प्रक्षिप्तसर्गः ॥ १ ॥
प्रहस्तवधश्रवणविषण्णेनरायणेनस्वस्यैवरणायनिर्याणनिर्धारणम् ॥ १ ॥ तच्छ्रावणेन -मन्दोदर्या सभामेत्यरावणंप्रतिश्रीरा मप्रभावप्रशंसनपूर्वकं तेनसहसंधिकरणप्रार्थना ॥ २ ॥
[ प्रहस्तस्य वधं श्रुत्वा रावणो भ्रान्तमानसः ।
राक्षसानादिदेशाथ राक्षसेन्द्रो महाबलः ॥ १ ॥
कार्या शत्रुषु नावज्ञा यैरिन्द्रबलसूदनः ।
सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः ॥ २ ॥
सोहं रिपुविनाशाय विजयस्याभिवृद्धये ।
स्वयमेवाभियास्यामि रणशीर्षमभित्वरन् ॥ ३ ॥
अद्य तद्वानरानीकं सरामं सहलक्ष्मणम् ।
प्रधक्ष्याम्येव बाणौघैः शुष्केन्धनमिवानलः ॥ ४ ॥
अद्य संतर्पयिष्यामि पृथिवीं कपिशोणितैः ।
रामं च लक्ष्मणं चैव प्रेषयिष्ये यमक्षयम् ॥ ५ ॥
एवमुक्त्वा महातेजा रावणो लोकरावणः ।
आगच्छत्सहसा क्रुद्धः सर्वसैन्येन संवृतः ।। ६ ।।
संग्राममभिकाङ्क्षन्तं रावणं श्रुत्य भामिनी ।
तदोत्थाय ययौ देवी नाम्ना मन्दोदरीति सा ॥ ७ ॥
माल्यवन्तं करे धृत्वा यूपाक्षसहिता तु सा ।
मन्त्रिभिर्मन्त्रतत्वज्ञैस्तथान्यैर्मन्त्रिसत्तमैः ॥ ८ ॥
राक्षसैरावृता सर्वैर्वेत्रजर्झरपाणिभिः ।
योषिद्भिश्चैव वृद्धाभिस्तथा कन्याभिरावृता ॥ ९ ॥
आयुधव्यग्रहस्तैश्च राक्षसैश्च समन्ततः ।
सभां तु प्रस्थिता देवी यत्रास्ते राक्षसाधिपः ।। १० ।।
छत्रेण ध्रियमाणेन अतिकायपुरस्सरा ।
चामरैर्वररामाभिर्वीज्यमाना स्वलङ्कृता ॥ ११ ॥
शतार्धमार्गं विपुलं ध्वजमालोपशोभितम् ।
उत्सारणं प्रकुर्वद्भिर्वेत्रजर्झरपाणिभिः ॥ १२ ॥
प्रविवेश सभां दिव्यां प्रभया द्योतमानया ।
द्रष्टुं वै रावणं सा तु मयस्य दुहिता तु सा ॥ १३ ॥
प्राप्तां देवीं तदा राजा प्रियां मन्दोदरीं तदा ।
दृष्ट्वा स संभ्रमात्तूर्णं परिष्वज्य दशाननः ॥ १४ ॥
मन्त्रिणां तु ततस्तेषामासनान्यादिदेश ह ।
सौवर्णसुविचित्राणि सोपधानानि सर्वशः ॥ १५ ॥
तष्वासनोपविष्टेषु सुखासीनेषु मन्त्रिषु ।
पर्यङ्के चोपविष्टा तु देवी मन्दोदरी सुखम् ॥ १६ ॥
अतिकायो महाबाहुः पितरं चाभिवाद्य तम् ।
मातरं चाभिवाद्याथ तदाऽऽसनगतोऽभवत् ।। १७ ।।
प्रहस्तवधसंतप्तो महाकायवधार्दितः ।
लङ्कायाश्चाभिमर्देन कषायीकृतलोचनः ॥ १८ ॥
संग्राममभिकाङ्क्षन्स आकुलेनान्तरात्मना ।
अब्रवीद्वचनं सोथ महागंभीरनिस्वनम् ॥ १९ ॥
