श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकादशः सर्गः
रावणेन मन्त्रकरणाय सभाप्रवेशः ॥ १ ॥ रावणाज्ञयादूता हूतैराक्षसैर्नानायानैरावण सभाप्रवेशः ॥ २ ॥ रथारोहणेनसभामागतेनविभीषणेन रावणप्रणामपूर्वकं तन्नियोगेनपरमासने समुपवेशनम् ॥ ३ ॥
स बभुव कृशो राजा मैथिलीकाममोहितः ।
असंमानाच्च सुहृदां पापः पापेन कर्मणाः ॥ १ ॥
अथ परेद्युर्विभीषणाद्युपदेशेतिचिन्ताव्याकुलस्य रावणस्य निर्णयहेतुमन्त्रकरणाय सभाप्राप्तिं दर्शयति —स बभूवेत्यादि ॥ पापः पापी । गुणवचनेभ्यो मतुपो लुगिष्ट: इति मतुपो लुक् । असंमानात् अनादरात् । सुहृदां विभीषणादीनां । कर्तरि षष्ठी । विभीषणोक्ते तूष्णींस्थितत्वेन प्रहस्तादीनामप्यनादरः सिद्ध एव । पापेन कुत्सितेन सीतापहरणरूपेण कर्मणा । हेतौ तृतीया । मैथिलीकाममोहित इति हेतु गर्भविशेषणं । तथाच मैथिलीविषयकाममोहात् सुहृदनादरात् पापहेतुसीताहरणाच्च कृशः । चिन्ताकुलो बभूवेत्यर्थः ॥ १ ॥
[अतीव कामसंपन्नो वैदेहीमनुचिन्तयन् ।]
अतीतसमये काले तस्मिन्वै युधि रावणः ।
अमात्यैश्च सुहृद्भिश्च प्राप्तकालममन्यत ॥ २ ॥
तस्मिन्काले मन्त्रयोग्य काले । अतीतसमये अतीतावसरे सति । युधि च सत्यां युद्धे च प्राप्ते सति । अमात्यैश्च सुहृद्भिश्च मन्त्रस्य प्राप्तकालममन्यत । मुनिहृदयं तु कालेऽतीत समये रावणायुःकालेऽतीते सति । युधि अमात्यादिभिः सहात्मानं । प्राप्तकालं प्राप्तमृत्युं । अमन्यतेति । वै प्रसिद्धौ ॥ २ ॥
स हेमजालविततं मणिविद्रुमभूषितम् ।
उपगम्य विनीताश्वमारुरोह महारथम् ॥ ३ ॥
हेमजालविततं स्वर्णमयगवाक्षव्याप्तं । स्वर्णसमूहनिर्मितमिति वा । विनीताश्वं शिक्षिताश्वयुक्तं । उपगम्य प्रदक्षिणीकृत्य ॥ ३ ॥
तमास्थाय रथश्रेष्ठो महामेघसमस्वनम् ।
प्रययौ रक्षसाम् श्रेष्ठो दशग्रीवः सभां प्रति ॥ ४ ॥
सभां मन्त्रशालां ॥ ४ ॥
असिचर्मधरा योधाः सर्वायुधधरास्तथा ।
राक्षसा राक्षसेन्द्रस्य पुरतः सम्प्रतस्थिरे ॥ ५ ॥
चर्म खेट: ॥ ५ ॥
नानाविकृतवेषाश्च नानाभूषणभूषिताः ।
पार्श्वतः पृष्ठतश्चैनं परिवार्य ययुस्ततः ॥ ६ ॥
ततः रावणालयात् । नानाविकृतवेषा: नानाविधतया विशिष्य कृतालंकाराः । राक्षसा इति शेषः ॥ ६ ॥
रथैश्चातिरथा शीघ्रं मतैश्च वरवारणैः ।
अनूत्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः ॥ ७ ॥
आक्रीडद्भिः धारामण्डलगमनादिकं कुर्वद्भिः ॥ ७ ॥
गदापरिघहस्ताश्च शक्तितोमरपाणयः ।
परश्वधधराश्चान्ये तथान्ये शूलपाणयः ॥ ८ ॥
अत्र प्रतिपदमन्य इत्यनुषञ्जनीयं । अनुत्पेतुरिति च ॥ ८ ॥
ततस्तूर्यसहस्राणां संजज्ञे निःस्वनो महान् ।
तुमुलः शङ्खशब्दश्च सभाम् गच्चति रवणे ॥ ९ ॥
ततः स्वालयात् ॥ ९ ॥
स नेमिघोषेण महान्सहसाभिनिनादयन् ।
राजमार्गम् श्रिया जुष्टम् प्रतिपेदे महारथः ॥ १० ॥
नेमिः रथचक्रधारा ॥ १० ॥
