श्रीविष्णुपुराणम् Amsa 03 Ady 02

श्रीविष्णुपुराणम्

अथ द्वितीयोऽध्यायः

मैत्रेयः-

प्रोक्तान्येतानि भवता सप्त मन्वन्तराणि वै । भविष्याण्यपि विप्रर्षे ममाख्यातुं त्वमर्हसि ॥१॥

      श्रीपराशरैः-

सूर्यस्य पत्नी संज्ञाऽभूत्तनया विश्वकर्मणः । मनुर्यमो यमी चैव तदपत्यानि वै मुने ॥२॥

              सूर्यस्येति ॥ अष्टममनोः प्रसङ्गाद् यमादीनां जन्मेतिहासः ॥ १,२ ॥

असहन्ती तु सा भर्तुस्तेजश्छायां युयोज वै । भर्तुःशुश्रूषणेsरण्यं स्वयं च तपसे ययौ ॥३॥

संज्ञेयमित्यथार्कश्च छायायामात्मजत्रयम् । शनैश्चरं मनुं चान्यं तपतीं चाप्यजीजनत् ॥४॥

          असहन्तीति ॥ छायां–प्रतिकृतिं,  तद्वदत्यन्तात्मसदृशीं  काञ्चिस्त्रियं  कृत्वा, शुश्रूषणे युयोजन्ययुङ्क्त ॥ ३, ४ ॥

छायासंज्ञा ददौ शापं यमाय कुपिता यदा । तदाऽन्येयमसौ बुद्धिरित्यासीद्यमसूर्ययोः ॥ ५ ॥

ततो विवस्वानाख्यातां तयैवारण्यसंस्थिताम् । समाधिदृष्ट्या ददृशे तामश्वां तपसि स्थिताम् ॥ ६ ॥

              छायेति ॥ छायारूपा  संज्ञा  स्वपुत्रपक्षपातिनी  कुपिताय  आत्मानं  यदा  जिघांसते यमाय  तव  पादः पतत्विति  यदा  शापं  ददौ  तदा जनन्याः शापो  न संभवतीति  अन्येयमित्यसौ बुद्धिरासीत् ॥ ५, ६ ॥

वाजिरूपधरस्सोऽथ तस्यां देवावथाश्विनौ । जनयामास रेवन्तं रेतसोऽन्ते च भास्करः ॥ ७ ॥

आनिन्ये च पुनः संज्ञां स्वस्थानं भगवान्रविः । तेजसश्शमनं चास्य विश्वकर्मा चकार ह ॥८॥

            वाजिरूपधर इति ॥ रेतसोऽन्त इति रेवन्तत्वनिरुक्तिः ॥ ७,८॥

भ्रममारोप्य सूर्यं तु तस्य तेजोवशातनम् । कृतवानष्टमं भागं स व्यशातयदव्ययम् ॥ ९ ॥

यत्तस्माद्वैष्णवं तेजश्शातितं विश्वकर्मणा । जाज्वल्यमानमपतत्तद्भूमौ मुनिसत्तम ॥ १० ॥

            भ्रममिति ॥ भ्रमः-खड्गादीनां नैशित्यकरणं कषणशाणचक्रम् ॥ ९,१०॥

त्वष्टैव तेजसा तेन विष्णोश्चक्रमकल्पयत् । त्रिशूलं चैव शर्वस्य शिबिकां धनदस्य च ॥ ११ ॥

            त्वष्टैवेति ॥ शिबिकां–पुष्पकाख्याम् * विमानयोधी  धनदो  व्यनदत्पुष्पके स्थितः, इति हरिवंशोक्तेः । आयुधविशेषो वा ॥ ११ ॥

शक्तिं गुहस्य देवानामन्येषां च यदायुधम् । तत्सर्वं तेजसा तेन विश्वकर्मा व्यवर्धयत् ॥१२॥

छायासंज्ञासुतो योऽसौ द्वितीयः कथितो मनुः । पूर्वजस्य सवर्णोऽसौ सावर्णिस्तेन कथ्यते ॥१३॥

