श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकनवतितमः सर्गः
रामेण लक्ष्मणमुखाद्वसिष्ठाद्याह्वानेन तैःसहाश्वमेधकरणनिर्धारणपूर्वकं लक्ष्मणंप्रति यज्ञशाला निर्मापणसुग्रीवविभीषणाद्यानयनयागीयसामग्रीसंपादनादिचोदना ॥ १ ॥
एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभः ।
लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः ॥ १ ॥
भ्रातृभ्यामिति चतुर्थी ॥ १ ॥
वसिष्ठं वामदेवं च जाबालिमथ काश्यपम् ।
द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान् ।। २ ।।
द्विजांश्च सर्वप्रवरानिति गुरुवैषम्यमार्षं । अश्वमेधपुरस्कृतानिति । अश्वमेधप्रयोगकुशलानित्यर्थः ॥ २ ॥
एतान्त्सर्वान्त्समानीय मन्त्रयित्वा च लक्ष्मण ।
हयं लक्षणसंपन्नं विमोक्ष्यामि समाधिना ॥ ३ ॥
तद्वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः ।
द्विजान्त्सर्वान्त्समाहूय दर्शयामास राघवम् ॥ ४ ॥
ते दृष्ट्वा देवसंकाशं कृतपादाभिवन्दनम् ।
राघवं सुदुराधर्षमाशीर्भिः समपूजयन् ॥ ५ ॥
मन्त्रयित्वा विचार्य ॥ ३-५ ।।
प्राञ्जलिः स तदा भूत्वा राघवो द्विजसत्तमान् ।
आचचक्षेऽश्वमेघस्य ह्यभिप्रायं महायशाः ॥ ६ ॥
अश्वमेधस्येति । अनुष्ठानविषयकमिति शेषः । उवाच धर्मसंयुक्तमश्वमेधाश्रितं वच इति च पाठः ॥ ६ ॥
ते तु रामस्य तच्छ्रुत्वा नमस्कृत्वा वृषध्वजम् ।
अश्वमेधं द्विजाः सर्वे पूजयन्ति स्म सर्वशः ॥ ७ ॥
स तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम् ।
अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतोऽभवत्तदा ॥ ८ ॥
विज्ञाय कर्म तत्तेषां रामो लक्ष्मणमब्रवीत् ।
प्रेषयस्व द्रुतं दूतासुग्रीवाय महात्मने ॥ ९ ॥
वृषध्वजं नमस्कृत्वेति । सोल्लुण्ठनं वचः इलवद्रुद्राराधनं विहायेत्यर्थः । कर्दमकृतयागस्येवास्य रुद्रात्प्रयोजनगन्धाभावात् परदेवतामुद्दिश्याश्वमेधं कर्तुमुद्युक्ता इति भावः । रुद्रस्तु सर्वयज्ञानर्हः शूद्राराध्यः । यज्ञमध्ये च तत्प्रसङ्गे अबुपस्पर्शनादिप्रायश्चित्तस्य प्रसिद्धत्वात् । इमं पशुं पशुपते ते अद्य बध्नाम्यग्ने इत्यादिश्रुतिस्तु अग्नेरेव यज्ञान्वयप्रतिपादिका । कर्दमकृतयज्ञस्य नाराध्यो रुद्रः । किंतु स्वाभिमतदेवतारूपविष्ण्वाराधनत्वेन प्रीतो रुद्र इत्युच्यते । उपक्रमे तत्पूर्वसर्गेषु यज्ञो वै विष्णुः इत्युक्तरीत्या विष्णोराराध्यत्वसमर्थनात् । यद्वा विष्णुदत्तवरत्वाद्रुद्रस्य । विष्णुमपूजयन् । रामस्त्वश्वमेधं यथापूर्वमकरोत् ॥ ७-९ ॥
यथा महद्भिर्हरिभिर्बहुभिश्च वनौकसाम् ।
सार्धमागच्छ भद्रं ते ह्यनुभोक्तुं महोत्सवम् ॥ १० ॥
विभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः ।
अश्वमेधं महायज्ञमायात्वतुलविक्रमः ॥ ११ ॥
राजानश्च महाभागा ये मे प्रियचिकीर्षवः ।
सानुगाः क्षिप्रमायान्तु यज्ञं द्रष्टुमनुत्तमम् ॥ १२ ॥
देशान्तरगता ये च द्विजा धर्मसमाहिताः ।
