श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयोदशोत्तरशततमः सर्गः
रावणान्तः पुराङ्गनाभीरणाङ्गणमेत्य तदङ्गपरिष्वङ्गेणबहुधाविलापः ॥ १ ॥
रावणं निहतं श्रुत्वा राघवेण महात्मना ।
अन्तःपुराद्विनिष्पेतू राक्षस्यः शोककर्शिताः ॥ १ ॥
वार्यमाणाः सुबहुशो वेष्टन्त्यः क्षितिपांसुषु ।
विमुक्तकेश्यो दुःखार्ता गावो वत्सहता इव ॥ २ ॥
अथ रावणान्तः पुरस्त्रीविलापःरावणमित्यादिश्लोकद्वयमेकान्वयं ॥ वत्सहताः हृतवत्साः ॥ १-२ ॥
उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः ।
प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम् ॥ ३ ॥
राजपुत्रेतिवादिन्यो हा नाथेति च सर्वशः ।
परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम् ।। ४ ।।
उत्तरेणेत्यादिश्लोकद्वयमेकान्वयं ॥ शोणितैः कर्दमो यस्यास्तां शोणितकर्दमां ॥ ३-४ ॥
ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः ।
करेण्व इव नर्दन्त्यो विनेदुर्हतयूथपाः ॥ ५ ॥
ददृशुस्तं महावीर्ये महाकायं महाद्युतिम् ।
रावणं निहतं भूमौ नीलाञ्जनचयोपमम् ॥ ६ ॥
ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु ।
निपेतुस्तस्य गात्रेषु च्छिन्ना वनलता इव ॥ ७ ॥
हतयूथपा इति । करेणुविशेषणं । अतएव नर्दन्त्यः करेण्व इव विनेदुरित्यन्वयः ॥ ५-७ ।।
बहुमानात्परिष्वज्य काचिदेनं रुरोद ह ।
चरणौ काचिदालिङ्ग्य काचित्कण्ठेऽवलम्ब्य च ॥ ८ ॥
उद्धृत्य च भुजौ काचिद्भूमौ स्म परिवर्तते ।
हतस्य वदनं दृष्ट्वा काचिन्मोहमुपागमत् ॥ ९ ॥
काचिदङ्के शिरः कृत्वा रुरोद मुखमीक्षती ।
स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम् ॥ १० ॥
बहुमानादित्यादिश्लोकत्रयमेकान्वयं ॥ परिवर्तते वेष्टते । ईक्षती ईक्षमाणा ॥ ८-१० ।।
एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि ।
चुक्रुशुर्बहुधा शोकाद्भूयस्ताः पर्यदेवयन् ॥ ११ ॥
येन वित्रासितः शक्रो येन वित्रासितो यमः ।
येन वैश्रवणो राजा पुष्पकेण वियोजितः ॥ १२ ॥
गन्धर्वाणामृषीणां च सुराणां च महात्मनाम् ।
भयं येन महद्दत्तं सोयं शेते रणे हतः ॥ १३ ॥
चुक्रुशुरिति । क्रोशः निरक्षरध्वनिः । परिदेवनं साक्षरशब्दः ॥ ११-१३ ॥
असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योपि वा तथा ।
न भयं यो विजानाति तस्येदं मानुषाद्भयम् ॥ १४ ॥
अवध्यो देवतानां यस्तथा दानवरक्षसाम् ।
हतः सोयं रणे शेते मानुषेण पदातिना ॥ १५ ॥
मानुषाद्भयं । जातमिति शेषः ॥ १४-१५ ॥
यो न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा ।
सोयं कश्चिदिवासत्त्वो मृत्युं मर्सेन लम्भितः ॥ १६ ॥
एवं वदन्त्यो बहुधा रुरुदुस्तस्य ताः स्त्रियः ।
भूय एव च दुःखार्ता विलेपुश्च पुनः पुनः ॥ १७ ॥
कश्चिदि वयः कश्चित्पुरुष इव लम्भितः प्रापितः ॥ १६-१७ ॥
अशृण्वता च सुहृदां सततं हितवादिनाम् ।
मरणायाहृता सीता घातिताश्च निशाचराः ॥ १८ ॥
सुहृदां सुहृद्भ्यः । पञ्चम्यर्थे षष्ठी । वचनमितिवाशेषः । अश्रृण्वता त्वया ॥ १८ ॥
एताः सममिदानीं ते वयमात्मा च पातिताः ।
ब्रुवाणोपि हितं वाक्यमिष्टो आता विभीषणः ॥
धृष्टं परुषितो मोहान्त्वयाऽऽत्मवधकाङ्क्षिणा ॥ १९ ॥
एताः वयं ते राक्षसा: आत्मा च समं युगपत् इदानीं पातिताः । मारिताइत्यर्थः । इष्टः प्रीतिमान् ॥ १९ ॥
यदि निर्यातिता ते स्यात्सीता रामाय मैथिली ।
ननः स्याद्व्यसनं घोरमिदं मूलहरं महत् ॥ २० ॥
वृत्तकामो भवेद्भ्राता रामो मित्रकुलं भवेत् ।
वयं चाविधवाः सर्वाः सकामा न च शत्रवः ॥ २१ ॥
यदीत्यादिश्लोकद्वयमेकान्वयं ॥ ते त्वया । निर्यातिता प्रत्यर्पिता । मूलहरं मूलभूतत्वत्पर्यन्तहरं । यदि सीता निर्यातिता स्यात्तदा भ्राता विभीषणो वृत्तकामः निष्पन्नमनोरथः भवेत् । स्ववाक्यकरणादिति भावः । तथा रामः मित्रकुलं कुलमित्रं । शत्रवः देवादयः ॥ २०-२१ ॥
त्वया पुनर्नृशंसेन सीतां संरुन्धता बलात् ।
राक्षसा वयमात्मा च त्रयं तुल्यं निपातितम् ।। २२ ।।
तुल्यमिति । युगपदित्यर्थः ॥ २२ ॥
न कामकारः कामं वा तव राक्षसपुङ्गव ।
दैवं चेष्टयते सर्वे हतं दैवेन हन्यते ॥ २३ ॥
वानराणां विनाशोऽयं रक्षसां च महाहवे ।
तव चैव महाबाहो दैवयोगादुपागतः ॥ २४ ॥
एवं रावणस्वेच्छाचरणस्य राक्षसनाशहेतुतामभिधाय संप्रति तन्निरासपूर्वकं दैवकारितत्वं दर्शयति-न कामकार इति ॥ कामकारः स्वच्छन्दकरणं कामं प्रकामं । नास्ति । कुतः दैवं चेष्टयते सर्वं हतं दैवेन हन्यते । दैवेन हतमन्येन हन्यते ॥ २३-२४ ॥
नैवार्थेन न कामेन विक्रमेण न चाज्ञया ।
शक्या दैवगतिर्लोके निवर्तयितुमुद्यता ॥ २५ ॥
उद्यता कार्योन्मुखी दैवगतिः अर्थादिना न निवर्तयितुं शक्या । कामेन स्वेच्छया ॥ २५ ॥
विलेषुरेवं दीनास्ता राक्षसाधिपयोषितः ।
कुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः ॥ २६ ॥
कुरर्यः क्रौञ्च्यः ॥ २६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयोदशोत्तरशततमः सर्गः ॥ ११३ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रयोदशोत्तरशततमः सर्गः ॥ ११३ ॥