श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्व्यशीतितमः सर्गः
शंबुकशुद्रवधानन्तरंरात्रावगस्त्याश्रमेस्थितवतारामेण प्रभातेतदभिवादनपूर्वकं पुष्पका -रोहणेनपुनरयोध्यांप्रत्यागमनम् ॥ १॥
ऋषेर्वचनमाज्ञाय रामः सन्ध्यामुपासितुम् ।
उपाक्रमत्सरः पुण्यमप्सरोगण सेवितम् ॥ १ ॥
तत्रोदकमुपस्पृश्य सन्ध्यामन्वास्य पश्चिमाम् ।
आश्रमं प्राविशद्रामः कुम्भयोनेर्महात्मनः ॥ २ ॥
तस्यागस्त्यो बहुगुणं कन्दमूलं तेथौषधिम् ।
शाल्यादीनि पवित्राणि भोजनार्थमकल्पयत् ॥ ३ ॥
स भुक्तवान्नर श्रेष्ठस्तदन्नममृतोपमम् ।
प्रीतश्च परितुष्टश्च तां रात्रिं समुपाविशत् ॥ ४ ॥
कन्दमूलं कन्दरूपं मूलं कन्दमूलं । तथा ओषधिं दिव्यौषधिरूपं । जरापलितघ्नमित्यर्थः । एवं बहुगुणप्रयोजनार्थं ददौ । भोजनार्थं तु शालिपवित्राणि पवित्रशाल्यन्नानीत्यर्थः ॥ ३-४ ॥
प्रभाते काल्यमुत्थाय कृत्वाऽऽह्निकमरिन्दमः ।
ऋषिं समुपचक्राम गमनाय रघूत्तमः ॥ ५ ॥
अभिवाद्याब्रवीद्रामो महर्षिं कुम्भसंभवम् ।
आपृच्छे स्वां पुरीं गन्तुं मामनुज्ञातुमर्हसि ॥ ६ ॥
काल्यं प्रातः-कालिकमाह्निकं कृत्वा । गमनायेति । गमनानुज्ञार्थमित्यर्थः ॥ ५-६ ॥
धन्योस्म्यनुगृहीतोस्मि दर्शनेन महात्मनः ।
द्रष्टुं चैवागमिष्यामि पावनार्थमिहात्मनः ॥ ७ ॥
आगमिष्यामीति । अतःपरमपि यदाऽऽकाङ्क्षा तदा आमनः पावनार्थमागमिष्यामीत्युक्तवानित्यर्थः ॥ ७ ॥
तथा वदति काकुत्स्थे वाक्यमद्भुतदर्शनम् ।
उवाच परमप्रीतो धर्मनेत्रस्तपोधनः ॥ ८ ॥
अस्यद्भुतमिदं वाक्यं तव राम शुभाक्षरम् ।
पावनः सर्वभूतानां त्वमेव रघुनन्दन ॥ ९ ॥
परमप्रीत इति । एवं विनयवचनादिति शेषः । धर्मनेत्र इति । धर्मो नेत्रं ज्ञानसाधनं यस्य स तथा ॥ ८-९ ।।
मुहूर्तमपि राम त्वां ये च पश्यन्ति केचन ।
पाविताः स्वर्गभूताश्च पूज्यास्ते सर्वदेवतैः ॥ १० ॥
ये च त्वां घोरचक्षुर्भिः पश्यन्ति प्राणिनो भुवि ।
हतास्ते यमदण्डेन सद्यो निरयगामिनः ॥ ११ ॥
स्वर्गभूताः स्वर्गं प्राप्ताः ॥ १०-११ ॥
ईदृशस्त्वं रघुश्रेष्ठ पावनः सर्वदेहिनाम् ।
भुवि त्वां कथयन्तोपि सिद्धिमेष्यन्ति राघव ॥ १२ ॥
सिद्धिं परमं तत्त्वं ब्रह्मभावं ॥ १२ ॥
गच्छ चारिष्टमव्यग्रः पन्थानमकुतोभयम् ।
प्रशाधि राज्यं धर्मेण गतिर्हि जगतो भवान् ॥ १३ ॥
अरिष्टं सुखं ॥ १३ ॥
एवमुक्तस्तु मुनिना प्राञ्जलिः प्रग्रहो नृपः ।
अभ्यवादयत प्राज्ञस्तमृषिं पुण्यशालिनम् ॥ १४ ॥
अभिवाद्य मुनिश्रेष्ठं तांश्च सर्वांस्तपोधनान् ।
अध्यारोहत्तदव्यग्रः पुष्पकं हेमभूषितम् ॥ १५ ॥
तं प्रयान्तं मुनिगणा ह्याशीर्वादः समन्ततः ।
अपूजयन्महेन्द्राभं सहस्राक्षमिवामराः ॥ १६ ॥
स्वस्थः स ददृशे रामः पुष्पके हेमभूषिते ।
शशी मेघसमीपस्थो यथा जलधरागमे ॥ १७ ॥
प्रग्रहः उद्यतबाहुः ।। १४-१७ ।।
ततोर्धदिवसे प्राप्ते पूज्यमानस्ततस्ततः ।
अयोध्यां प्राप्य काकुत्स्थो मध्यकक्ष्यामवारुहत् ॥ १८ ॥
ततो विसृज्य रुचिरं पुष्पकं कामगामि तत् ।
विसर्जयित्वा गच्छेति स्वस्ति तेऽस्त्विति च प्रभुः ॥ १९ ॥
मध्यकक्ष्यां प्राप्येति शेषः ।। १८-१९ ।।
कक्ष्यान्तरविनिक्षिप्तं द्वाःस्थं रामोऽब्रवीद्वचः ।
लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ ।
ममागमनमाख्याय शब्दापयत मा चिरम् ॥ २० ॥
विनिक्षिप्तं योजितमिति यावत् । शब्दापयतेति पुगार्ष: । आत्मानं शब्दवन्तं कुर्वित्यर्थः । बहुवचनमार्षं ॥ २० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्व्यशीतितमः सर्गः ॥ ८२ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने द्व्यशीतितमः सर्गः ॥ ८२ ॥