श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रयोविंशस्सर्गः
रावणेन मारीचप्रभृतिभिः सहरसातलेभोगवतीमेत्य वासुकिप्रमुखनागराजवशीकरण -पूर्वकं निवातकवचानांपुरमेय तैःसहमहासमरप्रवर्तनम् ।। १ ।। तन्त्राभ्यतरपराभवाभावेसत्वरमा -गतेनब्रह्मणा निवातकवचान्प्रत्युभयोःस्व वरमहिम्नाऽजय्यत्वकथनेन तेषांरावणेनसहाग्नि -साक्षिकंसख्यकरणम् ॥ २ ॥ ततोशमनगरंगतेनरावणेन कालकेयैः सहयुद्धे प्रमादाच्छूर्पणखा -भर्तुर्विद्युजिह्वस्य हननम् ॥ ३ ॥ ततोवरुणलोकंगतेनरावणेन रणसमाहूतेषुवरुणसुतेषु वरदृप्तेनतेनरणधरण्यांपातितेषु सारथिभिस्तेषांगृहप्रापणम् ॥ ४ ॥ रावणेन रणायवरुणाह्वाने तन्मन्त्रिणाप्रहसेन वरुणब्रह्मलोकेस्थितिनिवेदने रावणेन जयघोषणपूर्वकं सहमहस्तादिभि -र्लङ्कांप्रतिप्रस्थानम् ॥ ५ ॥
ततो जित्वा दशग्रीवो यमं त्रिदशपुङ्गवम् ।
रावणस्तु रणश्लाघी स्वसहायान्ददर्श ह ॥ १ ॥
ततो रुधिरसिक्ताङ्गं प्रहारैर्जर्जरीकृतम् ।
रावणं राक्षसा दृष्ट्वा हृष्टवत्समुपागमन् ॥ २ ॥
जयेन वर्धयित्वा च मारीचप्रमुखास्ततः ।
पुष्पकं भेजिरे सर्वे सान्त्विता रावणेन तु ॥ ३ ॥
हृष्टवत् यमादपि कथंचिन्मुक्ता इति हृष्टाः सन्तः ॥ २-३ ॥
ततो रसातलं गच्छन्नविष्टः पयसां निधिम् ।
दैत्योरगगणाध्युष्टं वरुणेन सुरक्षितम् ॥ ४ ॥
रसातलं गच्छन् पयसां निधिं प्रविष्टः । मार्गवशादिति शेषः ॥ ४ ॥
स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम् ।
कृत्वा नागान्वशे हृष्टो ययौ मणिमयीं पुरीम् ॥ ५ ॥
भोगवती नाम समुद्राध: पाताललोकवर्तिनी नागपुरी । तत्र नागान् स्ववशे कृत्वा स्वीयत्वेन स्थापयित्वा ॥ ५ ॥
निवातकवचास्तत्र दैत्या लब्धवरा वसन् ।
राक्षसांस्तान्समागम्य युद्धाय समुपाह्वयत् ॥ ६ ॥
ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः ।
नानाप्रहरणास्तत्र प्रहृष्टा युद्धदुर्मदाः ॥ ७ ॥
शूलैस्त्रिशूलैः कुलिशैः पट्टिशासिपरश्वधैः ।
अन्योन्यं बिभिदु: क्रुद्धा राक्षसा दानवास्तथा ॥ ८ ॥
तेषां तु युध्यमानानां साग्रः संवत्सरो गतः ।
न चान्यतरयोस्तत्र विजयो वा क्षयोपि वा ॥ ९ ॥
ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययः ।
आजगाम द्रुतं देवो विमानवरमास्थितः ॥ १० ॥
वसन् अवसन् । लब्धवराः । ब्रह्मणइतिशेषः ।। ६-१० ॥
निवातकवचानां तु निवार्य रणकर्म तत् ।
वृद्धः पितामहो वाक्यमुवाच विदितार्थवत् ॥ ११ ॥
न ह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः ।
न भवन्तः क्षयं नेतुमपि सामरदानवैः ॥ १२ ॥
वृद्धः सर्वदेवासुरकूटस्थः । विदितार्थवत् वाक्यमित्यन्वयः ॥ ११-१२ ।।
राक्षसस्य सखित्वं च भवद्भिः सह रोचते ।
अविभक्ताश्च सर्वार्थाः सुहृदां नात्र संशयः ॥ १३ ॥
ततोग्निसाक्षिकं सख्यं कृतवांस्तत्र रावणः ।
निवातकवचैः सार्धं प्रीतिमानभवत्तदा ॥ १४ ॥
अर्थतस्तैर्यथान्यायं संवत्सरमथोषितः ।
स्वपुरान्निर्विशेषं च प्रियं प्राप्तो दशाननः ॥ १५ ॥
