श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तनवतितमः सर्गः
वाल्मीकिना सीतायाः शुद्धत्वंबोधितेनरामेण तंप्रति पूर्वमेवशपथकरणेन तच्छुद्धत्व -ज्ञातवतापिस्वेन लोकापवादभयात्तत्परित्यागनिवेदनेन क्षमापणं ॥ १ ॥ तथा तंप्रति कुशलवयोः स्वपुत्रत्वाङ्गीकरणपूर्वकं लोकसमक्षंशुद्धिप्रसिद्धौ स्वस्य सीतायां प्रीतिजनननिवेदनम् ॥ २ ॥ श्रीरामभावविज्ञानेन सीताशपथदर्शनार्थं चतुर्मुखपुरस्करणेन समागतेष्विन्द्वादिषु तान्प्रति रामेण जनापवादपरिहारेसत्येव वैदेह्यांस्वस्य प्रीतिसमुदयनिवेदनम् ॥ ३ ॥ ततः प्रादुर्भूतेन दिव्यगन्धवतावायु नाऽऽह्लादितानांसवर्जनानांपुरत: सीतया त्रिवारं रामादन्यस्यमनसाप्यचिन्तने भूमि देव्यास्वस्य विवरवितरणरूपशपथकरणम् ॥ ४ ॥ ततो भूतलात्प्रादुर्भूते दिव्यसिंहासने सीतायाउपवेशनपूर्वकं रसातलंप्रविष्टायां भूमिदेव्यां सीतायाउपरिपुष्पवृष्टिप्रादुर्भावः ॥ ५ ॥ ततोदेवर्ष्यादिषु सीतासौशील्यंप्रतिसाधुवादपूर्वकंसंतुष्टेषु सर्वैरपिमुहूर्तंमोहाधिगमः ॥ ६ ॥
वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत ।
प्राञ्जलिर्जगतो मध्ये दृष्ट्वा तां वरवर्णिनीम् ॥ १ ॥
एवमेतन्महाभाग यथा वदसि धर्मवित् ।
प्रत्ययस्तु मम ब्रह्मंस्तव वाक्यैरकल्मषैः ॥ २ ॥
प्रत्ययस्तु पुरा वृत्तो वैदेह्याः सुरसन्निधौ ।
शपथस्तु कृतस्तत्र तेन वेश्म प्रवेशिता ।
लोकापवादो बलवान्येन त्यक्ता हि मैथिली ॥ ३ ॥
सेयं लोकभयाद्ब्रह्मन्नपापेत्यभिजानता ।
परित्यक्ता मया सीता तद्भवान्क्षन्तुमर्हति ॥ ४ ॥
जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ ।
शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिरस्तु मे ।। ५ ।।
यथा वदसीति । प्रत्ययं दास्यतीत्येवमात्मनेत्यर्थः । एतदेवमेव कर्तव्यमित्यर्थः । एवंकरणं च न मम विश्वासार्थमित्याह – प्रत्ययो हीति ।। जात एवेति शेषः । तव वाक्यैरिति । बहुवर्षेत्यादिना प्रागुक्तशपथवाक्यैरित्यर्थः ॥ २-५ ॥
अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः ।
सीतायाः शपथे तस्मिन्महेन्द्राद्या महौजसः ॥ ६ ॥
पितामहं पुरस्कृत्य सर्व एव समागताः ॥ ७ ॥
आदित्या वसवो रुद्रा ह्यश्विनौ समरुद्गणाः ।
गन्धर्वाप्सरसञ्चैव सर्व एव समागताः ॥ ८ ॥
साध्याश्च विश्वेदेवाश्च सर्वे च परमर्षयः ।
नागाः सुपर्णा: सिद्धाश्च ते सर्वे हृष्टमानसाः ।
सीताशपथसंभ्रान्ताः सर्व एव समागताः ॥ ९ ॥
दृष्ट्वा देवानृषींश्चैव राघवः पुनरब्रवीत् ।
प्रत्ययो मे सुरश्रेष्ठा ऋषिवाक्यैरकल्मषैः ॥ १० ॥
शुद्धायां जगतो मध्ये वैदेह्यां प्रीतिरस्तु मे ॥ ११ ॥
ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः ।
