श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अशीतितमः सर्गः
मकराक्षक्षयश्रवणविषण्णरावणचोदितेनेन्द्रजिता हुतभुजिहवनपूर्वकं सायुधरथा -रोहणेनान्तरिक्षेऽन्तर्हितेनसता रामादिषुशरवर्षणम् ॥ १ ।। लक्ष्मणेन रामंप्रति ब्रह्मास्त्रप्रयोगेणसकलरक्षः कुलक्षपणप्रतिज्ञानपूर्वकमभ्यनुज्ञानयाचने रामेण सान्त्वनेनतंप्रतिषेधनपूर्वकं यत्रकुत्रगतस्यापितस्यवधप्रतिज्ञानपूर्वकमुपायपर्यालोचनम् ॥ २ ॥
मकराक्षं हतं श्रुत्वा रावणः समितिंजयः ।
क्रोधेन महताऽऽविष्टो दन्तान्कटकटापयन् ॥ १ ॥
कुपितश्च तदा तत्र किं कार्यमिति चिन्तयन् ।
आदिदेशाथ संक्रुद्धो रणायेन्द्रजितं सुतम् ।। २ ।।
जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ ।
अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः ॥ ३ ॥
अथेन्द्रजिन्निर्गमोशीतितमे – मकराक्षमित्यादि । आविष्टः अभूदिति शेषः ॥ १-३ ॥
त्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे ।
किं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे ॥ ४ ॥
जयसि अजैषीः । पुनःशब्दस्त्वर्थे । मानुषौ पुनः मानुषौ तु । संयुगे दृष्ट्वापि न वधिष्यसि किं दर्शनमात्रेण वधिष्यस्येवेत्यर्थः ॥ ४ ॥
तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः ।
यज्ञभूमौ स विधिवत्पावकं जुहवेन्द्रजित् ॥ ५ ॥
जुहव जुहाव । वृद्ध्यभाव आर्ष: ॥ ५ ॥
जुह्वतथापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः ।
आजग्मुस्तत्र संभ्रान्ता राक्षस्यो यत्र रावणिः ॥ ६ ॥
जुह्वतइति भावलक्षणे षष्ठी । रक्तोष्णीषधराः । ऋत्विग्धारणार्थं रक्तोष्णीषाण्यानयन्त्य इत्यर्थ: । लोहितोष्णीषा ऋत्विजः प्रचरन्ति इति श्रुतेः । संभ्रान्ताः त्वरावत्यः । समयातिक्रमो मा भूदिति त्वरया उष्णीषाण्यानिन्युरित्यर्थः ॥ ६ ॥
शस्त्राणि शरपत्राणि समिधोथ विभीतकाः ।
लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ॥ ७ ॥
सर्वतोग्निं समास्तीर्य शरपत्रैः सतोमरैः ।
छागस्य कृष्णवर्णस्य गलं जग्राह जीवतः ॥ ८ ॥
शस्त्राणि अभवन्निति शेषः । शरपत्राणि गुन्द्रपत्राणि । गुन्द्रश्च काशजातीय: । गुन्द्रस्तेजनकः शर: इत्यमरः । शस्त्राणि तोमराणि । सतोमरैरित्यनुवादात् । शस्त्राणि शरपत्राणि च परिस्तरणान्यभवन् । विभीतकाः समिधः इध्मानि अभवन् । वासांसि ऋत्विगुष्णीषवासांसि लोहितान्यभवन् । कार्ष्णायसं स्रुवमासीत् ॥ ७–८ ॥
सकृदेव समिद्धस्य विधूमस्य महार्चिषः ।
बभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च ॥ ९॥
प्रदक्षिणावर्तशिखस्तप्तहाटकसन्निभः ।
हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः ॥ १० ॥
विजयं दर्शयन्ति विजयसूचकानि ॥ ९-१० ॥
हुत्वाऽग्निं तर्पयित्वा च देवदानवराक्षसान् ।
