[highlight_content]

77 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

सप्तसप्ततितमः सर्गः

गते रामे प्रशान्तात्मा रामो दाशरथिर्धनुः ।

वरुणायाप्रमेयाय ददौ हस्ते ससायकम् ।। 1.77.1 ।।

अथ स्वपुरं प्राप्य सीतया रामः सुखमुवासेत्याह सप्तसप्ततितमे–गत इत्यादि । रामे परशुरामे । वरुणाय न्यासत्वेनेति शेषः । अप्रमेयाय अदृश्यायेत्यर्थः ।। 1.77.1 ।।

अभिवाद्य ततो रामो वसिष्ठप्रमुखानृषीन् ।

पितरं विह्वलं दृष्ट्वा प्रोवाच रघुनन्दनः ।। 1.77.2 ।।

विह्वलं परवशम् । अनेन परशुरामेण कृतां परत्वसूचिकां स्तुतिं वरुणाय धनुर्दानं च दशरथो न ज्ञातवानिति गम्यते ।। 1.77.2 ।।

जामदग्न्यो गतो रामः प्रयातु चतुरङ्गिणी ।

अयोध्याभिमुखी सेना त्वया नाथेन पालिता ।। 1.77.3 ।।

चतुरङ्गिणीति “प्रातिपदिकान्तनुम्–” इत्यादिना णत्वम् ।। 1.77.3 ।।

रामस्य वचनं श्रुत्वा राजा दशरथः सुतम् ।

बाहुभ्यां सम्परिष्वज्य मूर्ध्नि चाघ्राय राघवम् ।। 1.77.4 ।।

रामस्येत्यादिश्लोकद्वयमेकान्वयम् । रामस्य वचनं श्रुत्वा विह्वलतया अस्पष्टं वचनं श्रुत्वा ।।

1.77.4 ।।

गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः ।। 1.77.5 ।।

पुनर्जातं तदा मेने पुत्रमात्मानमेव च ।

चोदयामास तां सेनां जगामाशु ततः पुरीम् ।। 1.77.6 ।।

गतो राम इति श्रुत्वा । क्रमेण पुनः स्पष्टं श्रुत्वेत्यर्थः । हृष्टः पुलकितः ।। 1.77.5,6 ।।

पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम् ।

सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम् ।। 1.77.7 ।।

रम्यामिति पुनरुक्तिस्तत्तद्विशेषणकृतरमणीयत्वाभिप्रायेण । पताका ध्वजपटः, ध्वजः दण्डः, पताकान्विता ध्वजा अस्यां सन्तीति पताकाध्वजिनीम् । ह्रस्वदीर्घध्वजभेद इत्यप्याहुः । उद्घुष्टमिति भावे निष्ठा । तूर्योद्घोषेण सञ्जातनिनादामित्यर्थः ।। 1.77.7 ।।

राजप्रवेशसुमुखैः पौरैर्मङ्गलवादिभिः ।

सम्पूर्णां प्राविशद्राजा जनौघैः समलङ्कृताम् ।। 1.77.8 ।।

पौरैः प्रत्युद्गतो दूरं द्विजैश्च पुरवासिभिः ।

पुत्रैरनुगतः श्रीमान् श्रीमद्भिश्च महायशाः ।। 1.77.9 ।।

राजप्रवेशेन सुमुखैः विकसन्मुखैः । मङ्गलम् आशीर्वचनं वक्तुं शीलमेषामस्तीति मङ्गलवादिभिः ।। 1.77.8,9 ।।

प्रविवेश गृहं राजा हिमवत्सदृशं पुनः ।

ननन्द सजनो राजा गृहे कामैः सुपूजितः ।। 1.77.10 ।।

जनः सम्बन्धिजनः । गृहे स्थितैरिति शेषः । काम्यन्त इति कामाः, विषयभोगपरिकराः तैः ।। 1.77.10 ।।

कौसल्या च सुमित्रा च कैकयी च सुमध्यमा ।

वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः ।। 1.77.11 ।।

वधूनां स्नुषाणाम् । प्रतिग्रहे उपचारे स्वस्वान्तःपुरानयने वा । “वधूर्जाया स्नुषा” इत्यमरः । युक्ता आसक्ताः, आसन्निति शेषः ।। 1.77.11 ।।

