श्रीविष्णुपुराणम् Amsa 02 Ady 11

श्रीविष्णुपुराणम्

अथैकादशोऽध्यायः

       मैत्रेयः –

यदेतद्भगवानाह गणस्सप्तविधो रवेः । मण्डले हिमतापादेः कारणं तन्मया श्रुतम् ॥१॥

व्यापारश्चापि कथितो गन्धर्वोरगरक्षसाम् । ऋषीणां वालखिल्यानां तथैवाप्सरसां गुरो ॥२॥

यक्षाणां च रथे भानोर्विष्णुशक्तिधृतात्मनाम् । किं चादित्यस्य यत्कर्म तन्नात्रोक्तं त्वया मुने ॥३॥

यदि सप्तगणो वारि हिममुष्णं च वर्षति । तत्किमत्र रवेर्येन वृष्टिः सूर्यादितीर्यते ॥ ४ ॥

विवस्वानुदितो मध्ये यात्यस्तमिति किं जनः । ब्रवीत्येतत्समं कर्म यदि सप्तगणस्य तत् ॥ ५॥

      श्रीपराशरः –

मैत्रेय श्रूयतामेतद्यद्भवान्परिपृच्छति । यथा सप्तगणेऽप्येकः प्राधान्येनाधिको रविः ॥६॥ ..

सर्वशक्तिः परा विष्णोः ऋग्यजुस्सामसंज्ञिता । सैषा त्रयी तपत्यंहो जगतश्च हिनस्ति या ॥७॥

        सर्वशक्तिरित्यादि ॥ सर्वशक्तिः-संपूर्णशक्तिः, यत्तपति यच्च जगतोऽहो हिनस्ति सैषा विष्णोः परा’ सर्वशक्तिः ऋग्यजुस्सामसंज्ञिता त्रयीत्यन्वयः ॥ १-७॥

सैषा विष्णुः स्थितः स्थित्यां जगतः पालनोद्यतः। ऋग्यजुस्सामभूतोऽन्तः सवितुर्द्विज तिष्ठति॥८॥

मासिमासि रविर्योयस्तत्र तत्र हि सा परा । त्रयीमयी विष्णुशक्तिरवस्थानं करोति वै ॥९॥

  सैषेति ॥ जगतः पालनोद्यतः स्थित्यां स्थितो विष्णुः सैव शक्तिः। शक्तिशक्तिमतोरभेदात्सामानाधि करण्यनिर्देशः । ऋग्यजुस्सामशरीरो विष्णुः सवितुरन्तस्तिष्ठति ; अतो रवेः प्राधान्यम् ॥८,९॥

ऋचस्स्तुवन्ति पूर्वाह्णे मध्याह्नेऽथ यजूंषि वै । बृहद्रथन्तरादीनि सामान्यह्नःक्षये रविम् ॥१०॥

          ऋच इति ॥ ऋचः स्तुवन्ति, रवौ तिष्ठन्तं विष्णुमिति शेषः ॥ १० ॥

अङ्गमेषा त्रयी विष्णो ऋग्यजुस्सामसंज्ञिता । विष्णुशक्तिरवस्थानं सदाऽऽदित्ये करोति सा ॥११॥

          अङ्ग इति ॥ अङ्गशक्तिशब्दौ शरीरपर्यायौ, * शब्दमूर्तिधरस्यैतद्रूपमिति ह्युक्तम् ॥ अंश एषेति च पाठः॥११॥

न केवलं रवेः शक्तिर्वैष्णवी सा त्रयीमयी। ब्रह्माथ पुरुषो रुद्रस्त्रयमेतत्त्रयीमयम् ॥१२॥

             सा वैष्णवी त्रयीमयी शक्तिर्न  केवलं  रवेरेवान्तस्था,  किन्तु  ब्रह्मादीनामपीत्याह—न केवलमिति ॥१२॥

सर्गादौ ऋङ्मयो ब्रह्मा स्थितौ विष्णुर्यजुर्मयः । रुद्रस्साममयोऽन्ताय तस्मात्तस्याशुचिर्ध्वनिः ॥१३॥

           सर्गादाविति ॥ तस्मात्–अन्तहेतुरुद्रसंबन्धात् , तस्य-साम्नः ॥ १३ ॥

एवं सा सात्त्विकी शक्तिर्वैष्णवी या त्रयीमयी। आत्मसप्तगणस्थं तं भास्वन्तमधितिष्ठति ॥ १४ ॥

तया चाधिष्ठितस्सोऽपि जाज्वलीति स्वरश्मिभिः । तमस्समस्तजगतां नाशं नयति चाखिलम् ॥१५॥

              उपसंहरति एवमिति ॥ सात्त्विकी–शुद्धसत्त्वमयी वैष्णवी शक्तिः, आत्मसप्तगणस्थं– स्वशरीरभूतसप्तवर्गान्तर्गतं  भाखन्तमधितिष्ठति–भास्वत्यतिशयेन तिष्ठति ॥ १४, १५ ॥

स्तुवन्ति चैनं मुनयो गन्धर्वैर्गीयते पुरः । नृत्यन्त्यप्सरसो यान्ति तस्य चानु निशाचराः ॥१६॥

वहन्ति पन्नगा यक्षैः क्रियतेऽभीषुसंग्रहः । वालखिल्यास्तथैवैनं परिवार्य समासते ॥ १७॥

