श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चसप्ततितमः सर्गः
नारदवचन श्रवणहृष्टेनरामेण लक्ष्मणंप्रतिब्राह्मणबालककलेबरस्यतैलद्रोण्यांनिधापनेन -रक्षणचोदनपूर्वकं स्मरणमात्रसंनिहितपुष्पक विमानारोहणेनक्रमेण प्रतीच्यादिदिक्चतुष्टये दुष्कृतकारिणोऽन्वेषणं ॥ १ ॥ दक्षिणस्यांदिशि शैवलशैलोत्तरपार्श्ववर्तिसरस्तीरेअधोमूर्धतया -तपस्यतः कस्यचिदवलोकनम् ॥ २ ॥ तथातंप्रतितदीयवर्णस्य तदभिलषिततपः फलस्यचप्रश्नः ॥ ३ ॥
नारदस्य तु तद्वाक्यं श्रुत्वामृतमयं तदा ।
प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत् ॥ १ ॥
गच्छ सौम्य द्विज श्रेष्ठं समाश्वासय सुव्रतम् ।
बालस्य तु शरीरं तत्तैलद्रोण्यां निधापय ॥ २ ॥
गन्धैश्च परमोदारैस्तैलैश्चापि सुगन्धिभिः ।
यथा न क्षीयते बालस्तथा सौम्य विधीयताम् ॥ ३ ॥
नारदस्येत्यादि ।। १-३ ॥
यथा शरीरो बालस्य गुप्तः सञ्शिष्टकर्मणः ।
विपत्तिः परिभेदो वा न भवेच्च तथा कुरु ॥ ४ ॥
एवमादिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम् ।
मनसा पुष्पकं दध्यावागच्छेति महायशाः ॥ ५ ॥
उक्तार्थस्य विवरणं-यथेत्यादि ।। बालस्य शरीर इति लिङ्गव्यत्ययः । विपत्तिः स्वरूपनाशः । भेदः सन्धिबन्धादिविनिर्मु क्तिः ॥ ४-५ ॥
इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः ।
आजगाम मुहूर्तेन समीपं राघवस्य वै ॥ ६ ॥
सोब्रवीत्प्रणतो भूत्वा अयमस्मि नराधिप ।
वश्यस्तव महाबाहो किंकरः समुपस्थितः ॥ ७ ॥
भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः ।
अभिवाद्य महर्षींस्तान्विमानं सोध्यरोहत ॥ ८ ॥
धनुर्गृहीत्वा तूणी च खङ्गं च रुचिरप्रभम् ।
निक्षिप्य नगरे वीरौ सौमित्रिभरतावुभौ ॥ ९ ॥
स त्विति । पुष्पकाधिष्ठातृचेतन इत्यर्थः ॥ ६-९ ॥
प्रायात्प्रतीचीं हरितं विचिन्वंश्च ततस्ततः ।
उत्तरामगमच्छ्रीमान्दिशं हिमवता वृताम् ॥ १० ॥
हरितं दिशं विचिन्वन्निति । शूद्रतपस्विनमिति शेषः ॥ १० ॥
अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम् ।
पूर्वामपि दिशं सर्वामथापश्यन्नराधिपः ॥ ११ ॥
प्रविशुद्धसमाचारामादर्शतलनिर्मलाम् ।
पुष्पकस्थो महाबाहुस्तदा पश्यन्नराधिपः ॥ १२ ॥
अपश्यमानः अपश्यन् ।। ११-१२
दक्षिणां दिशमाक्रामत्ततो राजर्षिनन्दनः ।
शैवलस्योत्तरे पार्श्वे ददर्श सुमहत्सरः ॥ १३ ॥
तस्मिन्सरसि तप्यन्तं तापसं सुमहत्तपः ।
ददर्श राघवः श्रीमाँल्लम्बमानमधोमुखम् ॥ १४ ॥
राघवस्तमुपागम्य तप्यन्तं तप उत्तमम् ।
उवाच स तदा वाक्यं धन्यस्त्वमसि सुव्रत ॥ १५ ॥
कस्यां योन्यां तपोवृद्ध वर्तसे दृढविक्रम ।
कौतूहलात्वां पृच्छामि रामो दाशरथिर्ह्यहम् ॥ १६ ॥
।। शैवलाख्यस्य विन्ध्यसमीपवर्तिगिरेः ॥ १३-१६ ॥
कोर्थो मनीषितस्तुभ्यं स्वर्गलाभः परोथ वा ।
वराश्रयो यदर्थं त्वं तपस्यसि सुदुष्करम् ।
यमाश्रित्य तपस्तप्तं श्रोतुमिच्छामि तापस ॥ १७ ॥
तुभ्यं तव । वराश्रयः तपः-प्रीतदेवतावरलभ्यो मनीषितोभीष्टोर्थः स्वर्भोगो वा अन्यो वा । यमाश्रित्य ॥ १७ ॥
ब्राह्मणो वाऽसि भद्रं ते क्षत्रियो वाऽसि दुर्जयः ।
वैश्यस्तृतीयवर्णो वा शूद्रो वा सत्यवाग्भव ॥ १८ ॥
इत्येवमुक्तः स नराधिपेन ह्यवाक्छिरा दाशरथाय तस्मै ।
उवाच जातिं नृपपुवाय यत्कारणे चैव तपःप्रयत्नः ॥ १९ ॥
सत्यवाग्भव सत्यं कथयेत्यर्थः ॥ १८-१९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चसप्ततितमः सर्गः ॥ ७५ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चसप्ततितमः सर्गः ॥ ७५ ॥