श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चत्वारिंशः सर्गः
सुबेला चलस्थित्यालङ्कामवलोकमानेरामे पार्श्वस्थेनसुग्रीवेण लङ्कागोपुरराजोपचारै रामाभिमुखावस्थितरावणावलोकनम् ॥ १ ॥ तथाकोपादुत्प्लवेनरावणनिकटमेत्य तत्किरीट -पातनपूर्वकं तेनसहचिरंनियुद्धकरणम् ॥ २ ॥ तथा श्रान्तेनतेनमायोपक्रमे लाघवात्पुनाराम -पार्श्वगमनम् ॥ ३ ॥
ततो रामः सुवेलाग्रं योजनद्वयमण्डलम् ।उपारोह ससुग्रीवो हरियूथपसंवृतः ।। १ ।।
अथ सुग्रीवरावणयोर्द्वन्द्व युद्धकथनं चत्वारिंशे । अत्र प्रथमश्लोकः पूर्वोक्तानुवादः – तत इति ॥ योजनद्वयमण्डलं योजनद्वय विस्तारमण्डलं ॥ १ ॥
स्थित्वा मुहूर्तं तत्रैव दिशो दश विलोकयन् ।त्रिख़ूटशिखरे रम्ये निर्मितां विश्वकर्मणा ।ददर्श लङ्कां सुन्यस्तां रम्यकाननशोभिताम् ।। २ ।।
सुन्यस्तां सुष्ठु निवेशितां ॥ २ ॥
तस्यां गोपुरशृङ्गस्थं राक्षसेन्द्रं दुरासदम् ।। ३ ।।श्वेतचामरपर्यन्तं विजयच्छत्रशोभितम् ।रक्तचन्दनसंलिप्तं रक्ताभरणभूषितम् ।। ४ ।।नीलजीमूतसंकाशं हेमसंचादिताम्बरम् ।ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम् ।। ५ ।।शशलोहितरागेण सम्वीतं रक्तवाससा ।संध्यातपेन संवीतं मेघराशिमिवाम्बरे ।। ६ ।।
तस्यामित्यादि सार्धश्लोकत्रयमेकान्वयं ॥ अत्र ददर्शेत्यनुषज्यते । श्वेते चामरे पर्यन्ते पार्श्वद्वये यस्य स श्वेतचामर पर्यन्तः । उभयतो वीज्यमानचामर इत्यर्थः । विजयच्छत्रं विजयसूचकछत्रं । रत्नाभरणं पद्मरागाभरणं । हेमसंछादिताम्बरं तत्र तत्र सुवर्णचित्राम्बरं । सुवर्णसूत्रिताम्बरमिति वार्थः । उत्कृष्टकिणवक्षसं उपपादितकिणवक्षसं । उत्कृष्टस्य उल्लिखितस्य किण: वक्षसि यस्य स तथेति वार्थः । शशलोहितरागेण शशरुधिरसमानरागेण । रक्तशब्दविवरणमिदं । रक्तवाससा उत्तरीयेण । संवीतं परिवीतं ।। ३ – ६ ।।
पश्यतां वानरेन्द्राणाम् राघवस्यापि पश्यतः ।दर्शनाद्राक्षसेन्द्रस्य सुग्रीवः सहसोत्थितः ।। ७ ।।क्रोधवेगेन सं युक्तः सत्त्वेन च बलेन च ।अचलाग्रादथोत्थाय पुप्लुवे गोपुरस्थले ।। ८ ।।स्थित्वा मुहूर्तं सम्प्रेक्ष्य निर्भयेनान्तरात्मना ।तृणीकृत्य च तद्रक्षः सोऽब्रवीत्परुषं वचः ।। ९ ।।
हतं च रावणं संख्ये दर्शनादवधारय इति रामसन्निधौ पूर्वं प्रतिज्ञातमर्थं साधयितुमुत्थितः सुग्रीवइत्याहपश्यतामित्यादिना ।। पश्यतामित्यनादरे षष्ठी । अत्रानादरणमनुक्त्वा गमनं । सप्तम्यर्थेषष्ठीना । दर्शनात् दर्शनमात्रात् । क्रोधवेगेन कथं मत्स्स्वामिनोग्रे स्वयं राजोपचारेण तिष्ठति दुरात्मेति कोपातिशयेनेत्यर्थः । सत्त्वेन मनोबलेन । बलेन कायबलेन । पुप्लुवे गोपुरमुद्दिश्येति शेषः ॥ गोपुरस्थले स्थित्वेत्यन्वयः । अन्तरात्मना मनसा ॥ ७ -९ ॥