तस्य मन्वन्तरं ह्येतत्सावर्णिकमथाष्टमम् । तच्छृणुष्व महाभाग भविष्यत्कथयामि ते ॥ १४ ॥

            शक्तिमिति ॥ व्यवर्धयत्-व्यरचयत् । व्यकल्पयदिति च पाठः ॥ १२-१४ ॥

सावर्णिस्तु मनुर्योऽसौ मैत्रेय भविता ततः । सुतपाश्चामिताभाश्च मुख्याश्चापि तथा सुराः ॥१५॥

तेषां गणाश्च देवानामेकैको विंशकः स्मृतः । सप्तर्षीनपि वक्ष्यामि भविष्यान्मुनिसत्तम ॥१६॥

             सावर्णिरिति ॥ ततः-तस्मिन्मनौ ॥ १५, १६ ॥

दीप्तिमान् गालवो रामः कृपो द्रौणिस्तथा परः। मत्पुत्रश्च तथा व्यास ऋष्यशृङ्गश्च सप्तमः ॥१७॥

विष्णुप्रसादादनधः पातालान्तरगोचरः। विरोचनसुतस्तेषां बलिरिन्द्रो भविष्यति ॥१८॥

विराजश्चोर्वरीवांश्च निमोकाद्यास्तथाऽपरे । सावर्णेस्तु मनोः पुत्रा भविष्यन्ति नरेश्वराः ॥१९॥

                 नवमो दक्षसावर्णिर्भविष्यति मुने मनुः ॥ २० ॥

पारा मरीचिगर्भाश्च सुधर्माणश्च ते त्रिधा । भविष्यन्ति तथा देवा ह्येकैको द्वादशो गणः॥२१॥

                 तेषामिन्द्रो महावीर्यो भविष्यत्यद्भुतो द्विज ॥ २२ ॥

सवनो द्युतिमान् भव्यो वसुर्मेधातिथिस्तथा । ज्योतिष्मान् सप्तमः सत्यस्तत्रैते च महर्षयः ॥२३॥

धृतकेतुर्दीप्तिकेतुः पञ्चहस्तनिरामयौ । पृथुश्रवाद्याश्च तथा दक्षसावर्णिकात्मजाः ॥ २४ ॥

दशमो ब्रह्मसावर्णिर्भविष्यति मुने मनुः । सुधामानो विशुद्धाश्च शतसंख्यास्तथा सुराः ॥ २५ ॥

तेषामिन्द्रश्च भविता शान्तिर्नाम महाबलः । सप्तर्षयो भविष्यन्ति ये तदा ताञ्छृणुष्व ह ॥ २६ ॥

हविष्मान्सुकृतस्सत्यस्तपोमूर्तिस्तथाऽपरः । नाभागोऽप्रतिमौजाश्च सत्यकेतुस्तथैव च ॥ २७ ॥

          दीप्तिमानिति ॥ व्यासादीनां ब्रह्मापरोक्ष्ये सत्यपि आधिकारिककर्मक्षयावधि स्थातव्यत्वात्, पुनस्सप्तर्षित्वेऽप्यविरोधः, * यावदधिकारमवस्थितिराधिकारिकाणामिति न्यायात् ॥ १७-२७ ॥

सुक्षेत्रश्चोत्तमौजाश्च भूरिपेणादयो दश । ब्रह्मसावर्णिपुत्रास्तु रक्षिष्यन्ति वसुन्धराम् ॥ २८ ॥

               एकादशश्च भविता धर्मसावर्णिको मनुः ॥ २९ ॥

विहङ्गमाः कामगमा निर्वाणा रुचयस्तथा । गणास्त्वेते तदा मुख्या देवानां च भविष्यताम् ।

               एकैकस्त्रिंशकस्तेषां गणश्चेन्द्रश्च वै पृषा ॥ ३० ॥

निस्वरश्चाग्नितेजाश्च वपुष्मान्घृणिरारुणिः । हविष्माननघश्चैव भाव्याः सप्तर्षयस्तथा ॥३१॥

