श्रीविष्णुपुराणम् Amsa 03 Ady 17

श्रीविष्णुपुराणम्

सप्तदशोऽध्यायः

श्रीपराशर: –

इत्याह भगवनौर्वस्सगराय महात्मने । सदाचारं पुरा सम्यङ् मैत्रेय परिपृच्छते ॥ १ ॥

मयाऽप्येतदशेषेण कथितं भवतो द्विज । समुल्लङ्घ्य सदाचारं कश्चिन्नाप्नोति शोभनम् ॥ २ ॥

   मैत्रेयः-       षण्डापविद्धप्रमुखा (कथिता भगवंस्त्वया) विदिता भगवन्मया । उदक्याद्याश्च मे सम्यडू नग्नमिच्छामि वेदितुम् ॥ ३ ॥

को नमः किंसमाचारो नग्नसंज्ञां नरो लभेत् । नग्नस्वरूपमिच्छामि यथावत्कथितं त्वया ।  श्रोतुं धर्मभृतां श्रेष्ठ न ह्यस्त्यविदितं तव ॥ ४ ॥

श्रीपराशरः-

ऋग्यजुस्सामसंज्ञेय त्रयी वर्णावृत्तिर्द्विज । एतामुज्झति यो मोहात्स नग्नः पातकी स्मृतः ॥ ५ ॥

त्रयी समस्तवर्णानां द्विज संवरणं यतः । नग्नो भवत्युज्झिताया मतस्तस्यां न संशयः ॥ ६ ॥

इदं च श्रूयतामन्यद्यद्भीष्माय महात्मने । कथयामास धर्मझो वसिष्ठोऽस्मत्पितामहः ॥ ७ ॥

मयापि तस्य गदतश्श्रुतमेतन्महात्मनः । नग्नसंबन्धि मैत्रेय यत्पृष्टोऽहमिह त्वया ॥ ८ ॥

देवासुरमभूद्युद्धं दिव्यमब्दशतं पुरा । तस्मिन्पराजिता देवा दैत्यैर्ह्रादपुरोगमैः ॥ ९ ॥

क्षीरोदस्योत्तरं कूलं गत्वातप्यन्त वै तपः । विष्णोराराधनार्थाय जगुश्चेमं स्तवं तदा ॥ १० ॥

   देवाः –

आराधनाय लोकानां विष्णोरीशस्य यां गिरम् । वक्ष्यामो भगवानद्य तया विष्णुः प्रसीदतु ॥११॥

यतो भूतान्यशेषाणि प्र(सू)भूतानि महात्मनः । यस्मिंश्च लयमेष्यन्ति कस्तं स्तोतुमिहेश्वरः ॥१२॥

      त्रयीति ॥ त्रयी न वस्त्रादिवदावरणमात्रं, किं तु संवरणं-सर्वदुःखनिवाशकम् । अतस्तत्त्यागी नग्नः न तु  दिगंबर इत्यर्थः ॥ १-१२ ॥

तथाऽप्यरातिविध्वंसध्वस्तवीर्याभयार्थिनः । त्वां स्तोष्यमस्तवोक्तीनां याथा(म्यं)र्थ्यं नैव गोचरे॥१३॥

            तथापीति ॥ तव याथा(त्म्यं)र्थ्यं उक्तीनां न गोचर इत्यर्थः ॥ १३ ॥

त्वमुर्वी सलिलं वह्निर्वायुराकाशमेव च । समस्तमन्तःकरणं प्रधानं तत्परः पुमान् ॥ १४ ॥

            त्वमुर्वीति ॥ समस्तमन्तःकरणं-मनोबुद्ध्यहंकाराः ॥ १४ ॥

एकं तवैतद्भूतात्मन्मूर्तामूर्तमयं वपुः । आब्रह्मस्तंबपर्यन्तं स्थानकालविभेदवत् ॥ १५ ॥

तत्रैशं तव यत्पूर्वं त्वन्नाभिकमलोद्भवम् । रूपं विश्वोपकाराय तस्मै ब्रह्मात्मने नमः ॥१६॥

शक्रार्करुद्रवस्वश्विमरुत्सोमादिभेदवत् । वयमेकं स्वरूपं ते तस्मै देवात्मने नमः ॥ १७ ॥

दम्भप्रायमसंबोधि तितिक्षादमवर्जितम् । यद्रूपं तव गोविन्द तस्मै देत्यामने नमः ॥ १८ ॥