लोकनाथस्य रामस्य सखा दासोऽस्मि राक्षस ।न मया मोक्यसेद्य त्वं पार्थिवेन्द्रस्य तेजसा ।। १० ।।इत्युक्त्वा सहसोत्पत्य प्लुप्लुवे तस्य चोपरि ।आकृष्य मुकुटं चित्रं पातयामास तद्भुवि ।। ११ ।।
रामाभिप्रायेण सखा वस्तुतो दासोस्मीति भावः । मया मत्तः । औद्धत्यं परिहरति – पार्थिवेन्द्रस्य तेजसेति ।। १० – ११ ।।
समीक्ष्य तूर्णमायान्तमाबभाषे निशाचरः ।सुग्रीवस्त्वं परोक्षं मे हीनग्रीवो भविष्यसि ।। १२ ।।
आयान्तं सुग्रीवमितिशेषः । परोक्षं ममासन्निधाने । त्वं सुग्रीवः शोभनग्रीवः । प्रत्यक्षं तु हीनग्रीवो भविष्यसीत्यर्थः ॥ १२ ॥
इत्युक्त्वोत्थाय तं क्षिप्रं बाहुभ्यामाक्षिपत्तले ।कन्तुवत्तं समुत्थाय बाहुभ्यामाक्षिपद्धरिः ।। १३ ।।
तले गोपुरतले । आक्षिपत् अपातयत् । कन्तुवत्समुत्थाय कन्तुकवज्झटित्युत्पत्येत्यर्थः ॥ १३ ॥
परस्परं स्वेदविदिग्धगात्रौ परस्परम् शोणितदिग्धदेहौ ।परस्परं श्लिष्टनिरुद्धचेष्टौ परस्परं शाल्मलिकिंशुकौयथा ।। १४ ।।मुष्टिप्रहारैश्च तलप्रहारै ररत्निघातैश्च कराग्रघातैः ।तौ चक्रतुर्युद्धमसह्यरूपं महाबलौ वानरराक्षसेन्द्रौ ।। १५ ।।
परस्परमित्यादि श्लोकद्वयमेकान्वयं ॥ आरम्भे दृढपरीरम्भेण स्वेद सिक्तगात्रौ । ततः खरतरनखक्षतेन शोणितलिप्त शरीरौ । ततो दृढालिष्टतया निरुद्धचेष्टौ निष्पन्दौ । ततः परस्परत्यागे कुसुमितशाल्मलीकिंशुकाविव स्थितौ । तौ वानरराक्षसेन्द्रौ । मुष्टिप्रहारैः । मुष्टीनां व्यथायां तलप्रहारैः । तत्पीडायां अरनिघातैः निष्कनिष्ठमुष्टियुक्तप्रकोष्ठप्रहारैः । अरत्निस्तु निष्कनिष्ठेन मुष्टिना इत्यमरः । तद्बाधायां कराग्रघातैः । असह्यरूपं अत्यन्तासां । प्रशंसायां रूपप्प्रत्ययः । युद्धं चक्रतुः ॥ १४ – १५ ॥
कृत्वा नियुद्धं भृशमुग्रवेगौ कालं चिरं गोपुरवेदिमध्ये ।उत्क्षिप्य चात्क्षिप्य विनम्य देहौ पादक्रमाद्गोपुरवेदिलग्नौ ।अन्योन्यमाविध्य विलग्नदेहौ तौ पेततुः सालनिखातमध्ये ।। १६ ।।
कृत्वेत्यादिसार्धश्लोक एकान्वयः ॥ नियुद्धं मल्लयुद्धं बाहुयुद्धं वा । नियुद्धं बाहुयुद्धं स्यात् इत्यमरः । गोपुरवेदिमध्ये चिरं कालं नियुद्धं कृत्वा । तत उत्क्षिप्य परस्परमूर्ध्वं क्षिप्त्वा । आक्षिप्य आकृष्य । परस्परंदेहौ विनम्य विनाम्य । पादक्रमात् पादविन्यासविशेषात् । गोपुरवेदिलग्नौ पदात्पदं पश्चाच्चलित्वा पुनर्युद्धार्थमवसरप्रतीक्षतया गोपुरवेदिकायां निश्चलंस्थितावित्यर्थ: । आविध्य बाहुभ्यां संवेष्टय । विलग्नदेहौ लिष्टदेहौ सन्तौ । सालनिखातयोः प्राकारपरिखयोर्मध्ये पेततुः ॥ १६ ॥