किमागमनकार्यं ते देवि शीघ्रं तदुच्यताम् ।
तूर्णं मम समीपं वै किमर्थं त्वमिहाऽऽगता ।
मन्त्रिभिः सहिता चैव ब्रूहि सर्वं यथातथम् ॥ २० ॥
एवमुक्ते तु वचने देवी रावणमब्रवीत् ।
विज्ञाप्यं शृणु राजेन्द्र याचे यत्त्वां कृताञ्जलिः ॥ २१ ॥
न हि रोषश्च कर्तव्यो बदन्त्या मम मानद ।
शृणुष्वैकमना मह्यं वचनं वाक्यकोविद ॥ २२ ॥
श्रुता मे नगरी रुद्धा श्रुता मे राक्षसा हताः ।
धूम्राक्षप्रमुखा वीराः प्रहस्तेन सहैव तु ॥ २३ ॥
भवन्तं युद्धकामं च गमने कृतनिश्रयम् ।
इति संचिन्त्य राजेन्द्र ममागमनकारणम् ॥ २४ ॥
न युक्तं प्रमुखे स्थातुं युद्धे तस्य महात्मनः ।
रामस्य च महेन्द्रेण यस्य भार्या त्वया हृता ।
लक्ष्मणस्य च राजेन्द्र यस्य नास्ति समो युधि ॥ २५ ॥
न च मानुषमात्रोसौ रामो दशरथात्मजः ।
एकेन येन वै पूर्वं बहवो राक्षसा हताः ।।
चतुर्दशसहस्राणि जनस्थाननिवासिनाम् ॥ २६ ॥
खरश्च निहतः सङ्ख्ये दूषणश्च महाबलः ।
त्रिशिराश्च महाबाहुर्हतो राक्षसपुङ्गवः ॥ २७ ॥
कबन्धश्च महातेजा विराघो दण्डके तथा ।
शरेणैकेन वाली च वानरेन्द्रो निपातितः ॥
शङ्के चैवं महाराज मारीचस्य वधादहम् ॥ २८ ॥
पितुश्च बचनाद्रामो दण्डकारण्यमाश्रितः ।
ब्रह्मचर्यव्रते युक्तः सह भ्रात्रा वनेचरः ॥ २९ ॥
तस्य भार्या जनस्थानात्वयाऽऽनीताऽविजानता ।
अकारणं कृतं तत्ते दोषाय समुपस्थितम् ॥ ३० ॥
पतिव्रतावरोधस्तु दोषमावहते सदा ।
न मह्यं रोचते बुद्ध्या एतेषां मन्त्रिणां तथा ॥ ३१ ॥
रामभार्या सती सा तु रामाय प्रतिदीयताम् ।
विभीषणेन चैवोक्तं पूर्वमेव महात्मना ॥ ३२ ॥
स गतस्तत्र वै राजन्नस्मत्कार्यं करिष्यति ।
वस्त्राणि चैव रत्नानि प्रेषयाद्य रघूत्तमे ॥ ३३ ॥
सीतां चैव महाराज सुवर्ण वाहनानि च ।
मणिमुक्ताप्रवालं च तथा रजतमेव च ॥ ३४ ॥
माल्यवान्गृह्य संयात यूपाक्षश्च तथैवच ।
अतिकायस्तथा चायं कार्याकार्यविशारदः ॥ ३५ ॥
विभीषणो गतः पूर्वमेभिस्तत्र गतैर्ध्रुवम् ।
संधिं करिष्यति व्यक्तं राघवं प्रणिपत्य ह ।
संमान्य मैथिलीं चास्मै प्रदास्यति विभीषणः ॥ ३६॥
माल्यवांश्च महामायो राक्षसानां हिते रतः ।
राघवं याच्य शिरसा संधिं कुर्वन्तु रावण ॥ ३७ ।।
सान्त्वं भेदं तथा दानं राज्ञामेतत्त्रयं शुभम् ।
अशुभं तु स वै युद्धं तस्माद्युद्धं विसर्जयेत् ।।
त्रिभिर्नयैर्जितं मन्ये सहितं विक्रमेण तु ॥ ३८ ॥
