श्रीविष्णुपुराणम् Amsa 02 Ady 08

श्रीविष्णुपुराणम्

अथ अष्टमोऽध्यायः

श्रीपराशर: –

व्याख्यातमेतद्ब्रह्माण्डसंस्थानं तव सुत्रत । ततः प्रमाणसंस्थाने सूर्यादीनां शृणुष्व मे ॥१॥

अथ ज्योतिश्चकम् । व्याख्यातमिति ॥ एतत्-ब्रह्माण्डसंस्थान मथा तव व्याख्यातम् ॥ १॥

योजनानां सहस्राणि भास्करस्य रथो नव । ईषादण्डस्तथैवास्य द्विगुणो मुनिसत्तम ॥२॥

योजनानामिति ॥ भास्करस्य देहव्याप्तो रथभागों नवसाहस्रः, वक्ष्यमाणगंधर्वादिपरिवारावकाशार्थों रथांशश्च सहनमात्रः, इत्थं दशसहस्रो रथः, * मण्डलं भास्करस्याथ योजना(प्रा)नान्निबोधत । नवयोजन साहस्रो विस्तारो भास्करस्य तु ॥ इति, * दशयोजनसाहस्रो विस्तारायामतो रथ: * इति च तेजोमयतया दूरतो मण्डलत्वेन दृश्यमानस्य तदेहस्य नवसहस्रतया तदधस्य च दशसहस्रतया वायूक्तेः । ईषादण्डः द्विगुणः-विंशति योजनसहस्रः ॥२॥

सार्धकोटिस्तथा सप्त नियुतान्यधिकानि वै । योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम् ॥३॥

साधकोंटिरिति ॥ अधिकानि च पञ्चाशत्सहस्रयोजनानि आमेरोंनिसोत्तरपर्यन्तं स्थितस्येह महाक्षवेन विवक्षितत्वात् तत्र-मेरुमध्योपरि षोडशसहस्रोच्छितगगनस्थोत्तराने मानसोत्तरोपर्य लक्षोंच्छितान्तरिक्षावस्थितदक्षि णाने महाक्षे-* चक्र, हिरण्मयेनानल्पेनेति मात्स्योक्तमानम् संवत्सरात्मककालचक्रतयोपास्यं प्रतिष्ठितम् ॥ ३ ॥

विनाभिमति पश्चारे षण्णेमिन्यक्षयात्मके । संवत्सरमये कृत्स्नं कालच(के)कं प्रतिष्ठितम् ॥४॥

त्रिनामिमतीति ॥ त्रिनाभीत्यादेर्मात्स्योक्तिया॑ख्या-* अहस्निनामिस्सूर्यस्य एकचक्रस्य वै स्मृतम् । अरास्संवत्सराः पञ्च नेम्यषडतवस्मृताः॥ इति वायूक्तिस्तु * अहस्निनाभिस्सूर्यस्य अराः पश्चर्तवः स्मृताः। नेम्य षड़तवस्तस्येति । यद्वा चातुर्मास्यैस्त्रिनाभिहेमन्तशिशिरयोरक्यं कृत्वा पञ्चभिः पञ्चार, षडतुभिः षण्णेमि । तथाहि यास्केन निरुक्तम् * त्रिनाभिचक्रं त्वृतुस्संवत्सरो ग्रीष्मों वर्षा हेमन्त इति संवत्सरं सर्वमत्राभिस्तौति पञ्चारे चक्र इति, पंचर्तुतया * पञ्चर्तवस्संवत्सरस्य, इति च ब्राह्मणम्। हेमन्तशिशिरयोः समासेन षडर आहुरर्पितभिति षड़तुतया अराः प्रसृता नाभिमति च । अक्षयात्मके-नित्यप्रवाहे । चक्रमिति पाठे सप्तम्यर्थे प्रथमा । प्रागुक्ते संवत्सरात्मके कालचके कृत्स्न-कालायतं जगत्प्रतिष्टितम् । त्रिनाभिपञ्चारत्वादिकं हि चक्रविशेषणं * द्वादश प्रथयश्चक्रमेकं त्रीणि नतानीति पञ्चारे चक्रे, इति श्रुतेः । यद्वा पूर्व श्लोकोक्त संवत्सरादिकालात्मकतयोपास्ये रविरथचके कृत्स्नं कालचक्र-परिवर्तन शीलं कालावयवबृन्दं स्थितम् । लक्षप्रमाणमित्यादि हस्ताक्षस्य यत्प्रमाणं तदेव तस्य रथस्य युगखण्डयोः संहत्य मानम् ; सार्धपञ्चचत्वारिंशत्सहस्रं तस्य युगमित्यर्थः । युगस्य खण्डयोः पृथगुक्तिः विनियोगद्वैधात् । तथा हि .. मेरुमानसोतरावधि व्याप्तमहाक्षोपरि तदानुकूल्येन यमलवस्थितः उदग्दक्षिणायनकाष्ठयोरन्तरालमण्डलेषु रथस्या कर्षणविकर्षणार्थम् ध्रुवगृहीतवातरश्मिबद्धः कुविन्दनाडीवत्सञ्चारी हखाक्षः, तदुपरि बद्धो दशसहस्रो रथोऽवतिष्ठते । म्याक्षमध्यमारभ्य स्थद्विगुण ईषादण्डः प्रत्यङ्मुखो ज्ञेयः, * द्विगुणोऽस्य रथोपस्थादीषादण्डः प्रमाणत: * इति मात्स्योक्तेः । ईषाने तिर्यनिबद्धमध्यं हसाक्षसमध्य युगम् ; युगस्य वामा सप्ताश्वबन्धने विनियुक्तम्  * असङ्गैस्तुरगैर्युक्तं यतश्च ततः स्थितैरिति लैङ्गोक्तेः, * सप्ताश्वरूपच्छन्दांसि वहन्तो वामतो रविमिति लैङ्ग . वायव्योक्तेश्च । रथोत्तरभागस्थयुगाध तु मेर्वासन्नं तद्वायुरश्मिद्वारा ध्रुवाधारम् । एवं तेन युगार्द्धन सह हवा-क्षोत्तरभागोऽपि मेर्वासन्नो ध्रुवरश्मिबद्धस्तद्वारा धुवाधारः । एतेन हखाक्षश्च रथोत्तरभागस्थयुगानं चोभयं दीर्घा क्षोपरि स्थितन्यशीतिशतमण्डलरेखामार्गेण सञ्चारादधदक्षिणभागे स्वस्खाग्रद्रयनिबद्धरश्मिभ्यां ध्रुवेणोदगयने मेर्वमि मुखमाकृष्यते ; दक्षिणायने महाक्षोपर्येव मानमोत्तराभिमुख शिथिलीकृत्य विकृष्यते। तेन महांक्षोपरि यन्त्रित हखाक्षस्थबिम्बस्य दक्षिणोत्तरगति न्यथेत्युक्तं भवति । यल्लैङ्गमात्स्यवायव्येषु * युगाक्षकोटिसंबन्धौ द्वौ रश्मी स्यन्दनस्य तु। ध्रुवेण प्रगृहीतौ तौ विकृष्य युगयोस्तु वै ॥ युगाक्षकोटिस्थौ तस्य दक्षिणे स्यन्दनस्य तु। ध्रुवेण प्रगृहीतो तो रश्मी यो नयतो रविम् ॥ भ्रमतो मण्डलानि स्युः खेचरस्य रथस्य तु । भ्रमन्तमनुगच्छन्तौ ध्रुवं रश्मी तु तावुभौ ॥ हसतस्तस्य रश्मी तु मण्डलेषूत्तरायणे । वर्धते दक्षिणे चैव भ्रमतो मण्डलानि तु ॥ आकृप्येते यदा तौ तु ध्रुवेणाधिष्ठितौ तदा। सोऽभ्यन्तरगतस्सूर्यो भ्रमते मण्डलानि तु । ध्रवेण मुध्यमानाभ्यां रश्मिभ्यां पुनरेव तु ॥ तथैव बाह्यत; सूर्यो भ्रमते मण्डलानि तु ॥ एवं सर्वाधारभूतो महाक्षोऽपि ध्रुवेण रश्म्य न्तरेण भ्राम्यमाणश्चक्रे भ्रामयन्प्रत्यग्भ्रमति । यथाऽऽह वायु: * चक्रमक्षे निबद्धं तु ध्रुवे चाक्षः समर्पितः। सहचको भ्रमत्यक्षः सहाक्षो भ्रमति ध्रुवः ॥ द्वितीयेऽक्ष इति द्वितीयशन्देन सन्निहितहखाक्षापेक्षया तत्र चक्र प्रतिष्ठितमिति प्रागुक्तविनियोगो महाक्षः स्मयते ॥ ४॥

हयाश्च सप्त च्छदांसि तेषां नामानि मे शृणु । गायत्री च बृहत्युष्णिग्जगती त्रिष्टुभेव च।

अनुष्टुप्पंक्तिरित्युक्ताश्छंदांसि. हरयो रखेः ॥ ५॥

चत्वारिंशत्सहस्राणि द्वितीयोऽशो विवस्वतः । पश्चान्यानि तु सार्धानि स्पन्दनस्य महामते ॥६॥ अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्धयोः । हस्खोऽक्षस्तयुगाधुन ध्रुवाधरो रथस्य वै। . द्वितीयेऽक्षे तु तच्चक्रं संस्थितं मानसाचले ॥ ७॥

