श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वितीयः सर्गः
सुग्रीवेणरामंप्रति समाश्वासनपूर्वकंमध्ये समुद्रं सेतुबन्धनिर्धारण पूर्वकंतदुपायचिन्तन -प्रार्थना ॥ १ ॥ तथातंप्रति वानरपराक्रमादिप्रशंसनपूर्वकं शुभशकुन निवेदनेनशत्रुजय -निर्धारणोक्तिः ॥ २ ॥
तं तु शोकपरिद्यूनम् रामम् दशरथात्मजम् ।
उवाच वचनम् श्रीमान् सुग्रीवः शोकनाशनम् ॥ १ ॥
एवं शोकसंभ्रान्तं राममवलोक्य समदुःखतया सच्छोकमसहमानः सुग्रीव : आपद्युन्मार्गगमने कार्यकालात्ययेषु च । अपृष्टोपि हितान्वेषी ब्रूयात्कल्याणभाषितं इति नीतिशास्त्रमनुस्मरन् शोकनिवारकंवचनमुवाचेत्याह- तंत्विति ॥ तुशब्द: पूर्वस्माद्वैलक्षण्यपरः । तंतुशोकपरिद्यूनं रामः प्रीतिसमायुक्त इति प्रीतियुक्तत्वदशायामेव शोकपरिद्यूनं शोकपरितप्तं । दशरथात्मजं महाराजपुत्रत्वेनशोकलेशानर्हं । रामं । श्रीमान् शुचिता त्यागिता शौर्यं समानसुखदुःखता । अनुरागश्च दाक्षिण्यं सत्यता च सुहृद्गुणा: इति कामन्दकोक्तरीत्या मित्रगुणसंपन्न इत्यर्थः । शोकनाशनं रामहृदयान्तर्गतशोफनिवर्तनक्षमं । वचनमुवाच ॥ १ ॥
किं त्वं सं तप्यते वीर यथान्यः प्राकृतस्तथा ।
मैवं भूस्त्यज संतापं कृतघ्न इव सौहृदम् ॥ २ ॥
प्राकृतः क्षुद्रः । मैवं भूः प्राकृत इव मा भूः ॥ २ ॥
सम्तापस्य च ते स्थानम् न हि पश्यामि राघव ।
प्रवृत्तामुपलब्धायां ज्ञाते च निलये रिपोः ॥ ३ ॥
निमित्ताभावमुपपादयति – संतापस्यचेति ॥ चोवधारणे । संतापस्य स्थानमेव । निमित्तमेव । नपश्यामि । एतावत्पर्यन्तं सीतानुपलम्भनरूपं निमित्तमासीत् इदानीं तु नास्तीत्यर्थः । स्थानं अवकाशः । अवकाशे स्थितौ स्थानं इत्यमरः । प्रवृत्तौ सीतावृत्तान्ते । वार्ता प्रवृत्तिर्वृत्तान्तः इत्यमरः ॥ ३ ॥
मतिमाच्छास्त्रवित्प्राज्ञः पण्डितश्चासि राघव ।
त्यजेमां पापिकां बुद्धिं कृतात्मेवार्थदूषणीम् ॥ ४ ॥
त्वद्गुणपर्यालोचनायामपि न शोकावकाश इत्याह –मतिमानित्यादिना ॥ मतिमान् आगामिगोचरज्ञानवान् । शास्त्रवित् नीतिशास्त्रज्ञः । प्रज्ञास्यास्तीति प्राज्ञः । प्रज्ञाविभ्यश्च इत्यण्प्रत्ययः । ऊहापोहज्ञ इत्यर्थः । पण्डा निर्णयात्मकं ज्ञानं सास्य संजातेति पण्डितः । परिच्छेत्तेत्यर्थः । पापिकां पापयुक्तां । अनुत्साहकारिणीमितियावत् । इमां बुद्धिं त्यज । कृतात्मा योगी । अर्थदूषणीं मोक्षरूपपुरुषार्थनिवर्तिकां बुद्धिमिव ॥ ४ ॥