ततः सीतां महाभागामूर्मिलां च यशस्विनीम् ।

कुशध्वजसुते चोभे जगृहुर्नृपपत्नयः ।। 1.77.12 ।।

जगृहुः अन्तःपुरं प्रावेशयन् ।। 1.77.12 ।।

मङ्गलालापनैश्चैव शोभिताः क्षौमवाससः ।

देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन् ।। 1.77.13 ।।

मङ्गलालापनैः स्वस्तिवाचनैः, शोभिताः । मङ्गलालम्भनैरितिपाठे–आलम्भनं चन्दनचर्चा ।

देवतायतनानि गृहदेवतानामर्चागृहाणि । प्रत्यपूजयन् गन्धपुष्पादिभिरपूजयन् । आयतनपूजामात्रे स्त्रीणामधिकारादिति भावः ।। 1.77.13 ।।

अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा ।

रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः ।। 1.77.14 ।।

अभिवाद्येति । सर्वा अभिवाद्य सर्वा रेमिर इत्यन्वयः ।। 1.77.14 ।।

कुमाराश्च महात्मानो वीर्येणाप्रतिमा भुवि ।

कृतदाराः कृतास्त्रा श्च सधनाः ससुहृज्जनाः ।

शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः ।। 1.77.15 ।।

वर्तयन्ति अनुवर्तयन्ति स्म ।। 1.77.15 ।।

कस्यचित्त्वथ कालस्य राजा दशरथः सुतम् ।

भरतं कैकयीपुत्रमब्रवीद्रघुनन्दनः ।। 1.77.16 ।।

कस्यचित्त्वथ कालस्य कस्मिंश्चित्काले गते सति ।। 1.77.16 ।।

अयं केकयराजस्य पुत्रो वसति पुत्रक ।

त्वां नेतुमागतो वीर युधाजिन्मातुलस्तव ।। 1.77.17 ।।

श्रुत्वा दशरथस्यैतद्भरतः कैकयीसुतः ।

गमनायाभिचक्राम शत्रुघ्नसहितस्तदा ।। 1.77.18 ।।

मातुलस्तवेति । अतो गच्छेति व्यञ्जनावृत्त्योक्तिः पुत्रविरहकातर्यात् ।। 1.77.17,18 ।।

आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम् ।

मातृ़श्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ ।। 1.77.19 ।।

गते च भरते रामो लक्ष्मणश्च महाबलः ।

पितरं देवसङ्काशं पूजयामासतुस्तदा ।। 1.77.20 ।।

पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः ।

चकार रामो धर्मात्मा प्रियाणि च हितानि च ।। 1.77.21 ।।

अक्लिष्टं कस्यापि दुःखरहितं यथा भवति तथा कर्तुं शीलमस्त्यस्येति तथा ।। 1.77.1921 ।।

मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः ।

गुरूणां गुरुकार्याणि काले काले ऽन्ववैक्षत ।। 1.77.22 ।।

परमयन्त्रितः परमम् अत्यन्तं यन्त्रितः श्रुतिस्मृतिमर्यादानतिलङ्घी । गुरुकार्याणि

गुरूचितशुश्रूषादिकार्याणि । अन्ववैक्षत परिपालयतिस्मेत्यर्थः ।। 1.77.22 ।।

एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तदा ।

रामस्य शीलवृत्तेन सर्वे विषयवासिनः ।। 1.77.23 ।।

एवमेतादृशेन शीलवृत्तेन । नैगमाः वणिजः ।। 1.77.23 ।।

तेषामतियशा लोके रामः सत्यपराक्रमः ।

स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ।। 1.77.24 ।।

न केवलं शीलवृत्तेन, किन्तु सर्वैरपि गुणैरित्याशयेनाह–तेषामिति । तेषां ब्राह्मणादीनां मध्ये ।। 1.77.24 ।।

