भास्करे । श्रयतां चापरे सूर्य फाल्गुने निवसन्ति ये ॥१७॥

त्वष्टेति ॥ कम्बल: सपः, ब्रह्मोपेतो राक्षसः । ब्रह्मापेत इति च पाठः । ऋतजिद्यक्षः, धृतराष्ट्रों गन्धर्वः ॥ १६, १७ ॥

विष्णुरश्वतरो रम्भा सूर्यवर्चाश्च सत्यजित् । विश्वामित्रस्तथा रक्षो यज्ञोपेतो महामुने ॥१८॥

विष्णुरिति । अश्वतरः सर्पः, सूर्यवर्चाः गन्धर्षः, सत्यजिद्यक्षः, श्रावणकार्तिकयोझै विश्वावसु गन्धर्वो ॥ १८॥

मासेष्वेतेषु मैत्रेय वसन्त्येते तु सप्तकाः । सवितुर्मण्डले ब्रह्मन्विष्णुशक्त्युपहिताः । १९ ।।

स्तुवन्ति मुनयः सूर्य गंधर्वैर्गीयते पुरः । नृत्यन्त्यप्सरसो यान्ति सूर्यस्यानु निशाचराः ॥ २० ॥

वहन्ति पन्नगा यक्षः क्रियतेऽभीषुसंग्रहः ।। २१ ॥

वालखिल्यास्तथैवैन परिवार्य समासते ॥ २२ ॥

मासेप्चिति ॥ एते च सप्तगणाः कौमें विभज्योक्ताः * धातार्यमा च मित्रश्च वरुणश्चेन्द्र एव च ॥ विवस्वानथ पूषा च पर्जन्यश्चांशुरेव च ॥ भास्त्वष्टा च विष्णुश्व आदित्या द्वादश स्मृताः । पुलस्त्यः पुलहश्चा त्रिर्वसिष्ठोऽथाङ्गिरा भृगुः ॥ गौतमश्च भरद्वाजः काश्यपः क्रतुरेव च । जमदग्निः कौशिकश्च मुनयो ब्रह्मवादिनः ।। रयकुच्च रथौजाश्च प्रामणीश्च रथखनः । चित्रस्रोताः पूरणश्च सुषेणः सेनजित्तथा । ताय॑श्चारिष्टनेमिश्च ऋत जित्सत्यजित्तथा ॥ एते यक्षाः । * अथ हेतिः प्रहेतिश्च पौरुषेयो वधस्तथा । सर्पो व्यवास्तथाऽऽपश्च वातो. … विद्युदिवाकरः ॥ ब्रह्मोपेतश्च विप्रेन्द्रा यज्ञोपेतश्च राक्षसाः । वासुकिः कच्छवीरश्च तक्षक: सर्पपुङ्गवः । एलापुत्रः शंखपालस्तथैरावतसंज्ञितः ॥ धनञ्जयो महापद्मस्तथा कार्कोटको द्विजाः ॥ कम्बलोऽश्वतरश्चैव वहन्त्येनं यथाक्रमम् । तुम्बुरुर्नारदो हाहाहूहूर्विश्वा वसुस्तथा ॥ उग्रसेनो यसुरुचिर्विश्वावसुरथापरः । चित्रसेनस्तथोर्णायुधृतराष्ट्रो द्विजो- . तमाः॥ सूर्यवर्चा द्वादशैते गन्धर्वा गायतां वराः । कृतस्थलाऽसरोवर्या तथाऽन्या पुनिकस्थला । मेनका सहजन्या च अम्लोचा च द्विजोत्तमाः । अनुम्लोंचा घृताची च विश्वाची चोर्वशी तथा ॥ अन्या च पूर्वचित्तिः । .. स्यादन्या चैव तिलोत्तमा । रम्भा चेति ॥ १९-२२ ॥

सोऽयं सप्तगणः स मण्डले मुनिसत्तम । हिमोष्णवारिवृष्टीनां हेतुः स्खसमयं गतः ॥ २३ ॥

सोऽयमिति ॥ हिमोष्णवारिशब्दैवृष्टिशब्दः प्रत्येकं संबध्यते । एष गणो हेमंतादिस्वकाले हिमादेः खभक्तानां पापक्षयादेश्च हेतुर्भवति “एते तपन्ति वर्षन्ति भान्ति पान्ति स्रवन्ति च । भूतानामशुभं किंचिद्धय पोहन्तीह कीर्तिताः” इति लैंगवायव्योक्तेः ॥ २३ ॥

इति श्रीविष्णुपुराणे द्वितीयेऽशे दशमोऽध्यायः ॥ १० ॥

इति श्रीविष्णुपुराणव्याख्याने विष्णुचित्तीये द्वितीयेऽशे दशमोऽध्यायः ॥ १०॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.