श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षट्पञ्चाशःसर्गः
लक्ष्मणेनरामंप्रति विदेहयोर्निमिवसिष्ठयोः पुनर्देहयोगप्रकारमश्नः ॥ १ ॥ रामेण -तत्कथनारंभः ॥ २ ॥ वसिष्ठेनपुनर्देहयोगाय ब्रह्माणंप्रतिप्रार्थने तेनतंप्रति मित्रावरुणरेतः प्रवेशचोदना ।। ३ ।। वसिष्ठेन ब्रह्मवचनेनवरुणालयगमनम् ॥ ४ ॥ अत्रान्तरे मित्रंप्रतिगच्छन्त्या -उर्वश्या स्वभोगाभिलापिणंवरुणंप्रति स्वस्यतस्मिन्भावनिवेदनेन देहस्यमैत्रीयत्वोक्तौ वरुणेनतदवलोकनेनस्कन्नस्य स्वतेजसः कुंभेस्थापनम् ॥ ५ ॥ अनन्तरंमित्रेण स्वसमीपमागता -मुर्वशींप्रति वरुणाभिलापदोषाविष्करणेन मानुषस्यपुरूरवसोभार्याभवनशापदानम् ॥ ६ ॥
रामस्य भाषितं श्रुत्वा लक्ष्मणः परवीरहा ।
उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ॥ १ ॥
निक्षिप्तदेहौ काकुत्स्थ कथं तौ द्विजपार्थिवौ ।
पुनर्देहेन संयोगं जग्मतुर्देवसंमतौ ॥ २ ॥
लक्ष्मणेनैवमुक्तस्तु रामश्चेक्ष्वाकुनन्दनः ।
प्रत्युवाच महातेजा लक्ष्मणं पुरुषर्षभः ॥ ३ ॥
तौ परस्परशापेन देहावुत्सृज्य धार्मिकौ ।
अभूतां नृपविप्रर्षी वायुभूतौ तपोधनौ ॥ ४ ॥
देवसंमतौ देवतुल्यौ ।। २-४ ।।
अशरीरः शरीरस्य कृतेऽन्यस्य महामुनिः ।
वसिष्ठः सुमहातेजा जगाम पितुरन्तिकम् ॥ ५ ॥
सोभिवाद्य ततः पादौ देवदेवस्य धर्मवित् ।
पितामहमथोवाच वायुभूत इदं वचः ॥ ६ ॥
भगवन्निमिशापेन विदेहत्वमुपागमम् ।
लोकनाथ महादेव अण्डजोपि त्वमण्डजः ॥ ७ ॥
अन्यस्य शरीरस्य कृते अन्यशरीरप्राप्त्यर्थमित्यर्थः ॥ ५-७ ॥
सर्वेषां देहहीनानां महद्दुःखं भविष्यति ।
लुप्यन्ते सर्वकार्याणि हीनदेहस्य वै प्रभो
देहस्यान्यस्य सद्भावे प्रसादं कर्तुमर्हसि ॥ ८ ॥
सर्वकार्याणि ऐहिकामुष्मिकसकलप्रयोजनानि ॥ ८ ॥
तमुवाच ततो ब्रह्मा स्वयंभूरमितप्रभः ।
मित्रावरुणजं तेजः प्रविश त्वं महायशः ॥ ९ ॥
तेजो रेतः ॥ ९ ॥
अयोनिजस्त्वं भविता तत्रापि द्विजसत्तम ।
धर्मेण महता युक्तः पुनरेष्यसि मे वशम् ॥ १० ॥
एवमुक्तस्तु देवेन चाभिवाद्य प्रदक्षिणम् ।
कृत्वा पितामहं तूर्णं प्रययौ वरुणालयम् ॥ ११ ॥
अयोनिज इति । तत्रापि मित्रावरुणतेजःप्रवेशेपि अयोनिजत्वं । रेतोजन्यत्वेपि योनावप्रवेशादितिभावः । मे वशं मदधीनतां ॥ १०-११ ॥
तमेव कालं मित्रोपि वरुणत्वमकारयत् ।
क्षीरोदेन सहोपेतः पूज्यमानः सुरोत्तमैः ॥ १२ ॥
एतस्मिन्नेव काले तु उर्वशी परमाप्सराः ।
यदृच्छया समुद्रेशमाययौ सखिभिर्वृता ॥ १३ ॥
तां दृष्ट्वा रूपसंपन्नां क्रीडन्तीं वरुणालये ।
आविशत्परमो हर्षो वरुणं चोर्वशीकृते ॥ १४ ॥
स तां पद्मपलाशाक्षीं पूर्णचन्द्रनिभाननाम् ।