तज्जनौघं सुरश्रेष्ठो ह्लादयामास सर्वतः ॥ १२ ॥
सीतायाः शपथ इति । शपथप्रसङ्ग इत्यर्थः ॥ ६-१२ ॥
तदद्भुतमिवाचिन्त्यं निरैक्षन्त समागताः ।
मानवाः सर्वराष्ट्रेभ्य: पूर्वं कृतयुगे यथा ॥ १३ ॥
सर्वान्त्समागतान्दृष्ट्वा सीता काषायवासिनी ।
अब्रवीत्प्राञ्जलिर्वाक्यमधोदृष्टिरवाङ्मुखी ॥ १४ ॥
यथाऽहं राघवादन्यं मनसाऽपि न चिन्तये ।
तथा मे माधवी देवी विवरं दातुमर्हति ॥ १५ ॥
मनसा कर्मणा वाचा यथा रामं समर्चये ।
तथा मे माधवी देवी विवरं दातुमर्हति ॥ १६ ॥
अचिन्त्यं अचिन्त्यहेतुकं वायुस्वरूपं यथा पूर्वं कृतयुगे पश्यन्ति स्म तथा तदानीं सर्वे मानवाः निरीक्षन्ते स्म ॥ १३-१६ ॥
यथैतत्सत्यमुक्तं मे वेद्मि रामात्परं न च ।
तथा मे माधवी देवी विवरं दातुमर्हति ॥ १७ ॥
रामात्परमन्यं पुरुषं न वेद्मीति यथोक्तमेतत्सत्यं चेत् । माधवी माधवपत्नी भूमिः ॥ १७ ॥
तथा शपन्त्यां वैदेह्यां प्रादुरासीत्तदद्भुतम् ।
भूतलादुत्थितं दिव्यं सिंहासनमनुत्तमम् ॥ १८ ॥
तथा शपन्त्यां त्रिः शपन्त्यां । तत्सिंहासनं ॥ १८ ॥
ध्रियमाणं शिरोभिस्तु नागैरमितविक्रमैः ।
दिव्यं दिव्येन वपुषा दिव्यरत्नविभूषितैः ॥ १९ ॥
तस्मिंस्तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम् ।
स्वागतेनाभिनन्द्यैनामासने चोपदेशयत् ॥ २० ॥
तामासनगतां दृष्ट्वा प्रविशन्तीं रसातलम् ।
पुष्पवृष्टिरविच्छिन्ना दिव्या सीतामवाकिरत् ॥ २१ ॥
साधुकारश्च सुमहान्देवानां सहसोत्थितः ।
साधु साध्विति वै सीते यस्यास्ते शीलमीदृशम् ।। २२ ।।
एवं बहुविधा वाचो ह्यन्तरिक्षगताः सुराः ।
व्याजह्रुर्हृष्टमनसो दृष्ट्वा सीताप्रवेशनम् ॥ २३ ॥
नागैः शिरोभिः ध्रियमाणमदृश्यतेति शेषः ।। १९-२३ ।।
यज्ञवाटगताश्चापि मुनयः सर्व एव ते ।
राजानश्च नरव्याघ्रा विस्मयान्नोपरेमिरे ।। २४ ॥
विस्मयात् आश्चर्याभिज्ञावेदनव्यवहारान्नोपरेमिरे नोपरता बभूवुः ॥ २४ ॥
अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः ।
दानवाश्च महाकायाः पाताले पन्नगाधिपाः ॥ २५ ॥
केचिद्विनेदुः संहृष्टाः केचिद्ध्यानपरायणाः ।
केचिद्रामं निरीक्षन्ते केचित्सीतामचेतनाः ॥ २६ ॥
संहृष्टा इति । सीतायाः अयशो गतमिति संहृष्टाः । अचेतनाः विसंज्ञाः ॥ २५-२६ ॥
सीताप्रवेशनं दृष्ट्वा तेषामासीत्समागमः ।
तन्मुहूर्तमिवात्यर्थं समं संमोहितं जगत् ॥ २७ ॥
तेषां मुन्यादीनां । समागमः हर्षसंबन्धः। यदेवमतः संमोहितमिव संमोहितमेवाभूत् ॥ २७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तनवतितमः सर्गः ॥ ९७ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्तनवतितमः सर्गः ॥ ९७ ॥