रामस्तु सीतया सार्द्धं विजहार बहूनृतून् ।

मनस्वी तद्गतस्तस्या नित्यं हृदि समर्पितः ।। 1.77.25 ।।

एवं धर्मपरतां रामस्योक्त्वा धर्माविरुद्धकामाभिरतिं दर्शयति–रामस्त्वित्यादिना श्लोकचतुष्टयेन । रामस्तु तुशब्देन पूर्वस्माद्वैलक्षण्यमुच्यते । पितृशुश्रूषणधर्मप्रवर्तनदेवताराधनादिकं हि पूर्वमुक्तम् । स एवं कर्ता सम्प्रति वात्स्यायनमभ्यस्य कामतन्त्रपरो ऽभूत् । सीतया अयोनिजया “सहयुक्ते ऽप्रधाने” इति तृतीया । स्वाभाविकसौन्दर्यसमृद्ध्यैवावतीर्णापि भोगस्रोतस्यप्रधानाभूदिति रामस्य प्रावण्यातिशयः(?) प्रदर्शितः । विजहार । परस्मैपदेन फलापर्यवसायितोच्यते । “स्वरित़ञितः कर्त्रभिप्राये क्रियाफले” इति विहाररूपक्रियाफलस्य कर्तृगामित्वे ह्यात्मनेपदमेव भवेत् । तथा च चिरतरविहारोपि भोगोपोद्घातकेलितां नातिशेत इति भावः । बहूनृतून् । अत्यन्तसंयोगे द्वितीया । तया भोगनैरन्तर्यं सूच्यते । बहून् ऋतूनित्युक्तं न तु वत्सरानिति । तेन तत्तदृतूचितभोगोपकरणैर्भोगान् स बुभुज इत्युक्तम् । मनो ऽस्यास्तीति मनस्वी । भूमार्थे मत्वर्थीयः । तथा च संश्लेषदशायां सीतासङ्कल्पमप्यतिशय्य भोगस्रोतः प्रवर्तयितेत्यर्थः । नित्यं तद्गतः तस्यां गतः “सप्तमी–” इति योगविभागात्समासः । जातिगुणवदपृथक्सिद्धतया तदेकरसो ऽभूदित्यर्थः । सर्वदा तदासक्तचित्तो ऽभूदिति भावः । तस्या हृदि नित्यं समर्पितः, सीतापि रामकृततत्तद्व्यापारेण वशीकृता तदायत्तचित्तासीत् । नित्यं सुचिरं भोगे ऽपि सद्यःसङ्गतेव निरवधिकप्रेमभारभरिताभूदित्यर्थः ।। 1.77.25 ।।

प्रिया तु सीता रामस्य दाराः पितृकृता इति ।

गुणाद्रूपगुणाच्चापि प्रीतिर्भूयो ऽभ्यवर्द्धत ।। 1.77.26 ।।

नित्यं तद्गत इत्यत्र हेतुमाह–प्रियात्विति । तुरवधारणे । पितृकृता दारा इति हेतोरेव रामस्य सीता प्रियासीत् । तर्हि सीतावैलक्षण्यमकिञ्चित्करम्, नेत्याह–गुणात् भर्तृशुश्रूषणादिगुणात् । रूपस्य देहस्य गुणात् सौन्दर्यात् । अपिशब्दो ऽनुक्तसमुच्चयार्थः । अभिजात्यादिभिश्च प्रीतिर्भूयो ऽभ्यवर्द्धत । रामस्य सीतायामित्यर्थसिद्धम् । अतो बहूनृतून् विजहारेत्यन्वयः ।। 1.77.26 ।।

तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते ।

अन्तर्जातमपि व्यक्तमाख्याति हृदयं हृदा ।। 1.77.27 ।।

अथ रामस्येव सीताया अपि रामे निरन्तरानुरागं दर्शयन् तस्या हृदि नित्यं समर्पित इत्युक्तं विवृणोति–तस्याश्चेति । तस्या भर्ता रामश्च । हृदये सीताया हृदये । द्विगुणं यथा भवति तथा परिवर्तते, रामाद्द्विगुणा प्रीतिः सीताया रामे ऽभूदित्यर्थः । यथा रामस्य सीतायां प्रीतिः पितृकृतदारत्वकृता सौन्दर्यकृता च, एवं रामे ऽपि सीतायाः प्रीतिर्नोभयकृता, किन्तु भर्तृत्वमात्रकृता ।