उत्पेततुर्भूमितलमस्पृशन्तौ स्थित्वा मुहूर्तं त्वभिनिःश्वसन्तौ ।आलिङ्ग्य चावल्ग्य च बाहुयोक्त्रैः संयोजयामासतुराहवे तौ ।। १७ ।।
लाघवातिशयेन भूतलमस्पृष्ट्वैव उत्पेततुः । ततो मुहूर्तं तूष्णीं स्थित्वा श्रमवशादभिनिश्वसन्तौ पुनरालिङ्ग्य स्वयमेव स्वशरीरमालिङ्ग्य । आवल्ग्य आप्लुत्य । बाहुयोक्त्रैः बाहुपाशैः संयोजयामासतुः । देहाविति शेषः । निबिडं बबन्धतुरित्यर्थः ॥ १७ ॥
संरम्भशिक्षाबलसम्प्रयुक्तौ सुचेरतुः सम्प्रति युद्धमार्गैः ।शार्दूलसिंहविव जातदर्पौ गजेन्द्रपोताविव संप्रयुक्तौ ।। १८ ।।संहत्य चापीड्य च तावुरोभ्यां निपेततुर्वै युगपद्धरण्याम् ।उद्यम्य चान्योन्यमधिक्षिपन्तौ संचक्रमाते बहु युद्धमार्गैः ।। १९ ।।
संरम्भेति । संरम्भः अभिनिवेशः । शिक्षा अभ्यासः । बलं शक्तिः । एतैः संप्रयुक्तौ संयुक्तौ सन्तौ संप्रति युद्धमार्गैः चातुर्येण परस्परग्रहणानुकूलकमैरित्यर्थः । संप्रति तदानीमित्यर्थ इत्येके । शार्दूलसिंहौ शार्दूलश्रेष्ठौ । संप्रयुक्तौ सन्तौ गजेन्द्रपोतौ कलभौ । संहत्य संयोज्य । उरोभ्यामन्योन्यमापीड्य धरण्यां युगपन्निपेततुः । अथ उद्यम्य उद्धृत्य । अघिक्षिपन्तौ पातयन्तौ । एवं बहुयुद्धमार्गैः बहुयुद्धप्रकारैः । संचक्रमाते संचेतुः ॥ १८ – १९ ।।
व्यायामशिक्षाबलसंप्रयुक्तौ क्लमं न तौ जग्मतुराशु वीरौ ।बाहुत्तमैर्वारणवारणाभै र्निवारयन्तौ वरवारणाभौ ।। २० ।।
खुरल्यां श्रमजयाय कृतोभ्यासो व्यायामः तद्रूपा या शिक्षा तद्बलेन तदतिशयेन संप्रयुक्तौ संयुक्तौ । वार्यन्ते एभिरिति वारणा: आलानस्तम्भाः । वारणवारणाभैः बाहूत्तमैः अन्योन्यमाशु निवारयन्तावपि क्लमं श्रमं । न जर्मतुः ।। २० ।।
चिरेण कालेन तु संप्रयुक्तौ संचेरतुर्मण्डलमार्गमाशु ।। २१ ।।
चिरेणेत्यर्धं ॥ चिरेणकालेन बहुकालेन । संप्रयुक्तौ युध्यमानौ तौ । मण्डलमार्गं चक्राकारमार्गं । चेरतुः चक्रतुरित्यर्थः । अयं च वक्ष्यमाणमार्गान्तराणामप्युपलक्षणं ॥ २१ ॥
तौ परस्परमासाद्य यत्तावन्योन्यसूदने ।मार्जाराविव भक्षार्थे वितस्थाते मुहुर्मुहुः ।। २२ ।।