आरुरोह रथश्रेष्ठमन्तर्धानगतं शुभम् ।। ११ ।।
स वाजिभिश्चतुर्भिश्च बाणैश्च निशितैर्युतः ।
आरोपितमहाचापः शुशुभे स्यन्दनोत्तमः ॥ १२ ॥
अन्तर्धानगतं अन्तर्धानशक्तियुक्तं ॥ ११–१२ ॥
जाज्वल्यमानो वपुषा तपनीयपरिच्छदः ।
मृगैश्चन्द्रार्धचन्द्रैश्च सरथः समलङ्कृतः ॥ १३ ॥
मृगैः मृगाकारप्रतिमाभिः । चन्द्रैः चन्द्राकारैः । अर्धचन्द्रैः रचनाविशेषैः ॥ १३ ॥
जाम्बूनद महाकम्बुर्दीप्तपावकसन्निभः ।
बभूवेन्द्रजितः केतुर्वैडूर्यसमलङ्कृतः ॥ १४ ॥
तेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः ।
स बभूव दुराधर्षो रावणिः सुमहाबलः ॥ १५ ॥
जाम्बूनदमहाकम्बुः सौवर्णमहावलययुक्तः । कम्बुर्ना वलये शङ्खे इत्यमरः ॥ १४-१५ ॥
सोभिनिर्याय नगरादिन्द्रजित्समितिंजयः ।
हुत्वाऽग्निं राक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत् ॥ १६ ॥
राक्षसैः निर्ऋतिदेवताकैः । अन्तर्धानगतः अन्तर्धानशक्तिं प्राप्तः । अतः इत्युक्त्वान्तरधीयतेत्यनेन न विरोधः ॥ १६ ॥
अद्य हत्वा रणे यौ तौ मिथ्या प्रव्राजितौ वने ।
जयं पित्रे प्रदास्यामि रावणाय रणार्जितम् ॥ १७ ॥
अद्य निर्वानरामुर्वी हत्वा रामं सलक्ष्मणम् ।
करिष्ये परमप्रीतिमित्युक्त्वाऽन्तरधीयत ॥ १८ ॥
आपपाताथ संक्रुद्धो दशग्रीवेण चोदितः ।
तीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपू रणे ॥ १९ ॥
अद्य हवेत्यादिश्लोकद्वयमेकान्वयं । अद्य निर्वानरामिति । पितुरित्यध्याहारः । पितुः परमप्रीतिं परमप्रीतिं प्रति । पितुः प्रीतिमुद्दिश्येत्यर्थः । अद्य सलक्ष्मणं रामं हत्वा उर्वी निर्वानरां करिष्य इति संबन्धः ॥ १७–१९ ॥
स ददर्श महावीर्यौ नागौ त्रिशिरसाविव ।
सृजन्ताविषुजालानि वीरौ वानरमध्यगौ ॥ २० ॥
नागौ त्रिशिरसाविवेति दृष्टान्तेन रामलक्ष्मणयोर्महापुरुषलक्षणपृथुलोन्नतभुजशिरस्कवं द्योत्यते । सृजन्तौ स्रक्ष्यन्तौ । सकलराक्षसक्षयकारिणावित्यर्थः ॥ २० ॥
इमौ ताविति संचिन्त्य सज्यं कृत्वा च कार्मुकम् ।
सन्ततानेषुधाराभिः पर्जन्य इव वृष्टिमान् ॥ २१ ॥
सन्ततान ववर्ष ॥ २१ ॥
स तु वैहायसं प्राप्य सरथो रामलक्ष्मणौ ।
अचक्षुर्विषये तिष्ठन्विव्याध निशितैः शरैः ॥ २२ ॥
तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ ।
धनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचऋतुः ॥ २३ ॥
प्रच्छादयन्तौ गगनं शरजालैर्महाबलौ ।
तमस्त्रैः सूर्यसंकाशैर्नैव पस्पृशतुः शरैः ॥ २४ ॥
वैहायसं विहायसा गमनं ॥ २२-२४ ॥
स हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः ।
दिशश्चान्तर्दधे श्रीमान्नीहारतमसा वृताः ॥ २५ ॥
नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः ।
शुश्रुवे चरतस्तस्य न च रूपं प्रकाशते ॥ २६ ॥
घनान्धकारे तिमिरे शरवर्षमिवाद्भुतम् ।
स ववर्ष महाबाहुर्नाराचशरवृष्टिभिः ॥ २७ ॥
