श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तषष्टितमःसर्गः
शत्रुघ्नेन च्यवनंप्रति लवणतच्छूलशंक्तिप्रश्नः इन्द्रेण निजार्धासनाकाङ्क्षिणं -मांधातारंप्रति भुविलवणासुराजेतृतया तदनर्हत्वोक्ता तेनलवणासुरमेत्य युद्धप्रवर्तनम् ॥ २ ॥ लवण निसृष्टेनशूलेन ससैन्यमांधातृभस्मीकरणपूर्वकं पुनर्लवणकरं प्रत्यागमनम् ।। ३ ।। च्यवनेनैवंशूलशक्तिवर्णनपूर्वकं शत्रुघ्नंप्रति शुलशुन्यतासमये तेनसह युद्धविधानम् ॥ ४ ॥
अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् ।
पप्रच्छ च्यवनं विप्रं लवणस्य यथा बलम् ॥ १ ॥
प्रवृत्तायां आगतायामित्यर्थः । पप्रच्छ शूलवृत्तान्तमिति शेषः ॥ १ ॥
शूलस्य च बलं ब्रह्मन्के च पूर्वं विनाशिताः ।
अनेन शूलमुख्येन द्वन्द्वयुद्धमुपागताः ॥ २ ॥
तस्य तद्वचनं श्रुत्वा शत्रुघ्नस्य महात्मनः ।
प्रत्युवाच महातेजाच्यवनो रघुनन्दनम् ॥ ३ ॥
अनेन द्वन्द्वयुद्धमुपागताः के पूर्वं शूलेन निपातिता इति पप्रच्छेति योजना । ब्रह्मनित्यारभ्य प्रश्नवचनं । अनेनेति लवणः परामृश्यते । अनेन लवणबलं शूलबलं च पृष्टं भवति ॥ २-३ ॥
असङ्ख्येयानि कर्माणि यान्यस रघुनन्दन ।
इक्ष्वाकुवंशप्रभवे यद्वृत्तं तच्छृणुष्व मे ॥ ४ ॥
अयोध्यायां पुरा राजा युवनाश्वसुतो बली ।
मान्धातेति सविख्यातस्त्रिषु लोकेषु वीर्यवान् ॥ ५ ॥
स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः ।
सुरलोकमितो जेतुमुद्योगमकरोन्नृपः ॥ ६ ॥
इन्द्रस्य च भयं तीव्रं सुराणां च महात्मनाम् ।
मान्धातरि कृतोद्योगे देवलोकजिगीषया ॥ ७ ॥
अस्य शूलस्य यानि शत्रुसंहारकर्माणि तान्यसंख्येयानि । तत्र प्रसिद्धमेकं दर्शयति – इक्ष्वाकुवंशप्रभव इति । यद्वृत्तं यद्व्यापारं । तच्छृणुष्व ॥ ४-७ ।।
अर्धासनेन शक्तस्य राज्यार्धेन च पार्थिवः ।
वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत ।। ८ ।।
तस्य पापमभिप्रायं विदित्वा पाकशासनः ।
सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम् ॥ ९ ॥
शक्रस्यार्धासनेन अर्धराज्येन च युक्तः पार्थिवो राजा भूत्वा सुरगणैर्वन्द्यमानः स्थास्य इति प्रतिज्ञां कृत्वा दिवमध्यारोहत ।। ८-९ ॥
राजा त्वं मानुषे लोके न तावत्पुरुषर्षभ ।
अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि ॥ १० ॥
यदि वीर समग्रा ते मेदिनी निखिला वशे ।
देवराज्यं कुरुष्वेह सभृत्यबलवाहनः ॥ ११ ॥
इन्द्रमेवं ब्रुवाणं तं मान्धाता वाक्यमब्रवीत् ।
क्व मे शक्र प्रतिहतं शासनं पृथिवीतले ॥ १२ ॥
तावत् प्रथमतः । मानुष एव लोके सर्वात्मना न राजासि स त्वं पृथिवीमेव वश्यामकृत्वा कथमिह देवराज्यमिच्छसि ॥ १०-१२ ॥
तमुवाच सहस्राक्षो लवणो नाम राक्षसः ।
मधुपुत्रो मधुवने न तेऽज्ञां कुरुतेऽनघ ॥ १३ ॥
तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम् ।
व्रीडितोऽवाङ्मुखो राजा व्याहर्तुं न शशाकह ॥ १४ ॥
आमन्त्र्य तु सहस्राक्षं ह्रिया किंचिदवाङ्मुखः ।
पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः ॥ १५ ॥
स कृत्वा हृदयेऽमर्षं सभृत्यबलवाहनः ।
आजगाम मधोः पुत्रं वशे कर्तुमरिन्दमः ॥ १६ ॥
स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः ।
दूतं संप्रेषयामास सकाशं लवणस्य हि ॥ १७ ॥
स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम् ।
वदन्तमेवं तं दूतं भक्षयामास राक्षसः ॥ १८ ॥
तेज्ञामिति संधिरार्षः । ते आज्ञां ॥ १३-१८ ॥
चिरायमाणे दूते तु राजा क्रोधसमन्वितः ।
अर्दयामास तद्रक्षः शरवृष्ट्या समन्ततः ॥ १९ ॥
ततः प्रहस्य तद्रक्षः शूलं जग्राह पाणिना ।
वधाय सानुबन्धस्य सुमोचायुधमुत्तमम् ॥ २० ॥
तच्छूलं दीप्यमानं तु सभृत्यबलवाहनम् ।
भस्मीकृत्वा नृपं भूयो लवणस्यागमत्करम् ॥ २१ ॥
एवं स राजा सुमहान्हतः सबलवाहनः ।
शूलस्य तु बलं सौम्य अप्रमेयमनुत्तमम् ॥ २२ ॥
चिरायमाणे विलम्बं कुर्वाणे ॥ १९-२२ ॥
श्वः प्रभाते तु लवणं वधिष्यसि न संशयः ।
अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव ॥ २३ ॥
लोकानां स्वस्ति चैव स्यात्कृते कर्मणि च त्वया ॥ २४ ॥
एतत्ते सर्वमाख्यातं लवणस्य दुरात्मनः ।
शूलस्य च बलं धोरमप्रमेयं नरर्षभ ।
विनाशश्चैव मान्धातुर्यत्तेनाभूच्च पार्थिव ॥ २५ ॥
त्वं श्वः प्रभाते लवणं महात्मन्वधिष्यसे नात्र तु संशयो मे ।
शूलं विना निर्गतमामिषार्थे ध्रुवो जयस्ते भविता नरेन्द्र ॥ २६ ॥
अथ श्रुतशुलबलं प्रति स्वविजयसन्देहनिवृत्तय आह -श्वःप्रभात इत्यादि ॥ २३-२६ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तषष्टितमःसर्गः॥ ६७ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्तषष्टितमः सर्गः ॥ ६७ ।।