विमलं चातपत्राणं पगृहीतमशोभत ।
पाण्डरं राक्षसेन्द्रस्य पूर्णस्तारधिपो यथा ॥ ११ ॥
विमलमिति । भासा विमलमित्यर्थः ॥ ११ ॥
हेममञ्जरिगर्भे च शुद्धस्फटिकविग्रहे ।
चामरव्यजने तस्य रेजतुः सव्यदक्षिणे ॥ १२ ॥
ते कृताञ्जलयः सर्वे रथस्थम् पृथिवीस्थिताः ।
राक्ष्सा राक्षसश्रेष्ठम् शिरोभिस्तम् ववन्दिरे ॥ १३ ॥
हेममञ्जरिगर्भे हेमसूत्रगर्भे । इकारान्तत्वमार्षं । शुद्धस्फटिकविग्रहे शुद्धस्फटिकसदृशाकारे । चामरव्यजने चामररूपव्यजने । सव्यदक्षिणे सव्यदक्षिणयोः । सर्वो द्वन्द्वो विभाषयैकवद्भवति इत्येकवद्भावः ॥ १२-१३ ॥
राक्षसैः स्तूयमानः सञ्जयाशीर्भिररिन्दमः ।
अससाद महातेजाः सभां सुविहितां शुभाम् ॥ १४ ॥
सुविहितां सुष्टुनिर्मितां ॥ १४ ॥
सुवर्णरजतस्थूर्णाम् विशुद्धस्फटिकान्तराम् ।
विराजमानो वपुषा रुक्मपट्टोत्तरच्छदाम् ॥ १५ ॥
ताम् पिशाचशतैः षड्भिरभिगुप्ताम् सदाशुभाम् ।
प्रविवेश महातेजाः सुकृताम् विश्वकर्मणा ॥ १६ ॥
सुवर्णेत्यादिश्लोकद्वयमेकान्वयं ॥ विशुद्धस्फटिकान्तरां निर्मलस्फटिक निर्मित मध्यप्रदेशां । रुक्मपट्टोत्तरच्छदां कनकमयपट्टवस्त्रास्तरणां ॥ १५ – १६ ।।
तस्याम् स वैडूर्यमयं प्रियाकाजिनसम्वृतम् ।
महत्सोपाश्रयम् भेजे रावणः परमासनम् ॥ १७ ॥
वैडूर्यमयं वैडूर्यप्रचुरं । प्रियकाजिनसंवृतं प्रियकमृगस्याजिनेन संवृतं । प्रियको लोमभिर्युक्तो मृदूच्चमसृणैर्धनैः इति वैजयन्ती । सोपाश्रयं सावष्टम्भं । सोपधानमिति यावत् ॥ १७ ॥
ततः शशासेश्वरवद्दूतान् लघुपराक्रमान् ।
समानयत मे क्षिप्रभिहैतान् राक्षसानिति ॥ १८ ॥
कृत्यमस्ति महाज्जातं समर्थ्यमिह नो महत् ।। १९ ।।
ईश्वरवत् राजार्हं । इह सभायां । एतान् एतन्नगरस्थान् । इति शशासेत्यन्वयः । तमेव प्रकारमाह- कृत्यमित्यर्धेन ॥ महद्यथा तथा समर्थ्यं यत्नेन निर्वाह्यं । जातं प्राप्तं । महत्कृत्यमस्तीति शशास । महद्भ्यो रामादिभ्यो जातमिति वा । महदित्यनेन तदानीं चारमुखेन रामादेः समुद्रतीरगमनं रावणो ज्ञातवानितिगम्यते ॥ १८-१९ ॥
राक्षसास्तद्वचः श्रुत्वा लङ्कायाम् परिचक्रमुः ।
अनुगेहमवस्थाय विहारशयनेषु च ।
उद्यानेषु च रक्षांसि चोदयन्तो ह्यभीतवत् ॥ २० ॥
ते रथान् रुचिरानेके दृप्तानेके पृथग्घयान् ।
नागनन्येऽधिरुरुहुर्जग्मुश्चैके पदातयः ॥ २१ ॥
राक्षसा इत्यादि सार्धश्लोकः । विहरमाणानीति शेषः । विहारो विहारस्थलं । विहारादिषु आस्थाय विहरमाणानि रक्षांसि । अभीतवत् अभीताः । चोदयन्तः चोदनार्थं लङ्कायामनुगेहं परिचक्रमुरित्यन्वयः ।। २० – २१ ।।
सा पुरी परमाकीर्णा रथकुञ्जरवाजिभिः ।
सम्पतद्भिर्विरुरुचे गरुत्मद्भिरिवामबरम् ॥ २२ ॥
गरुमद्भिः पक्षिभिः ॥ २२ ॥
ते वाहनान्यवस्थाप्य यानानि विविधानि च ।
सभाम् पद्भिः प्रविविशुः सिम्हा गिरिगुहामिव ॥ २३ ॥