स रामं सूर्यसंकाशैः शरैर्दत्तवरो भृशम् ।
विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः ॥ २८ ॥
तौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ ।
हेमपुङ्खाभरव्याघ्रौ तिग्मान्मुमुचतुः शरान् ॥ २९ ॥
नभः प्रच्छादयन् । हेतौ शतृप्रत्ययः । अन्तर्धापयामासेत्यर्थः । धूमान्धकारमिति नीहारतमसावृता इति च पूर्वमेवोत्पातकलुषत्वमुच्यते । घनान्धकारे घनकालिमवति ॥ २५–२९ ॥
अन्तरिक्षे समासाद्य रावणि कङ्कपत्रिणः ।
निकृत्य पतगा भूमौ पेतुस्ते शोणितोक्षिताः ॥ ३० ॥
अतिमात्रं शरौघेण पीड्यमानौ नरोत्तमौ ।
तानिषून्पततो भल्लैरनेकैर्निचकृन्ततुः ॥ ३१ ॥
यतो हि ददृशाते तौ शरान्निपततः शितान् ।
ततस्तु तौ दाशरथी ससृजातेऽस्रमुत्तमम् ३२
रावणिस्तु दिशः सर्वा रथेनातिरथः पतन् ।
विव्याध तौ दाशरथी लध्वस्त्रो निशितैः शरैः ॥ ३३ ॥
पतगा: पक्षिणो भूत्वा । तथा वेगवन्त इत्यर्थः ॥ ३०–३३ ॥
तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहितैः ।
बभूवतुर्दाशरथी पुष्पिताविव किंशुकौ ॥ ३४ ॥
सुसंहितैः सुष्ठु निर्मितैः ॥ ३४ ॥
नास्य वेद गतिं कश्चिन्न च रूपं धनुः शरान् ।
न चान्यद्विदितं किंचित्सूर्यस्येवाभ्रसंप्लवे ॥ ३५ ॥
तेन विद्धाश्च हरयो निहताश्च गतासवः ।
बभूवुः शतशस्तत्र पतिता धरणीतले ॥ ३६ ॥
लक्ष्मणस्तु सुसंक्रुद्धो भ्रातरं वाक्यमब्रवीत् ।
ब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम् ।। ३७ ॥
तमुवाच ततो रामो लक्ष्मणं शुभलक्षणम् ॥ ३८ ॥
अभ्रसंप्लवे मेघावरणे ।। ३५-३८ ।।
नैकस्य हेतो रक्षांसि पृथिव्यां हन्तुमर्हसि ।
अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम् ।
पलायन्तं प्रमत्तं वा न त्वं हन्तुमिहार्हसि ॥ ३९ ॥
प्रच्छन्नं युद्धभीत्या प्रच्छन्नं । पलायन्तं पलायमानं ॥ ३९ ॥
अस्यैव तु वधे यत्नं करिष्यावो महाबल ।
आदेक्ष्यावो महावेगानस्त्रानाशीविषोपमान् ॥ ४० ॥
तमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात् ।
राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः ।। ४१ ॥
आदेक्ष्यावः प्रयोक्ष्यावः । अस्त्रान् अस्त्राणि । लिङ्गव्यत्यय आर्षः ॥ ४०-४१ ॥
यद्येष भूमिं विशते दिवं वा रसातलं वाऽपि नभःस्थलं वा ।
एवं निगूढोपि ममास्रदग्धः पतिष्यते भूमितले गतासुः ॥ ४२ ॥
भूमिं भूविवरं । विशते । आत्मनेपदमार्षं । दिवं स्वर्गं ॥ ४२ ।।
इत्येवमुक्त्वा वचनं महात्मा रघुप्रवीरः प्लवगर्षभैर्वृतः ।
वधाय रौद्रस्य नृशंसकर्मणस्तदा महात्मा त्वरितं निरीक्षते ॥ ४३ ॥
प्लवगर्षभैः वृतः निरीक्षते । उपायं चिन्तयति स्मेत्यर्थः ॥ ४३ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अशीतितमः सर्गः ॥ ८० ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अशीतितमः सर्गः ॥ ८० ॥