श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वितीयः सर्गः
रामेणेन्द्रजित्प्रतापातिशयंपृष्टेनागस्त्येन तदुपोद्धाततया रावणकुलमूलानुकीर्तनारंभः ।। १ ।। पुलस्त्यविश्रवसोरुत्पत्तिः ।। २ ।।
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।
कुम्भयोनिर्महातेजा राममेतदुवाच ह ॥ १ ॥
शृणु राम कथावृत्तं तस्य तेजोबलं महत् ।
जघान शत्रून्येनासौ न च वध्यः स शत्रुभिः ॥ २ ॥
असौ रावणिः न च शत्रुभिर्वध्यः । तत्कारणं शृण्विति संबन्धः ॥ २ ॥
तावत्ते रावणस्येदं कुलं जन्म च राघव ।
वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते ॥ ३ ॥
तावत् प्रथमं । रावणस्यैव कुलादिकं यमहं ते ब्रवीमि । पश्चाद्रावणेश्चेति शेषः ॥ ३ ॥
पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः ।
पुलस्त्यो नाम ब्रह्मर्षि: साक्षादिव पितामहः ॥ ४ ॥
तत्र प्रथमं कुलमाह – पुरेत्यादि । पुलस्त्यः दशप्रजापतिष्वेकः । पितामह इव पितृतुल्य इत्यर्थः ॥ ४ ॥
नानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा ।
प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः ॥ ५ ॥
प्रजापतिसुतत्वेन देवानां वल्लभो हि सः ।
हृष्टः सर्वस्य लोकस्य गुणैः शुभ्रैर्महामतिः ॥ ६ ॥
तदेवाह – नानुकीर्त्या इति । धर्मतः शीलतश्चोत्पन्न इति शेषः । ते गुणा नानुकीर्याः विविच्याशक्यवर्णनाः । किंतु प्रजापतिपुत्रनामत एव तत्संकीर्तनमात्रं तत एतस्यैव वैभवं वक्तुं शक्यं । प्रजापतिपुत्रत्वोक्त्त्यैव तस्य वैभवं वर्णितं भवतीत्यर्थः ॥ ५-६ ॥
स तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः ।
तृणबिन्द्वाश्रमं गत्वा न्यवसन्मुनिपुङ्गवः ॥ ७ ॥
तपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः ।
गत्वाऽऽश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः ॥ ८ ॥
देवपन्नगकन्याश्च राजर्षितनयाश्च याः ।
क्रीडन्त्योप्सरसश्चैव तं देशमुपपेदिरे ॥ ९ ॥
धर्मप्रसङ्गेन तपःसंपादनेच्छयेत्यर्थः । तृणबिन्दुर्नाम ऋषिः ॥ ७-९ ।।
सर्वर्तुषूपभोग्यत्वाद्रम्यत्वात्काननस्य च ।
नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः ॥ १० ॥
तं देशं आश्रमपदं ।। १० ।।
देशस्य रमणीयत्वात्पुलस्त्योयत्र स द्विजः ।
गायन्त्यो वादयन्त्यश्च लासयन्त्यस्तथैव च ।
मुनेस्तपस्विनस्तस्य विघ्नं चक्रुरनिन्दिताः ॥ ११ ॥
अथ क्रुद्धो महातेजा व्याजहार महामुनिः ।
या मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति ॥ १२ ॥
तास्तु सर्वा: प्रतिश्रुत्य तस्य वाक्यं महात्मनः ।
ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः ॥ १३ ॥
तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत् ॥ १४ ॥
गत्वाऽऽश्रमपदं तत्र विचचार सुनिर्भया ।
न साऽपश्यत्स्थिता तत्र कांचिदभ्यागतां सखीम् ॥ १५ ॥
लासयन्त्यः नृत्यन्त्यः ।। ११-१५ ।।
तस्मिन्काले महातेजाः प्राजापत्यो महानृषिः ।
स्वाध्यायमकरोत्तत्र तपसा भावितः स्वयम् ॥ १६ ॥
स्वाध्यायमकरोत् । वेदमपठदित्यर्थः ॥ १६ ॥
सा तु वेदश्रुतिं श्रुत्वा दृष्ट्वा वै तपसो निधिम् ।
अभवत्पाण्डदेहा सा सुव्यञ्जितशरीरजा ॥ १७ ॥