रोचते । कर्तव्यत्वेन ममेति शेषः । सख्यप्रयोजनं दर्शयति- अविभक्ता इति ।। १३-१५ ॥
ततोपधार्य मायानां शतमेकं समाप्तवान् ।
सलिलेन्द्रपुरान्वेषी भ्रमति स्म रसातलम् ॥ १६ ॥
उपधार्य अनुसृत्य । मायानां असुरमायायोगविद्यानां ॥ १६ ॥
ततोश्मनगरं नाम कालकेयैरधिष्ठितम् ।
गत्वा तु कालकेयांश्च हत्वा तत्र बलोत्कटान् ॥ १७ ॥
तत इत्यादि श्लोकचतुष्कमेकं वाक्यं ।। १७ ।।
शूर्पणख्याश्च भर्तारमसिना प्राच्छिनत्तदा ।
श्यालं च बलवन्तं च विद्युजिह्वं बलोत्कटम् ।
जिह्वया संलिहन्तं च राक्षसं समरे तथा ॥ १८ ॥
तं विजित्य मुहूर्तेन जघ्ने दैत्यांश्चतुः शतम् ॥ १९ ॥
ततः पाण्डुरमेघाभं कैलासमिव भास्वरम् ।
वरुणस्यालयं दिव्यमपश्यद्राक्षसाधिपः ॥ २० ॥
श्यालस्य च्छेदे निमित्तमाह । राक्षसान् स्वकीयान् जिह्वया संलिहन्तं आस्वादयन्तं भक्षयन्तमिति यावत् ॥ १८-२० ।।
क्षरन्तीं च पयस्तत्र सुरभिं गामवस्थिताम् ।
यस्याः पयोभिनिष्यन्दात्क्षीरोदो नाम सागरः ॥ २१ ॥
सुरभिमित्यत्रापि अपश्यदित्यनुकर्ष: । सागर इति । समभवदिति शेषः ॥ २१ ॥
ददर्श रावणस्तत्र गोवृषेन्द्रवरारणिम् ।
यस्माच्चन्द्रः प्रभवति शीतरश्मिर्निशाकरः ॥ २२ ॥
गोवृषेन्द्रस्य रुद्रवृषभस्य वरारणिं साक्षान्मातरं । यस्माच्चन्द्र इति । इन्दूत्पादकः क्षीरसमुद्र इत्यर्थः । एवमुत्तरत्रापि यच्छब्दा व्याख्येयाः ।। २२ ।।
यं समाश्रित्य जीवन्ति फेनपाः परमर्षयः ।
अमृतं यत्र चोत्पन्नं स्वधा च स्वधभोजिनाम् ॥ २३ ॥
यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः ।
प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम् ।
प्रविवेश महाघोरं गुप्तं बहुविधैर्बलैः ॥ २४ ॥
स्वधभोजिनामिति । ह्रस्व आर्ष: । स्वधाभोजिनां पितॄणां । स्वधा पितृभक्षं कव्यं ॥ २३-२४ ॥
ततोधाराशताकीर्णं शारदाभ्रनिभं तदा ।
नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम् ॥ २५ ॥
ततो हत्वा बलाध्यक्षान्समरे तैश्च ताडितः ।
अब्रवीच्च ततो योधान्राजा शीघ्रं निवेद्यताम् ॥ २६ ॥
धाराशताकीर्णं जलधाराशतैराकीर्णं ॥ २५-२६ ॥
युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम् ।
वद वा न भयं तेऽस्ति निर्जितोस्मीति साञ्जलिः ।। २७ ।।
निर्जितोस्मीति वद । एवं चेत्ते भयं नास्तीत्यब्रवीदिति निवेद्यतामित्यन्वयः ॥ २७ ॥
एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः ।
पुत्राः पौत्राश्च निष्क्रामन्गौश्च पुष्कर एव च ॥ २८ ॥
ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः ।
युङ्क्त्वा रथान्कामगमानुद्यद्भास्करवर्चसः ॥ २९ ॥
ततो युद्धं समभवद्दारुणं रोमहर्षणम् ।
सलिलेन्द्रस्य पुत्राणां रावणस्य च धीमतः ॥ ३० ॥
अमात्यैश्च महावीर्यैर्दशग्रीवस्य रक्षसः ।
वारुणं तद्बलं कृत्स्नं क्षणेन विनिपातितम् ॥ ३१ ॥
समीक्ष्य स्वबलं सङ्ख्ये वरुणस्य सुतास्तदा ।
अर्दिताः शरजालेन निवृत्ता रणकर्मणः ॥ ३२ ॥
महीतलगतास्ते तु रावणं दृश्य पुष्पके ।