वरुणो वरयामास मैथुनायाप्सरोवराम् ॥ १५ ॥
प्रत्युवाच ततः सा तु वरुणं प्राञ्जलिः स्थिता ।
मित्रेणाहं वृता साक्षात्पूर्वमेव सुरेश्वर ।। १६ ।।
वरुणस्त्वब्रवीद्वाक्यं कन्दर्पशरपीडितः ।
इदं तेजः समुत्स्रक्ष्ये कुम्भेऽस्मिन्देवनिर्मिते ॥ १७ ॥
एवमुत्सृज्य सुश्रोणि त्वय्यहं वरवर्णिनि ।
कृतकामो भविष्यामि यदि नेच्छसि संगमम् ॥ १८ ॥
तस्य तल्लोकपालस्य वरुणस्य सुभाषितम् ।
उर्वशी परमप्रीता श्रुत्वा वाक्यमुवाच ह ॥ १९ ॥
तमेव कालं तस्मिन्नेव काले । मित्रः सूर्यमूर्तिभेदः । वरुणत्वमकारयत् । केनापि हेतुना उभावपि युगपद्वरुणराज्य मकुर्वतामित्यर्थः । तथैवोत्तरत्र वक्ष्यति-मित्रः वरुणत्वं प्रापेति ।। १२-१९ ।।
काममेतद्भवत्वेवं हृदयं मे त्वयि स्थितम् ।
भावश्चाभ्यधिकस्तुभ्यं देहो मित्रस्य तु प्रभो ॥ २० ॥
उर्वश्या एवमुक्तस्तु रेतस्तन्महदद्भुतम् ।
ज्वलदग्निशिखाप्रख्यं तस्मिन्कुम्भे ह्यपासृजत् ॥ २१ ॥
काममिति । मित्रत्वात्पूर्वस्थितवरुणाविरोधेन राज्यमकरोत् । एतदेव मे भवतु । मे हृदयं चित्तं त्वयि स्थितमेव भवतु । अभ्यधिको भावश्च तुभ्यं तव च मयीति शेषः ।। २० -२१ ।।
उर्वशी त्वगमत्तत्र मित्रो वै यत्र देवता ।
तां तु मित्रः सुसंक्रम्य उर्वशीमिदमब्रवीत् ॥ २२ ॥
मया निमन्त्रिता पूर्वं कस्मात्त्वमवसर्जिता ।
पतिमन्यं वृतवती तस्मात्वं दुष्टचारिणी ॥ २३ ॥
कस्मात्त्वमवसर्जिता विसृष्टवती । मामिति शेषः । कस्मात्त्वमसि वर्जितेति च पाठः । सुसंक्रम्य सम्यक्परिष्वज्य । तस्याः स्वस्मिन्ननुरागाभावमालोक्येत्यर्थः । तां तु मित्रः सुसंक्रुध्येति च पाठः ॥ २२-२३ ॥
अनेन दुष्कृतेन त्वं मत्क्रोधकलुषीकृता ।
मनुष्यलोकमास्थाय कंचित्कालं निवत्स्यसि ॥ २४ ॥
बुधस्य पुत्रो राजर्षि: काशीराजः पुरूरवाः ।
तमद्य गच्छ दुर्बुद्धे स ते भर्ता भविष्यति ॥ २५ ॥
ततः सा शापदोषेण पुरूरवसमभ्यगात् ।
प्रतियाता पुरूरवं बुधस्सात्मजमौरसम् ॥ २६ ॥
तस्य जज्ञे ततः श्रीमानायुः पुत्रो महाबलः ।
नहुषो यत्र पुत्रस्तु बभूवेन्द्रसमद्युतिः ॥ २७ ॥
वज्रमुत्सृज्य वृत्राय भ्रान्तेथ त्रिदशेश्वरे ।
शतं वर्षसहस्राणि येनेन्द्रत्वं प्रशासितम् ॥ २८ ॥
सा तेन शापेन जगाम भूमिं तदोर्वशी चारुदती सुनेत्रा ।
बहूनि वर्षाण्यवसच्च सुभ्रू: शापक्षयादिन्द्रसदो ययौ च ॥ २९ ॥
मानुषं लोकमास्थायेत्यनेन देवरूपेणैवेति शेषः ॥ २४-२९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षट्पञ्चाशःसर्गः॥ ५६ ।।
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षट्पञ्चाशः सर्गः ॥ ५६ ॥