हयाश्चेत्यादि । चशब्देन प्राग्विनियुक्तादुत्तरयुगाादितरस्मिन् द्वितीये रथवामयुगाढ़े छन्दोमयत्वेनो पास्याः सप्ताश्वाश्च संस्थिता इत्यनुषङ्गात्तद्योग्ययुगाईपदं लभ्यते। अत्रेय परिपाटी ज्ञातव्या-जम्बूद्वीपमध्ये मेरुः, तदुपरि पंचदशलक्षे ध्रुवः, मेरोरुपरि षोडशसहस्रांतरिक्षे महाक्षस्य मूलं तस्याग्रं सचक्रं मानसादयुपर्यद्धलक्षेऽन्त रिक्षे, महाक्षे त्र्यशीतिशतमण्डलरेखास्तत्तदिने रविबिम्बभ्रमणगोचराकाशप्रदेशवृत्तोपाधिभूता दक्षिणोत्तरकाष्ठयोरन्त. रालभवा मण्डलाख्याः मेरे मध्यबिन्दु कृत्वा तत्तदेखागर्भमाकाशे तत्तहिनबिम्बभ्रमणमुत्पद्यते । यावदक्षिणोत्तरकाष्ठं ध्यशीत्यधिकशतदिनगम्यवादयनस्य तावन्ति मण्डलानि स्युः। तत्राक्षे रथो दशसहस्रमितो रविबिम्बादिशब्द. ध्यपदेश्यो महाक्षोपरि संचारिणा हखाक्षेण संयुतः प्रत्यङ्मुखः, स च ज्योतिश्चक्रामकावहानिलाक्ष्यध्रुवरश्मिवशात् प्रहतारागणैः सहित एव प्रत्यहं प्रत्यङ्मुखमेकवारं मेरे प्रदक्षिणयन्नेव हस्ताक्षयुगोत्तरकोट्यग्रबद्धध्रुवगृहीतवात. रश्मिद्वयाकर्षणविकर्षणवशानक्षत्रचक्रमार्गेण च किंचिकिचित्प्राग्लम्बमान एवोदग्दक्षिणायनयोर्यावत् काष्ठान्तमनु. कृष्यते विकृष्यते च, अश्विन्या दृष्टप्रहस्यानन्तरं कालान्तरे तत्पुरतः स्थितभरण्यादौ स्थितिदर्शनात् किंचित्प्राग्गतिश्च रस्म्यन्तरवशारखखचारानुगुण्यास्सिद्धा । एवं दक्षिणोत्तरच्छायादर्शनादुदग्दक्षिणा गतिश्च सिद्धा। ताराच माम तत्तकालपरिदृश्यव्योमावच्छेदकं छत्राकारमश्विन्यादिसप्तविंशतिधिष्ण्यविभक्ताकाशंक्षेत्रकं ज्योतिर्मण्डल मेरु- मध्यस्य ध्रुवनाभिकम् । तत्पुनदिशधा कल्पितमेषादिराश्यात्मना विभक्तम् । सपादमश्चिन्यादिनक्षत्रद्वयक्षेत्रं हि मेषादि रेकैको राशिः। तत्र धनुर्मकरसन्धौ मानसोत्तरासन्ने दक्षिणपरमकाष्ठायामुत्तरायणोपक्रमः । एवं मिथुनकर्किसन्धौ मेर्वासन्ने उदकाष्ठान्ते दक्षिणायनारम्भः । तच्च भचकं किंचिदक्षिणनम्रमुदगुन्नतप्राय पूर्वाभिमुखप्रदक्षिणनिबद्धा श्चिन्यादिनक्षत्रकल्पितराशिकम् । तत्र धुत्तराषाढाद्वितीयपादादिसार्द्धत्रयोदशर्थक्षेत्रमुत्तरमयनमे कार्ये ; अर्धान्तरे तु पुनर्वस्वन्त्यपादादिसार्धत्रयोदशक्षक्षेत्र दक्षिणम् । मीनमेषसन्धिरुदग्विषुवन्मध्यं कन्यातुलासन्धिदक्षिणं विषुवम् । एवं महाक्षेऽप्यारोहावरोहाभ्यां द्वे अयने राशिषट्कं सादत्रयोदशक्षं च कल्प्यम् । यथा महाक्षे दक्षिणोत्तरचलन तदनुरूपं भचक्रं च तत्समान्तरिक्षे तिर्यङ्मुखनिबद्धं ज्ञेयम् । तथा राशिद्वयमेकषष्टिमण्डलं च भुक्तं चेद् भचक्रेऽपि षष्ठांशो राशिद्वयात्मकं साईचतुर्नक्षत्रं प्राग्गल्या भोक्तव्यमित्याघह्यम् । तत्तदेशे चक्राईस्य दर्शनादर्शनाभ्यां राशिषट्कस्णेदितताऽस्तमितता च । तत्र प्रायशो मीनमेषौ हस्त्रो, वृषभकुम्भी ततोऽधिको, नक्रमिथुने किंचिदीर्घ, सिंहवृश्चिको दीर्घतरौ, (कर्किचापौ दीर्घतमौ), धनु:कर्कटौ ततोऽधिको, समे कन्यातुले। तत्राोकान्तराश्यंश मारम्य षडाशिक्षेत्रदर्शनकाल एव तत्र देशेऽहः, इतरषट्कदर्शनकालो रात्रिः । तदाशिप्रमाणाधीनौ दिनरात्रि वृद्धिहासौ । इत्यादिज्योतिश्शासस्थितिश्च पुराणसंमता ज्ञेया ॥ ५-७॥

मानसोचरशैलस्य पूर्वतो वासवी पुरी । दक्षिणे तु यमस्यान्या प्रतीच्या वरुणस्य च ।

उत्तरेण च सोमस्य तासां नामानि मे शृणु ॥ ८॥

वखोकसारा शक्रस याम्या संयमनी तथा । पुरी सुखा जलेशस्य सोमस्य च विभावरी ॥९॥

उदयादिस्थानविभागप्रदर्शनायाह-मानसेति ॥ पूर्वत इति । मानसोत्तरे मेरौ च पुरीणां दिक् चतुष्कं ब्रह्मापेक्षया नित्यनिबद्धं ज्ञेयम् । ब्रह्मणो ह्यादौ स्रष्टुं स्थितस्य पुरोदेशः पूर्वाऽभूत् , पश्चाद्भागः प्रतीची, दक्षिणहस्तदेशो दक्षिणा, इतरहस्तदेश उत्तरेति । तन्निरुक्तं यास्केन * दीर्घहस्तप्रकृतिरिति  ।।८, ९ ॥

काष्ठां गतो दक्षिणतः क्षिसेषुरिव सर्पति । मैत्रेय भगवान्भानुयोतिषां चक्रसंयुतः ॥१०॥

काष्ठां गत इति ॥ * अथ तस्पोपरिष्टातु भ्रमतो दक्षिणायनमिति लैङ्गोक्तेः इन्द्रादिपुरोपरि गगने भमन्दक्षिणकाष्ठां गतो ज्योतिश्चक्रप्रान्तं गत्वा शीघ्रं भमति । कुलालचकप्रान्तस्थो जन्तुरिव ॥ १०॥

अहोरात्रव्यवस्थानकारणं भगवानविः । देवयानः परः पन्था योगिनां क्लेशसंक्षये ॥११॥

अहोरात्रेति ॥ अहो रात्रेश्च व्यवस्थानकारणं रविर्जनैश्योऽदृश्यः सन् । देवयान:-अचिराविः, मुक्तिमार्गपर्वत्वात् । छान्दोग्ये – तेऽर्चिपमेवाभिसम्भवन्ति, अर्चिषोऽह: अह आपूर्यमाणपक्षमापूर्यमाणपक्षाधान्. षड्दड्डेति मासांस्तान् मासेभ्यस्संवत्सरं संवत्सारादादित्यमादित्याचन्द्रमसं चंद्रमसो विद्युतं तत्पुरुषो मानवः स एनान् ब्रह्म गमयति एष वै देवयानः पन्थाः * इति । अत्र चोक्त: श्लोकः “अम्रिोऽर्द्धमास: सित उदगयने ये षडर्कस्य मासास्तेऽब्दो वायवर्कचन्दास्तटिति च पुरुषश्शक्रधात्रोश्च लोकौ । वोढारो विद्युतोऽर्वाङ्नयति तु पुरुषो वैद्यतस्तेभ्य ऊर्च ब्रह्मज्ञान्मानवोऽस्मात्परमिति कथयन्त्युत्तरं मार्गमेतम् ॥ ११ ॥

दिवसस्य रविर्मध्ये सर्वकालं व्यवस्थितः । सर्वद्वीपेषु मैत्रेय निशार्द्धस्य च सन्मुखः ॥१२॥

उदयास्तमये चैव सर्वकालं तु सम्मुखे । विदिशासु त्वशेषासु तथा ब्रह्मन् दिशासु च ॥ १३ ॥

यैर्यत्र दृश्यते भाखान्स तेषामुदयः स्मृतः। तिरोभावं च यत्रैति तत्रैवास्तमनं रवेः ॥१४॥ नैवास्तमनमर्कस्य नोदयः सर्वदा सतः । उदयास्तमनाख्यं हि दर्शनादर्शनं रखेः ॥१५॥

दिवसस्येति ॥ दिवसस्येत्यादिश्लोकचतुष्टयस्यायं भाव:-यथा लक्षोच्छित एव व्योनि स्थितस्तीक्ष्णातपः स्वामितो द्वितीययामगम्यदेशभासकस्सन्भ्रमति, तथा स्थित एक खाधस्त्यदेश्यानां मध्याहकत्, तत्संमुखसमस्त्र- स्थभचक्रार्द्धव्यवहितोत्तरदेशानामर्द्धरात्रकृत् , तथा तदिनभचक्रपादव्यवहितपश्चिमदेशस्थर्दूरत्वाद्भूलम इव दृश्यमान . उदेतीति व्यपदेश्यः, तावदूरस्थप्राग्देश्यैदरीभवनभूलम इवादृश्यमानोऽस्तमेतीति व्यपदेश्यः । उदयेऽस्तमये च दूरत्वान्नम्रः, यथा मेघः स्वाधस्स्थैरुन्नतस्ततो दूरस्थैर्भूलग्न इव दृश्यः । एवं लक्षोच्छ्तितीक्ष्णरश्मेरुं प्रदक्षिणयत एव द्रष्टवशान्मध्याहादिव्यवहार इति । तदुदाहृतं वायुना “ मध्यमश्चामरावत्यां यावर्जति भास्करः । वैवखते संयमने उदयस्तत्र दृश्यते । सुखायामर्धरात्रस्थो विभायामस्तमेति च ॥ इत्यादि । अतो दूरत्वादेवादर्शनमस्तमयः,. न तु मेरुव्यवहितः । मेरोर्व्यवधायकत्वे तु नवकोंटिमितं मानसोत्तरपरिधिमहोरात्रेण भ्रमतो भानो त्रिंशत्सहस्र संमितमेरुणाच्छाद्यमार्गस्य क्षणमात्रगम्यत्वान्नित्यं रात्रेरल्पत्वप्रसंगो नित्यमेवैशान्यवायव्ययोरेवोदयास्तमयप्रसंगो दक्षिण

