श्रीविष्णुपुराणम् Amsa 02 Ady 03

श्रीविष्णुपुराणम्

अथ तृतीयोऽध्यायः

        श्रीपराशरः-

उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥१॥

    उत्तरमिति ॥ समुद्रस्य–पुरातनस्य, न तु सगरसुताखातस्य । भारती-भरतस्य राज्ञः संबन्धिनी ॥१॥

नवयोजनसाहस्रो विस्तारोऽस्य महामुने । कर्मभूमिरियं स्वर्गमपवर्ग च गच्छताम् ॥ २॥

महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः । विंध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः॥ ३ ॥

       नवयोजनेति ॥ विस्तारः–दक्षिणोत्तरतः ; आयामस्तु हिमवत्पार्श्वे हिमवता समः, दक्षिणतो दक्षिणतः किञ्चित्किञ्चिन्न्यूनः ॥ २, ३ ॥

अतस्संप्राप्यते स्वर्गो मुक्तिमस्मात्प्रयान्ति च । तिर्यक्त्वं नरकं चापि यान्त्यतः पुरुषां मुने ॥ ४॥

        अत इति। अतो मुक्तिं प्रयान्ति चेति वचनम् अस्मिन्भारतवर्षे मुक्तिः स्यादित्येतावद्वक्तुम्; न त्वन्यत्र निषेद्धुम्; कर्मभूमेरन्यत्रापि ब्रह्मविद्यासाध्यस्य मोक्षस्योपपत्तेः। सूत्रकारेण तदुपर्यपीत्यादिना सूत्रेण देवादीनामपि ब्रह्मविद्याधिकारस्योक्तत्वात् ॥ ४ ॥

इतः स्वर्गश्च मोक्षश्च मध्यं चान्तश्च गम्यते । न खल्वन्यत्र मर्त्यानां कर्मभूमौ विधीयते ॥ ५॥

        उक्तमर्थमुपपादयति-इत इत्यादिना ॥ मध्यम्-अन्तरिक्षादि । अन्त:-नरकः। पूर्वं फलवचनम् , अत्र तदाधारलोकवचनमित्यपुनरुक्तिः । न खल्वित्यादि । खलुशब्दः (हेतौ) प्रसिद्धपरः । अन्यत्र भूमौ– किंपुरुषादिवर्षाष्टके पुष्करद्वीपे च कर्म न विधीयते । अर्थान्न निषिध्यते च । पक्षादिद्वीपपञ्चके तु आपवर्गिकेतरत्कर्म न विधीयते ; आपवर्गिककर्मणां तत्राप्यनुष्ठानोक्तेः ; * यथोक्तकर्मकर्तृत्वात् स्वाधिकारक्षयाय ते। यजन्तः क्षपयन्त्युग्रमधिकारं फलप्रदम्* ॥ इति वक्ष्यमाणत्वात् । * दानानि चात्र दीयन्ते परलोकार्थमादरात् * इत्युक्तेर्भारतविषयत्वाच्च ॥ ५॥

भारतस्यास्य वर्षस्य नव भेदान्निशामय । इन्द्रद्वीपः कशेरुश्च ताम्रपर्णो गभस्तिमान् ॥ ६॥

       भारतस्येत्यादि ॥ समुद्रवेलामारभ्य हिमवदन्तमिन्द्रद्वीपाद्या मध्ये मध्ये सगरसुतखातान्तरिताः सहस्र योजनविस्तारा भारतवर्षान्तरद्वीपा नव; तेन सागरसंवृतत्वं नवानाम् , न त्वेकस्यैवास्य नवमस्य भारताख्यस्य; * भारतस्यास्य वर्षस्य नव भेदान्निबोधत । सागरान्तरिता ज्ञेयास्ते त्वपग्याः परस्परम् *॥ इति वायूक्तः ॥ ६ ॥

नागद्वीपस्तथा सौम्यो गान्धर्वस्त्वथ वारुणः । अयं तु नवमस्तेषां द्वीपः सागरसंवृतः ॥७॥

योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरात् । पूर्वे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः ॥ ८॥

ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः । इज्यायुधवणिज्याद्यैर्वतयन्तो व्यवस्थिताः ॥ ९॥

शतद्रूचन्द्रभागाद्या हिमवत्पादनिर्गताः । वेदस्मृतिमुखाद्याश्च पारियात्रोद्भवा मुने ॥१०॥

नर्मदा सुरसाद्याश्च नद्यो विन्ध्याद्रिनिर्गताः । तापीपयोष्णीनिर्विन्ध्याप्रमुखा ऋक्षसंभवाः ॥ ११ ॥

गोदावरी भीमरथी कृष्णवेण्यादिकास्तथा । सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः ॥ १२ ॥