वाहनानि शिबिकादीनि । यानानि अश्वादीनि । अवस्थाप्य बहिर्निक्षिप्य ।। २३ ।।
राज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः ।
पीठेष्वन्ये वृसीष्वन्ये भूमौ केचिदुपाविशन् ॥ २४ ॥
अन्ये पुरोहितादयः । पीठेषु सुवर्णादिकृतासनेषु । अन्ये श्रोत्रियाः । वृसीषु दर्भमयासनेषु । केचित्पुत्रादयः । भूमौ सामान्यास्तरणमात्रयुक्तायां भूमौ ॥ २४ ॥
ते समेत्य सभायां वै राक्षसा राजशासनात् ।
यथार्हमुपतस्थुस्ते रावणं राक्षसाधिपम् ॥ २५ ॥
क्रियाभेदात्तच्छब्दद्वयं । उपतस्थुः समीपे तस्थुः । यथार्हं यथाक्रमम् ॥ २५ ॥
मन्त्रिणश्च यथा मुख्या निश्चितार्थेषु पण्डिताः ।
अमात्याश्च गुणोपेताः सर्वज्ञा बुद्धिदर्शनाः ।
समीयुस्तत्र शतशः शूराश्च बहवस्तथा ।। २६ ।।
मन्त्रिणश्चेत्यादिसपादश्लोकः ॥ यथा यथाक्रमं । यथामुख्या इत्येकंपदं वा । मुख्याननतिक्रम्य स्थिताः । अनव्ययत्वमार्षं । निश्चयार्थेषु अर्थनिश्चयेषु । अमात्याः कर्मणि सहायाः । मन्त्रिणः बुद्धिसहायाः । यद्वा अमा सह तिष्ठन्तीत्यमात्याः । अव्ययात्त्यप् । आप्ता इत्यर्थः । बुद्धिदर्शनाः । बुद्धिचक्षुषः शूरा इत्युत्तरशेषः । अन्यथा क्रियापदपौनरुक्त्यं ॥ २६ ॥
सभायां हेमवर्णायां सर्वार्थस्य सुखाय वै ।
रम्यायां राक्षसेन्द्रस्य सभेयुस्तत्र सङ्घशः ।
[राक्षसा राक्षसश्रेष्ठं परिवार्योपतस्थिरे] ॥ २७ ॥
सुखाय क्षेमाय । क्षेमं विचारयितुं । क्रियार्थोपपदस्य इत्यादिना चतुर्थी ॥ २७ ॥
ततो महात्मा विपुलम् सुयुग्यम् रथम् वरम् हेमविचित्रिताङ्गम् ।
शुभम् समास्थाय ययौ यशस्वी विभीषणः सम्सदमग्रजस्य ॥ २८ ॥
युग्याः अश्वाः । युगं वहन्तीति तद्वहति रथयुगप्रासङ्गम् इति यत् ॥ २८ ॥
स पूर्वजायावरजः शशम्स नामाथ पश्चाच्चरणौ ववन्दे ।
शुकः प्रहस्तश्च तथैव तेभ्यो ददौ यथार्हम् पृथगासनानि ॥ २९ ॥
नाम शशंस । अभिवादनमकरोदित्यर्थः । शुकः प्रहस्तश्चेति । ववन्दाते इत्यर्थः ।। २९ ।।
सुवर्णनानामणिभुषणानाम् सुवाससाम् सम्सदि राक्षसानाम् ।
तेषाम् परार्ध्यागुरुचन्दनानाम् स्रजश्च गन्धाश्च ववुः समन्तात् ॥ ३० ॥
स्रजश्च गन्धाः स्रजां गन्धाः ॥ ३० ॥
न चुक्रुशुर्नानृतमाह कश्चित्सभासदो नैव जजल्पुरुच्चैः ।
सम्सिद्धार्थः सर्व एवोग्रवीर्या भर्तुः सर्वे ददृशुश्चाननं ते ॥ ३१ ॥
न चुक्रुशुः न घोषं चक्रुः । न जजल्पुः नाक्रमोक्तीश्चक्रुः । सभासदः सभागताः । संसिद्धेत्यर्धे वृत्तभेदश्चिन्त्यः ॥ ३१ ॥
स रावणः शस्त्रभृतां मनस्विनां महाबलानां समितौ मनस्वी ।
तप्याम् सभायां प्रभया चकाशे मध्ये वसूनामिव वज्रहस्तः ॥ ३२ ॥
समितौ सङ्घे सङ्घ सभायां समितिः इत्यमरः । सभायां आस्थानमण्डपे ॥ ३२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकादशः सर्गः ॥ ११ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकादशः सर्गः ॥ ११ ॥