सर्वत्रगस्सुधर्मा च देवानीकादयस्तथा । भविष्यन्ति मनोस्तस्य तनयाः पृथिवीश्वराः ॥३२॥

रुद्रपुत्रस्तु सावर्णिर्भविता द्वादशो मनुः । ऋतुधामा च तत्रेन्द्रो भविता शृणु मे सुरान् ॥३३॥

हरिता रोहिता देवास्तथा सुमनसो द्विज । सुकर्माणस्सुरापाश्च दशकाः पञ्च वै गणाः ॥३४॥

तपस्वी सुतपाश्चैव तपोमूर्तिस्तपोरतिः । तपोधृतिर्द्युतिश्चान्यः सप्तमस्तु तपोधनः।

               सप्तर्षयस्त्विमे तस्य पुत्रानपि निबोध मे ॥ ३५ ॥

देववानुपदेवश्च देवश्रेष्ठादयस्तथा । मनोस्तस्य महावीर्या भविष्यन्ति सुता नृपाः ॥ ३६ ॥

                त्रयोदशो रुचिर्नामा भविष्यति मुने मनुः ॥ ३७ ॥

सुत्रामाणस्सुकर्माणः सुधर्माणस्तथामराः । त्रयस्त्रिंशद्विभेदास्ते देवानां यत्र वै गणाः ॥३८॥

                दिवस्पतिर्महावीर्यस्तेषामिन्द्रो भविष्यति ॥ ३९ ॥

निर्मोहस्तत्त्वदर्शी च निष्प्रकम्प्यो निरुत्सुकः । धृतिमानव्ययश्चान्यस्सप्तमस्सुतपा मुनिः ।

                सप्तर्षयस्त्विमे तस्य पुत्रानपि निबोध मे ॥ ४ ॥

                चित्रसेनविचित्राद्या भविष्यन्ति महीक्षितः ॥ ४ ॥

भौमश्चतुर्दशश्चात्र मैत्रेय भविता मनुः । शुचिरिन्द्रस्सुरगणास्तत्र पञ्च शृणुष्व तान् ॥ ४२॥

            सुक्षेत्रेति ॥ सुक्षेत्रादयो मनुपुत्राः ॥ २८–४२ ॥

चाक्षुषाश्च पवित्राश्च कनिष्ठा भ्राजिकास्तथा । वाचावृद्धाश्च वै देवास्सप्तर्षीनपि मे शृणु ॥४३॥

अग्निबाहुश्शुचिश्शुक्रो मागधोऽग्नीध्र एव च । युक्तस्तथाजितश्चान्यो मनुपुत्रानतः शृणु ॥ ४४ ॥

ऊरुगंभीरबुद्ध्याद्या मनोस्तस्य सुता नृपाः । कथिता मुनिशार्ददूल पालयिष्यन्ति ये महीम् ॥४५॥

            चाक्षुषा इति ॥ चाक्षुषाद्या गणास्सप्तकाः ॥ ४३-४५॥

चतुर्युगान्ते वेदानां जायते किल विप्लवः । प्रवर्तयन्ति तानेत्य भुवं सप्तर्षयो दिवः ॥ ४६ ॥

             चतुर्युगान्त  इति ॥ चतुर्युगान्त  इत्यादिना  मन्वन्तराधिकारिकृत्योक्तिः । तान् कलियुगान्ते अनध्ययनादुत्सन्नसम्प्रदायान् वेदान् कृतारम्भे भुव्यंशेनावतीर्य प्रवर्तयन्ति ॥१६॥

कृतेकृते स्मृतेर्विप्र प्रणेता जायते मनुः । देवा यज्ञभुजस्ते तु यावन्मन्वन्तरं तु तत् ॥ ४७ ॥

भवन्ति ये मनोः पुत्रा यावन्मन्वन्तरं तु तैः । तदन्वयोद्भवैश्चैव तावद्भूः परिपाल्यते ॥ ४८ ॥

मनुस्सप्तर्षयो देवा भूपालाश्च मनोस्सुताः । मन्वन्तरे भवन्त्येते शक्रश्चैवाधिकारिणः ॥ ४९ ॥

