श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुष्पञ्चाशःसर्गः
नृगेणराज्ञा स्वस्यकृकलासत्वप्रापक ब्राह्मणशापप्राह्यनन्तरं स्वपुत्रस्थराज्येऽभिषेचन -पूर्वकं शिल्पिभिर्हिमवर्षातपनिवार कगर्तत्रयनिर्मापणेन तत्रप्रवेशनम् ॥ १ ॥
रामस्य भाषितं श्रुत्वा लक्ष्मणः परमार्थवित् ।
उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ॥ १ ॥
रामस्येत्यादि ॥ १ ॥
अल्पापराधे काकुत्स्थ द्विजाभ्यां शाप ईदृशः ।
महान्नृगस्य राजर्षेर्यमदण्ड इवापरः ॥ २ ॥
श्रुत्वा तु पापसंयुक्तमात्मानं पुरुषर्षभ ।
किमुवाच नृगो राजा द्विजौ क्रोधसमन्वितौ ॥ ३ ॥
अल्पेति ।। अल्पेप्यपराधे परीक्षार्थमागतत्वात् गोदानद्वारा द्विजाभ्यां नारदपर्वताभ्यां यमदण्ड इव महान् शापो दत्तः ॥ २-३ ॥
लक्ष्मणेनैवमुक्तस्तु राघवः पुनरब्रवीत् ।
शृणु सौम्य यथापूर्वं स राजा शापविक्षतः ॥ ४ ॥
लक्ष्मणेनेति ॥ हे सौम्य, शापविक्षतः सन् स राजा यथा पूर्वमुवाच तच्छृण्विति योजना ॥ ४ ॥
अथाध्वनि गतौ विप्रौ विज्ञाय स नृगस्तदा ।
आहूय मन्त्रिणः सर्वान्नैगमान्सपुरोधसः ॥ ५ ॥
अथेति ॥ अध्वनि व्योमाध्वनि गतौ ध्यानेन अमुकाविति विज्ञायेत्यर्थः । नैगमान् पौरान् ॥ ५ ॥
तानुवाच नृगो राजा सर्वाश्च प्रकृतीस्तथा ।
दुःखेन सुसमाविष्टः श्रूयतां मे समाहितैः ॥ ६ ॥
तानिति ॥ श्रूयतामिति । वचनमिति शेषः ॥ ६ ॥
नारद: पर्वतश्चैव मम दत्वा महद्भयम् ।
गतौ त्रिभुवनं भद्रौ वायुभूतावनिन्दितौ ॥ ७ ॥
नारद इति ॥ त्रिभुवनं ब्रह्मलोकमित्यर्थः ॥ ७ ॥
कुमारोयं वसुर्नाम स देवोऽद्याभिषिच्यताम् ।
श्वभ्रं च यत्सुखस्पर्शं क्रियतां शिल्पिभिर्मम ।
यत्राहं संक्षयिष्यामि शापं ब्राह्मणनिस्सृतम् ॥ ८ ॥
वर्षघ्नमेकं श्वभ्रं तु हिमघ्नमपरं तथा ।
ग्रीष्मघ्नं तु सुखस्पर्शमेकं कुर्वन्तु शिल्पिनः ॥ ९ ॥
श्वभ्रं गर्तः ॥ ८-९ ॥
फलवन्तश्व ये वृक्षाः पुष्पवत्यश्च या लताः ।
विरोप्यन्तां बहुविधा श्छायावन्तश्च गुल्मिनः ॥ १० ॥
क्रियतां रमणीयं च श्वभ्राणां सर्वतो दिशम् ।
सुखमत्र वसिष्यामि यावत्कालस्य पर्ययः ॥ ११ ॥
गुल्मिनः कक्षवृक्षाः ॥ १०-११ ॥
पुष्पाणि च सुगन्धीनि क्रियन्तां तेषु नित्यशः ।
परिवार्य यथा मे स्युरध्यर्धं योजनं तथा ॥ १२ ॥
एवं कृत्वा विधानं स संदिदेश वसुं तदा ।
धर्मनित्यः प्रजाः पुत्र क्षत्रधर्मेण पालय ॥ १३ ॥
पुष्पाणि यथा अध्यर्धं योजनं परिवार्य स्युः तथा क्रियन्तामित्यर्थः ।। १२-१३ ॥
प्रत्यक्षं ते यथा शापो द्विजाभ्यां मयि पातितः ।
नरश्रेष्ठ सरोपाभ्यामपराधेऽपि तादृशे ॥ १४ ॥
तादृशे अल्पेपीत्यर्थः ॥ १४ ॥
मा कृथास्तनुसंतापं मत्कृतेऽपि नरर्षभ ।
कृतान्तः कुशलः पुत्र येनास्मि व्यसनीकृतः ॥ १५ ॥
कृतान्तः ईश्वरः ॥ १५ ॥
प्राप्तव्यान्येव प्राप्नोति गन्तव्यान्येव गच्छति ।
लब्धव्यान्येव लभते दुःखानि च सुखानि च ।
पूर्वे जात्यन्तरे वत्स मा विषादं कुरुष्व ह ॥ १६ ॥
एवमुक्त्वा नृपस्तत्र सुतं राजा महायशाः ।
श्वभ्रं जगाम सुकृतं वासाय पुरुषर्षभ ॥ १७ ॥
एवं प्रविश्यैव नृपस्तदानीं श्वभ्रं महारत्नविभूषितं तत् ।
संपादयामास तदा महात्मा शापं द्विजाभ्यां हि रुषा विमुक्तम् ॥ १८ ॥
पूर्वे जात्यन्तरे । प्राप्तव्यान्येव प्राप्नोति गन्तव्यान्येव गच्छति । लब्धव्यान्येव लभते दुःखानि च सुखानि च ॥ १६-१८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुष्पञ्चाशःसर्गः॥५४॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने चतुष्पञ्चाशः सर्गः ॥ ५४ ॥