वेदश्रुतिं वेदध्वनिं श्रुत्वा कोऽधीत इति गत्वा दृष्ट्वा चेत्यर्थः । पाण्डुदेहा गर्भिणीत्वात् । सुव्यञ्जितः शरीरजो यस्याः सा तथा ॥ १७ ॥
बभूव च समुद्विग्ना दृष्ट्वा तद्दोषमात्मनः ।
इदं मे किंत्विति ज्ञात्वा पितुर्गत्वाऽऽश्रमे स्थिता ॥ १८ ॥
तां तु दृष्ट्वा तथाभूतां तृणबिन्दुरथाब्रवीत् ।
किं त्वमेतत्वसदृशं धारयस्यात्मनो वपुः ॥ १९ ॥
सा तु कृत्वाऽञ्जलिं दीना कन्योवाच तपोधनम् ।
न जाने कारणं तात येन मे रूपमीदृशम् ।। २० ।।
किं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः ।
पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम् ॥ २१ ॥
न च पश्याम्यहं तत्र कांचिदभ्यागतां सखीम् ।
रूपस्य तु विपर्यासं दृष्ट्वा त्रासादिहागता ।। २२ ।।
तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः ।
ध्यानं विवेश तच्चापि ह्यपश्यदृषिकर्मजम् ॥ २३ ॥
इदं मे किं एतत्किमिति ज्ञात्वा गर्भकारणमिदं किंत्विति ज्ञात्वेत्यर्थः ॥ १८-२३ ॥
स तु विज्ञाय तं शापं महर्षेर्भावितात्मनः ।
गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् ॥ २४ ॥
तनयां गृहीत्वा पुलस्त्यं गत्वेत्यन्वयः ॥ २४ ॥
भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम् ।
भिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम् ॥ २५ ॥
तपश्चरणयुक्तस्य श्रम्यमाणेन्द्रियस्य ते ।
शुश्रूषणपरा नित्यं भविष्यति न संशयः ॥ २६ ॥
तं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा ।
जिघृक्षुरब्रवीत्कन्यां वाढमित्येव स द्विजः ॥ २७ ॥
इमां भिक्षां गृहाणेति भिक्षात्वेन स्वीकुरुष्वेति अब्रवीदिति पूर्वेणान्वयः । ननूर्ध्वरेतसा मया कथं ग्राह्या किं वा मेऽनया प्रयोजनमित्यत्राह – उद्यतामिति । उद्यतामाहृतां भिक्षां पुरस्तादप्रवेदिताम् । भोज्यां मेने प्रजानाथो ह्यपि दुष्कृतकर्मणः इत्युक्ते: स्वयमुद्यतेयं ग्राह्यैवेत्यर्थः ॥ २५-२७ ॥
दत्त्वा स तु यथान्यायं स्वमाश्रमपदं गतः ।
साऽपि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः ॥ २८ ॥
तस्यास्तु शीलवृत्ताभ्यां तुतोष मुनिपुङ्गवः ।
प्रीतः स तु महातेजा वाक्यमेतदुवाच ह ॥ २९ ॥
यथान्यायं पाणिग्रहणपूर्वकमित्यर्थः ॥ २८-२९ ॥
परितुष्टोस्मि सुश्रोणि गुणानां संपदा भृशम् ।
तस्माद्देवि ददाम्यद्य पुत्रमात्मसमं तव ।
उभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम् ॥ ३० ।।
उभयोरपि मातुः पितुश्चेत्यर्थः ॥ ३० ॥
यस्मात्तु विश्रुतो वेदस्त्वयैषोऽध्ययतो मम ।
तसात्स विश्रवा नाम भविष्यति न संशयः ॥ ३१ ॥
एवमुक्ता तु सा देवी प्रहृष्टेनान्तरात्मना ।
अचिरेणैव कालेनासूत विश्रवसं सुतम् ।
त्रिषु लोकेषु विख्यातं यशोधर्मसमन्वितम् ।। ३२ ।।
श्रुतिमान्समदर्शी च व्रताचाररतस्तथा ।
पितेव तपसा युक्तो ह्यभवद्विश्रवा मुनिः ॥ ३३ ॥
अध्ययतः अधीयानस्येत्यर्थः । वेदो विश्रुतः गर्भहेतुरिति शेषः ॥ ३१-३३ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वितीयः सर्गः ॥ २ ॥
इति श्रीगोविन्दराजविरचितेश्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने द्वितीयः सर्गः ॥ २ ॥