चतुर्दशभिरेतैस्तु गतैर्मन्वन्तरैर्द्विज । सहस्रयुगपर्यन्तः कल्पो निश्शेष उच्यते ॥ ५० ॥

           कृतेकृत इति ॥ मनुस्तु प्राचीनाः स्मृती: स्वायंभुवदक्षादिकृताः प्रवर्तयति ॥ १७-५० ॥

तावत्प्रमाणा च निशा ततो भवति सत्तम । ब्रह्मरूपधरश्शेते शेषाहावम्बुसंप्लवे ॥ ५१ ॥

           तावत्प्रमाणेति ॥ ब्रह्मरूपधर:-ब्रह्मशरीरमधिष्ठाय ॥ ५१ ॥

त्रैलोक्यमखिलं ग्रस्त्वा भगवानादिकृद्विभुः । स्वमायासंस्थितो विप्र सर्वभूतो जनार्दनः ॥ ५२ ॥

ततः प्रबुद्धो भगवान् यथा पूर्वं तथा पुनः । सृष्टिं करोत्यव्ययात्मा कल्पेकल्पे रजोगुणः ॥५३॥

       त्रैलोक्यमिति ॥ स्वमायासंस्थित:-* आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः* सङ्कल्पज्ञानं वा माया ॥ ५२, ५३ ॥

मनवो भूभुजस्सेन्द्रा देवास्सप्तर्षयस्तथा । सात्त्विकोंsशः स्थितिकरो जगतो द्विजसत्तम ॥ ५४ ॥

            मनव इति ॥ सात्विकोंऽश:-भगवतस्सात्विकतनुः ॥ ५४ ॥

चतुर्युगेऽप्यसौ विष्णुः स्थितिव्यापारलक्षणः । युगव्यवस्थां कुरुते यथा मैत्रेय तच्छृणु ॥ ५५ ॥

कृते युगे परं ज्ञानं कपिलादिस्वरूपधृक् । ददाति सर्वभूतात्मा सर्वभूतहिते रतः ॥ ५६ ॥

चक्रवर्तिस्वरूपेण त्रेतायामपि स प्रभुः। दुष्टानां निग्रहं कुर्वन्परिपाति जगत्त्रयम् ॥ ५७ ॥

            चतुर्युगेऽपि, न केवळं मन्वन्तरे ॥ ५५-५७ ॥

वेदमेकं चतुर्भेदं कृत्वा शाखाशतैर्विभुः । करोति बहुलं भूयो वेदव्यासस्वरूपधृक् ॥ ५८ ॥

वेदांस्तु द्वापरे व्यस्य कलेरन्ते पुनर्हरिः । कल्किस्वरूपी दुर्वृत्तान्मार्गे स्थापयति प्रभुः ॥ ५९॥

एवमेतज्जगत्सर्वं शश्वत्पाति करोति च । इन्ति चान्तेऽप्यनन्तात्मा नास्त्यस्माद्व्यतिरेकि यत् ॥६०॥

           वेदमिति ॥ चतुर्भेदम्-ऋगादिरूपेण शाखाशतैबहुलमित्यन्वयः ॥ ५८-६०॥

भूतं भव्यं भविष्यं च सर्वभूतान्महात्मनः । तदत्रान्यत्र वा विप्र सद्भावः कथितस्तव ॥ ६१ ॥ मन्वन्तराण्यशेषाणि कथितानि मया तव । मन्वन्तराधिपाश्चैव किमन्यत्कथयामि ते ॥ ६२ ॥

          भूतमिति ॥ उपसंहरति–तदत्रेति । सर्वभूताद्भगवतो  व्यतिरिक्तं  नास्तीत्येष सद्भवोऽत्र प्रकरणान्तरे च कथितः ॥ ६१, ६२ ॥

इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे तृतीयेऽशे द्वितीयोऽध्यायः ॥ २ ॥

इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते विष्णुपुराणव्याख्याने  श्रीविष्णुचित्तीये तृतीयेऽशे द्वितीयोऽध्यायः ॥ २ ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.