आकाशमाशु विविशुः स्यन्दनैः शीघ्रगामिभिः ॥ ३३ ॥
गौश्च पुष्करश्चेति पुत्राणां पौत्राणां च बलाध्यक्षौ ॥ २८-३३ ॥
महदासीत्ततस्तेषां तुल्यस्थानमवाप्य तत् ।
आकाशयुद्धं तुमुलं देवदानवयोरिव ॥ ३४ ॥
ततस्ते रावणं युद्धे शरैः पावकसन्निभैः ।
विमुखीकृत्य संतुष्टा विनेदुर्विविधान् रवान् ॥ ३५ ॥
ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम् ।
त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत् ।। ३६ ।।
तेन ते दारुणा युद्धे कामगाः पवनोपमाः ।
महोदरेण गदया हता वै प्रययुः क्षितिम् ॥ ३७ ॥
तेषां वरुणपुत्राणां हत्वा योधान्हयाश्चतान् ।
मुमोचाशु महानादं विरथान्प्रेक्ष्य तान्स्थितान् ॥ ३८ ॥
ते तु तेषां रथा: साश्वाः सह सारथिभिर्हतैः ।
महोदरेण निहताः पतिताः पृथिवीतले ॥ ३९ ॥
स्थानं आकाशरूपं । आकाशे युद्धं आकाशयुद्धं ॥ ३४-३९ ॥
ते तु त्यक्त्वा रथान्पुत्रा वरुणस्य महात्मनः ।
आकाशे विष्ठिताः शूराः स्वप्रभावान्न विव्यथुः ॥ ४० ॥
धनूंषि कृत्वा सज्जानि विनिर्भिद्य महोदरम् ।
रावणं समरे क्रुद्धाः सहिताः समभिद्रवन् ॥ ४१ ॥
सायकैश्यापविभ्रष्टैर्वज्रकल्पैः सुदारुणैः ।
दारयन्ति स्म संक्रुद्धा मेघा इव महागिरिम् ॥ ४२ ॥
ततः क्रुद्धो दशग्रीवः कालाग्निरिव निर्गतः ।
शरवर्षैर्महाघोरस्तेषां मर्मस्वताडयत् ॥ ४३ ॥
ततस्तेनैव सहसा सीदन्ति स्म पदातयः ।
मुसलानि विचित्राणि ततो भल्लशतानि च ॥ ४४ ॥
पट्टिशांश्चैव शक्तीश्च शतघ्नीस्तोमरांस्तथा ।
पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः ॥ ४५ ॥
स्वप्रभावात् देवतात्वप्रभावात् ॥ ४०-४५ ॥
अपविद्धास्तु ते वीरा विनिष्पेतुः पदातयः ।
महापङ्कमिवासाद्य कुञ्जराष्षष्टिहायनाः ॥ ४६ ॥
सीदमानान्सुतान्दृष्ट्वा विह्वलान्सुमहौजसः ।
ननाद रावणो हर्षान्महानम्बुधरो यथा ॥ ४७ ॥
ततो रक्षो महानादान्मुक्त्वा हन्ति स्म वारुणान् ।
नानाप्रहरणोपेतैर्धारापातैरिवाम्बुदः ॥ ४८ ॥
ततस्ते विमुखाः सर्वे पतिता धरणीतले ।
रणात्स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः ॥ ४९ ॥
षष्टिहायनं परिमाणं येषां ते षष्टिहायनाः ॥ ४६-४९ ॥
तानब्रवीत्ततो रक्षो वरुणाय निवेद्यताम् ॥ ५० ॥
रावणं त्वब्रवीन्मन्त्री प्रहसो नाम वारुणः ।
गतः खलु महाराजो ब्रह्मलोकं जलेश्वरः ।
गान्धर्वं वरुणः श्रोतुं यं त्वमाह्वयसे युधि ॥ ५१ ॥
तत्किं तव वृथा वीर परिश्रम्य गते नृपे ।
ये तु सन्निहिता वीराः कुमारास्ते पराजिताः ॥ ५२ ।।
राक्षसेन्द्रस्तु तच्छ्रुत्वा नाम विश्राव्य चात्मनः ।
हर्षान्नादं विमुञ्चन्वै निष्क्रान्तो वरुणालयात् ॥ ५३
आगतस्तु पथा येन तेनैव विनिवृत्य सः ।
लङ्कामभिमुखो रक्षो नभस्थलगतो ययौ ॥ ५४ ॥
वरुणस्यायं वारुणः ॥ ५०-५४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रयोविंशस्सर्गः ॥ २३ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने त्रयोविंशः सर्गः ॥ २३ ॥