तदेव प्रपञ्चयति–तावित्यादिना । परस्परमासाद्य अन्योन्यसूदने अन्योन्यहिंसने । यत्तौ यत्नवन्तौ । भक्ष्यत इति भक्षः भक्ष्यद्रव्यं । तदर्थे तन्निमित्तं । मार्जाराविव वितस्थाते विशेषेण तस्थतुः । समवप्रविभ्यःस्थः इत्यात्मनेपदं । भक्षग्रहणदत्तावधानौ मार्जाराविव निश्चलं तस्थतुरित्यर्थः । मुहुर्मुहुरित्यनेन मध्येमध्ये मण्डलादिसंचारो व्यज्यते ।। २२ ।।
मण्डलानि विचित्राणि स्थानानि विविधानि च ।गोमूत्रिकाणि चित्राणि गतप्रत्यागतानि च ।। २३ ।।तिरश्चीनगतान्येव तथा वक्रगतानि च ।परिमोक्षं प्रहाराणां वर्जनं परिधावनम् ।। २४ ।।अभिद्रवणमाप्लावमास्थानं च सविग्रहम् ।परावृत्तमपावृत्तमवद्रुतमवप्लुतम् ।। २५ ।।उपन्यस्तमपन्यस्तं युद्धमार्गविशारदौ ।तौ विचेरतुरन्योन्यं वानरेन्द्रश्च रावणः ।। २६ ।।
मण्डलानीत्यादि चतुःश्लोक्येकान्वया ॥ मण्डलानि परि भ्रमणविशेषान् । यथाहभरतः । एकपादप्रचारो यः स चारीत्यभिधीयते । द्विपादक्रमणं यत्तु करणं नाम तद्भवेत् ॥ करणानां समायोगात्खण्डमित्यभिधीयते । खण्डैस्त्रिभिश्चतुर्भिर्वा संयुक्तं मण्डलं भवेत् इति । विचित्राणि सव्यमपसव्यं सव्यापसव्यमर्ध- भ्रमणमित्यादिभेदाद्भिन्नानि । स्थानानि व्याघ्रसिंहादितुल्यावस्थानानिवैष्णवादिस्थानानि । पादयोः पूर्वापरतिर्यग्विक्षेपादिका विन्यासविशेषा इतियावत् । तदाहभरतः – वैष्णवं समपादं च वैशाखं मण्डलं तथा । प्रत्यालीढमथालीढं स्थानान्येतानि षण्नृणां – इति पञ्चेति धनुर्वेदे । एषां लक्षणादिकथने ग्रन्थगौरवं स्यादिति तन्नाद्रियते । गोमूत्रिकाणि गोमूत्रस रणिसदृशानि गमनानि । गोमूत्रशब्दात्तदाकारगमनवाचकान्मत्वर्थे उन्प्रत्यय: । गोमूत्रिकाणां चित्रत्वं गमनागमनादिभेदात् । गतप्रत्यागतानि उपसर्पणापसर्पणानि । एते उभयगतिप्रचारभेदाः । तिरश्चीनगतानि तिर्यग्गमनानि । वक्रगतानि सव्यापसव्यसं चरणानि । परिमोक्षं स्थानचालनेन प्रहाराणां मोघ करणं । वर्जनं प्रतिप्रयोगेन परिहरणं । परिधावनं एकस्य तिष्ठतः समन्तादन्यस्य गमनागमनं । अभिद्रवणं आभिमुख्येन शीघ्रं गमनं । आप्लावं अल्पाङ्गत्वानल्पाङ्गत्वादिभिर्विनम्य गमनं । ईषद्गमनं वा । मण्डूकवद्गमनमित्यर्थः । आस्थानं च सविग्रहं विग्रहसहितमास्थानं । विगृह्य केवलासनं प्रगृह्य निर्भयावस्थानमिति वार्थ: । परावृत्तं पराङ्मुखगमनं । अपावृत्तं स्थित्वैव पश्चाच्चलनं । अबदुतं जिघृक्षया शरीरं संकुच्यावनम्य गमनं । अवप्लुतं प्रतियोधिनं पादेन प्रहर्तुमधोमुखेन प्लवनं । उपन्यस्तं प्रतियोधिबाहुग्रहणार्थं स्वबाहुप्रसारणं । अपन्यस्तं प्रतियोधिग्रहणवञ्चनार्थं स्वबाह्वोरपक्षेपणं । एवं खङ्गविद्यामलशास्त्रादिषूपदिश्यते । तत्तन्निदर्शने नितान्तं ग्रन्थगौरवं स्यात् । अतस्तदुपेक्ष्यते ॥ २३ – २६ ॥