वक्ष्यत्यनसूयां प्रति सीता– “यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः । अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ।।” इत्यादि। अनेन गुणादित्युक्तरामविषयानुरागो विवृतः। एतादृशानुरागो रामेण कथं विज्ञायत इत्यत्राह अन्तरिति। अन्तर्जातं सीताहृद्गतमपि हृदयगूढभावम्, अनुरागमिति यावत्। हृदा तर्केण, अनुभावैरिति यावत्। व्यक्तमाख्याति जानाति। चक्षिङः ख्याञादेशः सार्वधातुकेऽप्यार्षः। तस्य दर्शनार्थत्वं चख्युरित्यादौ सिद्धम्। परकीयहृदयं कथं व्यक्तीभवतीत्यपेक्षायां तत्रैव सर्वदा परिवर्तमानत्वात् इत्युक्तं पूर्वार्धे ।। 1.77.27 ।।

तस्य भूयो विशेषेण मैथिली जनकात्मजा ।

देवताभिः समा रूपे सीता श्रीरिव रूपिणी ।। 1.77.28 ।।

रामवत् सीतापि रामहृदयं विशेषेण व्यक्तं वेत्तीत्याह–तस्येति । तस्य रामस्य हृदयं सीता भूयो विशेषेण रामादतिरिक्तं जानातीत्यर्थः । रामो यादृशभोगमभिलषति तदिङ्गितेन ज्ञात्वा स्वयं तदनुरूपा भवति, नतु तदतिरिक्तभोगमभिलषते । एवं रामो ऽपीति भावः । रामादप्यतिशयेन सीतायाः कान्तेङ्गितपरिज्ञाने हेतुचतुष्टयमाह मैथिलीत्यादि । देशस्वभावाद्वंशस्वभावाच्च सूक्ष्मज्ञा । देवताभिः समेति प्रागल्भ्यमुच्यते । रूपे विषये रूपिणी सर्वैर्दृश्यमानरूपवती श्रीरिव स्थिता । अनेन सहजबुद्धिविशेषो दर्शितः ।। 1.77.28 ।।

तया स राजर्षिसुतो ऽभिरामया समेयिवानुत्तमराजकन्यया ।

अतीव रामः शुशुभे ऽतिकामया विभुः श्रिया विष्णुरिवामरेश्वरः ।। 1.77.29 ।।

इत्यार्षे श्रीरामायणे आदिकाव्ये वाल्मीकीये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमद्बालकाण्डे सप्तसप्ततितमः सर्गः ।। 77 ।।

एवमनवधिकमन्योन्यानुरागमुपपाद्य तदनुरूपं भोगं दर्शयति–तयेति । राजर्षिसुतः महाराजसुतत्वेन निरवधिकभोगोपकरणवान् । उत्तमराजकन्यया ततो ऽप्यधिकतदुपकरण्ावत्या । रामः रमयिता । अभिरामया ततो ऽप्यतिशयेन रमयित्र्या । सः अतिशयितकामः । अतिकामया रामादप्यधिककामयेत्यर्थः । तया सीतया । समेयिवान् सम्यगेयिवान् । एकीभावेन संश्लिष्टः स्वयङ्ग्रहाश्लेषविषयीभूतःसन् “लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च । सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभिश्चिन्तासन्ततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया ।।” इतिवत्। विभुः प्रत्यालिङ्गनादिसमर्थः। अमरेश्वरो विष्णुः आदिविष्णुः। श्रियेव मूर्तिभेदेनोपमानत्वम्। अतीव अतिशयेन शुशुभे रेजे। तुल्यानुरागस्य अतिशयितस्त्रीकामस्य। भोगसमृद्धिहेतुत्वादिति भावः ।। 1.77.29 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने सप्तसप्ततितमः सर्गः ।। 77 ।। 

।। इति श्रीमद्बालकाण्डः समाप्तः ।। ।। श्रीरस्तु ।।

वेदे शास्त्रेषु वादेप्यनितरसुलभां कीर्तिमाटीकमानः काव्यालङ्कारनाट्यप्रभृतिषु पटुधीः कोपि टीकाविधाने । शुद्धान्तः पद्मशुद्धान्तितमधुमथनः शुद्धसत्त्वैकमूर्तिर्गोविन्दार्यो विचार्य्य व्यतनुत विमलां बालकाण्डस्य टीकाम् ।। श्रीरघुनन्दनपरब्रह्मणे नमः ।।।। इति श्रीरामायणे बालकाण्डः समाप्तः ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.