काष्ठायामांग्नेयनैर्ऋत्ययोरुदयास्तमयसिद्धयर्थ प्रत्यहमाच्छादकान्तरकल्पनाप्रसङ्गश्च। अतो दूरत्वादेवादर्शनम्। तथाह । वायुः * विदूरभावादकस्य प्रोद्यतस्य विरश्मिता । रकता च विरश्मित्वादकत्वाचाप्यनुष्णता ॥ रेखायामास्थितः । सूर्यो यत्र तत्र च दृश्यते ॥ ऊर्ध्व शतसहस्रात्तु योजनानां न दृश्यते ॥ मात्स्ये च * विदूरभावादकस्य भूमेलेखा गतस्य च । हीयन्ते रश्मयो यस्मात्तेन रात्रौ न दृश्यते ॥ रेखा-तदिनभ्रमणवृत्तचतुर्थाशे द्रष्टुः पूर्वापरयोः कल्पिता रेखा, यत्र भूलग्न इव ग्रहो दृश्यते। शतसहस्रशब्दश्च भानुभ्रमणपरिधितुरीयांशोपलक्षणम् । यदाग इते * यथा चैन्याः पुर्याः प्रचलति पञ्चदशभिटिकाभिर्याम्यां सपादकोटिद्वयं योजनानां सार्द्धद्वादशलक्षाणि साधिकानि चोपयाति, एवं ततो वारुणी सौम्यामैन्द्रीं च पुनः, तथान्ये च ग्रहास्सोमादयो नक्षत्रैः सह ज्यौतिश्चके समाभ्युधन्ति सह चाभिनिम्लोचन्ति तेन समुदतीरस्थानां द्रष्टणां समुदसलिलमायादियोधनन्येषां तु भुवं भित्वे योधनस्तं यात्वाऽदृश्यः परम्, न तु परमार्थतो नम्रत्वमस्तमयादिर्वाऽर्कस्य, “स वा एष न कदाचनास्तमेति नोदेति, इति श्रुतेः। • विभ्रराजमानः सरिरस्य मध्यात् , * अद्भयो वा एष प्रातरुदेव्यपरसायं प्रविशतीति मन्त्र. ब्राह्मणानि तु समुद्रवेलास्थितद्रष्ट्रप्रतिभासानुवादेन आदित्यस्तुतिपराणि | गोल काकारां भुवमुपर्यधोभागेन प्रदक्षि णयतो ज्योतिश्चक्रस्याई तत्स्थग्रहांश्च भूम्यर्धमेवाच्छादयति तेनोदयास्तमयवैचित्र्यव्यवस्थिति वदन्तो ज्योतिर्विदोऽपि पौराणिकरीयोदयास्तमयव्यवस्थोपपत्तेः भूमेगोलकाकारानुपपत्तेश्च निरस्याः। भुवो हि गोलकाकारत्वे समुद्रजलाना परितो विसृमरत्वप्रसङ्गः, सरित्प्रवाहादिनियमभङ्गप्रसङ्गश्च । अतो ज्योतिषं प्रतीत्यनुगुणगणितप्रधान नात्र प्रमाणम् ॥ १२-१५ ॥

शक्रादीनां पुरे तिष्ठन् स्पृशत्येप पुरत्रयम्। विकोणौ द्वौ विकोणस्थस्त्रीन् कोणान् वे पुरे तथा॥१६॥

अर्थतामेव दिक्चक्रार्द्धव्याप्तिमुदाहरति-शक्रादीनामिति । पुरेण दिगुपलक्ष्या, विकोणेन विदिक, शक्राधन्यतमस्य पुरोपरिस्थितस्तत्पुरदिशं तदभित:स्थितं दिग्द्वयम्, अनन्तरं विदिशौ च स्पृशति । एवमानयादि. विदिक्संस्थ: तां विदिशं तदभितः स्थितं दिग्द्वयम् अनन्तरं विदिग्द्वयं च भासयति ; अष्टदिङमण्डले अद्ध भातयती पर्थः। तद्यथा इंदपुर्या ऊय तिष्ठन् तत्र मध्याह्नमीशकोणस्थानां तृतीययामांतमग्निकोणस्थानामाययामान्तं याम्य पुरस्थानामुदयं सौम्यपुरस्थानामस्तमयं करोति । एवमग्निविकोणस्थस्तत्रस्थानां मध्याह्न ययेन्द्रपुर्योराद्यतृतीपयामान्ती नितीशकोणयोरुदयास्तमयो, च करोति। एवं सर्वदिग्विदिक्षु योज्यम् ॥ १६ ॥

उदितो वर्द्धमानाभिरामध्याह्वात्तपत्रविः । ततः परं हसन्तीभिर्गोभिरस्तं निगच्छति ॥ १७॥

उदित इति ॥ गावो रश्मयः ॥ १७ ॥

उदयास्तमनाभ्यां च स्मृते पूर्वापरे दिशौ । यावत्पुरस्तात्तपति तावत्पृष्ठे च पार्श्वयोः ॥१८॥ ऋतेऽमरगिरेमरोरुपरि ब्रह्मणः सभाम् । येये मरीचयोऽर्कस्य प्रयान्ति ब्रह्मणः सभाम् । तेते निरस्तास्तद्भासा प्रतीपमुपयान्ति वै ॥ १९ ॥

उदयेति ॥ तद्वद्धिह्रासावासत्तिविप्रकर्षकृतदर्शनादर्शनाभ्याम् । उदयेन पूर्वा दिक्, अस्तमयेनापरा दिक् । अत एवोचंतं भास्वन्तं पश्यतां वामदक्षिणभागे स्थितत्वात्सर्वेषामुत्तरो मेर्लोकालोकाचलश्च दक्षिणः स्यात् ॥ १८, १९॥

तस्मादिश्युत्तरस्यां वै दिवारात्रिः सदैव हि। सर्वेषां द्वीपवर्षाणां मेरुरुत्तरतो यतः ॥ २० ॥

तस्मादिति ॥ तस्मादिश्युत्तरस्यां नित्योत्तरस्य मेरोरुपरिदिग्भागे ब्रह्मसभाप्रभया सदा दिवात्वम् । तत्रार्कप्रभासञ्चाराभावान्नित्यरात्रित्वोपचारः ॥ २० ॥

प्रभा विवस्वतो रात्रावस्तं गच्छति भास्करे। विशत्यनिमतो रात्रौ वह्निदराप्रकाशते ॥२१॥

बढेः प्रभा तथा भानुं दिनष्वाविशति द्विज । अतीव वह्निसंयोगादतः सूर्यः प्रकाशते ॥ २२॥

तेजसी भास्कराग्नेये प्रकाशोष्णस्वरूपिणी। परस्परानुप्रवेशादाप्यायेते दिवानिशम् ॥ २३॥

अयोदयास्तमयनिर्णयप्रसक्तसंध्यानुष्ठानाग्निहोत्रीयसंसृष्टहोमप्रथमाहुतिशेष * यस्य वै द्वौ पुण्यो गृहे – वसत इत्यादि ब्राह्मणमनुगृह्णाति-प्रभा विवस्वत इत्यादिना ॥ प्रभेति ॥ सूर्यप्रभायाश्चतुर्थांशो निश्यग्निं विशति * प्रभा हि सौरी पादेनेति वायूक्तेः; वहिपादस्तथेति खोक्तेश्च ॥ २१-२३ ॥

दक्षिणोत्तरभृम्यद्धे समुत्तिष्ठति भास्करे। अहोरात्रं विशत्यम्भस्तमःप्राकाश्यशीलवत् ।। २४ ॥

अयाहोरात्रसन्धिप्रसंगेन तदनुकारिच्छायातपसन्धिस्थवसतीवरीसंज्ञितजपग्रहणशेष * यद्वै दिवा भवती स्यादि माह्मणमनुगृह्णाति-दक्षिणोत्तरेति सार्द्धद्वि श्लोक्याम् ॥ दक्षिणोत्तरेति । तमःप्राकाश्येत्यत्र क्रमोन विवक्षितः। तेन मेरोः दक्षिणभूम्यढ़े रखौ तिष्ठति तमःशीलवती रात्रिरंभो विशति, तदा तत्यानामहः स्यात् । उदग्भूयर्द्धस्थे त्व: प्रकाशकत्वशीलमहरपो विशति, दक्षिणस्थानां तदा रात्रिः स्यात् ॥ २४ ॥

आताम्रा हि भवन्त्यापो दिवानक्तप्रवेशनात् । दिवा विशति चैवांभो भास्करेऽस्तमुपेयुषि । तस्माच्छुक्ला भवन्त्यापो नक्तमतः प्रवेशनात् ॥ २५ ॥

आताम्रा हीति ।। दिवा-दिने, नकं-रात्रौ ॥ २५ ॥

एवं पुष्करमध्येन यदा याति दिवाकरः। त्रिंशद्भागं तु मेदिन्यास्तदा मौर्तिकी गतिः ॥ २६ ॥

एवमिति ॥ एवमहोरात्रं कुर्वन् पुष्करमध्येन मानसोत्तरशिखरेण मेदिन्याः रविरथचक्रभ्रमणोपलक्षण मानसोत्तरमध्यपरिधिकाया यस्त्रिंशोंशस्यैकमुहूर्तगतिः, तद्वायूक्तम् * नवकोटयः प्रसंख्याता योजनैः परिमण्डलम् । तथा शतसहस्राणि चत्वारिंशच्च पञ्च च ॥ अहोरात्रात्पतङ्गस्य गतिरेषा विधीयते । पूर्णा शतसहस्राणामेकत्रिंशत सा स्मृता ।। पंचाशत्तु तथाऽन्यानि सहस्राण्य कानि च ॥ मौहर्तिकी गतिथेषा सूर्यस्य तु विधीयते । मध्येन पुष्करस्याथ भ्रमतो दक्षिणायने ।। एवमुदक्काष्टायां शतद्वीपोत्तरान्तपरिधित्रिंशांश: विषुवे क्षीरोदोत्तरान्तपरिधि त्रिंशांशो द्वौ मौहूर्तिकी गतिः वायुप्रोक्तादिप्रसिद्धि या ॥ २६ ॥

लालचक्रपर्यन्ते भ्रमन्नेरी दिवाकरः । करोत्यहस्तथा रात्रि विमुञ्चन्मेदिनी द्विज ॥ २७ ॥

कुलालचक्रपर्यन्त इति ॥ कुलालचक्रप्रान्तस्थजन्तुरिव ज्योतिश्चक्रपर्यन्तस्थोऽको मेदिनी. प्रागुक्ता निसादिपरिधिका दक्षिणकाष्ठात्मिकां विमुञ्चन् दक्षिणकाष्ठान्त्यदिनापेक्षया विषममहोरात्रं च कुर्वनुत्तरोत्तरं मार्ग ३ गच्छन् मकरादिराशिषट्कं महाक्षस्थं तथा प्राग्गत्या भचकाध च याति ॥ २७ ॥

यिनस्योत्तरस्यादौ मकरं याति भास्करः । ततः कुम्भं च मीनं च राशे राश्यतरं द्विज ॥ २८ ॥