        एकमित्यादि । स्थानकालविभेदवत्–स्थानकालविशेषाभ्यां युक्तम् । एतदिति जगन्निर्दिश्यते । एवंभूतं जगत्तवैकं वपुरित्यर्थः। जगत्सर्वं शरीरं ते, तव ब्रह्मात्मने नमः इत्यन्वयः । अत्रात्मशब्दो रूपववनः ॥१५-१८॥

नातिज्ञानवहा यस्मिन्नाड्ड्यस्स्तिमिततेजसि । शब्दादिलोभि यत्तस्मै तुभ्यं यक्षात्मने नमः॥१९॥

क्रौर्यं मायामयं घोरं यच्च रूपं तवासितम् । निशाचरात्मने तस्मै नमस्ते पुरुषोत्तम ॥ २० ॥

            नातिज्ञानेति ॥ यक्षाणां नाड्यो हि नाधिकज्ञानवाहिन्यः । स्तिमिततेजसि-स्तब्धविवेके । नाट्य इति पाठे यस्मिन् यक्षरूपे नृतादिस्तब्धविवेके, जना नातिज्ञानधराः सन्तीत्यर्थः ॥ १९, २० ॥

स्वर्गस्थधर्मिसद्धर्मफलोपकरणं तव । धर्माख्यं च तथा रूपं नमस्तस्मै जनार्दन ॥ २१ ॥

             स्वर्गस्थ इति ॥ स्वर्गस्थानां धर्मिणां सुकृतिनां सद्धर्मफलस्य सुखादेर्यदुपकरणं प्रापकं धर्माय रूपम् ॥ २१ ॥

हर्षप्रायमसंसर्गिं गतिमद्गमनादिषु । सिद्धा(र्थ)ख्यं तव यद्रूपं तस्मै सिद्धात्मने नमः ॥ २२ ॥

              हर्षप्रायमिति ॥ गतिमत्-गमनशीलं, गमनादिष्वसंसर्गि-अस्खलितम् ॥ २२ ॥

अतितिक्षायनं क्रूरमुपभोगसहं हरे । द्विजिह्वं तव यद्रूपं तस्मै नागात्मने नमः ॥ २३ ॥

अतितिक्षायनमिति ॥ उपभोगसहम्–उपभोगसमर्थम् ॥ २३ ॥

अबवोधि च यच्छान्तमदोषमपकल्मषम् । ऋषिरूपात्मने तस्मै विष्णुरूपाय ते नमः ॥ २४ ॥

भक्षयत्यथ कल्पान्ते भूतानि यदवारितम् । त्वद्रूपं पुण्डरीकाक्ष तस्मै कालात्मने नमः ॥ २५ ॥

 संभक्ष्य सर्वभूतानि देवादीन्यविशेषतः । नृत्यत्यन्ते च यद्रूपं तस्मै रुद्रात्मने नमः ॥ २६ ॥

अवबोवीति ॥ अदोष- रागादिरहितम् । ऋषिरूपस्यात्मने । विष्णुरूपाय-व्याप्तरूपाय ॥२४-२६||

प्रवृत्त्या रजसो यच्च कर्मणां करणात्मकम् । जनार्दन नमस्तस्मै त्वद्रूपाय नरात्मने ॥ २७ ॥

             प्रवृत्येति ॥ करणात्मकम्-अनुष्ठानात्मकम् । नरात्मने-मनुष्यरूपाय ॥ २७ ॥

अष्टविंशवधोपेतं यद्रूपं तामसं तव । उन्मार्गगामि सर्वात्मंस्तस्मै वश्यात्मने नमः ॥ २८ ॥

             अष्टाविंशदिति ॥ अष्टाविंशद्वधः प्रथमांशे उक्तः ॥ २८ ॥

यज्ञाङ्गभूतं यद्रूपं जगतः स्थितिसाधनम् । वृक्षादिभेदैष्षड्भेदि तस्मै मुख्यात्मने नमः ॥ २९ ॥

तिर्यङ्मनुष्यदेवादिव्योमशब्दादिकं च यत् । रूपं तवादेः सर्वस्य तस्मै सर्वात्मने नमः ॥ ३० ॥

              यज्ञाङ्गभूतमिति ॥ षड्भेदि-वृक्षगुल्मलतावीरुत्तृणगिरिभेदैः। दृषदुपलादीनामपि यज्ञाङ्गत्वमस्ति । मुख्यात्मने । मुख्यत्वं च तत्रैवोक्तम् ॥ २९, ३० ॥

प्रधानबुद्ध्यादिमयादशेषाद्यदन्यदस्मात्परमं परात्मन् । रूपं तवाद्यं यदनन्यतुल्यं तस्मै नमः कारणकारणाय ॥३१॥