स्वजनस्य वधं कृत्वा पुत्रभ्रातृवधं तथा ।
संशयं चात्मनः कृत्वा किं जयेन करिष्यसि ॥ ३९ ॥
चञ्चला युद्धसिद्धिस्तु हन्यते तेजसापि वा ।
तस्माद्युद्धं न रोचेत संधिं कुरु दशानन ॥ ४० ॥
प्रणिपत्य महाबाहो राघवं प्रतिनन्दनम् ।
दीयतामद्य सा सीता संधिस्ते तेन रोचताम् ।।-४१ ।।
सांप्रतं संशयो राजन्पुरस्य सह बान्धवैः ।
आत्मनो राक्षसश्रेष्ठ वर्तते नात्र संशयः ॥ ४२ ॥
तस्माद्राजन्ब्रवीम्येवं पुरस्याथ कुलस्य च ।
रक्षणीयस्तवात्मा च सर्वमात्मन्यधिष्टितम् ॥ १३ ॥
क्षमाशीलस्तथा रामः सत्यवादी च राघवः ।
धर्मनित्यो महाराजः शरणागतवत्सलः ॥ ४४ ॥
कुरु तेनादितः सन्धिं रामे दशरथात्मजे ।
लक्ष्मणश्च महाबाहो नित्यं भ्रातृहिते रतः ॥ ४५ ॥
प्रहस्तेन कृतं किं नु युध्यता रक्षसा बले ।
धूम्राक्षेण च राजेन्द्रे नित्यं समरगृद्धिना ॥ ४६ ॥
महाकायेन च तथा महामायेन रक्षसा ।
अकंपनेन वीरेण युध्यता राक्षसेश्वर ॥ ४७ ॥
तथान्यैर्युध्यमानैश्च किं कृतं राक्षसे बले ।
न हतो यूथपः कश्चिद्बलोद्देशोपि रावण ॥ ४८ ॥
तेषां वीर्याद्धिभेतीन्द्रः कुबेरवरुणावपि ।
यमो वैवस्वतो येषां तथाऽन्ये देवदानवाः ॥ ४९ ॥
येषां नास्ति समो वीर्ये ते हता वानरैर्युधि ।
न चापि वानराः शक्या हन्तुं पादपयोधिनः ॥ ५०॥
रक्ष्यमाणास्तु रामेण सुग्रीवेण च पालिताः ।
तत्र ते रोचतां सन्धिः सह रामेण रावण ॥ ५१ ॥
योग्यश्च राघवो मित्रं कार्तवीर्यार्जुनो यथा ।
मा कृथा मोघमानित्वं मा कृथाः कुलसंक्षयम् ॥५२॥
मा कृथाः पुरनाशं तु मा कृथाः पुत्रसंक्षयम् ।
हितं सर्व ब्रवीम्येषां कुरुष्व वचनं मम ॥ ५३ ॥
इत्यार्षे श्रीमद्रामायणे बाल्मीकीये आदिकाव्ये युद्धकाण्डे प्रक्षिप्तः सर्गः प्रथमः ॥ १ ॥
अथ प्रक्षिप्तसर्गः ॥ २ ॥
रावणेनमन्दोदरींप्रति स्वपराक्रमप्रशंसनपूर्वकं रामादिवधप्रतिज्ञानेनस परिश्वङ्गंतस्या अन्तः पुरंप्रतिप्रेषणम् ॥ १ ॥ तथाभटाम्प्रतियुद्धायरथादिसज्जीकरणचोदना ॥ २ ॥
तस्यास्तद्वचनं श्रुत्वा प्रियाया राक्षसेश्वरः ।
उष्णं दीर्घं विनिश्वस्य निरीक्ष्य च सभासदः ।
हस्ते मन्दोदरीं गृह्य वाक्यमेतदुवाच ह ॥ १ ॥
त्वया न युद्धकाङ्क्षिण्या वचो यद्बहु भाषितम् ।
न तन्मनसि मे देवि प्रविवेशाप्रियं प्रिये ॥ २ ॥
देवाञ्जित्वा रणे पूर्वं ससुरासुरमानुषान् ।