आमन्त्रयस्व तान्त्सर्वानश्वमेधाय लक्ष्मण ॥ १३ ॥
महद्भिर्हरिभिः हनुमदङ्गदादिभिः । बहुभिश्चेति । भ्रात्रभिप्रायेण अनुभोक्तुं द्रष्टुमित्यर्थः ।। १०-१३ ।।
ऋषयश्च महावाहो आहूयन्तां तपोधनाः ।
देशान्तरगताः सर्वे सदाराश्च द्विजातयः ।
तथैव तालावचरास्तथैव नटनर्तकाः ॥ १४ ॥
तालं गृहीत्वावचरन्तीति तालावचराः सूत्रधाराः ॥ १४ ॥
यज्ञवाटश्च सुमहान्गोमत्या नैमिशे वने ।
आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम् ॥ १५ ॥
शान्तयश्च महाबाहो प्रवर्त्यन्तां समन्ततः ॥ १६ ॥
गोमत्या नद्यास्तीर इति शेषः ।। १५-१६ ॥
शतशश्चापि धर्मज्ञाः क्रतुमुख्यमनुत्तमम् ।
अनुभूय महायज्ञं नैमिशे रघुनन्दन ॥ १७ ॥
धर्मज्ञाः शतशः अनेके नैमिशे महायज्ञमश्वमेधमनुभूयानुष्ठाय कृतार्था इति शेषः । यद्वा धर्मज्ञ इति पाठे अनुभूय दृष्ट्वा प्रीतिं यास्यतीत्युत्तरेणान्वयः ॥ १७ ॥
तुष्टः पुष्टश्च सर्वोसौ मानितश्च यथाविधि ।
प्रीतिं यास्यति धर्मज्ञ शीघ्रमामन्त्र्यतां जनः ॥ १८ ॥
प्रतियास्यतीति च पाठः ॥ १८ ॥
शतं वाहसहस्राणां तण्डुलानां वपुष्मताम् ।
अयुतं तिलमुगानां प्रयात्वग्रे महाबल ॥ १९ ॥
वपुष्मतामिति । अखण्डानामित्यर्थः । शतं वाहसहस्राणीति । लक्षं बलीवर्दा इत्यर्थः॥ १९ ॥
चणकानां कुलस्थानां माषाणां लवणस्य च ।
अतोनुरूपं स्नेहं च गन्धं संक्षिप्तमेव च ॥ २० ॥
अतोनुरूपं उक्तब्राह्मणभोजनसंविधानानुरूपं । स्नेहं घृततैलपयोदध्यादिकमित्यर्थः । संक्षिप्तमेव गन्धमिति । अघृष्टमेवेत्यर्थः ।। २० ।।
सुवर्णकोट्यो बहुला हिरण्यस शतोत्तराः ।
अग्रतो भरतः कृत्वा गच्छत्वग्रे समाधिना ॥ २१ ॥
हिरण्यस्य रजतस्येत्यर्थः । शतोत्तरा इति । कोट्य इत्यर्थः । समाधिना सावधानतया ।। २१ ।।
अन्तरा पण्यवीथ्यश्च सर्वे च नटनर्तकाः ।
सूदा नार्यश्च बहवो नित्यं यौवनशालिनः ॥ २२ ॥
भरतेन तु सार्धं ते यान्तु सैन्यानि चाग्रतः ।
नैगमा बलवृद्धाश्र द्विजाश्च सुसमाहिताः ॥ २३ ॥
अन्तरा मार्गमध्ये । तत्रलचापेक्षिताः आपणवीथ्यः । तत्प्रवर्तका वणिजश्चेत्यर्थः ।। २२-२३ ।।
कर्मान्तिकान्वर्धकिनः कोशाध्यक्षांश्च नैगमान् ।
मम मातृस्तथा सर्वाः कुमारान्तः पुराणि च ॥ २४ ॥
कर्मान्तिकाः किङ्कराः । कुमारान्तःपुराणीति । भरतलक्ष्मणशत्रुघ्नपत्न्य इत्यर्थः ॥ २४ ॥
काञ्चनीं मम पत्नीं च दीक्षायां ज्ञांश्च कर्मणि ।
अग्रतो भरतः कृत्वा गच्छत्वग्रे महायशाः ॥ २५ ॥
उपकार्या महार्हाश्च पार्थिवानां महौजसाम् ।
सानुगानां नरश्रेष्ठो व्यादिदेश महाबलः ॥ २६ ॥
काञ्चनीं मम पत्नीमिति । स्वर्णमयीं सीताप्रतिमामित्यर्थः । पत्न्याश्च प्रतिनिधिसद्भावादिकं सर्वं युद्धकाण्डे सप्रकारं निरूपितं, तत्रैव द्रष्टव्यं ॥ २५-२६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकनवतितमः सर्गः ॥ ९१ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकनवतितमः सर्गः ॥ ९१ ॥