अयनस्योत्तरस्येति । देवदिनोंपक्रमत्वान्मकरप्राथम्यम् । ध्रुवेण हि प्रवहानिलेन नित्यं प्रत्याभ्राम्य पणज्योतिश्चक्रस्थमर्कबिम्बं ध्रुवरश्मिगृहीते महाक्षे ह्रखाक्षयुगकोटियन्त्रितेतरध्रुवरश्मिद्वयाकर्षणविकर्षणवशात्त. त्यनानुगुणमुदग्दक्षिणतो वा एकैकां मण्डलरेखामाभ्यन्तरी बाह्यां वा आरोहादवरोहाद्वा तदितरभ्रमणेन वृत्तमाभ्य तरं मेर्वासन्नं बाह्य मानसोत्तरासन्न वा संपादयत्तथैव नक्षत्रचक्रे च किंचित्प्राग्लम्बनेन चलन्मासेन सपादद्वि रात्मकमेकैकं राशि प्राक् चरन् त्र्यशीतिशतसावनदिनैस्तावद्वारं भ्रमन्महाक्षे च पराकाष्ठा सर्पद्भचक्रे च साधत्रयों शात्मकं राशिषट्कं सौरषण्मासैर्भुङ्क्ते ; एवं षट्षष्टित्रिशताहोरात्रैद्वर्ययनषडतुद्वादशमासराशिरूपकाल एकः औरोऽन्दः स्यात् । तत्र तु षट्षष्टित्रिशतवारं प्रत्यग्भ्रमणोदयास्तमयाः, महाक्षे चकवारमारोहावरोहौ रथस्य एकवारं व भचके वैलोम्येन प्राग्गत्या सप्तविंशतिनक्षत्रात्मकद्वादशराशिचक्रभोगरूपमर्कस्यैकं विलोमभ्रमणं बहुवारं प्रत्यग्भ्रम- . कुलालचक्रस्पस्य तद्विलोमं भ्रमत: कीटस्येव स्यात् । एवं चक्रवशान्नित्यं प्रत्यग्गतिः स्वातंत्र्यात्याग्गतिश्च सर्वेषां हाणाम् । भौमादेस्तु कदाचिदादूरत्वाद्वका च गतिः प्रत्यगपि स्यात्। चन्द्रादीनां चार्कासत्तौ तद्रश्यमिभूते स्तमयोऽर्कमण्डल प्रवेशाख्यः तद्विप्रकर्यादुदय इत्यादि श्रुतिपुराणाविरुद्धम् , ज्योतिश्शास्त्राज्ञेयम् । इदं तु सौरा दस्य षट्षष्टित्रिशताहोरात्रवत्वम् ; सांप्रतं हि कलौ सशत चतुष्के चतुस्सहस्रे अब्दानां सपादपंचषष्टित्रिशतदिनस्य गौराब्दस्य प्रत्यक्षादिप्रसिद्वेः ॥ २८ ॥

प्रेवेतेष्वथ भुक्तेषु ततो वैषुवतीं गतिम् । प्रयाति सविता कुर्वन्नहोरात्रं ततस्समम् ॥ २९ ॥

ततो रात्रिः क्षयं याति वर्धतेऽनुदिनं दिनम् ॥ ३०॥

तश्च मिथुनस्यान्ते परां काष्ठामुपागतः । राशि कर्कटकं प्राप्य कुरुते दक्षिणायनम् ॥ ३१ ॥

त्रिष्विति ॥ वैषुवतीम्-काष्ठयोर्मध्यगाम् ; ततः-तत्र विषुवाद्ये दिनेऽहो रात्रेश्च साम्यम्। तत्र हि मेष थाऊदयान्मेषादि घडाश्युदयकालस्त्रिंशन्नाड्यो दिनम् ; एवं तुलादिषडाश्युदयकालो रात्रिः। विषुवान्तरे पितृ वित्येऽपि वैपरीत्येन त्रिंशन्नाडीत्वं विषुवसंधेः परं यावद्राशित्रयं भानोदिन त्रिंशन्नाडीभ्यो वर्षते, कर्कटायावत्तुलं

घृद्धस्य ह्रासः, तुलादौ त्रिंशतो ह्रासः, नक्रादौ तद्बासस्य पूर्तिर्यावन्मेषमिति ॥ २९-३१ ॥

लालचक्रपर्यन्तो यथा शीघ्र प्रवर्त्तते । दक्षिणप्रक्रमे सूर्यस्तथा शीघ्र प्रवर्त्तते ॥ ३२॥

कुलालचक्रेति ॥ दक्षिणोपक्रमे-तत्काष्ठागमने ॥ ३२ ॥

तिवेगितया कालं वायुवेगगतिश्चरन् । तम्मात्प्रकृष्टां भूमि तु कालेनाल्पेन गच्छति ॥ ३३॥

अतिवेगितयेति ॥ प्रकृष्टां भूमि-महावृत्तरूपां चक्रामेदिनीम् ॥ ३३ ॥

सूर्यो द्वादशमिः शैघ्रयान्मुहूर्ते दक्षिणायने । त्रयोदशार्द्धमृक्षाणामह्ना तु चरति द्विज । मुहूर्तेस्तावदृक्षाणि नक्तमष्टादशैश्वरन् ॥ ३४ ॥

एतदेवोदाहरन्प्रपञ्चयति-सूर्यो द्वादशभिरित्यादिना ॥ ३४ ॥

कुलालचक्रमध्यस्थो यथा मन्दं प्रसर्पति । तथोदगयने सूर्यः सर्पते मन्दविक्रमः ॥ ३५ ॥

कुलालचक्रमध्यस्थ इति ॥ चकमध्यस्थ:–नाभिनेम्योरन्तरालस्थितः ।। ३५ ॥

तस्माद्दीपेण कालेन भूमिमल्पां तु गच्छति । अष्टादशमुहूर्त यदुत्तरायणपश्चिमम् ॥ ३६॥

अहर्भवति (तत्रापि तपते) तच्चापि चरते मन्दविक्रमः ॥ ३७॥

प्रयोदशार्धमहा तु ऋक्षाणां चरते रविः । मुहूर्तस्तावक्षाणि रात्रौ द्वादशमिश्चरन् ॥ ३८ ॥

तस्मादिति ॥ अल्पाम्–अभ्यन्तरवृत्ताधरूपां भूमिं गच्छति। उत्तरायणपश्चिम-प्रान्तदिनं दक्षिणा यनाचाहश्च समम् । दिनरात्रिव्यवहारस्यायित्तत्वात्तावन्मुहूर्तेस्तावन्ति नक्षत्राणि रविश्चरतीत्युपचारः। रवेर्दर्शना दर्शनकालाभ्यां तावत्संख्यनक्षत्रोदय इत्यर्थः । ह्रखराशिषट्कस्थभचक्रा|दयकालस्य दिनत्वात्तस्य द्वादशमुहूर्तत्वं तद्वयत्ययादष्टादशमुहूर्तत्वं रात्रैः। उदकाष्ठायां दिननिशोर्मानव्यत्ययः, मध्ये त्वसंपातावृद्धिहासौं । इमौ चाधिको घृद्धिहासौ पुराणप्रणेतृनिवासभूतकुस्नैमिशकाश्मीरादिदेशविषयौ, यद्देशे विषुवदिनमध्याह्ने द्वादशांगुलस्य शंकोः साष्टाङ्गुलिप्राया छाया स्यात् । सर्वदेशेष्वपि विषुवत उदकाष्ठास्थिते वर्केऽकस्य पुरस्थराशिषट्कोदयकाल बाहुल्यादिनदैर्घ्यम् । तत्पाश्चात्यराशिषट्कोदयकालाल्पतया राज्यल्पत्वं तद्वैपरीत्यं दक्षिणकाष्ठास्थे ॥ ३६-३८॥

अतो मन्दतरं नाभ्यां चक्र भ्रमति वै यथा । मृत्पिण्ड इव मध्यस्थो ध्रुवो भ्रमति वै तथा ॥ ३९॥

अत इति । कुलालचक्रमध्यस्थो मृत्पिण्ड इव ज्योतिश्चक्रमध्यस्थो ध्रुवः कुलालचक्रं यथा नाभौ मन्द भ्रमति तथा श्रमति ।। ३९ ॥

कुलालचक्रनाभिस्तुं यथा तत्रैव वर्तते । ध्रुवस्तथा हि मैत्रेय तत्रैव परिवर्तते ॥४०॥

अतो ध्रुवो भ्रमन्नपि न नाभिं त्यजतीत्याह-कुलालचक्रनामिस्त्विति ॥ ४० ॥

उभयोः काष्ठयोर्मध्ये भ्रमतो मण्डलानि तु । दिवा नक्तं च सूर्यस्य मन्दा शीघा च वै गतिः॥४१॥ मन्दाह्नि यस्मिनयने शीघ्रा नक्तं तदा गतिः। शीघ्रा निशि यदा चास्य तदा मंदा दिवा गतिः॥४२॥

नक्षत्रमुहूर्तवशादुक्तमेवाहोरात्रवैचित्र्य राशिवशात्प्रपञ्चयति-उभयोरित्यादिना ॥ ४१, ४२ ॥

एकप्रमाणमेवैष मार्ग याति दिवाकरः । अहोरात्रेण यो भुक्ते समस्ता राशयो द्विज ॥ ४३॥

पडेव राशीन् यो भुक्ते रात्रावन्यांश्च पइदिवा ॥४४॥

एतच्चाहोरात्रगतिवैषम्य द्वादशराशुदयकालेनैकरूपं भ्रमतोऽऽयर्कस्य राश्युदयकालवैषम्यकृतमित्याह एकप्रमाणमित्यादिना ॥ एकप्रमाणमिति ॥ समस्ता राशय इति द्वितीयार्थे प्रथमा ॥ ४३-४५ ॥

दिनादेर्दीर्घह्रस्वत्वं तद्भोगेनैव जायते । उत्तरे प्रक्रमे शीघ्रा निशि मन्दा गतिर्दिवा ॥४६॥

दक्षिणे त्वयने सैव विपरीता विवस्वतः ।। ४७॥

दिनादेरिति ॥ तद्भोगेन–घडाशिव्याप्तचक्रप्रदेशस्य परिवर्तनरूपेण भोगेन । तद्वैषम्यं च भचक्रसंस्थान वैषम्याद्रष्टदृष्टयाक्रान्तदेशभेदाच्च । तद्गणितैकगम्यम् । इदं स्विहोद्देशतः सुज्ञानं यद्दष्टुईष्टिरमितो विषुववृत्त पादान्तगं ग्रहं गोचरयति । तेन विषुवकृत्तादृष्टेनिरात्रिसाम्यं ततोऽधिकाल्पयोर्याम्यसौम्यवृत्तयोदश्यांशस्य विषुवत्पादतुल्यखपादापेक्षयाऽल्पत्वमहत्त्वाभ्यां दिनहासवृद्धी इति, अग्नीशविदिशोरुदयोपपत्तिश्च ॥ ४६, ४७ ॥