              प्राधान्यादन्येऽपि स्तुत्याद्यैरेनमुपासत इत्याह-स्तुवन्ति चैनमिति ॥ १६,१७ ॥

नोदेता नास्तमेता च कदाचिच्छक्तिरूपधृक् । विष्णुर्विष्णोः पृथक् तस्य गणस्सप्तविधोऽप्ययम्॥१८॥

           नेति ॥ शक्तिरूपधृग्विष्णुरधिष्ठाता  स्थायी  नोदेति  नास्तमेति, अधिष्ठेयासञ्चारिणो गणाद्भिन्नत्वात् ॥१८॥

स्तम्भस्थदर्पणस्यैति योsयमासन्नतां नरः। छायादर्शनसंयोगं स स प्राप्नोत्यथात्मनः ॥ १९॥

            स्तंभस्थेति ॥ छायादर्शनसंयोगं– छायायाः  प्रतिबिम्बस्य  आदर्शनस्य  दर्पणस्य च संयोगम् ॥ १९ ॥

एवं सा वैष्णवी शक्तिर्नैवापैति ततो द्विज । मासानुमासं भास्वन्तमध्यास्ते तत्र संस्थितम् ॥ २० ॥

पितृदेवमनुष्यादीन्स सदाऽऽप्याययन्प्रभुः । परिवर्तत्यहोरात्रकारणं सविता द्विज ॥ २१ ॥

         एवमिति ॥ ततः-दर्पणस्थानीयात्सूर्यपदाधिकारिणः, तत्र–सूर्यपदे मासानुमासं–मासान्मासान्तरं प्रतिमासमित्यर्थः । पुङ्खानुपुङ्खमितिवत् । यद्वा  मासेषु  द्वादशसु  अनुमासेऽधिकमासे च ; तेन यो मासोऽधिकस्तन्मासोक्तसप्तगणावृत्तिः स्यात् ।। २०, २१ ॥

सूर्यरश्मिसुषुम्णा यस्तर्पितस्तेन चन्द्रमाः। कृष्णपक्षेऽमरैः शश्वत्पीयते वै सुधामयः ॥ २२ ॥

            पित्राद्याप्यायनप्रकारमाह—सूर्यरश्मिरिति । तर्पितः–शुक्लप्रतिपदादिक्रमात्पूरित: पीयते । प्रतिपदादिपानं हि क्षयहेतुः, अत: षोडशकलस्य कृष्णप्रतिपदमारभ्य एकैका कला अमरैः पीयते, * प्रथमां पिबते वह्रिरित्यादिस्मृतेः ।। २२।।

पीतं तं द्विकलं सोमं कृष्णपक्षक्षये द्विज । पिबन्ति पितरस्तेषां भास्करात्तर्पणं तथा ॥ २३ ॥

         पीतमिति । अतः कृष्णचतुर्दश्यन्ते द्विकलत्वम्, कृष्णपक्षक्षये-दर्शे पिबन्ति एककलावर्जम् ; तेषां देवपितृणाम् , तथा उक्तप्रकारेण ॥ २३ ॥

आदत्ते रश्मिभिर्यं तु क्षितिसंस्थं रसं रविः । तमुत्सृजनि भूतानां पुष्टयर्थं सस्यवृद्धये ॥ २४ ॥

तेन प्रीणात्यशेषाणि भूतानि भगवान्रविः । पितृदेवमनुष्यादीनेवमाप्याययत्यसौ ॥ २५ ॥

           मनुष्यादितर्पणमाह-आदत्त इति ॥ भूतानां-मनुष्यादीनाम् ॥ २४, २५॥

पक्षतृप्तिं तु देवानां पितृणां चैव मासिकीम् । शश्वत्तृप्तिं च मर्त्यानां मैत्रेयार्कः प्रयच्छति ॥ २६ ॥

            देवपितृमर्त्यानां तृप्तिं कालतो विशिनष्टि-पक्षेति ॥ * शुक्ले पूर्णं कृष्णे पिबन्ति देवाः, इति तेषां शुक्लपक्षे तृप्तिः। एकमासिकीम्–पूर्वदर्शादुत्तरदर्शं यावत् । यद्वा देवानां दर्शपूर्णमासयोरिष्टिः, पितृणां दर्श एवेष्टिः, मनुष्याणां नित्यभुक्तिश्च, तत्तत्साधनहविर्निष्पत्तिः सूर्यसाध्येति दिनपक्षादितृप्तिः, * तस्मादहरहर्मनुष्याः इत्यादिश्रुतेः। । अर्कः प्रयच्छतीति पुनः कीर्तनात् ग्रहान्तरकृतं वृष्ट्यादिफलमपि तत्तताराग्रहानुग्राहकरश्मिद्वाराऽर्क  एव  प्रयच्छतीत्युक्तं  स्यात् । यथा-कौर्मे * हरिकेशस्तु यः प्रोक्तो रश्मिर्नक्षत्रपोषकः । विश्वकर्मा  तथा रश्मिर्बुधं  पुष्णाति सर्वदा । विश्वव्यचा सूर्यरश्मिः सितं पुष्णाति नित्यशः। संयद्वसुरिति ख्यातो यस्स पुष्णाति लोहितम् ॥ बृहस्पतिं स पुष्णाति रश्मिरर्वावसुः प्रभोः॥ शनैश्चरं स पुष्णाति सप्तमस्तु स्वराह्वयः ॥ इति ॥ २६ ॥

इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे द्वितीयेऽशे

एकादशोऽध्यायः ॥ ११ ॥

इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने   श्रीविष्णुचित्तीचे द्वितीयेऽशे एकादशोऽध्यायः ॥ ११ ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.