            प्रधानेति ॥ प्रधानेत्यादिना समष्टिपुरुषरूपमुच्यते । कारणकारणाय–कारणमव्यक्तं तस्य कारणं पुरुषः अव्यक्तमक्षरे लीयते * इति श्रुतेः ॥ ३१ ॥

शुक्लादिदीर्घादिघनादिहीनमगोचरं यच्च विशेषणानाम् । शुद्धातिशुद्धं परमर्षिदृश्यं रूपाय तस्मै भगवन्नताः स्मः ॥ ३२ ॥

मुक्तस्वरूपमाह–शुक्लेति ॥ प्रकृत्यपेक्षया शुद्धो बद्धः, तदपेक्षया मुक्तोऽतिशुद्धः ॥ ३२ ॥

यन्नः शरीरेषु यदन्यदेहेष्वशेषवस्तुष्वजमक्षयं यत् । यस्माच्च नान्यद्व्यतिरिक्तमस्ति ब्रह्मास्वरूपाय नताः स्म तस्मै ॥ ३३ ॥

परस्वरूपमाह—यन्न इति ॥ यस्मादन्यद्व्यतिरिक्तं नास्ति—पृथक्सिद्धमतदात्मकं यस्माद्व्यतिरिक्तं नास्तीत्यर्थः ॥ ३३ ॥

सकलमिदमजस्य यस्य रूपं परमपदात्मवतस्सनातनस्य । तमनिधनमशेषबीजभूतं प्रभुममलं प्रणतास्स्म वासुदेवम् ॥ ३४ ॥

   श्रीपराशरैः —

स्तोत्रस्य चावसाने ते ददृशुः परमेश्वरम् । शङ्खचक्रगदापाणिं गरुडस्थं सुरा हरिम् ॥ ३५॥

तमूचुस्सकला देवाः प्रणिपातपुरस्सरम् । प्रसीद नाथ दैत्येभ्यस्त्राहि नश्शरणार्थिनः ॥ ३६ ॥

त्रैलोक्ययज्ञभागाच दैत्यैर्ह्लादपुरोगमैः । हृता नो ब्रह्मणोऽप्याज्ञामुल्लङ्घ्य परमेश्वर ॥ ३७ ॥

यद्यप्यशेषभूतस्य वयं ते च तवांशजाः । तथाप्यविद्याभेदेन भिन्नं पश्यामहे जगत् ॥ ३८॥

स्ववर्णधर्माभिरता वेदमार्गानुसारिणः । न शक्यास्तेऽरयो हन्तुमस्माभिस्तपसा(न्वि)वृताः ॥ ३९ ॥

तमुपायमशेषात्मन्नस्माकं दातुमर्हसि । येन तानसुरान्हन्तुं भवेम भगवन्क्षमाः ॥ ४० ॥

श्रीपराशरः —

इत्युक्तो भगवांस्तेभ्यो मायामोहं शरीरतः । समुत्पाद्य ददौ विष्णुः प्राह चेदं सुरोत्तमान् ॥ ४१ ॥

    श्रीभगवानुवाच —

मायामोहोऽयमखिलान्दैत्यांस्तान्मोहयिष्यति । ततो वध्या भविष्यन्ति वेदमार्गबहिष्कृताः ॥ ४२ ॥

स्थितौ स्थितस्य मे वघ्या यावन्तः परिपन्थिनः । ब्रह्मणो ह्यधिकारस्य देवा दैत्यादिकाः सुराः ॥४३॥

तद्गच्छत न भीः कार्या मायामोहोऽयमग्रतः। गच्छन्नद्योपकाराय भवतां भविता मुराः ॥ ४४ ॥

    श्रीपराशर:–

इत्युक्ताः प्रणिपत्यैनं ययुर्देवा यथागतम् । मायामोहोऽपि तैस्सार्द्धं ययौ यत्र महासुराः ॥ ४५ ॥

            अन्यथा अन्यतरपदवैय्र्थ्यं निगमयति–सकलमिति ॥ सकलं–सचेतनमिदं जगत् परमपदं तत्रत्या आमानश्च यस्य रूपं स परमपदात्मवान् । अनेन श्लोकेनोभयविभूतिमत्त्वमुक्तमित्यनुसंधेयम् । अशेष जत्वम् अशेषरूपत्वहेतः ॥ ३४-४५ ॥

इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे तृतीयेऽशे

सप्तदशोऽध्यायः ॥ १७ ॥

 

इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते

विष्णुचितीये तृतीयेशे सप्तदशोऽध्यायः ॥ १७ ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.