उषा रात्रिस्समाख्याता व्युष्टिश्चाप्युच्यते दिनम्। प्रोच्यते च तथा संध्या उपाव्युष्टयोर्यदन्तरम् ॥४८॥ अथ दिनरात्रिसन्धिप्रसक्तया * रात्रि; उषा अहर्युष्टिरिति श्रुत्युक्तनाम्ना दिनरात्रिव्यवहारसंपाद

नार्थ संध्यां प्रस्तौति-उषेति ॥ १८ ॥

संध्याकाले च संप्राप्ते रौद्रे परमंदारुणे। मन्देहा राक्षसा घोराः सूर्यमिच्छन्ति खादितुम् ॥ ४९ ॥ प्रजापतिकृतश्शापस्तेषां मैत्रेय रक्षसाम् । अक्षयत्वं शरीराणां मरणं च दिने दिने ॥५०॥

ततस्सूर्यस्य तैयुद्धं भवत्यत्यन्तदारुणम् । ततो द्विजोत्तमास्तोयं संक्षिपन्ति महामुने ॥५१॥

* रक्षासि ह वा पुरोऽनुवाक, इत्यादिस्वाध्यायब्राह्मणमनुगृह्णाति-संध्यकाले त्विति ॥ ४९-५१ ॥

ॐकारब्रह्मसंयुक्तं गायच्या चाभिमन्त्रितम् । तेन दह्यन्ति ते पापा वज्रीभूतेन वारिणा ।। ५२॥

ओंकारब्रह्मसंयुक्तमिति ॥ ब्रह्म-त्रयीसारं व्याहृतित्रयम् ॥ ५२ ।।

अग्निहोत्रे हूयते यो समन्त्रा प्रथमाहुतिः । सूर्योज्योतिस्सहस्रांशुः तथा दीप्यति भास्करः ॥५३॥

अग्निहोत्र इति ॥ * सूर्यो ज्योतिरिति प्रात)ममन्त्रप्रतीकोक्तिस्सन्ध्ययोयोस्तदुपास्त्यनन्तरमग्निहोत्रं . विधातुम् ॥ ५३॥

ओंकारो भगवान्विष्णुविधामा वचसां पतिः। तदुच्चारणतस्ते तु विनाशं यान्ति राक्षसाः ॥ ५४॥

ओंकार इति ॥ त्रिधामा-व्याहृतिदेवताग्निवायुसूर्यत्रयाश्रयः ॥ ५४ ॥

वैष्णवोंऽशः परस्सूर्यो योऽन्तज्योतिरसंप्लवम् । अभियायक ॐकारस्तस्य तत्प्रेरकं परम् ॥ ५५ ॥

वैष्णवोंऽश इति ॥ तस्य-वैष्णवांशस्य, ओंकारः प्रेरक:-कार्योन्मुखत्वाद्बोधकः यस्य तत्प्रेरकम् ।

यहा तत्-ओंकाराख्यं ब्रह्म तस्य-ज्योतिषः प्रेरकः ।। ५५॥

तेन संप्रेरितं ज्योतिरोंकारेणाथ दीप्तिमत् । दहत्यशेषरक्षांसि मन्देहाख्यान्यघानि वै॥५६॥

तेनेति ॥ अघानि-पापिष्ठानि ॥ ५६ ॥

तस्मान्नोल्लंघनं कार्य संध्योपासनकर्मणः । स हन्ति सूर्य सन्ध्याया नोपास्तिं कुरुते तु यः ।।५७ ॥ ततः प्रयाति भगवान्ब्राह्मणैरभिरक्षितः । वालखिल्यादिभिश्चैव जगतः पालनोद्यतः ॥ ५८ ॥

तस्मादिति ॥ सहन्ति सूर्यमित्यस्य तदकरणजपापक्षयार्था सन्ध्योपास्तिरवश्य कार्येत्येवार्थः ॥५७,५८॥

काष्ठा निमेषा दश पंश चैव त्रिंशच काष्ठा गणयेत्कलां ताम्। . त्रिंशत्कलाश्चैव भवेन्मुहर्तस्तैस्त्रिंशता राज्यहनी समेते ॥ ५९॥

सन्ध्याकालेयत्ताज्ञापनार्थमाह-काष्ठेति ।। ५९ ॥

हासवृद्धी त्वर्भागैर्दिवसानां यथाक्रमम् । सन्ध्या मुहूर्त्तमात्रा वै हासे वृद्धौ समा स्मृता ॥ ६० ॥ .

हासवृद्धी इति ॥ अहर्भाग:-मुहूर्तः सह, दिवसाना ह्रासवृद्धी। अहि त्रिंशन्नाडीभ्यो विवृद्ध तत्पश्च. दशोऽशो मुहूर्तो वर्धते, क्षीणे क्षीयते । एवं रात्रौ चेत्यर्थः । उक्तंच-* अह्न:पंचदशांशो रात्रेश्चैव मुहूर्त इति संज्ञेति। सन्ध्यामुहूर्तस्तु अझैदयान्त अस्तिमयादिश्च द्विनाडीमात्र एव । यथाऽऽह गर्गः-* द्विनाडिका भवेत्सन्ध्या यावज्ज्योति:प्रदर्शनम् । वराहमिहिरश्च * अर्धास्तमिताभ्युदितात्सूर्यादम्पृष्टभं नमो यावत् ताक्त्सन्ध्याकाल: .. इति ॥६०॥

रेखाप्रभृत्यथादित्य त्रिमुहूर्तगते खौ। प्रातस्स्मृतस्ततः कालो भागवाहस्स पश्चमः ॥ ६१ ॥

तस्मात्प्रातस्तनात्कालात् त्रिमुहूर्तस्तु सङ्गवः । मध्याह्नस्त्रिमुहूर्त्तस्तु तस्मात्कालात्तु सङ्गवात् ।। ६२ ॥

तस्मान्माध्याहिकात्कालादपराह्न इति स्मृतः । त्रय एव मुहूर्तास्तु कालभागस्स्मृतो घुधैः ॥ ६३॥

रेखाप्रभृतीति ॥ रेखाशब्देनोदयो लक्ष्यः ॥ ६१-६३ ॥

अपराले व्यतीते तु कालस्सायास एव च। दशपञ्चमुहूर्ताहे मुहूर्तात्रय एव च ॥ ६४ ॥

अपराह्न इति ॥ मुहूर्तास्त्रय एष च सायाह्न इति पूर्वेणान्वयः । इदं च दशपञ्चमुहूर्ताहे-पंचदश मुहूर्तोऽहि, प्रातरादिपंचांशकल्पनमिति शेषः । दशपञ्चमुहूर्ता वै इति च पाठः । दशपंचमुहूर्ताश्चेति पाठे विषुने पञ्चदश ध्रुवभूता मुहूर्ताः। अयनयोस्तु वृद्धिहासयोगिनो मुहूर्तात्रय एवेति संग्रहोक्तिः ॥ ६४ ॥

दशपंच मुहूर्त वै अहवैषुवतं स्मृतम् ॥ ६५ ॥

वर्धते हसते चैवाप्ययने दक्षिणोत्तरे । अहस्तु ग्रसते रात्रिं रात्रिसति वासरम् ॥६६॥

दशपंचमुहूर्तमिति ॥ विषुवहिनाहर्माननाडीत्रिंशञ्चतुर्विशत्यन्तहासो याम्येऽयने, सौम्ये तु षट्त्रिंशदन्तं वृद्धिरित्यर्थः ।। ६५, ६६ ॥

शरद्वसन्तयोर्मध्ये विषुवं तु विभाव्यते । तुलामेषगते भानौ समरात्रिदिनं तु तत् ॥ ६७॥

कर्कटेऽवस्थिते भानौ दक्षिणायनमुच्यते । उत्तरायणमप्युक्तं मकरस्थे दिवाकरे ॥ ६८॥

शरदिति ॥ शरन्मध्यं तुलारम्भः, वसन्तमध्य मेषारम्भः, स विषुवन्मध्यमार्गः ॥ ६७, ६८ ॥

त्रिंशन्मुहूर्त कथितमहोरात्रं तु यन्मया। तानि पंचदश ब्रह्मन् पक्ष इत्यभिधीयते ॥ ६९॥

मासः पक्षद्वयेनोक्तो द्वौ मासौं चार्कजावृतः । ऋतुत्रयं चाप्ययनं द्वेऽयने वर्षसंज्ञिते ॥ ७० ॥

अथ सूर्यगतिप्रसक्तया तत्साध्यपञ्चान्दमययुगज्ञापनायाह-त्रिंशदिति ॥ त्रिंशन्मुहूर्तेन सावनदिनेन सौरदिनं लक्ष्यम् । पक्षश्चात्र सौरोऽर्धमासः। सौरपञ्चाब्दत्वाधुगस्य ऋतुरेकषष्टिः सावनदिनम्, * एकषष्टिरहो. रात्रमूतुरेको विभाव्यते, इति वायूक्तेः ॥ ६९, ७० ॥

संवत्सरादयः पंच चतुर्मासविकल्पिताः । निश्चयः सर्वकालस्य युगमित्यभिधीयते ॥ ७१ ॥

संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः । इद्वत्सरस्तृतीयस्तु चतुर्थश्चानुवत्सरः । वत्सरः पंचमश्चात्र कालोऽयं युगसंज्ञितः ॥७२॥

संवत्सरादयः इति ॥ · चतुर्मासै:-चान्द्रसावनमौरनाक्षत्रमान: * दादर्शश्रान्द्रविंशदिवसस्तु सावनो मामः । सौरोशिमोगानाक्षत्रश्चन्दुमण्डलाद्गदितः । इत्युक्तेः । विकल्पिता:-विभकाः, विशेषिता- स्सन्तो युगं स्युरिति सर्वकालस्य प्रतिपर्यायमयं निश्चयः । अयमर्थः-माघशुक्लप्रतिपत्सूर्योदयकाले युगपत्प्रकान्तानां चतुर्विधानामपि मासानां पंचान्दान्ते यस्माधुगपत्समाप्तिरूपो योगस्तत्समाप्तिकालो युगम् । लक्षणया तु तदन्द पञ्चकं युगम् । यथा आयन्तयोरेव सर्वग्रहयोगेऽपि सर्व कृतादिकं युगम्, एतावत्स्वहोरात्रेषु गतेषु एतन्नक्षत्रराशि स्थेऽर्के, एतस्यां तिथौ एतन्नक्षत्रस्थे वा चन्द्रे अयं संवत्सर आरभ्यते इति पश्चान्दानां चतुर्मासापेक्षविभागत्वापुक्क चतुर्मासविकल्पितत्वम् । सौरान्दपंचकमये हि युगे सौरा मासाः षष्टिः, सावना एकषष्टिः, चान्दा द्विषष्टिः, नाक्षत्राः सप्तषष्टिः, सौरेण त्रिंशतवः, दशायनानि, भानुभोग्यनक्षत्राणि पश्चत्रिंशच्छतमित्यादि ज्ञेयम् | यथाह वायु: * शतान्यष्टादश. त्रिंशदुदयाद्भास्करस्य तु॥ ऋतवस्त्रिंशतस्सौरा अयनानि दशैव तु॥ पंचत्रिंशच्छत भानि षष्टि