एतस्मिन्नन्तरे रक्षो मायाबलमथात्मनः ।आरब्धुमुपसंपेदे ज्ञात्वा तं वानराधिपः ।। २७ ।।उत्पपात तदाकाशं जितकाशी जितक्लमः ।रावणः स्थित एवात्र हरिराजेन वञ्चितः ।। २८ ।।
एतस्मिन्नित्यादिश्लोकद्वयमेकान्वयं ॥ अन्तरे अवकाशे । मायाबलं परितोनेकरावण -प्रदर्शनं । आरब्धमुपसंपेदे कर्तुमुपचक्रमे । तं मायोपक्रमं । जितेन जयेन काशते प्रकाशत इति जितकाशी । रावणस्य मायावलोपक्रम एव निर्मायं युध्यमानस्य सुप्रीवस्य जय इति ज्ञेयं । जितक्कुम: जितश्रमः । बलिना चिरं मल्लयुद्धकरणादिति भावः । अत्र प्रासादे स्थित एवं रावणो वञ्चितः पुनरागमने प्रतारितः ॥ २७–२८ ॥
अथ हरिवरनाथः प्राप्त संग्रामकीर्तिं निशिचरपतिमाजौ योजयित्वा श्रमेण ।
गगनमतिविशालं लङ्घयित्वार्कसूनु र्हरिवरगणमध्ये रामपार्श्वं जगाम् ।। २९ ।।
हरिवरनाथः क्षणेन रावणहरणार्ह परिकरनियन्ता । रामभक्तिरेव स्वयं- रावणहरणार्हपरिकरनियन्ता मनहेतुरिति भावः । प्राप्य संग्रामकीर्ति । रामस्य युद्धादागतां कीर्तिं स्वयमाजहारेति भावः । निशिचरपतिं । तत्सदृशेष्वनेकेषु विद्यमानेष्वपि तां- स्तृणीकृत्य तेनैव युद्धं कृतवानितिभावः । आजौ । रावणवन्न छद्म युद्धकृत् किन्तु मर्यादयेति भावः । योजयित्वा श्रमेण इतः पूर्वं तदज्ञातेन श्रमेण योजयित्वा । योजनं हि पूर्वमसंभावितस्यैव रावणस्य श्रमफलं । आत्मनस्तु कीर्तिरितिभावः । गगनमतिविशालं लङ्घयित्वाऽर्कसूनुः स्वस्यादित्यपुत्रत्वज्ञापनायाकाशमयत्नेनालङ्घयत् । अर्कसूनुः अज्ञातगमनवेगः । हरिवरगणमध्ये विनयेन स्वातिशयमप्रकाशयन् वानरेष्वन्यतमइति स्थितः । रामपार्श्वं जगाम रावणशिरोऽनादायागतोहं कथमस्याग्रे तिष्ठेयमिति पार्श्वे स्थितः । निशिचरपतिं श्रमेण योजयित्वा जगामेत्यनेन रामस्य प्रतिज्ञाहानिर्मा प्रसांक्षीदिति रावणमहत्वैवागत इति सूचितम् । मायाप्रयोगारम्भे समागमनं स्वेनापि मायाप्रयोगे रामस्य कोप: स्यादित्याशयात् ॥ २९ ॥
इति स सवितृसूनुस्तत्र तत्कर्म कृत्वा पवनगतिरनीकं प्राविशत्संप्रहृष्टः ।रघुवरनृपसूनोर्वर्धयन्युद्धहर्षं तरुमृगगणमुख्यैः पूज्यमानो हरीन्द्रः ।। ३० ।।
रघुवरनृपसूनोः रामस्य । तरुमृगगणमुख्यैः वानरगणमुख्यैः ॥ ३० ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चत्वारिंशः सर्गः ॥ ४० ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चत्वारिंशः सर्गः ॥ ४० ॥