प्रणमे मानुषं रामं वानराम्यः समाश्रितः ॥ ३ ॥
प्रणम्य रामं काकुत्स्थं किं वक्ष्ये सर्वदेवताः ।
कीदृशं वा भवेन्मह्यं जीवितं हततेजसः ॥ ४ ॥
हत्वा तस्य पुरा भार्यां मानं कृत्वा सुदारुणम् ।
राक्षसान्मारयित्वा तु लङ्कां संपीड्य सर्वतः ॥
राघवं प्रणमे कस्माद्धीनवीर्य इवापरः ।। ५ ।।
राघवं प्रणिपत्याहं कथं जीवितुमुत्सहे ।
एष मे सहजो भावो नित्यं मनसि वर्तते ॥ ६ ॥
अविभज्य तदा देवि न नमेयं तु कस्यचित् ।
त्रैलोक्ये स पुमान्नास्ति यो मया न जितो रणे ॥७॥
देवतानां बलं हत्वा देवराजो मया जितः ।
राघवं प्रणमे कस्मान्मूर्ध्नि स्थित्वा च देहिनाम् ८
मा कृथा हृदि संतापं शमयिष्ये शुचिस्मिते ।
हनिष्ये राघवं चैव लक्ष्मणं वानरांश्च तान् ॥ ९ ॥
सुग्रीवं च हनिष्यामि हनूमन्तं च वानरम् ।
न तु संधिं करिष्यामि राघवेण सहैव तु ।। १० ।।
वैदेहीं नार्पयिष्यामि राघवस्य भयादहम् ।
सांप्रतं न च संधि तु करिष्यति स राघवः ॥ ११ ॥
सागरं सुमहद्बध्वा लङ्कामेत्य सकाननाम् ।
राक्षसप्रवरान्हत्वा संधिं कुर्यात्कथं प्रिये ॥ १२ ॥
न त्वहं संघिमिच्छामि कदाचिदपि भामिनि ।
गच्छ त्वं भव विस्रब्धा सर्वमेतत्सुखोदयम् ।।१३।।
मा कृथा हृदि संतापमहं यास्ये रणाजिरम् ।
अद्य सर्वान्वधिष्यामि शत्रून्समरमूर्धनि ॥ १४ ॥
पुत्राश्च ते महावीर्या मेघनादपुरस्सराः ।
न तेषां मुच्यते कश्चिदपि मृत्युर्वरानने ॥ १५ ॥
अन्तःपुराय गच्छ त्वं सुखिनी भव सस्नुषा ।
एवमुक्त्वा परिष्वज्य भार्यां प्रियमना इव ।। १६ ।
प्रविवेश तदा देवी स्वयं च भवनं शुभम् ।
चिन्तयामास तं घोरं विग्रहं समुपस्थितम् ।। १७ ।।
रावणस्तु तदा वाक्यं राक्षसानिदमत्रवीत् ॥ १८ ॥
कल्प्यतां मे रथः शीघ्रं क्षिप्रमानीयतां धनुः ।
अद्य क्रोधं विमोक्ष्यामि गूढं सुहृदयेशयम् ॥ १९ ॥
देवाहवे यथा पूर्वं रुद्रेण निहतोऽन्धकः ।
चिरकालेप्सितं ह्येतद्युद्धं मे राघवेण ह ।। २० ।।
अद्य तूणीशया बाणा विमुक्ता इव पन्नगाः ।
रामं समभिधावन्तु विषाग्निप्रतिमाः शिताः ॥ २१ ॥
सुतेजसै रुक्मपुङ्खैर्जलधौतैर्हिरण्मयैः ।
शरैरादीपयाम्येनमुल्काभिरिव कुञ्जरम् ॥ २२ ॥
वानरान्सुबहून्गृह्य राघवात्संप्रचोदितान् ।
यमं नयामि विक्रान्तान्मम पार्श्वमुपागतान् ॥ २३ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे प्रक्षिप्तः सर्गो द्वितीयः ॥ २ ॥