सास्तु भास्करात् । सौरं सौमं च विज्ञेय नाक्षत्रं सावनं तथा ॥ मानान्येतानि चत्वारि यैः पुराणं भविष्यति । पुराण-पुनर्युगान्तरावृत्तिः-यथापूर्वमित्यर्थः । वृद्धगर्गश्च * यदा माघस्य शुक्लस्य प्रतिपञ्चोत्तरायणे । सहोदय श्रविष्ठामिस्सोमार्को प्रतिपद्यतः ॥ प्रथमः सोऽग्निदैवत्यो नाम्ना संवत्सरः स्मृतः । यदा माघस्य शुक्लस्य प्रयोदश्या मुदप्रविः ॥ युक्ते चन्द्रमसा रौद्रे वासवं प्रतिपद्यते । द्वितीयस्सोमदैवत्यः प्रोच्यते परिवत्सरः ॥ कृष्णे मावस्य दशमी वासवादौ दिवाकरे । तदा तृतीयं संप्राहुरिडावत्सरकं बुधाः ॥ सप्तमी माघशुक्लस्य वासरादौ दिवाकरे । चतुर्थमिन्द्रदैवत्यं तमाहुरनुवत्सरम् ॥ यद्युत्तरायणं कृष्णे चतुथ्यां तपसों भवेत् । इद्वत्सरस्स विज्ञेयः पचमो मृत्युदैवतः ॥ नियतं पंचमस्यान्ते तथैव स्यात्सहोदयः। सावनं चापि सौरं च चान्द्रं नाक्षत्रमेव च ॥ चत्वार्येतानि मा(ना)सानि यैर्युग प्रविभज्यते ॥ लगड़ाचार्यश्च-* माघशुक्लप्रवृत्तस्य तैषकृष्णसमीपिनः । युगस्य पंचवर्षस्य कालज्ञानं प्रचक्षते * ॥ ७१, ७२॥

यः श्वेतसोत्तरे शैलः शृङ्गवानिति विश्रुतः । त्रीणि तस्य तु शृंगाणि यैरयं शृंगवान्स्मृतः ।। ७३ ॥

अथ कालान्तरविषयं वीथीत्रयमर्कस्याह-यः श्वेतस्येति ॥ ७३ ॥

दक्षिण चोत्तरं चैव मध्यमं वैषुर्व तथा । शरद्वसंतयोर्मध्ये तद्भानुः प्रतिपद्यते । मेपादौ च तुलादौ च मैत्रेय विषुवं स्मृतम् ।। ७४ ॥

दक्षिणमिति ॥ तत्-मध्यशृङ्गम् ॥ ७४ ॥

तदा तुल्यमहोरात्रं करोति तिमिरापहः। दशपञ्चमुहूर्त वै तदेतदुभयं स्मृतम् ॥ ७५॥

तदेति ॥ उभय त्रिंशन्नाडीकं विषुत्रे अहो रात्रिश्च । यत्तु मानसोत्तरे दक्षिणवीथिक्षीरोदमध्ये विषुवे शाकद्वीपोत्तरान्ते चोदक्काष्ठेति, वायुप्रोक्ते प्रपश्चितमित्यत्र सूचितं, तत्त तपस्तपस्यावित्यादिना माधश्रावणयो रयनद्वयं वक्ष्यमाणं प्रथमे कृत्तिकाभाग इति वैशाखकार्तिकयोंविषुववयं च पञ्चसंवत्सरकल्पनानुगुणं यत्काले प्रत्यक्ष संवादि तत्कालविषय ज्ञेयम् । * पर्यागच्छत्पतङ्गोऽसौ माघे ज्येष्ठोत्तमेऽहनि। मध्येन पुष्करस्याय भमते दक्षिणायने॥ दक्षिणाद्विनिवृत्तोऽसौ विषुवस्थो यदा रविः ।। क्षीरोदस्य समुद्रस्य उत्तरां तु दिश चरेत् ॥ श्रावणे चोत्तरा कार्य चित्रमानुर्यदा व्रजेत् । शाकद्वीपस्य षष्ठस्य उत्तरां तां दिशं चरेत् ॥ इति वायूक्तिलिङ्गात् । यतु ज्योतिसिद्धान्त सिद्धम् उज्जयिन्यामुदक्काष्ठा लङ्कायां विषुवतीथिस्तदक्षिणे तावदक्षिणकाष्ठेति वीथित्रयम् । तत्तु मेषतुलाविषु वयनककर्कटायनद्वयसंवादिप्राक्कालविषयम् । यथा षट्त्रिंशच्छते कलिगताब्दे तयासीत । संप्रति तु चतुश्चत्वा रिंशष्यतेऽन्दे नक्रकर्कितुलामेषप्रदेशात्प्रागेव द्वादशे दिने अयनविषुवे प्रत्यक्षे दृश्येते। अतस्तद्गणितानुरोधाद् इतः पूर्वमपि अयनादिपरिवृत्तिः कदाचिद्भवेदित्यनुमीयते, येन त्रिशृंगवीथीसंवादः स्यात् । तस्मात् मार्गशीर्षे यदाऽ यनवर्षारम्भस्तत्कालवर्षविषयत्रिश्रृंगवीयीत्रयसश्चरोऽर्कस्येति कल्प्यम् । मार्गशीर्षस्य हि वर्षादित्वं केचिबयुः । * आदाय मार्गशीर्षादि द्वौद्वी भासावृतुर्मतः, इत्याह कात्यायनः । अमरसिंहश्च * मार्गादीनां युगैः क्रमात्, द्वौदी मार्गादिमासौ स्याहतुः, इति च हेमन्तादिशरदन्तमृतून्मार्गादिकार्तिकान्तं मासांश्चानुक्रम्याभ्यधत्त । अग्रे हायनमस्येति ह्याग्रहायणी मृगशिरः, तद्योगाया पूर्णिमा सा आग्रहायणी, स आग्राहायणिको मासः इति समाख्या निरुक्तितश्च-इति त्रिधा त्रिवीथीव्यवस्था। इदानीं तु वर्षस्य मार्गादित्वं व्रताद्यर्थम् । * द्वौ द्वौ माघादिमासौ स्याहतुरिति च पाठान्तरम् । अतो माधादित्वं पञ्चाब्दयुगतत्फलादिज्ञानार्थम् ।. * मुखं वा एतत्संवत्सरस्य यत्फल्गुनीपूर्णमासः * इति श्रुतं तु फल्गुन्यादित्वं यागाधर्थम् । तथा * मुख वा एतत्संवत्सरस्य यच्चित्रापूर्णमासः, * मधुश्च माधयश्चेत्यादिश्रुत्युपलक्षितत्वं वर्षस्य चैत्रशुक्लप्रतिपदादिबहुश्रुतिस्मृतिज्योतिश्शास्त्रपुराणलोकाचारादिसिद्ध सर्वव्यहारार्थमिति शास्त्रन्यायगणितप्रत्यक्षादिनिश्चितो विवेकः । यदुक्तं लैङ्गवायव्ययों: * आगमादनुमानाच प्रत्यक्षादुपपत्तितः । परीक्ष्य निपुण बुध्या श्रद्धातव्यं विपश्चिता ॥ चक्षुषा लक्षितं लेख्यं गणितं बुद्धिसत्तमाः ।। पंचैव हेतवों विप्रा ज्योतिर्गणविचिन्तने ॥ ७५ ॥

प्रथमे कृत्तिकाभागे यदा भावांस्तदा शशी। विशाखानां चतुर्थेऽशे मुने तिष्ठत्यसंशयम् ।। ७६ ।।

प्रथम इति ॥ * मुखं वा एतन्नक्षत्राणां यत्कृत्तिकाः * कृत्तिकाः प्रथमं विशाखे उत्तममित्यादि प्राकालविषयश्रुतिमूला विषुवद्वयोक्तिः । कृक्तिकायेंऽशे मेषान्ते, विशाखानां चतुर्थेऽशे वृश्चिकाधेडशे ।। ७६॥

विशाखानां यदा सूर्यश्वरत्यंशं तृतीयकम् । तदा चन्द्रं विजानीयात्कृत्तिकाशिरसि स्थितम् ॥ ७७॥

विशाखानामिति ॥ कृत्तिकाशिरसि-मेषान्ते, विशाखातृतीयांश-तुलान्तम् ॥ ७७ ॥

तदैव विषुवाख्योऽयं कालः पुण्योऽभिधीयते । तदा दानादि देयानि देवेभ्यः प्रयतात्मभिः ।।७८॥

तदैवेति ॥ अयं चन्द्रार्कयोरुभयोरपि विषुवावस्थितिरूपो महाविषुवाख्यः पुण्यों दानकाल: प्राचीन• विषुवसंवादी नेदानीन्तनसंवादी। अत: कालान्तरेऽपि तस्कालीनचन्द्रार्कोभय विषुवबिशेषसंस्थानस्योपलक्षणमिदम् । यथा इतः प्राङ्मीनान्तकन्यान्तयोश्चन्द्रार्क स्थिति नकाल इत्यर्थः । इमं विजानीयात्-असंशयं गणितेनेम काले बुद्ध्वा तत्र दानं दद्यात् ॥ ७८॥

बामणेभ्यः पितृभ्यश्च मुखमेतत्तु दानजम् । दत्तदानस्तु विषुवे कृतकृत्योऽमिजायते ॥ ७९ ॥

ब्राह्मणेभ्य इति । एतद्धि दानार्थ जात विवृतं मुख देवानाम् । अत्र काले दत्तं देवानां मुखे

दत्तमिव साक्षात्प्रीणनमित्यर्थः * मुखमेतत्तु दैवतमिति वायूक्तेः । विषुवे-तत्कालीनमध्यवीथीप्रवेशे ॥ ७९॥

अहोरात्रार्द्धमासौ तु कलाः काष्ठाः क्षणास्तथा । पौर्णमासी तथा ज्ञेया अमावास्या तथैव च । सिनीवाली कुहूश्चैव राका चानुमतिस्तथा ॥ ८०॥