समुद्रं लङ्घयित्वा तु महानक्रसमाकुलम् ।
लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम् ॥ ५ ॥
नापि सागरदुस्तरत्वं संतापनिमित्तमित्याह – समुद्रमिति ॥ न क्रमन्त इति नक्रा: गजग्राहिमत्स्याः । महानक्रसमाकीर्णमपि समुद्रं लङ्घयित्वा लङ्कामारोहयिष्यामः । सेनामिति शेषः । ते रिपुं रावणं । हनिष्यामश्च । समुद्रलङ्घनलङ्कारोहणशत्रुवधार्थं न संतापः कार्य इत्यर्थः ॥ ५ ॥
निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः ।
सर्वार्था व्यवसीदन्ति व्यसनं चाधिगच्छति ॥ ६ ॥
एवं कारणाभावाच्छोकस्य नावकाश इत्युक्तं । सत्यपि कारणे स त्याज्य इत्याह – निरुत्साहस्येति शोकपर्याकुलामनः शोकव्याकुलमनसः । अतएव निरुत्साहस्य । सर्वार्था: सर्वप्रयोजनानि । व्यवसीदन्ति नश्यन्ति । सः शोकं व्यसनं चाप्नोति । शोकादनुत्साहः । अनुत्साहाद्दैन्यं । दैन्यादर्थनाशः । अर्थनाशाच्चापत्प्राप्यत इत्यर्थः । तस्माच्छोकस्त्याज्य इति भावः ॥ ६ ॥
इमे शूराः समर्थाश्च सर्वतो हरियूथपाः ।
त्वत्प्रियार्थं कृतोत्साहाः प्रवेष्टुमपि पावकम् ॥ ७ ॥
नापि सहायानुपपत्तिश्शोकनिमित्तमित्याह- इम इति शूराः पराक्रमशालिनः । समर्थाः उपाय कुशलाः । नः अस्माकं संबन्धिनः । सर्वे इमे हरियूथपा: त्वप्रियार्थं पावकमपि प्रवेष्टुं कृतोत्साहाः । किमुतान्यत्कर्तुमिति भावः ॥ ७ ॥
एषाम् हर्षेण जानामि तर्कश्चास्मिन्दृढो मम ॥ ८ ॥
कुत एषामुत्साह स्त्वयावगत इत्याह – एषामिति अर्धमेकं वाक्यं ॥ एषां यूथपानां । हर्षेण मुखप्रसादानुमानेन जानामि । एषां उत्साह मितिशेषः । अस्मिन् उत्साहे । मम दृढः अप्रशिथिलः । तर्कश्चास्ति ॥ ८ ॥
विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम् ।
रावनम् पापकर्माणं तथा त्वम् कर्तुमर्हसि ॥ ९ ।।
फलितमाहविक्रमेणेति ॥ पापकर्माणं सीताहरणरूपपापकर्मयुक्तं । ते रिपुं रावणं हत्वा सीतां विक्रमेण यथा समानेष्ये तथा त्वमुत्साहं कर्तुमर्हसि ॥ ९ ॥
सेतुरत्र यथा बद्ध्येद्यथा पश्येम ताम् पुरीम् ।
तस्य राक्षसराजस्य तथा त्वम् कुरु राघव ॥ १० ॥
तथा त्वं कर्तुमर्हसीत्युक्तं विशिनष्टि – सेतुरिति ॥ अत्र समुद्रे । सेतुर्यथा बध्येत यथा तां पुरीं पश्येम तथा त्वं कुरु । तथोपायं चिन्तयेत्यर्थः ॥ १० ॥
दृष्ट्वा तां हि पुरीम् लङ्काम् त्रिकूटशिखरे स्थिताम् ।
हतम् च रावणम् उद्धे दर्शनादुपधारय ॥ ११ ॥