कृतमाला ताम्रपर्णीप्रमुखा मलयोद्भवाः । त्रिसामा चर्षिकुल्याद्या महेन्द्रप्रभवाः स्मृताः ॥ १३॥

ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसम्भवाः । आसां नद्युपनद्यश्च सन्त्यन्याश्च सहस्रशः ॥ १४॥

           नागद्वीप इति ॥ अयं तु द्वीपो भारताख्यः । तदुक्तं वाराहे * इन्द्रः कशेरुस्ताम्रवर्णो गभस्तिमान् नाग: सौम्यो गान्धर्वो वारुणो भारतश्च, इति । सागरसंवृता इति वा पाठः ॥ ७-१४ ॥

तास्विमे कुरुपाञ्चाला मध्यदेशादयो जनाः । पूर्वदेशादिकाश्चैव कामरूपनिवासिनः ॥ १५ ॥      पुण्ड्राः कलिङ्गा मगधा दाक्षिणात्याश्च सर्वशः ।तथाऽपरान्ताः सौराष्ट्राः शूराभीराश्च बर्बराः ॥१६॥ कारूषा मालवाश्चैव पारियात्रनिवासिनः । सौवीराः सैन्धवा हूणाः साल्वा कोसलवासिनः ॥१७॥     माद्रारामास्तथाम्बष्ठाः पारसीकादयस्तथा । आसां पिबन्ति सलिलं वसन्ति सहिताः सदा ।

समीपतो महाभाग हृष्टपुष्टजनाकुलाः ॥ १८ ॥

तास्विति ॥ कामरूपो देशः ॥ १५-१८॥

चत्वारि भारते बर्षे युगान्यत्र महामुने । कृतं त्रेता द्वापरश्च कलिश्चान्यत्र न क्वचित् ॥ १९ ॥

तपस्तप्यन्ति मुनयो जुह्वते चात्र यज्वनः । दानानि चात्र दीयन्ते परलोकार्थमादरात् ॥ २० ॥

        चत्वारीति । चत्वारि युगानि । धर्मपादव्यवस्थया युगव्यवस्था ॥ १९, २० ॥

पुरुषैर्यज्ञपुरुषो जम्बूद्वीपे सदेज्यते । यज्ञैर्यज्ञमयो विष्णुरन्यद्वीपेषु चान्यथा ॥ २१ ॥

अत्रापि भारतं श्रेष्ठ जम्बूद्वीपे महामुने । यतो हि कर्मभूरेषा ह्यतोऽन्या भोगभूमयः ॥ २२ ॥

अत्र जन्मसहस्राणां सहस्रैरपि सत्तम । कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् ॥ २३ ॥

       पुरुषैरित्यादि ॥ यज्ञपुरुषः-विष्णुः अत्र यज्ञरूप इज्यते। अन्यथा-सोमवाय्वादिरूपः ॥२१-२३॥

          गायन्ति देवाः किल गीतकानि धन्यास्तु ते भारतभूमिभागे। स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूयः पुरुषास्सुरत्वात् ॥ २४ ॥

             गायन्तीति ॥ ये देवाः सुरत्वात् –सुरत्वादनन्तरं तत्र भारते भूयः पुरुषा:-मनुष्याः स्युस्ते धन्याः ॥ २४॥

कर्माण्यसङ्कल्पिततत्फलानि संन्यस्य विष्णौ परमात्मभूते । अवाप्य तां कर्ममहीमनन्ते तस्मिल्लयं त्वमलाः प्रयान्ति ॥ २५ ॥

             एतत्समर्थयति कर्माणीति ॥ अत्रापि ते धन्या इत्यनुषङ्गः ॥ २५॥

            जानीम नैतत्क्व वयं विलीने स्वर्गप्रदे कर्मणि देहबन्धम् ।

            प्राप्स्याम धन्याः खलु ते मनुष्या ये भारते नेन्द्रियविप्रहीनाः ॥ २६ ॥

नववर्षं तु मैत्रेय जम्बूद्वीपमिदं मया । लक्षयोजनविस्तारं संक्षेपात्कथितं तव ॥ २७ ॥

जम्बूद्वीपं समावृत्य लक्षयोजनविस्तरः । मैत्रेय वलयाकारः स्थितः क्षारोदधिर्बहिः ॥ २८ ॥ .

              जानीमेति ॥ नेन्द्रियविप्रहीना:-कर्मध्यानादियोग्यपटुकरणाः ॥ २६-२८ ॥

इति श्रीविष्णुपुराणे द्वितीयेशे तृतीयोऽध्यायः ॥३॥

इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने श्रीविष्णुचित्तीये  द्वितीयेशे तृतीयोऽध्यायः ॥३॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.