दानप्रसङ्गायागादिपुण्यकालाहोरात्रादि ज्ञेयमित्याह-अहोरात्रेति ।। ८०॥

……सपस्तपस्यो मधुमाधवौ च शुक्रः शुचिचायनमुत्तरं स्यात् ।। नभोनभस्यों च इषस्तथोर्जस्सहस्सहस्साविति दक्षिण तत् ।। ८१ ॥

तप इति ॥ * तप इत्युक्ता पूर्व माघाद्या ह्ययनक्लप्तिः, प्राचीना। आश्लेषादिक्षिणमुत्तरमयनं रखे निष्ठाद्यम् । आसीत्कदापि नूनं योनोक्तं चैव पूर्वशास्त्रेषु । सांप्रतमयनं सवितुः कर्कटकाचं मृगादितश्चाधम् ॥ – इति वराहमिहिरोक्तिलिंगात् ॥ ८१ ॥

लोकालोकश्च यशैलः प्रागुक्तो भवतो मया । लोकापालास्तु चत्वारस्तत्र तिष्ठन्ति सुव्रताः ।। ८२ ॥

सुधामा शङ्खपाचैव कर्दमस्यात्मजौ द्विज। हिरण्यरोमा चैवान्यश्चतुर्थः केतुमानपि ॥ ८३॥

निर्द्वन्द्वा निरभीमाना निस्तन्द्रा निष्परिग्रहाः । लोकपालाः स्थिता ह्येते लोकालोके चतुर्दिशम् ॥८४॥

लोकालोक इति ॥ पितृयानदक्षिणावधिभूतागस्त्यभ्रमणवृत्तलक्षकस्य लोकालोकस्योपरि प्रसंगाल्लोक पालस्थानोक्तिः । मात्स्ये हि * लोकपालाः स्थिता ह्येते लोकालोके चतुर्दिशम् ॥ उत्तरं यदगस्त्यस्य शृतं देव र्षिपूजितम् ॥ ८२-८४ ॥

उसरं यदगस्त्यस्य अजवीथ्याश्च दक्षिणम् । पिल्यानः स वै पन्था वैश्वानरपथादहिः ॥ ८५ ॥

उत्तरमिति ॥ अजवीथी अश्विन्यादित्रित्रिनक्षत्रलक्षितनववीथीषु याम्यवीयीत्रये प्रथमा मूलादित्रिनक्षत्रा श्रिता * नागगजैरावतवृषभगोजरद्वाजमृगपावकाल्याः । अश्विन्यायैः कैश्चिरित्रभक्रमाद्वीथय: कथिताः ॥ इति ज्योतिश्शास्त्रोक्तेः । * मूलाषादोत्तराषाढा अजवीथ्यभिशब्दिता । श्रवणं च श्रविष्ठा च मार्गी शतमिषक् तथा। वैश्वानरी भाद्रपदा रेवती चेति कीर्तिता ॥ इति वायुमात्स्योक्तेश्च । एतेनागस्त्याजवीथ्योर्मध्यदेशः सर्वोऽपि पितृ पानमेव। किंतु तत्रस्थाऽपि तद्दक्षिणा वैश्वानरवीथी पितृयानतया न ग्राह्या ।। ८५ ॥

तत्रासते महात्मान ऋषयो येऽग्निहोत्रिणः । भूतारम्भकृतं ब्रह्म शंसन्तो ऋत्विगुद्यताः। प्रारभन्ते लोककामास्तेषां पन्थास्स दक्षिणः ॥ ८६ ॥

चलितं ते पुनर्ब्रह्म स्थापयन्ति युगेयुगे। सन्तत्या तपसा चैव मर्यादाभिः श्रुतेन च ।। ८७ ॥

तत्रेति ॥ तत्र-पितृयाने भूतारम्भः कृतं-कृतिः कार्य यस्य तद्ब्रह्म-कर्मकाण्डं स्तुवन्तः ऋत्विाद्वारा ज्ञोद्युक्ताः कर्म प्रारभन्ते ।। ८६, ८७ ।।

जायमानास्तु पूर्वे ते पश्चिमानां गृहेषु वै । पश्चिमाचैव पूर्वेषां जायन्ते निधनेविह ॥ ८८ ॥

जायमाना। इति ॥ पूर्वे-पितरः, पश्चिमानां-वपुत्राणां, पश्चिमा:-पुत्राश्च, पूर्वेषां-खपुत्रीभूय. : स्थतानां, निधनेषु-कुलेषु, अधिकारिकर्मवंशाच्छत्यादिसंप्रदायाय भूयो जायन्ते । निलयेष्विति च पाठः। यथाहः मायुः * प्राप्ते त्रेतायुगे चैव पुनस्सप्तर्षयस्त्विह । प्रवर्तयन्ति तान्वर्णानाश्रमांश्च पृथक्पृषक ॥ तेषामेवान्वये शीरा उत्पधन्ते पुन:पुनः ॥ जायमानः पिता-पुत्रे पुत्रः पितरि चैव ६ । एषमावर्तमानास्ते द्वापरेषु पुनः पुनः॥ कल्पानां भाष्यविद्यानां ज्ञानशास्त्रकृतश्च ये ॥ ८८॥

एवमावर्त्तमानास्ते तिष्ठन्ति नियतव्रताः। सवितुदक्षिणं मार्ग श्रिता ह्याचन्द्रतारकम् ॥ ८९॥

नागवीभ्युत्तरं यच्च सप्तर्षिभ्यश्च दक्षिणम् । उत्तरः सवितुः पंथा देवयानश्च स स्मृतः ॥९०॥ .

तत्र ते वशिनस्सिद्धा विमला ब्रह्मचारिणः । सन्ततिं ते जुगुप्सन्ति तस्मान्मृत्युर्जितश्च तैः ॥ ९१ ॥

अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम् । उदक्पन्थानमर्यम्णः स्थितान्याभूतसंप्लवम् ।। ९२ ॥

एवमिति ॥ दक्षिणो मार्गो धूमादिश्छान्दोग्योक्तो यथा * अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ने धूमममिसंभवन्ति धूमाद्रांत्रिं रात्रेरपरपक्षमपरक्षाद्यान षड्दक्षिणेति मासांस्तानेते संवत्सरमभिप्राप्नुवन्ति मासेम्य।  पितृलोकं पितृलोकादाकाशमाकाशाचन्द्रमसमेष वै सोमो राजा स देवानामन्नं तं देवा भक्षयन्ति तस्मिन्यावसंपात मुषित्वाऽयैतमेवाध्वानं पुनरावर्तन्ते * इति। अत्र चोक्तः श्लोक: * धूमं रात्रिं बहुलमयने दक्षिणेऽर्कस्य मासाना पद्यन्ते पितृपदमथ व्योम चन्द्रं दिवं च ॥ प्रत्यावृत्या गगनपवनौ धूममदं च मेधं वृष्टयुद्भिनान्पुरुषवनिते दक्षिणो मार्ग एषः ।। ८९-९२ ॥

ते संप्रयोगालोमस्य मैथुनस्य च वर्जनात् । इच्छाद्वेषाप्रवृत्त्या च भूतारम्भविवर्जनात् ॥ ९३ ॥

पुनश्च कामासंयोगाच्छब्दादेर्दोषदर्शनात् । इत्येभिः कारणैः शुद्धास्तेऽमृतत्वं हि भेजिरे ॥ ९४ ॥

त इति ॥ भूतारम्भविवर्जनात्-निवर्तकश्रुत्याश्रयणात् ॥ ९३, ९४ ॥

आभूतसंप्लवं स्थानममृतत्वं विभाव्यते। त्रैलोक्यस्थितिकालोऽयमपुनार उच्यते ॥ ९५ ।।

आभूतसंप्लवम्-ब्रह्मदिनान्तं यावस्थितेरमृतत्वाख्यानम् । तदुदङ्मार्गस्थानां मुक्तिरित्याह-आभूत संप्लवं स्थानममृतत्वमिति ॥ त्रैलोक्यस्थितिकाल एव इहामृतापुनर्मारपर्यायः ॥ ९५ ॥

ब्रह्महत्याश्वमेधाभ्यां पापपुण्यकृतो विधिः। आभूतसंप्लवान्तं तु फलमुक्तं तयोजि ॥ ९६ ॥

यान्वन्मात्रे प्रदेशे तु मैत्रेयावस्थितो ध्रुवः । क्षयमायाति तावत्तु भूमेराभूतसंप्लवात् ॥ ९७ ॥

ब्रह्महत्याश्वमेधाभ्यामिति ॥ ब्रह्महत्याश्वमेधाभ्यां क्रियाभ्यां पापपुण्यापूर्वे भावयतः पुंसोऽयं फलभोगो विधिः । एवमाकल्पं ब्रह्महा नरकमश्वमेधी खग मुंक्त इत्यर्थः ॥ ९६, ९७ ॥

ऊर्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः। एतद्विष्णुपदं दिव्यं तृतीय व्योम्नि भासुरम् ।। ९८ ॥

निर्धतदोषपङ्कानां यतीनां संयतात्मनाम्। स्थान तत्परमं विप्र पुण्यपापपरिक्षये ॥ ९९ ॥

अपुण्यपुण्योपरमे क्षीणाशेषाप्तिहेतवः । यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् ॥ १०० ॥

अथ विष्णुपदं विष्णुपदीं च प्रसञ्जयति-ऊोत्तरमिति ॥ ऋषिभ्य उत्तरस्यां दिश्यूर्व च ध्रुवाधारो विष्णुपदाख्य स्थान भूम्यपेक्षया तृतीयम् । तच्च वैराजस्य हृदयनाडीस्थानीयत्वाद्विष्णोंर्निवासः। अतोऽत्र विष्णुपदे खर्गाधिकसौख्यात्सत्यलोकादर्वाचीनत्वाच्च मोक्षोक्तिः क्रममुक्तयर्था । तत्स्थाः क्रमाद्ब्रह्मलोकमेल्य ब्रह्मणा सह मुच्यन्ते । विष्णुपदे स्थितास्तत्र लब्धज्ञाना मुच्यन्ते ; न तु तन्मुक्तैर्लभ्यं स्थानमित्यर्थः ॥ ९८-१०० ॥

धर्मध्रुवावास्तिष्ठन्ति यत्र वै लोकसाक्षिणः। तत्साष्टोत्पन्नयो(गेद्धा)गर्धिस्तद्विष्णोः परमं पदम् ॥१०॥

यत्रोतमेतत्प्रोतं च यद्भतं सचराचरम् । भाव्यं च विश्वं मैत्रेय तद्विष्णोः परमं पदम् ॥ १०२ ॥