दर्शनमात्रेण किं सेत्स्यति तत्राह – दृष्ट्वेति ॥ तां पुरीं दृष्ट्वा दर्शनादेव हेतोः रावणं हतमवधारय ।। ११ ।।
अबद्धा सागरे सेतुम् घोरे च वरुणालये ।
लङ्का न मर्दितुम् शक्या सेन्द्रैरपि सुरासुरैः ॥ १२ ॥
सेतुर्बद्धः समुद्रे च यावल्लङ्कासमीपतः ।
सर्वम् तीर्णम् च मे सैन्यम् जितमित्युपधारय ॥ १३ ॥
सेतुर्बध्य इति कोयं निर्बन्ध इत्याशङ्क्या (वश्यकत्व) न्यथा अशक्यत्वमन्वयव्यतिरेकाभ्यामाह – अबद्धेत्यादिश्लोकद्वयेन ॥ अबद्ध्वा सागर इत्यादि स्पष्टं । लङ्कासमीपतः लङ्कासमीपे । यावत् यावत्काले । सेतुर्बद्धो भवति तावकाले । सर्व सैन्यं तीर्णं जितं चेत्युपधारय । कर्तरि निष्ठाः ॥ १२ – १३ ॥
इमे हि समरे शूरा हरयः कामरूपिणः ।
शक्ता लंका समानेतुं समुत्पाट्य सराक्षसाम् ॥ १४ ॥
तरणमात्रेण जयित्वे हेतुमाह – इमे हीति ॥ १४॥
तदलम् विक्लबाम बुद्धी राजन् सर्वार्थनाशनी ।
पुरुषस्य हि लोकेऽस्मिन् शोकः शौर्यापकर्षणः ॥ १५ ॥
उपसंहरति — तदिति ॥ तत् उक्तरीत्या शोकनिमित्तासंभवात् । विक्लबा शोकपरवशा । अतएव सर्वार्थनाशिनी बुद्धि : अलं मा । भूत् । अलं भूषणपर्याप्तिशक्तिवारणवाचकं इत्यमरः । तत्र हेतुमाह – पुरुषस्येति । शौर्यापकर्षणः शौर्यनाशनः ॥ १५ ॥
यत्तु कार्यम् मनुष्येण शौण्डीर्यमवलंबताम् ।
[ तदलम्करणायैव कर्तुर्भवति सत्वरम् ] ।
अस्मिन् काले महाप्राज्ञ सत्त्वमातिष्ठ ते जसा ॥ १६ ॥
न केवलं शोकत्यागः स्वत्वावलम्बनं च कार्यमित्याह – यत्त्विति ॥ शौण्डीर्यं शौर्यं । शौण्डी गर्वे इति धातोरौणादिके ईरन्प्रत्यये शौण्डीरश्शूरः अस्य भावश्शौण्डीर्यं तत् । अवलम्बता अवलम्बमानेन । शौर्यप्रधानेनेत्यर्थः । मनुष्येण पुरुषेण । यत्कार्यं संपाद्यं तत्सत्त्वं धैर्य बलं वा । तेजसा पराक्रमेण सह अस्मिन्काले आतिष्ठ अवलम्बस्व ॥ १६ ॥
शूराणाम् हि मनुष्याणाम् त्वद्विधानाम् महात्मनाम् ।
विनष्टे वा प्रनष्टे वा शोकः सर्वार्थनाशनः ॥ १७ ॥
ननु नायं शोकस्सागरतरणादिनिमित्तकः किंतु सीतानवलोकनादिनिमित्त इत्यत्राह – शूराणामिति ॥ विनष्टे अन्तर्हिते । णश अदर्शने इति धातोर्निष्ठा ॥ १७ ॥
त्वं तु बुद्धिमताम् श्रेष्ठः सर्वशास्त्रर्थकोविदः ।
मद्विधैः सचिवैः सार्धमरिम् जेतुमिहार्हसि ॥ १८ ॥
पुनश्च रामं प्रोत्साहयति–त्वमिति । इह इदानीं ॥ १८ ॥
न हि पश्याम्यहम् कम् चित्त्रिषु लोकेषु राघव ।
गृहीतधनुषो यस्ते तिष्ठे दभिमुखो रणे ॥ १९ ॥
