श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे शततमः सर्गः
कदाचनयुधाजिच्चोदनयागार्ग्यमहर्षिणा राममेत्य सिंधुनद्या उभयकूलस्थितगन्धर्व -देशस्य स्ववशीकरणचोदनरूपतत्संदेशनिवेदनं ॥ १ ॥ रामाज्ञया स्वपुत्रसहितेनभरतेन सेनयासह युधाजित्समीपगमनम् ॥ २ ॥
कस्यचित्त्वथ कालस्य युधाजित्केकयो नृपः ।
स्वगुरुं प्रेषयामास राघवाय महात्मने ।
गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम् ॥ १ ॥
दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम् ॥ २ ॥
कम्बलानि च रत्नानि चित्रवस्त्रमथोत्तमम् ।
रामाय प्रददौ राजा शुभान्याभरणानि च ॥ ३ ॥
श्रुत्वा तु राघवो धीमान्ब्रह्मर्षिं गार्ग्यमागतम् ।
मातुलस्याश्वपतिनः प्रहितं तन्महद्धनम् ॥ ४ ॥
प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुजः ।
गार्ग्यं संपूजयामास यथा शक्रो बृहस्पतिम् ॥ ५ ॥
अश्वपतिनः अश्वपतेः ॥ ४-५ ।।
तथा संपूज्य तमृषिं तद्धनं प्रतिगृह्य च ।
पृष्ट्वा प्रतिपदं सर्वं कुशलं मातुलस्य च ।
उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे ॥ ६ ॥
किमाह मातुलो वाक्यं यदर्थं भगवन्निह ।
प्राप्तो वाक्यविदां श्रेष्ठः साक्षादिव बृहस्पतिः ॥ ७ ॥
रामस्य भाषितं श्रुत्वा महर्षिः कार्यविस्तरम् ।
वक्तुमद्भुतसङ्काशं राघवायोपचक्रमे ॥ ८ ॥
मातुलस्ते महाबाहो वाक्यमाद नरर्षभ ।
युधाजित्प्रीतिसंयुक्तं श्रूयतां यदि रोचते ॥ ९ ॥
प्रतिपदमिति । प्रत्येकं कुशलं पृष्ट्वेत्यर्थः ॥ ६-९ ॥
अयं गन्धर्वविषयः फलमूलोपशोभितः ।
सिन्धोरुभयतः पार्श्वे देशः परमशोभनः ॥ १० ॥
सिन्धोः सिन्धुनद्याः । अयं देशः अस्मद्देशसमीप इत्यर्थः ॥ १० ॥
तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः ।
शैलूषस्य सुता वीर त्रिकोट्यो वै महाबलाः ॥ ११ ॥
शैलूषः गन्धर्वराजः ॥ ११ ॥
तान्विनिर्जित्य काकुत्स्थ गन्धर्वनगरं शुभम् ।
निवेशय महाबाहो स्वपुरे सुसमाहिते ॥ १२ ॥
स्वपुरे चेति । तद्देश इति शेषः ॥ १२ ॥
अन्यस्य न गतिस्तत्र देश: परमशोभनः ।
रोचतां ते महाबाहो नाहं त्वामहितं वदे ॥ १३ ॥
अन्यस्य त्वद्व्यतिरिक्तस्य । तत्र देशे गतिः प्राप्तिप्रसङ्ग एव नास्तीत्यर्थः । तत्साधने फलमुक्तं—देश: परमशोभन इति ॥ १३ ॥
तच्छ्रुत्वा राघवः प्रीतो महर्षेर्मातुलस्य च ।
उवाच बाढमित्येव भरतं चान्ववैक्षत ॥ १४ ॥
सोब्रवीद्राघवः प्रीतः साञ्जलिप्रग्रहो द्विजम् ।
इमौ कुमारौ तं देशं ब्रह्मर्षे विचरिष्यतः ॥ १५ ॥
भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च ।
मातुलेन सुगुप्तौ तु धर्मेण सुसमाहितौ ॥ १६ ॥
भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ ।
निहत्य गन्धर्वसुतान्द्वे पुरे विभजिष्यतः ॥ १७ ॥
निवेश्य ते पुरवरे आत्मजौ सन्निवेश्य च ।
आगमिष्यति मे भूयः सकाशमतिधार्मिकः ॥ १८ ॥
ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम् ।
आज्ञापयामास तदा कुमारी चाभ्यषेचयत् ॥ १९ ॥
नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरः सुतम् ।
भरतः सह सैन्येन कुमाराभ्यां विनिर्ययौ ॥ २० ॥
भरतं चान्ववैक्षतेति । पर्यालोचनार्थमित्यर्थः ॥ १४-२० ॥
सा सेना शक्रयुक्तेव नगरान्निर्ययावथ ।
राघवानुगता दूरं दुराधर्षा सुरैरपि ॥ २१ ॥
मांसादानि च सत्त्वानि रक्षांसि सुमहान्ति च ।
अनुजग्मुर्हि भरतं रुधिरस्य पिपासया ॥ २२ ॥
भूतग्रामाश्च बहवो मांसभक्षा: सुदारुणाः ।
गन्धर्व पुत्रमांसानि भोक्तुकामाः सहस्रशः ॥ २३ ॥
शक्रयुक्तेव इन्द्रयुक्ता देवसेनेव । नगरान्निर्ययौ दूरमिति । एकद्विवासरपर्यन्तमित्यर्थः ।। २१-२३ ॥
सिंहव्याघ्रवराहाणां खेचराणां च पक्षिणाम् ।
बहूनि वै सहस्राणि सेनाया ययुरग्रतः ॥ २४ ॥
सेनाया अग्रतो ययुरिति । पिशिताशनादीनामग्रतो यानं सुशकुनं । अभिमुखतः आगमनमेवापशकुनं ॥ २४ ॥
अध्यर्धमासमुषिता पथि सेना निरामया ।
हृष्टपुष्टजनाकीर्णा केकयं समुपागमत् ॥ २५ ॥
केकयं युधाजितमित्यर्थः ॥ २५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे शततमः सर्गः ॥ १०० ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने शततमः सर्गः ॥ १०० ।।