धर्मध्वाचा इति । तस्य-विष्णोः, साष्टय-समानैश्वर्यता । इन्द्रियादिवशीकरणैश्वर्याद्धि योगर्षि:- ऐश्वर्या द्विहितो योगो योगादैश्चर्यमिष्यते । योगैश्वर्यमृते मोक्षः कयंचिनोपपद्यते ॥ इति हरिवंशोक्तेः ॥१०१, १०२ ॥

दिपीव चक्षुराततं विततं यन्महात्मनाम् । विवेकज्ञानदृष्टं च तद्विष्णोः परमं पदम् ॥ १०३ ॥

स्मिन्प्रतिष्ठितो भाखान्मेधीभूतः स्वयं ध्रुवः । ध्रुवे च सर्वज्योतीपि ज्योतिष्यम्भोमुचो द्विज ।।१०।।

धेिषु सन्तता वृष्टिव॑ष्टेः सृष्टेश्च पोषणम् । आप्यायनं च सर्वेषां देवादीनां महामुने ॥ १०५॥ तिचाज्याहुतिद्वारा पोषितास्ते हविर्भुजः । (स) वृष्टेः कारणतां यान्ति भूतानां स्थितये पुनः ॥१०॥ एवमेतत्पदं विष्णोस्तृतीयममलात्मकम् । आधारभूतं लोकानां त्रयाणां वृष्टिकारणम् ॥ १०७ ॥

दिवीवेति ॥ चक्षुः–सूर्यः ; अयं च * तद्विष्णोरिति मंत्रद्वयानुग्रहः ॥ १०३-१०७ ॥

तः प्रभवति ब्रह्मन्सर्वपापहरा सरित् । गंगा देवांगनांगानामनुलेपनपिञ्जरा ॥ १०८ ॥

तद्विष्णोः पदं सर्वस्य हेतुराश्रयश्चैत्युक्तम् । पावनं चेत्याह-ततः प्रभवतीत्यादिना ॥ तत इति ॥ गो:-विष्णुपदमार्गात । गङ्गा हि * त्रिविक्रमपदोद्भिन्नब्रह्माण्डसुषिरोद्भवा । तथा च वामनपुराणे * ततः प्रताप ब्रह्मन् बृहद्विष्ण्वंघिरम्बरे । ब्रह्माण्डोदरमाह य निरालोकं जगाम सः ।। विष्णवधिणा प्रसरता कटा हे हेम्नि मेदिते । बराद्विष्णुमायाऽथ बाह्यमम्भः कटाहतः ॥ विष्ण्वंघ्रिपद्मोरुदण्डाद्गां गता वै नदी तदा ॥ बाहतोयमहाधारा पापविनाशिनी ॥ इत्यादि । श्रीविष्णुधर्मोत्तरे च * ब्रह्माण्डस्ताडितस्तेन छिद्रतामगमत्प्रभो। ब्रह्माण्ड बाह्य न दशपापहृताऽऽवृतम् ॥ तेन छिद्रेण तत्तीय विवेशाण्डं महीपते ।। इति । पुराणान्तरे तु ब्रह्मणः कमण्डलु हेन हरिचरणे क्षालिते गङ्गोद्भूतेति । अन्यत्र तु धर्म एव ब्रह्माज्ञया द्रवीभूत इति । अतस्वैविक्रमे पादे [कमण्डलुजलेन क्षाल्यमाणे तदपर्याप्त्या तत्पूर्वथं धर्मे द्रवीभूते तत्राप्यपूर्णे ब्रह्माण्डकटाहमेदे बाह्योदकधारा छद्रेण विष्णुपादस्पर्शिनी गां गता गङ्गाऽऽसीदित्यविरोधः ॥ १०८ ॥

मिपादाम्बुजांगुष्ठनखस्रोतोविनिर्गताम् । विष्णोर्षिभर्ति यां भक्त्या शिरसाऽहर्निशं ध्रुवः ॥ १०९ ॥

अथ ध्रुवादिपातालान्तमवतीर्णगंगाप्रशंसा-वामपादेति ॥ १०९ ॥

तस्सप्तर्षयो यथाः प्राणायामपरायणाः । तिष्ठन्ति वीचिमालाभिरुह्यमानजटाजले ॥ ११० ॥

गर्योधैः संततैर्यस्याः प्लावितं शशिमण्डलम् । भूयोऽधिकतरां कान्ति वहत्येतदहाक्षये ॥ १११ ॥

तत इति ॥ * विष्णोः पदे परमे मध्व उत्सः, इति मन्त्रोऽनुगृह्यते । ऊह्यमानजटाजल इति सप्तर्षी मघमर्षणम्नानसुखाधिक्योक्तिः ॥ ११०, १११ ॥

रुपृष्ठे पतत्युच्चैर्निष्क्रान्ता शशिमण्डलात् । जगतः पावनार्थाय प्रयाति च चतुर्दिशम् ॥ ११२ ॥

ता चालकनन्दा च चक्षुर्भद्रा च संस्थिता । एकत्र या चतुर्भदा दिग्भेदगतिलक्षणा ॥ ११३ ।।

…दं चालकनन्दाख्यं यस्याः शर्वोऽपि दक्षिणम् । दधार शिरसा प्रीत्या वर्षाणामधिक शतम् ॥११४।।

मेरुपृष्ठ इति ॥ शशिमण्डलानिष्क्रान्ता सूर्यमार्गान्मेरु गतेत्यर्थः । * विष्णुपादाञ्छिशुमाराद्धृवाश्च

सूर्यान्मेरुकूटाच्च विष्णोः । समागता शिवमूर्भो हिमाद्रिम् * इत्यादि व्यासोक्तः ॥ ११२-११४ ॥

शम्भोर्जटाकलापाच विनिष्क्रान्ताऽस्थिशर्कराः ! प्लावयित्वा दिव निन्ये या पापान्सगरात्मजान् ॥

स्नातस्य सलिले यस्याः सद्यः पापं प्रणश्यति । अपूर्वपुण्यप्राप्तिश्च सद्यो मैत्रेय जायते ॥११६ ॥

दत्ताः पितृभ्यो यत्रापस्तनयः श्रद्धयाऽन्वितैः । समाशतं प्रयच्छति तृप्ति मैत्रेय दुर्लभाम् ॥ ११७ ॥ यस्यामिष्टा महायज्ञैर्यज्ञेशं पुरुषोत्तमम् । द्विजभूपाः परां सिद्धिमवापुर्दिवि चेह च ॥ ११८ ॥ सानाद्विधूतपापाश्च यजलैयतयस्तथा । केशवासक्तमनसः प्राप्ता निर्वाणमुत्तमम् ।। ११९ ॥

शंभोरिति ॥ शर्करा: नद्यन्तस्सूक्ष्मशिलाः; ता इव सागरास्थीनि प्लावयित्वा ॥ ११५—११९ ।।

श्रुताऽभिलषिता दृष्टा स्पृष्टा पीताऽवगाहिता। या पावयति भूतानि कीर्तिता च दिनेदिने ॥१२०॥

श्रुतेति ॥ श्रुताऽभिलषितेत्यादौ आसात्ति)क्ति भूयस्त्वात्फलभूयस्त्वं यथोत्तरं दशगुणम् । यथा ब्रह्माण्ड पुराणे * श्रुता गङ्गेति भक्त्या सकृदूरे स्थितैरपि । तत्रैव तारयेन्मान्करुणार्दा भवार्णवात् ॥ कदा द्रक्ष्यामि “तां गंगां कदा मानमहं लभे ॥ इति पुंसाऽभि ठषिता कुलानि दश तारयेत् ।। यथाकथंचिये दृष्टा भक्तिः तश्चिन्मयी सकृत् । गंगा तारयते तेषां कुलानां शतमहसः। यैस्तु स्पृष्टा विशिष्टाङ्गा गङ्गा भक्त्या सकृन्नरैः । कुलानां तु सहस्रं वै तेषां तारयते भवात् । पीता धर्मदवी मत्यैः यैर्गङ्गा भक्तितस्सकृत् । तेषां कुलानामयुतं भवात्तारयते ध्रुवम् ॥ यैः पुण्यवाहिनी गंगा सकृद्भत्तयाऽवगाहिता ॥ तेषां कुलानां लक्षं तु भवात्तारयते ध्रुवम् ॥ यैदिन सेविता भक्या गंगा पुण्यजला नरैः ॥ कुलानां दशलक्षं तु तेषां तारयते भवात् ॥ १२०॥

गंगागंगेति यन्नाम योजनानां शतेष्वपि । स्थितरुचारित हन्ति पापं जन्मत्रयार्जितम् ॥१२१ ।।

गंगागंगेति ॥ द्विरुक्तिः प्रतिसंध्यं च त्रिगावृत्तेर्विद्वयर्था । ब्रह्माण्डे * गंगागंगेति गंगेति यत्रिसन्ध्य त्रिरीरितम् । सुदूरस्थैश्च तत्पापं हन्ति जन्मत्रयार्जितम ॥ तथा * सहस्रयोजनस्थोऽपि त्रिसन्ध्यं त्रिस्समाहितः ॥ गंगा गंगेति यो ब्रूयात्स गच्छेत्परमां गतिम् ॥ नामोपलक्षणं स्मरणस्यापि, * योजनानां सहस्रेषु गंगा यः स्मरते नरः । अपि दुष्कृतकर्माऽसौ लभते परमां गतिम् ॥ इति मात्स्योक्तेः ॥ १२१ ॥

यतस्सा पावनायालं त्रयाणां जगतामपि । समुद्भूता परं तत्तु तृतीयं भगवत्पदम् ॥ १२२ ॥

यत इति ॥ यत इति प्रकृतविष्णुपदमाहात्म्योपसंहारः। त्रयाणामिति पातालव्याप्तिश्चोक्ता सागरो द्धारार्था । तुशब्दोऽल्पमाहात्म्यनद्यन्तरोत्पत्तिस्थानात्सरःशैलद्रुमादे।लक्षण्यं विष्णुपदस्य वदन् गंगामुत्कर्षयति ; गंगाया नद्यन्तरसाम्यदर्शिनों दोषस्मृते:-* गंगायां वैष्णववीशक्तौ नद्यन्तरविभावनाम् । प्रकुर्वन्ति च ये मां न तैस्तु सह संवसेत् ॥ नदीति नासमन्तव्येति हि भविष्यद्वाक्यम् ॥ १२२ ॥

इति श्रीविष्णुपुराणे द्वितीयेंऽशे अष्टमोऽध्यायः ॥ ८॥

इति श्रीविष्णुपुराणव्याख्याने विष्णुचित्तीये द्वितीयेऽशे अष्टमोऽध्यायः ॥ ८॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.