न हि तिष्ठेत् स्थातुं नशक्नुयात् ॥ १९ ॥
वानरेषु समासक्तम् न ते कार्यम् विपत्स्यते ।
अचिराद्द्रक्ष्यसे सीतां तीर्त्वा सागरमक्षयम् ॥ २० ॥
वानरेषु समासक्तं वानरमूलमित्यर्थः । न विपत्स्यते न विनङ्क्ष्यति ।। २० ।।
तदलम् शोकमालम्ब्य क्रोधमालम्ब भूपते ।
निश्चेष्टाः क्षत्रिया मन्दाः सर्वे चण्डस्य बिभ्यति ॥ २१ ॥
उपसंहरति — तदिति ॥ आलम्ब्यालं । नालम्बस्वेत्यर्थः । अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा इति क्त्वाप्रत्ययः । क्रोधस्यालम्ब्यत्वे हेतुमाह – निश्चेष्टा इति । निश्चेष्टाः निरुद्योगाः । क्षत्रियाः मन्दा: मन्दभाग्या: । चण्डस्य चण्डात् । चण्डस्त्वत्यन्तकोपनः इत्यमरः ॥ २१ ॥
लङ्घनार्थम् च घोरस्य समुद्रस्य नदीपतेः ।
सहास्माभिरिहोपेतः सूक्ष्मबुद्धिर्विचारय ॥ २२ ॥
एवं सेतुबन्धेन सर्वार्थसिद्धेः शोको न कार्य इत्युक्त्वा सेतुबन्धोपायो विचार्यतामित्याह – लङ्घनार्थमिति ॥ लङ्घनार्थं लङ्घनहेतुं । अर्थ: स्याद्विषये मोक्षे शब्दवाच्ये प्रयोजने । व्यवहारे धनुश्शास्त्रे वस्तुहेतुनिवृत्तिषु इति वैजयन्ती ॥ २२ ।।
लङ्घिते तत्र तैः सैन्यैर्जितमित्येव निश्चिनु ।
सर्वं तीर्णं च मे सैन्यं जितमित्युपधारय ॥ २३ ॥
सेतुबन्धोपाये निर्णीते ततः परं सुकरमित्याह – सर्वमिति ॥ २३ ॥
इमे हि हरयः शूराः समरे कामरूपिणः ।
तानरीन्विधमिष्यन्ति शिलापादपवृष्टिभिः ॥ २४ ॥
उक्तेर्थे पूर्वोक्तं हेतुमनुवदति – इमे हीति । विधमिष्यन्ति धक्ष्यन्ति ॥ २४ ॥
कथम् चित्संतरिष्यामस्ते वयं वरुणालयम् ।
हतमित्येव तं मन्ये युद्धे समितिनन्दन ॥ २५ ॥
मा भूत्सेतुबन्ध: प्रकारान्तरेणापि समुद्र तीर्त्वा शत्रून् हनिष्यामीत्याह-कथंचिदिति ।। कथंचित् केनाप्युपायेन । नन्दतीति नन्दनः । नन्द्यादित्वात् ल्युः । समित्यां युद्धे नन्दन युद्धोत्सुकेतियावत् ॥ २५ ॥
किमुक्त्वा बहुधा चापि सर्वथा विजयी भवान् ।
निमित्तानि च पश्यामि मनो मे सम्प्रहृष्यति ॥ २६ ॥
निमित्तानुसारेणापि भवतो जयसिद्धिरित्याह – किमुक्त्वेति ॥ सर्वथा सेतुं बद्ध्वा अबद्धा वा । निमित्तानि नेत्रस्फुरणादीनि । मनो मे संप्रहृष्यतीति मनःसंप्रहर्षश्च कार्यसिद्धिनिमित्तमिति भावः ॥ २६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वितीयः सर्गः ॥ २ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने द्वितीयः सर्गः ॥ २ ॥